।। श्रीः ।।
मम्मटाचार्यविरचितः
काव्यप्रकाशः
।। अथ प्रथम उल्लासः ।।
ग्रन्थारम्भे विघ्नविघाताय समुचितेष्टदेवतां ग्रन्थकृत् परामृशति
नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम्।
नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति ।। 1 ।।
नियतिशक्त्या नियतरूपा सुखदुःखमोहस्वभावा परमाण्वाद्युपादानकर्मादिसहकारिकारणपरतन्त्रा षड्रसा न च हृद्यैव तैः, तादृशी ब्रह्यणो निर्मितिर्निर्माणम्। एतद्विलक्षणा तु कविवाङ्निर्मितिः। अत एव जयति। जयत्यर्थेन च नमस्कार आक्षिप्यते, इति तां प्रत्यस्मि प्रणत इति लभ्यते।।
इहाभिधेयं सप्रयोजनमित्याह
काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये।
सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे ।। 2 ।।
कालिदासादीनामिव यशः, श्रीहर्षादेर्धावकादीनामिव धनम्, राजादिगतोचिताचारपरिज्ञानम्, आदित्यादेर्मयूरादीनामिवानर्थनिवारणम्, सकलप्रयोजनमौलिभूतं समनन्तरमेव रसास्वादनसमुद्भूतं विगलितवेद्यान्तरमानन्दम् प्रभुसंमितशब्दप्रधानवेदादिशास्त्रेभ्यः सुहृत्संमितार्थतात्पर्यवत्पुराणादीतिहासेभ्यश्च शब्दार्थयोर्गुणभावेन रसाङ्गभूतव्यापारप्रवणतया विलक्षणं यत् काव्यं लोकोत्तरवर्णनानिपुणकविकर्म तत् कान्तेव सरसतापादनेनाभिमुखीकृत्य रामादिवद्वर्तितव्यं न रावणादिवदित्युपदेशं च यथायोगं कवेः सहृदयस्य च करोतीति सर्वथा तत्र यतनीयम्।।
एवमस्य प्रयोजनमुक्त्वा कारणमाह -
शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात्।
काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे ।। 3 ।।
शक्तिः कवित्वबीजरूपः संस्कारविशेषः, कश्चित् यां विना काव्यं न प्रसरेत्, प्रसृतं वा, उपहसनीयं स्यात्। लोकस्य स्थावरजङ्गमात्मकलोकवृत्तस्य। शास्त्राणां छन्दोव्याकरणाभिधानकोशकलाचतुर्वर्गगजतुरगखड्गादिलक्षणग्रन्थानाम्। काव्यानां च महाकविसंबन्धिनाम्। आदिग्रहणादितिहासादीनां च विमर्शनाद्व्युत्पत्तिः। काव्यं कर्तुं विचारयितुं च ये जानन्ति तदुपदेशेन करणे योजने च पौनःपुन्येन प्रवृत्तिरिति त्रयः समुदिताः, न चु व्यस्तास्तस्य काव्यस्योद्भवे निर्माणे समुल्लासे च हेतुर्न तु हेतवः।।
एवमस्य कारणमुक्त्वा स्वरूपमाह
(सूo 1) तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वापि।
दोषगुणालङ्काराः वक्ष्यन्ते। क्वापीत्यनेनैतदाह यत् सर्वत्र सालङ्कारौ, क्वचित्तु स्फुटालङ्कारविरहेऽपि न काव्यत्वहानिः। यथा
यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा-
स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः।
सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ
रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ।।1।।
अत्र स्फुटो न कश्चिदलङ्कारः। रसस्य च प्राधान्यान्नालङ्कारता।
तद्भेदान् क्रमेणाह
(सूo 2) इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद्ध्वनिर्बुधैः कथितः ।। 4 ।।
इदमिति काव्यम्। बुधैर्वैयाकरणैः प्रधानभूतस्फोटरूपव्यङ्ग्यव्यञ्जकस्य शब्दस्य ध्वनिरिति व्यवहारः कृतः। ततस्तन्मतानुसारिभिरन्यैरपि न्यग्भावितवाच्यव्यङ्ग्यव्यञ्जनक्षमस्य शब्दार्थयुगलस्य। यथा
निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो
नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः।
मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे
वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ।।2।।
अत्र तदन्तिकमेव रन्तुं गतासीति प्राधान्येनाधमपदेन व्यज्यते।।
(सूo 3) अतादृशि गुणीभूतव्यङ्ग्यं व्यङ्ग्ये तु मध्यमम्।
अतादृशि वाच्यादनतिशायिनि। यथा
ग्रामतरुणं तरुण्या नववञ्जुलमज्जरीसनाथकरम्।
पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया ।।3।।
अत्र वञ्जुललतागृहे दत्तसंकेता नागतेति व्यङ्ग्यं गुणीभूतम्। तदपेक्षया वाच्यस्यैव चमत्कारित्वात्।।
(सूo 4) शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम् ।। 5 ।।
चित्रमिति गुणालङ्कारयुक्तम्। अव्यङ्ग्यमिति स्फुटप्रतीयमानार्थरहितम्। अवरम् अधमम्। यथा -
स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा-
मूर्छन्मोहमहर्षिहर्षविहितस्नानाह्निकाह्नाय वः।
भिद्यादुद्यदुदारदर्दुरदरीदीर्घादरिद्रद्रुम-
द्रोहोद्रेकमहोर्मिमेदुरमदा मन्दाकिनी मन्दताम् ।।4।।
वाच्यचित्रं यथा -
विनिर्गतं मानदमात्ममन्दिराद्भवत्युपश्रुत्य यदृच्छयापि यम्।
ससंभ्रमेन्द्रद्रुतपातितार्गला निमीलिताक्षीव भियामरावती ।।5।।
।। इति काव्यप्रकाशे काव्यस्य प्रयोजनकारणस्वरूपविशेषनिर्णयो नाम प्रथम उल्लासः ।। 1 ।।
।। श्रीः ।।
मम्मटाचार्यविरचितः
काव्यप्रकाशः
।। अथ द्वितीय उल्लासः ।।
क्रमेण शब्दार्थयोः स्वरूपमाह--
(सूo 5) स्याद्वाचको लाक्षणिकः शब्दोऽत्र व्यञ्जकस्त्रिधा।
अत्रेति काव्ये। एषां स्वरुपं वक्ष्यते।।
(सूo 6) वाच्यादयस्तदर्थाः स्युः
वाच्यलक्ष्यव्यङ्ग्याः।।
(सूo 7) तात्पर्यार्थोऽपि केषुचित् ।। 6 ।।
आकाङ्क्षायोग्यतासन्निधिवशाद्वक्ष्यमाणस्वरूपाणां पदार्थानां परस्परसमन्वये तात्पर्यार्थो विशेषवपुरपदार्थोऽपि वाक्यार्थः समुल्लसतीत्यभिहिनान्वयवादिनां मतम्।।
वाच्य एव वाक्यार्थ इत्यन्विताभिधानवादिनः।।
(सूo 8) सर्वेषां प्रायशोऽर्थानां व्यञ्जकत्वमपीष्यते।
तत्र वाच्यस्य यथा -
माए घरोवअरणं अज्ज हु णत्थि त्ति साहिअं तुमए।
ता भण किं करणिज्जं एमेअ ण वासरो ठाइ ।।6।।
(मातर्गृहोपकरणमद्य खलु नास्तीति साधितं त्वया।
तद्भण किं करणीयमेवमेव न वासरः स्थायी।।)
अत्र स्वैरविहारार्थिनीति व्यज्यते।
लक्ष्यस्य यथा -
साहेन्ती सहि सुहअं खणे खणे दुम्मिआसि मज्झकए।
सब्भावणेहकरणिज्जसरिसअं दाव विरइअं तुमए ।।7।।
(साधयन्ती सखि सुभगं क्षणे क्षणे दूनासि मत्कृते।
सद्भावस्नेहकरणीयसदृशं तावद्विरचितं त्वया।।)
अत्र मत्प्रियं रमयन्त्या त्वया शत्रुत्वमाचरितमिति लक्ष्यम्, तेन च कामुकविषयं सापराधत्वप्रकाशनं व्यङ्ग्यम्।
व्यङ्ग्यस्य यथा -
उअ णिच्चलणिप्पन्दा भिसिणीपत्तम्मि रेहइ बलाआ।
णिम्मलमरगअभाअणपरिठ्ठिआ संखसुत्ति व्व ।।8।।
(पश्य निश्चलनिष्पन्दा बिसिनीपत्रे राजते बलाका।
निर्मलमरकतभाजनपरिस्थिता शङ्खशुक्तिरिव।।)
अत्र निष्पन्दत्वेन, आश्वस्तत्वम्, तेन च जनरहितत्वम्, अतः संकेतस्थानमेतदिति कयाचित् कंचित्प्रत्युच्यते। अथवा मिथ्या वदसि न त्वमत्रागतोऽभूरिति व्यज्यते।।
वाचकादीनां क्रमेण स्वरूपमाह -
(सूo 9) साक्षात्संकेतितं योऽर्थमभिधत्ते स वाचकः ।। 7 ।।
इहागृहीतसंकेतस्य शब्दस्यार्थप्रतीतेरभावात्संकेतसहाय एव शब्दोऽर्थविशेषं प्रतिपादयतीति यस्य यत्राव्यवधानेन संकेतो गृह्यते स तस्य वाचकः।
(सूo 10) सङ्केतितश्चतुर्भेदो जात्यादिर्जातिरेव वा।
यद्यप्यर्थक्रियाकारितया प्रवृत्तिनिवृत्तियोग्या व्यक्तिरेव, तथाप्यानन्त्याद्व्यभिचाराच्च तत्र संकेतः कर्तुं न युज्यते, इति गौः शुक्लश्चलो डित्थ इत्यादीनां विषयविभागो न प्राप्नोतीति च तदुपाधावेव संकेतः।
उपाधिश्च द्विविधः--वस्तुधर्मो वक्तृयदृच्छासन्निवेशितश्च। वस्तुधर्मोऽपि द्विविधः--सिद्धः साध्यश्च। सिद्धोऽपि द्विविधः--पदार्थस्य प्राणप्रदो विशेषाधानहेतुश्च। तत्राद्यो जातिः उक्तं हि वाक्यपदीये `` न हि गौः स्वरूपेण गौर्नाप्यगौः, गोत्वाभिसम्बन्धात्तु गौः'' इति।
द्वितीयो गुणः। शुक्लादिना हि लब्धसत्ताकं वस्तु विशिष्यते।
साध्यः पूर्वापरीभूतावयवः क्रियारूपः।
डित्थादिशब्दानामन्त्यबुद्धिनिर्ग्राह्यं संहृतक्रमं स्वरूपं वक्त्रा यदृच्छया डित्थादिष्वर्थेषूपाधित्वेन संनिवेश्यत इति सोऽयं संज्ञारूपो यदृच्छात्मक इति। '`` गौः शुक्लश्चलो डित्थ इत्यादौ चतुष्टयी शब्दानां प्रवृत्तिः'' इति महाभाष्यकारः। परमाण्वादीनां तु गुणमध्यपाठात् पारिभाषिकं गुणत्वम्। गुणक्रियायदृच्छानां वस्तुत एकरूपाणामप्याश्रयभेदाद्भेद इव लक्ष्यते। यथैकस्य मुखस्य खड्गमुकुरतैलाद्यालम्बनभेदात्।
हिमपयःशङ्खाद्याश्रयेषु परमार्थतो भिन्नेषु शुक्लादिषु यद्वशेन शुक्लः शुक्ल इत्याद्यभिन्नाभिधानप्रत्ययोत्पत्तिस्तत् शुक्लत्वादि सामान्यम्। गुडतण्डुलादिपाकादिष्वेवमेव पाकत्वादि। बालवृद्धशुकाद्युदीरितेषु डित्थादिशब्देषु च प्रतिक्षणं भिद्यमानेषु डित्थाद्यर्थेषु वा डित्थत्वाद्यस्तीति सर्वेषां शब्दानां जातिरेव प्रवृत्तिनिमित्तमित्यन्ये। तद्वान् अपोहो वा शब्दार्थः कैश्चिदुक्त इति ग्रन्थगौरवभयात् प्रकृतानुपयोगाच्च न दर्शितम्।।
(सूo 11) स मुख्योऽर्थस्तत्र मुख्यो व्यापारोऽस्याभिधोच्यते ।। 8 ।।
स इति साक्षात्संकेतितः। अस्येति शब्दस्य।।
(सूo 12) मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात्।
अन्योऽर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया ।। 9 ।।
`कर्मणि कुशलः' इत्यादौ दर्भग्रहणाद्ययोगात् `गङ्गायां घोषः' इत्यादौ च गङ्गादीनां घोषाद्याधारत्वासंभवात् मुख्यार्थस्य बाधे विवेचकत्वादौ सामीप्ये च संबन्धे रूढितः प्रसिद्धेः, तथा गङ्गातटे घोष इत्यादेः प्रयोगात् येषां न तथा प्रतिपत्तिः, तेषां पावनत्वादीनां धर्माणां तथाप्रतिपादनात्मनः प्रयोजनाच्च मुख्येन अमुख्योऽर्थो लक्ष्यते यत् स आरोपितः शब्दव्यापारः सान्तरार्थनिष्ठो लक्षणा।
(सूo 13) स्वसिद्धये पराक्षेपः परार्थं स्वसमर्पणम्।
उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा ।। 10 ।।
`कुन्ताः प्रविशन्ति' `यष्टयः प्रविशन्ति' इत्यादौ कुन्तादिभिरात्मनः प्रवेशसिद्ध्यर्थं स्वसंयोगिनः पुरुषा आक्षिप्यन्ते। तत उपादानेनेयं लक्षणा।
`` गौरनुबन्ध्यः' इत्यादौ श्रुतिचोदितमनुबन्धनं कथं मे स्यादिति जात्या व्यक्तिराक्षिप्यते न तु शब्देनोच्यते ``विशेष्यं नाभिधा गच्छेत् श्रीणशक्तिर्विशेषणे'' इति न्यायादित्युपादानलक्षणा तु नोदाहर्तव्या। न ह्यत्र प्रयोजनमस्ति न वा रूढिरियम्। व्यक्त्यविनाभावित्वात्तु जात्या व्यक्तिराक्षिप्यते। यथा क्रियतामित्यत्र कर्ता। कुर्वित्यत्र कर्म। प्रविश पिण्डीमित्यादौ गृहं भक्षयेत्यादि च। `पीनो देवदत्तो दिवा न भुङ्क्ते' इत्यत्र च रात्रिभोजनं न लक्ष्यते श्रुतार्थापत्तेरर्थापत्तेर्वा तस्य विषयत्वात्।
`गङ्गायां घोषः' इत्यत्र तटस्य घोषाधिकरणत्वसिद्धये गङ्गाशब्दः स्वार्थमर्पयति, इत्येवमादौ लक्षणेनैषा लक्षणा। उभयरुपा चेयं शुद्धा। उपचारेणामिश्रितत्वात्।
अनयोर्लक्ष्यस्य लक्षकस्य च न भेदरूपं ताटस्थ्यम्। तटादीनां गङ्गादिशब्दैः प्रतिपादने तत्त्वप्रतिपत्तौ हि प्रतिपिपादयिषितप्रयोजनसंप्रत्ययः। गङ्गासम्बन्धमात्रप्रतीतौ तु गङ्गातटे घोष इति मुख्यशब्दाभिधानाल्लक्षणायाः को भेदः।।
(सूo 14) सारोपान्या तु यत्रोक्तौ विषयी विषयस्तथा।।
आरोप्यमाणः, आरोपविषयश्च यत्रानपह्नुतभेदौ सामानाधिकरण्येन निर्दिश्येते सा लक्षणा सारोपा।।
(सूo 15) विषय्यन्तःकृतेऽन्यस्मिन् सा स्यात्साध्यवसानिका ।। 11 ।।
विषयिणारोप्यमाणेनान्तःकृते निगीर्णे, अन्यस्मिन्नारोपविषये सति सा साध्यवसाना स्यात्।।
(सूo 16) भेदाविमौ च सादृश्यात्संबन्धान्तरतस्तथा।
गौणौ शुद्धौ च विज्ञेयौ
इमावारोपाध्यवसानरूपौ सादृश्यहेतू भेदौ `गौर्वाहीकः' इत्यत्र `गौरयम्' इत्यत्र च।
अत्र हि स्वार्थसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यमाणा अपि गोशब्दस्य परार्थाभिधाने प्रवृत्तिनिमित्तत्वमुपयान्ति, इति केचित्। स्वार्थसहचारिगुणाभेदेन परार्थगता गुणा एव लक्ष्यन्ते न तु परार्थोऽभिधीयते, इत्यन्ये। साधारणगुणाश्रयत्वेन परार्थ एव लक्ष्यते, इत्यपरे।
उक्तं चान्यत्र -
अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते।
लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणता'' इति।
अविनाभावोऽत्र संबन्धमात्रं न तु नान्तरीयकत्वम्। तथात्त्वे हि मञ्चाः क्रोशन्ति' इत्यादौ न लक्षणा स्यात्। अविनाभावे चाक्षेपेणैव सिद्धेर्लक्षणाया नोपयोग इत्युक्तम्।
`आयुर्घृतम्' `आयुरेवेदम्' इत्यादौ च सादृश्यादन्यत् कार्यकारणभावादि सम्बन्धान्तरम्। एवमादौ च कार्यकारणभावादिलक्षणपूर्वे, आरोपाध्यवसाने।
अत्र गौणभेदयोर्भेदेऽपि ताद्रूप्यप्रतीतिः सर्वथैवाभेदावगमश्च प्रयोजनम्। शुद्धभेदयोस्त्वन्यवैलक्षण्येनाव्यभिचारेण च कार्यकारित्वादि प्रयोजनम्।
क्वचित् तादर्थ्यादुपचारः। यथा, इन्द्रार्था स्थूण, इन्द्रः। क्वचित् स्वस्वामिभावात्। यथा, राजकीयः पुरुषो राजा। क्वचित्, अवयवावयविभावात्। यथा, अग्रहस्त इत्यत्राग्रमात्रेऽवयवे हस्तः। क्वचित् तात्कर्म्यात्। यथा, अतक्षा तक्षा।।
(सूo 17) लक्षणा तेन षड्विधा ।। 12 ।।
आद्यभेदाभ्यां सह।।
सा च
(सूo 18) व्यङ्ग्येन रहिता रूढौ सहिता तु प्रयोजने।
प्रयोजनं हि व्यञ्जनव्यापारगम्यमेव।।
(सूo 19) तच्च गूढमगूढं वा।
तच्चेति व्यङ्ग्यम्। गूढं यथा
मुखं विकसितस्मितं वशितवक्रिम प्रेक्षितं
समुच्छलितविभ्रमा गतिरपास्तसंस्था मतिः।
उरो मुकुलितस्तनं जघनमंसबन्धोद्धुरं
बतेन्दुवदनातनौ तरुणिमोद्गमो मोदते ।।9।।
अगूढं यथा -
श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्धचरितानाम्।
उपदिशति कामिनीनां यौवनमद एव ललितानि ।।10।।
अत्रोपदिशतीति।।
(सूo 20) तदेषा कथिता त्रिधा ।। 13 ।।
अव्यङ्ग्या गूढव्यङ्ग्या, अगूढव्यङ्ग्या च।।
(सूo 21) तद्भूर्लाक्षणिकः।
शब्द इति संबध्यते। तद्भूस्तदाश्रयः।।
(सूo 22) तत्र व्यापारो व्यञ्जनात्मकः।
कुत इत्याह -
(सूo 23) यस्य प्रतीतिमाधातुं लक्षणा समुपास्यते।। 14 ।।
फले शब्दैकगम्येऽत्र व्यञ्जनान्नापरा क्रिया।
प्रयोजनप्रतिपिपादयिषया यत्र लक्षणया शब्दप्रयोगस्तत्र नान्यतस्तत्प्रतीतिरपि तु तस्मादेव शब्दात्। न चात्र व्यञ्जनादृतेऽन्यो व्यापारः। तथाहि -
(सूo 24) नाभिधा समयाभावात्।
गङ्गायां घोष इत्यादौ ये पावनत्वादयो धर्मास्तटादौ प्रतीयन्ते न तत्र गङ्गादिशब्दाः संकेतिताः।।
(सूo 25) हेत्वभावान्न लक्षणा ।। 15 ।।
मुख्यार्थबाधादित्रयं हेतुः। तथा च -
(सूo 26) लक्ष्यं न मुख्यं नाप्यत्र बाधो योगः फलेन नो।
न प्रयोजनमेतस्मिन् न च शब्दः स्खलद्गतिः ।। 16 ।।
यथा गङ्गाशब्दः स्रोतसि सबाध इति तटं लक्षयति तद्वत् यदि तटेऽपि सबाधः स्यात् तत् प्रयोजनं लक्षयेत्। न च तटं मुख्योऽर्थः। नाप्यत्र बाधः। न च गङ्गाशब्दार्थस्य तटस्य पावनत्वाद्यैर्लक्षणीयैः संबन्धः। नापि प्रयोजने लक्ष्ये किंचित् प्रयोजनम्। नापि गङ्गाशब्दस्तटमिव प्रयोजनं प्रतिपादयितुमसमर्थः।।
(सूo 27) एवमप्यनवस्था स्याद् या मूलक्षयकारिणी।
एवमपि प्रयोजनं चेल्लक्ष्यते तत् प्रयोजनान्तरेण तदपि प्रयोजनान्तरेणेति प्रकृताप्रतीतिकृत् अनवस्था भवेत्।।
ननु पावनत्वादिधर्मयुक्तमेव तटं लक्ष्यते। `गङ्गायास्तटे घोषः' इत्यतोऽधिकस्यार्थस्य प्रतीतिश्च प्रयोजनमिति विशिष्टे लक्षणा तत्किं व्यञ्जनयेत्याह।
(सूo 28) प्रयोजनेन सहितं लक्षणीयं न युज्यते ।। 17 ।।
कुत इत्याह -
(सूo 29) ज्ञानस्य विषयो ह्नन्यः फलमन्यदुदाहृतम्।
प्रत्यक्षादेर्नीलादिर्विषयः फलं तु प्रकटता संवित्तिर्वा।।
(सूo 30) विशिष्टे लक्षणा नैवं
व्याख्यातम्।।
(सूo 31) विशेषाः स्युस्तु लक्षिते ।। 18 ।।
तटादौ ये विषेषाः पावनत्वादयस्ते चाभिधातात्पर्यलक्षणाभ्यो व्यापारान्तरेण गम्याः। तच्च व्यञ्जनध्वननद्योतनादिशब्दवाच्यमवश्यमेषितव्यम्।।
एवं लक्षणामूलं व्यञ्जकत्वमुक्तम्।। अभिधामूलं त्वाह -
(सूo 32) अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते।
संयोगाद्यैरवाच्यार्थधीकृद्व्यापृतिरञ्जनम् ।। 19 ।।
``संयोगो विप्रयोगश्च साहचर्यं विरोधिता।
अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः।।
सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः।
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः।।''
इत्युक्तदिशा सशङ्खचक्रो हरिः अशङ्खचक्रो हरिरित्यच्युते। रामलक्ष्मणाविति दाशरथौ। रामार्जुनगतिस्तयोरिति भार्गवकार्तवीर्ययोः। स्थाणुं भज भवच्छिदे, इति हरे। सर्वं जानाति देव इति युष्मदर्थे। कुपितो मकरध्वज इति कामे। देवस्य पुरारादेरिति शंभौ। मधुना मत्तः कोकिल इति वसन्ते। पातु वो दयितामुखमिति सांमुख्ये। भात्यत्र परमेश्वर इति राजधानीरूपात् देशाद्राजनि। चित्रभानुर्विभातीति दिने रवौ रात्रौ वह्नौ। मित्रं भातीति सुहृदि, मित्रो भातीति रवौ। इन्द्रशत्रुरित्यादौ वेदे एव, न काव्ये, स्वेरो विशेषप्रतीतिकृत्। आदिग्रहणात् -
एद्दहमेत्तत्थणिआ एद्दहमेत्तेहि अच्छिवत्तेहिं।
एद्दहमेत्तावत्था एद्दहमेत्तेहि दिअएहिं ।।11।।
(एतावन्मात्रस्तनिका एतावन्मात्राभ्यामक्षिपत्राभ्याम्।
एतावन्मात्रावस्था एतावन्मात्रैर्दिवसैः।।)
इत्यादावभिनयादयः।
इत्थं संयोगादिभिरर्थान्तराभिधायकत्वे निवारितेऽप्यनेकार्थस्य शब्दस्य यत् क्वचिदर्थान्तरप्रतिपादनं तत्र नाभिधा नियमनात्तस्याः। न च लक्षणा मुख्यार्थबाधाद्यभावात्। अपि त्वञ्जनं व्यञ्जनमेव व्यापारः। यथा -
भद्रात्मनो दुरधिरोहतनोर्विशालवंशोन्नतेः कृतशिलीमुखसंग्रहस्य।
यस्यानुपप्लुतगतेः परवारणस्य दानाम्बुसेकसुभगः सततं करोऽभूत्।।12।।
(सूo 33) तद्युक्तो व्यञ्जकः शब्दः
तद्युक्तो व्यञ्जनयुक्तः
(सूo 34) यत्सोऽर्थान्तरयुक् तथा।
अर्थोऽपि व्यञ्जकस्तत्र सहकारितया मतः ।। 20 ।।
तथेति व्यञ्जकः।।
।। इति काव्यप्रकाशे शब्दार्थस्वरूपनिर्णयो नाम द्वितीय उल्लासः ।। 2 ।।
।। श्रीः ।।
मम्मटाचार्यविरचितः
काव्यप्रकाशः
।। अथ तृतीय उल्लासः ।।
(सूo 35) अर्थाः प्रोक्ताः पुरा तेषाम्
अर्थाः, वाच्यलक्ष्यव्यङ्ग्याः। तेषां वाचकलाक्षणिकव्यञ्जकानाम्।।
(सूo 36) अर्थव्यञ्जकतोच्यते।
कीदृशीत्याह
(सूo 37) वक्तृबोद्धव्यकाकूनां वाक्यवाच्यान्यसंनिधेः।। 21 ।।
प्रस्तावदेशकालादेर्वैशिष्ट्यात् प्रतिभाजुषाम्।
योऽर्थस्यान्यार्थधीहेतुर्व्यापारो व्यक्तिरेव सा ।। 22 ।।
बोद्धव्यः प्रतिपाद्यः। काकुर्ध्वनेर्विकारः। प्रस्तावः प्रकरणम्। अर्थस्य वाच्यलक्ष्यव्यङ्ग्यात्मनः।
क्रमेणोदाहरणानि -
अइपिहुलं जलकुंभं घेत्तूण समागदह्मि सहि तुरिअम्।
समसेअसलिलणीसासणीसहा वीसमामि खणम् ।।13।।
(अतिपृथुलं जलकुम्भं गृहीत्वा समागतास्मि सखि त्वरितम्।
श्रमस्वेदसलिलनिःश्वासनिःसहा विश्राम्यामि क्षणम्।।)
अत्र चौर्यरतगोपनं गम्यते।
ओण्णिद्दं दोब्बल्लं चिंता अलसत्तणं सणीससिअम्।
मह मंदभाइणीए केरं सहि तुह वि अहह परिहवइ ।।14।।
(औन्निद्र्यं दौर्बल्यं चिन्तालसत्वं सनिःश्वसितम्।
मम मन्दभागिन्याः कृते सखि त्वामप्यहह परिभवति।।)
अत्र दूत्यास्तत्कामुकोपभोगो व्यज्यते।
तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां
वने व्याधैः सार्धं सुचिरमुषितं वल्कलधरैः।
विराटस्यावासे स्थितमनुचितारम्भनिभृतं
गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ।।15।।
अत्र मयि न योग्यः खेदः कुरुषु तु योग्य इति काक्वा प्रकाश्यते। न च वाच्यसिद्ध्यङ्गमत्र काकुरिति गुणीभूतव्यङ्ग्यत्वं शङ्क्यम्। प्रश्नमात्रेणापि काकोर्विश्रान्तेः।
तइआ मह गंडत्थलणिमिअं दिठ्ठिं ण णेसि अण्णत्तो।
एण्हिं सच्चेअ अहं ते अ कवाला ण सा दिठ्ठी ।।16।।
(तदा मम गण्डस्थलनिमग्नां दृष्टिं न नयस्यन्यत्र।
इदानीं सैवाहं तौ च कपोलौ न सा दृष्टिः।।)
अत्र मत्सखीं कपोलप्रतिबिम्बितां पश्यतस्ते दृष्टिरन्यैवाभूत् चलितायां तु तस्यामन्यैव जातेत्यहो प्रच्छन्नकामुकत्वं ते, इति व्यज्यते।
उद्देशोऽयं सरसकदलीश्रेणिशोभातिशायी
कुञ्जोत्कर्षाङ्कुरितरमणीविभ्रमो नर्मदायाः।
किं चैतस्मिन् सुरतसुहृदस्तन्वि ते वान्ति वाता
येषामग्रे सरति कलिताकाण्डकोपो मनोभूः ।।17।।
अत्र रतार्थं प्रविशेति व्यङ्ग्यम्।
णोल्लेइ अणणद्दमणा अत्ता मं घरभरम्मि सअलम्मि।
खणमेत्तं जइ संझाइ होइ ण व होइ वीसामो ।।18।।
(नुदत्यनार्द्रमनाः श्वश्रूर्मां गृहभरे सकले।
क्षणमात्रं यदि सन्ध्यायां भवति न वा भवति विश्रामः।।)
अत्र सन्ध्या सङ्केतकार इति तटस्थं प्रति कयाचिद्द्योत्यते।
सुव्वह समागमिस्सदि तुज्झ पिओ अज्ज पहरमेत्तेण।
एमे अ कित्ति चिठ्ठसि ता सहि सज्जेसु करणिज्जम् ।।19।।
(श्रूयते समागमिष्यति तव प्रियोद्य प्रहरमात्रेण।
एवमेव किमिति तिष्ठसि तत्सखि सज्जय करणीयम्।।)
अत्रोपपतिं प्रत्यभिसर्तुं प्रस्तुता न युक्तमिति कयाचिन्निवार्यते।
अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि सख्यः।
नाहं हि दूरं भ्रमितुं समर्था प्रसीदतायं रचितोऽञ्जलिर्वः ।।20।।
अत्र विविक्तोऽयं देश इति प्रच्छन्नकामुकस्त्वयाभिसार्यतामिति, आश्वस्तां प्रति कयाचिन्निवेद्यते।
गुरुअणपरवस पिअ किं भणामि तुइ मंदभाइणी अहकम्।
अज्ज पवासं वच्चसि वच्च सअं जेव्व सुणसि करणिज्जम् ।।21।।
(गुरुजनपरवश प्रिय किं भणामि तव मन्दभागिन्यहम्।
अद्य प्रवासं व्रजसि व्रज स्वयमेव जानासि करणीयम्।।)
अत्राद्य मधुसमये यदि व्रजसि तदाहं तावत् न भवामि तव तु न जानामि गतिमिति व्यज्यते।
आदिग्रहणाच्चेष्टादेः। तत्र चेष्टाया यथा -
द्वारोपान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया
प्रोल्लास्योरुयुगं परस्परसमासक्तं समासादितम्।
आनीतं पुरतः शिरोंऽशुकमधः क्षिप्ते चले लोचने
वाचस्तत्र निवारितं प्रसरणं संकोचिते दोर्लते ।।22।।
अत्र चेष्टया प्रच्छन्नकान्तविषय आकूतविशेषो ध्वन्यते। निराकाङ्क्षप्रतिपत्तये प्राप्तावसरतया च पुनः पुनरुदाह्रियते। वक्त्रादीनां मिथःसंयोगे द्विकादिभेदेन। अनेन क्रमेण लक्ष्यव्यङ्ग्ययोश्च व्यञ्जकत्वमुदाहार्यम्।।
[द्विकभेदे वक्तृबोद्धव्ययोगे यथा -
अत्ता एत्त्थ णिमज्जइ एत्थ अहं दिअहए पलोएहि।
मा पहिअ रत्तिअंधअ सेज्जाए मह णिमज्जहिसि।।
(श्वश्रूरत्र निमज्जति अत्राहं दिवसके प्रलोकय।
मा पथिक रात्र्यन्ध शय्यायामावयोर्निमङ्क्षसि।।)]
(सूo 38) शब्दप्रमाणवेद्योऽर्थो व्यनक्त्यर्थान्तरं यतः।
अर्थस्य व्यञ्जकत्वे तत् शब्दस्य सहकारिता ।। 23 ।।
शब्देति। नहि प्रमाणान्तरवेद्योऽर्थो व्यञ्जकः।।
।। इति श्रीकाव्यप्रकाशेऽर्थव्यञ्जकतानिर्णयो नाम तृतीय उल्लासः ।। 3 ।।
।। श्रीः ।।
मम्मटाचार्यविरचितः
काव्यप्रकाशः
।। अथ चतुर्थ उल्लासः ।।
यद्यपि शब्दार्थयोर्निर्णये कृते दोषगुणालङ्काराणां स्वरूपमभिधानीयम् तथापि धर्मिणि प्रदर्शिते धर्माणां हेर्माणां हेयोपादेयता ज्ञायत इति प्रथमं काव्यभेदान् आह -
(सूo 39) अविवक्षितवाच्यो यस्तत्र वाच्यं भवेद्ध्वनौ।
अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतम् ।। 24 ।।
लक्षणामूलगूढव्यङ्ग्यप्राधान्ये सत्येव, अविवक्षितं वाच्यं यत्र स `ध्वनौ' इत्यनुवादात् ध्वनिरिति ज्ञेयः। तत्र च वाच्यं क्वचिदनुपयुज्यमानत्वादर्थान्तरे परिणमितम्। यथा -
त्वामस्मि वच्मि विदुषां समवायोऽत्र तिष्ठति।
आत्मीयां मतिमास्थाय स्थितिमत्र विधेहि तत्।।23।।
अत्र वचनादि, उपदेशादिरूपतया परिणमति।
क्वचिदनुपपद्यमानतया, अत्यन्तं तिरस्कृतम्। यथा -
उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम्।
विदधदीदृशमेव सदा सखे सुखितमास्स्व ततः शरदां शतम्।।24।।
एतद् अपकारिणं प्रति विपरीतलक्षणया कश्चिद्वक्ति।।
(सूo 40) विवक्षितं चान्यपरं वच्यं यत्रापरस्तु सः।
अन्यपरं व्यङ्ग्यनिष्ठम्।। एष च -
(सूo 41) कोऽप्यलक्ष्यक्रमव्यङ्ग्यो लक्ष्यव्यङ्ग्यक्रमः परः।। 25 ।।
अलक्ष्येति। न खलु विभावानुभावव्यभिचारिण एव रसः। अपि तु रसस्तैः, इत्यस्तिक्रमः। स तु लाघवान्न लक्ष्यते।। अत्र
(सूo 42) रसभावतदाभासभावशान्त्यादिरक्रमः।
भिन्नो रसाद्यलङ्कारादलङ्कार्यतया स्थितः ।। 26 ।।
आदिग्रहणाद्भावोदयभावसन्धिभावशबलत्वानि। प्रधानतया यत्र स्थितो रसादिस्तत्रालङ्कार्यः, यथोदाहरिष्यते। अन्यत्र तु प्रधाने वाक्यार्थे यत्राङ्गभूतो रसादिस्तत्र गुणीभूतव्यङ्ग्ये रसवत्प्रेयऊर्जस्विसमाहितादयोऽलङ्काराः। ते च गुणीभूतव्यङ्ग्याभिधाने, उदाहरिष्यन्ते।।
तत्र रसस्वरूपमाह -
(सूo 43) कारणान्यथ कार्याणि सहकारीणि यानि च।
रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः ।। 27 ।।
विभावा अनुभावास्तत् कथ्यन्ते व्यभिचारिणः।
व्यक्तः स तैर्विभावाद्यैः स्थायी भावो रसः स्मृतः ।। 28 ।।
उक्तं हि भरतेन ``विभावानुभावव्यमिचारिसंयोगाद् रसनिष्पत्तिः'' इति। एतद्द्विवृण्वते। ``विभावैर्ललनोद्यानादिभिरालम्बनोद्दीपनकारणैः, स्थायी रत्यादिको भावो जनितः, अनुभावैः कटाक्षभुजाक्षेपप्रभृतिभिः कार्यैः प्रतीतियोग्यः कृतः, व्यभिचारिभिर्निर्वेदादिभिः सहकारिभिरुपचितो मुख्यया वृत्त्या रामादावनुकार्ये तद्रूपतानुसंधानान्नर्तकेऽपि प्रतीयमानो रसः'' इति भट्टलोल्लटप्रभृतयः।
राम एवायम् अयमेव राम इति `न रामोऽयम्' इत्यौत्तरकालिके बाधे रामोऽयमिति रामः स्याद्वा न वायमिति रामसदृशोऽयमिति च सम्यङ्भिथ्यासंशयसादृश्यप्रतीतिभ्यो विलक्षणया चित्रतुरगादिन्यायेन रामोऽयमिति प्रतिपत्त्या ग्राह्ये नटे
`सेयं ममाङ्गेषु सुधारसच्छटा सुपूरकर्पूरशलाकिका दृशोः।
मनोरथश्रीर्मनसः शरीरिणी प्राणेश्वरी लोचनगोचरं गता ।।25।।
दैवादहमद्य तया चपलायतनेत्रया वियुक्तश्च।
अविरलविलोलजलदः कालः समुपागतश्चायम्'।।26।।
इत्यादिकाव्यानुसन्धानबलाच्छिक्षाभ्यासनिर्वर्तितस्वकार्यप्रकटनेन च नटेनैव प्रकाशितैः कारणकार्यसहकारिभिः कृत्रिमैरपि तथानभिमन्यमानैर्विभावादिशब्दव्यपदेश्यैः `संयोगात्' गम्यगमकभावरूपात् अनुमीयमानोऽपि वस्तुसौन्दर्यबलाद्रसनीयत्वेनान्यानुमीयमानविलक्षणः स्थायित्वेन संभाव्यमानो रत्यादिर्भावस्तत्रासन्नपि सामाजिकानां वासनया चर्व्यमाणो रस इति श्रीशङ्कुकः।
न ताटस्थ्येन नात्मगतत्वेन रसः प्रतीयते नोत्पद्यते नाभिव्यज्यते, अपि तु काव्ये नाट्ये चाभिधातो द्वितीयेन विभावादिसाधारणीकरणात्मना भावकत्वव्यापारेण भाव्यमानः स्थायी सत्त्वोद्रेकप्रकाशानन्दमयसंविद्विश्रान्तिसतत्त्वेन भोगेन भुज्यते, इति भट्टनायकः।
लोके प्रमदादिमिः स्थाय्यनुमानेऽभ्यासपाटववतां काव्ये नाट्ये च तैरेव कारणत्वादिपरिहारेण विभावनादिव्यापारवत्त्वादलौकिकविभावादिशब्दव्यवहार्यैर्ममैवैते शत्रोरेवैते तटस्थस्यैवैते न ममैवैते न शत्रोरेवैते न तटस्थस्यैवैते, इति संबन्धविशेषस्वीकारपरिहारनियमानध्यवसायात् साधारण्येन प्रतीतैरभिव्यक्तः सामाजिकानां वासनात्मतया स्थितः स्थायी रत्यादिको नियतप्रमातृगतत्वेन स्थितोऽपि साधारणोपायबलात् तत्कालविगलितपरिमितप्रमातृभाववशोन्मिषितवेद्यान्तरसंपर्कशून्यापरिमितभावेन प्रमात्रा सकलसहृदयसंवादभाजा साधारण्येन स्वाकार इवाभिन्नोऽपि गोचरीकृतश्चर्व्यमाणतैकप्राणो विभावादिजीवितावधिः पानकरसन्यायेन चर्व्यमाणः पुर इव परिस्फुरन् हृदयमिव प्रविशन् सर्वाङ्गीणमिवालिङ्गन् अन्यत् सर्वमिव तिरोदधत् ब्रह्मास्वादमिवानुभावयन् अलौकिकचमत्कारकारी शृङ्गारादिको रसः। स च न कार्यः। विभावादिविनाशेऽपि तस्य संभवप्रसङ्गात्। नापि ज्ञाप्यः सिद्धस्य तस्यासंभवात्। अपि तु विभावादिभिर्व्यञ्जितश्चर्वणीयः। कारकज्ञापकाभ्यामन्यत् क्व दृष्टमिति चेत्, न क्वचिद्दृष्टमित्यलौकिकसिद्धेर्भूषणमेतन्न दूषणम्। चर्वणानिष्पत्त्या तस्य निष्पत्तिरुपचरितेति कार्योऽप्युच्यताम्। लौकिकप्रत्यक्षादिप्रमाणताटस्थ्यावबोधशालिमितयोगिज्ञानवेद्यान्तरसंस्पर्शरहितस्वात्ममात्रपर्यवसितपरिमितेतरयोगिसंवेदनविलक्षणलोकोत्तरस्वसंवेदनगोचर इति प्रत्ययोऽप्यभिधीयताम्। तद्ग्राहकं च न निर्विकल्पकं विभावादिपरामर्शप्रधानत्वात्। नापि सविकल्पकं चर्व्यमाणस्यालौकिकानन्दमयस्य स्वसंवेदनसिद्धत्वात्। उभयाभावस्वरूपस्य चोभयात्मकत्वमपि पूर्ववल्लोकोत्तरतामेव गमयति न तु विरोधमिति श्रीमदाचार्याभिनवगुप्तपादाः।।
व्याघ्रादयो विभावा भयानकस्येव वीराद्भुतरौद्राणाम् अश्रुपातादयोऽनुभावाः शृङ्गारस्येव करुणभयानकयोः, चिन्तादयो व्यभिचारिणः शृङ्गारस्येव वीरकरुणभयानकानामिति पृथगनैकान्तिकत्वात् सूत्रे मिलिता निर्दिष्टाः।
वियदलिमलिनाम्बुगर्भमेघं मधुकरकोकिलकूजितैर्दिशां श्रीः।
धरणिरभिनवाङ्कुराङ्कटङ्का प्रणतिपरे दयिते प्रसीद मुग्धे।।27।।
इत्यादौ
परिमृदितमृणालीम्लानमङ्गं प्रवृत्तिः
कथमपि परिवारप्रार्थनाभिः क्रियासु।
कलयति च हिमांशोर्निष्कलङ्कस्य लक्ष्मी-
मभिनवकरिदन्तच्छेदकान्तः कपोलः।।28।।
इत्यादौ -
दूरादुत्सुकमागते विवलितं संभाषिणि स्फारितं
संश्लिष्यत्यरुणं गृहीतवसने किंचाञ्चितभ्रूलतम्।
मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षणं
चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ।।29।।
इत्यादौ च यद्यपि विभावानामनुभावानामौत्सुक्यव्रीडाहर्षकोपासूयाप्रसादानां च व्यभिचारिणां केवलानामत्र स्थितिः, तथाप्येतेषामसाधारणत्वमित्यन्यतमद्वयाक्षेपकत्वे सति नानैकन्तिकत्वमिति।।
तद्विशेषानाह--
(सूo 44) शृङ्गारहास्यकरुणरौद्रवीरभयानकाः।
बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः।। 29 ।।
तत्र शृङ्गारस्य द्वौ भेदौ। संभोगो विप्रलम्भश्च। तत्राद्यः परस्परावलोकनालिङ्गनाधरपानपरिचुम्बनाद्यनन्तत्वादपरिच्छेद्य इत्येक एव गण्यते। यथा -
शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनै-
र्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुंखम्।
विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं
लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ।। 30 ।।
तथा -
त्वं मुग्धाक्षि विनैव कञ्चुलिकया धत्से मनोहारिणीं
लक्ष्मीमित्यभिधायिनि प्रियतमे तद्वीटिकासंस्पृशि।
शय्योपान्तनिविष्टसस्मितसखीनेत्रोत्सवानन्दितो
निर्यातः शनकैरलीकवचनोपन्यासमालीजनः ।। 31 ।।
अपरस्तु, अभिलाषविरहेर्ष्याप्रवासशापहेतुक इति पञ्चविधः। क्रमेणोदाहरणम्--
प्रेमार्द्राः प्रणयस्पृशः परिचयादुद्गाढरागोदया-
स्तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुर्मयि।
यास्वन्तःकरणस्य बाह्यकरणव्यापाररोधी क्षणा-
दाश्सापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः ।। 32 ।।
अन्यत्र व्रजतीति का खलु कथा नाप्यस्य तादृक् सुहद्
यो मां नेच्छति नागतश्च हहहा कोऽयं विधेः प्रक्रमः।
इत्यल्पेतरकल्पनाकवलितस्वान्ता निशान्तान्तरे
बाला वृत्तविवर्तनव्यतिकरा नाप्नोति निद्रां निशि ।। 33 ।।
एषा विरहोत्कण्ठिता।
सा पुत्युः प्रथमापराधसमये सख्योपदेशं विना
नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम्।
स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला
बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ।। 34 ।।
प्रस्थानं वलयैः कृतं प्रियसखैरस्रैरजस्रं गतं
धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः।
यातुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता
गन्तव्ये सति जीवित प्रियसुहृत्सार्थः किमु त्यज्यते ।। 35 ।।
त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया-
मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम्।
अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे
क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः ।। 36 ।।
हास्यादीनां क्रमेणोदारहणम्--
आकुञ्च्य पाणिमशुचिं मम मूर्ध्नि वेश्या मन्त्राम्भसां प्रतिपदं पृषतैः पवित्रे।
तारस्वनं प्रथितथूत्कमदात्प्रहारं हाहा हतोऽहमिति रोदिति विष्णुशर्मा ।। 37 ।।
हा मातस्त्वरितासि कुत्र किमिदं हा देवताः क्वाशिषः
धिक् प्राणान् पतितोऽशनिर्हुतवहस्तेऽङ्गेषु दग्धे दृशौ।
इत्थं घर्घरमध्यरुद्धकरुणाः पौराङ्गनानां गिर-
श्चित्रस्थानपि रोदयन्ति शतधा कुर्वन्ति भित्तीरपि ।। 38 ।।
कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं
मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः।
नरकरिपुणा सार्धं तेषां सभीमकिरीटिना-
मयमहमसृङ्मेदोमांसैः करोमि दिशां बलिम् ।। 39 ।।
क्षुद्राः सन्त्रासमेते विजहित हरयः क्षुण्णशक्रेभकुम्भा
युष्मद्देहेषु लज्जां दधति परममी सायका निष्पतन्तः।।
सौमित्रे तिष्ठ पात्रं त्वमसि न हि रुषां नन्वहं मेघनादः
किञ्चिद्भ्रूभङ्गलीलानियमितजलधिं राममन्वेषयामि ।। 40 ।।
ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः
पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम्।
दर्भैरर्धावलीढैः श्रमविवृतमुखभ्रंशिमिः कीर्णवर्त्मा
पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति ।। 41 ।।
उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूत्सेधभूयांसि मांसा-
न्यंसस्फिक्पृष्ठपिण्ड्याद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा।
आर्त्तः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्का-
दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ।। 42 ।।
चित्रं महानेष बतावतारः क्व कान्तिरेषाभिनवैव भङ्गिः।
लोकोत्तरं धैर्यमहो प्रभावः काप्याकृतिर्नूतन एष सर्गः ।। 43 ।।
एषां स्थायिभावानाह--
(सूo 33) रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा।
जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिताः ।।30।।
स्पष्टम्।
व्यभिचारिणो ब्रूते--
(सूo 46) निर्वेदग्लानिशङ्काख्यास्तथासूयामदश्रमाः।
आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ।।31।।
व्रीडा चपलता हर्ष आवेगो जडता तथा।
गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ।।32।।
सुप्तं प्रबोधोऽमर्षश्चाप्यवहित्थमथोग्रता।
मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ।।33।।
त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः।
त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः ।।34।।
निर्वेदस्यामङ्गलप्रायस्य प्रथममनुपादेयत्वेऽप्युपादानं व्यमिचारित्वेऽपि स्थायिताभि धानार्थम्। तेन
(सुo 47) निर्वेदस्थायिभावोऽस्ति शान्तोऽपि नवमो रसः।
यथा -
अहौ वा हारे वा कुसुमशयने वा दृषदि वा
मणौ वा लोष्ठे वा बलवति रिपौ वा सुहृदि वा।
तृणे वा स्त्रैणे वा मम समदृशो यान्ति दिवसाः
क्वचित्पुण्यारण्ये शिव शिव शिवेति प्रलपतः ।। 44 ।।
(सूo 48) रतिर्देवादिविषया व्यभिचारी तथाञ्जितः ।।35।।
भावः प्रोक्तः
आदिशब्दान्मुनिगुरुनृपपुत्रादिविषया। कान्ताविषया तु व्यक्ता शृङ्गारः।
उदाहरणम् -
कण्ठकोणविनिविष्टमीश ते कालकूटमपि मे महामृतम्।
अप्युपात्तममृतं भवद्वपुर्भेदवृत्ति यदि मे न रोचते ।। 45 ।।
हरत्यघं संप्रति हेतुरेष्यतः शुभस्य पूर्वाचरितैः कृतं शुभैः।
शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यताम् ।। 46 ।।
एवमन्यदप्युदाहार्यम्।
अञ्जितव्यभिचारी यथा -
जाने कोपपराङ्मुखी प्रियतमा स्वप्नेऽद्य दृष्टा मया
मा मां संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता पुरः।
नो यावत्परिरभ्य चाटुशतकैराश्वासयामि प्रियां
भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः ।। 47 ।।
अत्र विधिं प्रत्यसूया।
(सूo 49) तदाभासा अनौचित्यप्रवर्तिताः।
तदाभासा रसाभासा भावाभासाश्च। तत्र रसाभासो यथा -
स्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे
विलेभे कः प्राणान् रणमखमुखे यं मृगयसे।
सुलग्ने को जातः शशिमुखि यमालिङ्गसि बलात्
तपःश्रीः कस्यैषा मदननगरि ध्यायसि तु यम् ।। 48 ।
अत्रानेककामुकविषयमभिलाषं तस्याः स्तुम इत्याद्यनुगतं बहुव्यापारोपादानं व्यनक्ति।
भावाभासो यथा -
राकासुधाकरमुखी तरलायताक्षी
सा स्मेरयौवनतरङ्गितविभ्रमाङ्गी।
तत् किं करोमि विदधे कथमत्र मैत्रीं
तत्स्वीकृतिव्यतिकरे क इवाभ्युपायः।। 49 ।।
अत्र चिन्ता, अनौचित्यप्रवर्तिता। एवमन्येऽप्युदाहार्याः।।
(सूo 50) भावस्य शान्तिरुदयः सन्धिः शबलता तथा ।।36।।
क्रमेणोदाहरणम् -
तस्याः सान्द्रविलेपनस्तनतटप्रश्लेषमुद्राङ्कितं
किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपाय्यते।
इत्युक्ते क्व तदित्युदीर्य सहसा तत् संप्रमार्ष्टुं मया
साश्लिष्टा रभसेन तत्सुखवशात्तन्व्या च तद्विस्मृतम् ।। 50 ।।
अत्र कोपस्य।
एकस्मिञ्शयने विपक्षरमणीनामग्रहे मुग्धया
सद्यो मानपरिग्रहग्लपितया चाटूनि कुर्वन्नपि।
आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणं
माभूत्सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः ।। 51 ।।
अत्रौत्सुक्यस्य।
उत्सिक्तस्य तपःपराक्रमनिधेरभ्यागमादेकतः
सत्संगप्रियता च वीररभसोत्फालश्च मां कर्षतः।
वैदेहीपरिरम्भ एष च मुहुश्चैतन्यमामीलयन्
आनन्दी हरिचन्दनेन्दुशिशिरस्निग्धो रुणद्ध्यन्यतः ।। 52 ।।
अत्रावेगहर्षयोः सन्धिः।
क्वाकार्यं शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा
दोषाणां प्रशमाय नः श्रुतमहो कोपेऽपि कान्तं मुखम्।
किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा
चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्यति ।। 53 ।।
अत्र वितर्कौत्सुक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां शबलता।
भावस्थितिस्तूक्ता उदाहृता च।।
(सूo 51) मुख्ये रसेऽपि तेऽङ्गित्वं प्राप्नुवन्ति कदाचन।
ते भावशान्त्यादयः। अङ्गित्वं राजानुगतविवाहप्रवृत्तभृत्यवत्।।
(सूo 52) अनुस्वानाभसंलक्ष्यक्रमव्यङ्ग्यस्थितिस्तु यः ।।37।।
शब्दार्थोभयशक्त्युत्थस्त्रिधा स कथितो ध्वनिः।
शब्दशक्तिमूलानुरणनरूपव्यङ्ग्यः अर्थशक्तिमूलानुरणनरूपव्यङ्गयः उभयशक्तिमूलानुरणनरूपव्यङ्ग्यश्चेति त्रिविधः।। तत्र
अलङ्कारोऽथ वस्त्वेव शब्दाद्यत्रावभासते ।।38।।
(सूo 53) प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा।
वस्त्वेवेति, अनलङ्कारं वस्तुमात्रम्। आद्यो यथा -
उल्लास्य कालकरवालमहाम्बुवाहं देवेन येन जरठोर्जितगर्जितेन।
निर्वापितः सकल एव रणे रिपूणां धाराजलैस्त्रिजगति ज्वलितः प्रतापः ।। 54 ।।
अत्र वाक्यस्यासंबद्धार्थाभिधायकत्वं मा प्रसाङ्क्षीदिति प्राकरणिकाप्राकरणिकयोरुपमानोपमेयभावः कल्पनीय इत्यत्रोपमालङ्कारो व्यङ्ग्यः।
तिग्मरुचिरप्रतापो विधुरनिशाकृद्विभो मधुरलीलः।
मतिमानतत्त्ववृत्तिः प्रतिपदपक्षाग्रणीर्विभाति भवान् ।। 55 ।।
अत्रैकैकस्य पदस्य द्विपदत्वे विरोधाभासः।
अमितः समितः प्राप्तैरुत्कर्षैर्हर्षद प्रभो।
अहितः सहितः साधुयशोभिरसतामसि ।। 56 ।।
अत्रापि विरोधाभासः।
निरुपादानसंभारमभित्तावेव तन्वते।
जगच्चित्रं नमस्तस्मै कलाश्लाघ्याय शूलिने ।। 57 ।।
अत्र व्यतिरेकः।
अलङ्कार्यस्यापि ब्राह्मणश्रमणन्यायेनालङ्कारता।
वस्तुमात्रं यथा -
पंथिअ ण एत्थ सत्थरमत्थि मणं पत्थरत्थले गामे।
उण्णअपओहरं पेख्खिऊण जइ वससि ता वससु ।। 58 ।।
(पथिक नात्र स्रस्तरमस्ति मनाक् प्रस्तरस्थले ग्रामे।
उन्नतपयोधरं प्रेक्ष्य यदि वससि तदा वस।।)
अत्र यद्युपभोगक्षमोऽसि तदा, आस्स्वेति व्यज्यते।
शनिरशनिश्च तमुच्चैर्निहन्ति कुप्यसि नरेन्द्र यस्मै त्वम्।
यत्र प्रसीदसि पुनः स भात्युदारोऽनुदारश्च ।। 59 ।।
अत्र अविरुद्धावपि त्वदनुवर्तनार्थमेकं कार्यं कुरुत इति ध्वन्यते।
(सूo 54) अर्थशक्त्युद्भवोऽप्यर्थो व्यञ्जकः संभवी स्वतः ।।39।।
प्रौढोक्तिमात्रात्सिद्धो वा कवेस्तेनोम्भितस्य वा।
वस्तु वालङ्कृतिर्वेति षड्भेदोऽसौ व्यनक्ति यत् ।।40।।
वस्त्वलङ्कारमथ वा तेनायं द्वादशात्मकः।
स्वतःसंभवी न केवलं भणितिमात्रनिष्पन्नो यावद्बहिरप्यौचित्येन संभाव्यमानः। कविना प्रतिभामात्रेण बहिरसन्नपि निर्मितः कविनिबद्धेन वक्त्रेति वा द्विविधोऽपर इति त्रिविधः। वस्तु वालङ्कारो वासाविति षोढा व्यञ्जकः। तस्य वस्तु वालङ्कारो वा व्यङ्ग्य इति द्वादशभेदोऽर्थशक्त्युद्भवो ध्वनिः। क्रमेणोदाहरणम्--
अलसशिरोपणि धुत्ताणं अग्गिमो पुत्ति धणसमिद्धिमओ।
इअ भणिएण णअङ्गी पप्फुल्लविलोअणा जाआ ।। 60 ।।
(अलसशिरोमणि धूर्तानामग्रिमः पुत्रि धनसमृद्धिमयः।
इति जल्पितेन नताङ्गी प्रफुल्लविलोचना जाता।।)
अत्र ममैवोपभोग्य इति वस्तुना वस्तु व्यज्यते।
धन्यासि या कथयसि प्रियसंगमेऽपि विस्रब्धचाटुकशतानि रतान्तरेषु।
नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किञ्चिदपि स्मरामि ।। 61 ।।
अत्र त्वमधन्या, अहं तु धन्येति व्यतिरेकालङ्कारः।
दर्पान्धगन्धगजकुम्भकपाटकूटसंक्रान्तिनिघ्नघनशोणितशोणशोचिः।
वीरैर्व्यलोकि युधि कोपकषायकान्तिः कालीकटाक्ष इव यस्य करे कृपाणः ।। 62 ।।
अत्रोपमालङ्कारेण सकलरिपुबलक्षयः क्षणात् करिष्यते, इति वस्तु।
गाढकान्तदशनक्षतव्यथासंकटादरिवधूजनस्य यः।
ओष्ठविद्रुमदलान्यमोचयन्निर्दशन् युधि रुषा निजाधरम् ।। 63 ।।
अत्र विरोधालङ्कारेणाधरनिर्दशनसमकालमेव शत्रवो व्यापादिता इति तुल्ययोगिता मम क्षत्याप्यन्यस्य क्षतिर्निवर्ततामिति तद्बुद्धिरुत्प्रेक्ष्यते, इत्युत्प्रेक्षा च। एषूदाहरणेषु स्वतः संभवी व्यञ्जकः।
कैलासस्य प्रथमशिखरे वेणुसंमूर्छनाभिः
श्रुत्वा कीर्तिं विबुधरमणीगीयमानां यदीयाम्।
स्रस्तापाङ्गाः सरसबिसिनीकाण्डसंजातशङ्का
दिङ्मातङ्गाः श्रवणपुलिने हस्तमावर्तयन्ति ।। 64 ।।
अत्र वस्तुना येषामप्यर्थाधिगमो नास्ति तेषामप्येवमादिबुद्धिजननेन चमत्कारं करोति त्वत्कीर्तिरिति वस्तु ध्वन्यते।
केसेसु बलामोडिअ तेण अ समरम्मि जअसिरी गहिआ।
जह कन्दराहिँ विहुरा तस्स दढं कंठअम्मि संठविआ ।। 65 ।।
(केशेषु बलात्कारेण तेन च समरे जयश्रीर्गृहीता।
यथा कन्दराभिर्विधुरास्तस्य दृढं कण्ठे संस्थापिताः।।)
अत्र केशग्रहणावलोकनोद्दीपितमदना इव कन्दरास्तद्विधुरान् कण्ठे गृह्णन्ति, इत्युत्प्रेक्षा। एकत्र संग्रामे विजयदर्शनात्तस्यारयः पलाय्य गुहासु तिष्ठन्तीति काव्यहेतुरलङ्कारः। न पराय्य गतास्तद्वैरिणोऽपि तु ततः पराभवं संभाव्य तान् कन्दरा न त्यजन्तीत्यपह्नुतिश्च।
गाढालिङ्गणरहसुज्जुअम्मि दइए लहुं समोसरइ।
माणंसिणीण माणो पीलणभीअव्व हिअआहिं ।। 66 ।।
(गाढालिङ्गनरभसोद्यते दयिते लघु समपसरति।
मनस्विनीनां मानः पीडनभीत इव हृदयात्।।)
अत्रोत्प्रेक्षया प्रत्यालिङ्गनादि तत्र विजृम्भते, इति वस्तु।
जा ठेरं व हसन्ता कइवअणंबुरुहबद्धविणिवेसा।
दावेइ भुअणमंडलमण्णं विअ जअइ सा वाणी ।। 67 ।।
(या स्थविरमिव हसन्ती कविवदनाम्बुरुहबद्धविनिवेशा।
दर्शयति भुवनमण्डलमन्यदिव जयति सा वाणी।।)
अत्रोत्प्रेक्षया चमत्कारैककारणं नवं नवं जगत् अजडासनस्था निर्मिमीते, इति व्यतिरेकः। एषु कविप्रौढोक्तिमात्रनिष्पन्नो व्यञ्जकः।
जे लङ्कागिरिमेहलासु खलिआ संभोगखिण्णोरई--
फारुप्फुल्लफणावलीकवलणे पत्ता दरिद्दत्तणम्।
ते एङ्णिं मलआनिला विरहिणीणीसाससंपक्किणो
जादा झत्ति सिसुत्तणे वि वहला तारुण्णपुण्णा विअ ।। 68 ।।
(ये लङ्कागिरिमेखलासु स्खलिताः सम्भोगखिन्नोरगी-
स्फारोत्फुल्लफणावलीकवलने प्राप्ता दरिद्रत्वम्।
त इदानीं मलयानिला विरहिणीनिःश्वाससम्पर्किणो
जाता झटिति शिशुत्वेपि बहलास्तारुण्यपूर्णा इव।।)
अत्र निःश्वासैः प्राप्तैश्वर्या वायवः किं किं न कुर्वन्तीति वस्तुना वस्तु व्यज्यते।
सहि विरइऊण माणस्स मज्झ धीरत्तणेण आसासम्।
पिअदंसणविहलंखलखणम्मि सहसत्ति तेण ओसरिअम् ।। 69 ।।
(सखि विरचय्य मानस्य मम धीरत्वेनाश्वासम्।
प्रियदर्शनविशृङ्खलक्षणे सहसेति तेनापसृतम्।।)
अत्र वस्तुनाकृतेऽपि प्रार्थने प्रसन्नेति विभावना प्रियदर्शनस्य सौभाग्यबलं धैर्येण सोढुं न शक्यते, इत्युत्प्रेक्षा वा।
ओल्लोल्लकरअरअख्खएहि तुह लोअणेसु मह दिण्णम्।
रत्तंसुअं पआओ कोवेण पुणो इमे ण अक्कमिआ ।। 70 ।।
(आर्द्रार्द्रकरजरदनक्षतैस्तव लोचनयोर्मम दत्तम्।
रक्तांशुकं प्रसादः कोपेन पुनरिमे नाक्रान्ते।।)
अत्र किमिति लोचने कुपिते वहसि, इति, उत्तरालङ्कारेण न केवलमार्द्रनखक्षतानि गोपायसि यावत्तेषामहं प्रसादपात्रं जातेति वस्तु।
महिलासहस्सभरिए तुह हिअए सुहअ सा अमाअन्ती।
अणुदिणमणण्णकम्मा अङ्गं तणुअं वि तणुएइ ।। 71 ।।
(महिलासहस्रभरिते तव हृदये सुभग सा अमान्ती।
अनुदिवसमनन्यकर्मा अङ्गं तन्वपि तनयति।।)
अत्र हेत्वलङ्कारेण `तनोस्तनूकरणेऽपि तव हृदये न वर्तते' इति विशेषोक्तिः। एषु कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरो व्यञ्जकः। एवं द्वादश भेदाः।।
(सूo 55) शब्दार्थोभयभूरेकः
यथा -
अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा।
तारकातरला श्यामा सानन्दं न करोति कम् ।। 72 ।।
अत्रोपमा व्यङ्ग्या।।
(सूo 56) भेदा अष्टादशास्य तत् ।।41।।
अस्येति ध्वनेः।।
ननु रसादीनां बहुभेदत्वेन कथमष्टादशेत्यत आह -
(सूo 57) रसादीनामनन्तत्वाद्भेद एको हि गण्यते।
अनन्तत्वादिति। तथाहि-नव रसाः। तत्र शृङ्गारस्य द्वौ भेदौ। सम्भोगो विप्रलम्भश्च। सम्भोगस्यापि परस्परावलोकनालिङ्गनपरिचुम्बनादिकुसुमोच्चयजलकेलिसूर्यास्तमयचन्द्रोदयषड्ऋतुवर्णनादयो बहवो भेदाः। विप्रलम्भस्याभिलाषादय उक्ताः। तयोरपि विभावानुभावव्यभिचारिवैचित्र्यम्। तत्रापि नायकयोरुत्तममध्यमाधमप्रकृतित्वम्। तत्रापि देशकालावस्थादिभेदा इत्येकस्यैव रसस्यानन्त्यम्। का गणना त्वन्येषाम्। असंलक्ष्यक्रमत्वं तु सामान्यमाश्रित्य रसादिध्वनिभेद एक एव गण्यते।।
(सूo 58) वाक्ये द्व्युत्थः
द्व्युत्थ इति शब्दार्थोभयशक्तिमूलः।।
(सूo 59) पदेऽप्यन्ये
अपिशब्दाद्वाक्येऽपि। एकावयवस्थितेन भूषणेन कामिनीव पदद्योत्येन व्यङ्ग्येन वाक्यव्यङ्ग्यापि भारती भासते। तत्र पदप्रकाश्यत्वे क्रमेणोदाहरणानि--
यस्य मित्राणि मित्राणि शत्रवः शत्रवस्तथा।
अनुकम्प्योऽनुकम्प्यश्च स जातः स च जीवति ।। 73 ।। (1)
अत्र द्वितीयमित्रादिशब्दा आश्वस्तत्वनियन्त्रणीयत्वस्नेहपात्रत्वादिसंक्रमितवाच्याः।
खलववहारा दीसन्ति दारुणा जहवि तहवि धीराणम्।
हिअअवअस्सबहुमआ ण हु ववसाआ विमुज्झन्ति ।। 74 ।। (2)
(खलव्यवहारा दृश्यन्ते दारुणा यद्यपि तथापि धीराणाम्।
हृदयवयस्यबहुमता न खलु व्यवसाया विमुह्यन्ति।।)
अत्र विमुह्यन्तीति।
लावण्यं तदसौ कान्तिस्तद्रूपं स वचःक्रमः।
तदा सुधास्पदमभूदधुना तु ज्वरो महान् ।। 75 ।।
अत्र तदादिपदैरनुभवैकगौचरा अर्थाः प्रकाश्यन्ते। यथा वा -
मुग्धे मुग्धतयैव नेतुमखिलः कालः किमारभ्यते
मानं धत्स्व धृतिं बधान ऋजुतां दूरे कुरु प्रेयसि।
सख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना
नीचैः शंस हृदि स्थितो हि ननु मे प्राणेश्वरः श्रोष्यति ।। 76 ।। (3)
अत्र भीताननेति। एतेन हि नीचैःशंसनविधानस्य युक्तता गम्यते।
भावादीनां पदप्रकाश्यत्वेऽधिकं न वैचित्र्यमिति न तदुदाह्रियते।
रुधिरविसरप्रसाधितकरवालकरालरुचिरभुजपरिघः।
झटिति भ्रुकुटिविटङ्कितललाटपट्टो विभासि नृप भीम ।। 77 ।। (4)
अत्र भीषणीयस्य भीमसेन उपमानम्।
भुक्तिमुक्तिकृदेकान्तसमादेशनतत्परः।
कस्य नानन्दनिस्यन्दं विदधाति सदागमः ।। 78 ।। (5)
काचित् संकेतदायिनमेवं मुख्यया वृत्त्या शंसति।
सायं स्नानमुपासितं मलयजेनाङ्गं समालेपितं
यातोऽस्ताचलमौलिमम्बरमणिर्विस्रब्धमत्रागतिः।
आश्चर्यं तव सौकुमार्यमभितः क्लान्तासि येनाधुना
नेत्रद्वन्द्वममीलनव्यतिकरं शक्नोति ते नासितुम् ।। 79 ।। (6)
अत्र वस्तुना कृतपरपुरुषपरिचया क्लान्तासीति वस्तु, अधुनापदद्योत्यं व्यज्यते।
तदप्राप्तिमहादुःखविलीनाशेषपातका।
तच्चिन्ताविपुलाह्लादक्षीणपुण्यचया तथा ।। 80 ।।
चिन्तयन्ती जगत्सूतिं परब्रह्मस्वरूपिणम्।
निरुच्छ्वासतया मुक्तिं गतान्या गोपकन्यका ।। 81 ।। (7)
अत्र जन्मसहस्रैरुपभोक्तव्यानि दुष्कृतसुकृतफलानि वियोगदुःखचिन्तनाह्लादाभ्यामनुभूतानीत्युक्तम्। एवं चाशेषचयपदद्योत्ये, अतिशयोक्ती।
क्षणदासावक्षणदा वनमवनं व्यसनमव्यसनम्।
बत वीर तव द्विषतां पराह्मुखे त्वयि पराङ्मुखं सर्वम् ।। 82 ।। (8)
अत्र शब्दशक्तिमूलविरोधाङ्गेनार्थान्तरन्यासेन `विधिरपि त्वामनुवर्तते' इति सर्वपदद्योत्यं वस्तु।
तुह वल्लहस्स गोसम्मि आसि अहरो मिलाणकमलदलो।
इअ णववहुआ सोऊण कुणइ वअणं महीसँमुहम् ।। 83 ।। (9)
(तव वल्लभस्य प्रभाते आसीदधरो म्लानकमलदलम्।
इति नववधूः श्रुत्वा करोति वदनं महीसंमुखम्।।)
अत्र रूपकेण त्वयास्य मुहुर्मुहुः परिचुम्बनं तथा कृतम् येन म्लानत्वमिति मिलाणादिपदद्योत्यं काव्यलिङ्गम्। एषु स्वतःसंभवी व्यञ्जकः।
राईसु चंदधवलासु ललिअमप्फालिऊण जो चावम्।
एकच्छत्तं विअ कुणइ भुअणरज्जं विजंभंतो ।। 84 ।। (10)
(रात्रीषु चन्द्रधवलासु ललितमास्फाल्य यश्चापम्।
एकच्छत्रमिव करोति त्रिभुवनराज्यं विजृम्भमाणः।।)
अत्र वस्तुना येषां कामिनामसौ राजा स्मरस्तेभ्यो न कश्चिदपि तदादेशपराङ्मुख इति जाग्रद्भिरुपभोगपरैरेव तैर्निशातिवाह्यते, इति भुअणरज्जपदद्योत्यं वस्तु प्रकाश्यते।
निशितशरधियार्पयत्यनङ्गो दृशि सुदृशः स्वबलं वयस्यराले।
दिशि निपतति यत्र सा च तत्र व्यतिकरमेत्य समुन्मिषन्त्यवस्थाः ।। 85 ।। (11)
अत्र वस्तुना युगपदवस्थाः परस्परविरुद्धा अपि प्रभवन्तीति व्यतिकरपदद्योत्यो विरोधः।
वारिज्जंतो वि पुणो संदावकदत्थिएण हिअएण।
थणहरवअस्सएण विसुद्धजाई ण चलइ से हारो ।। 86 ।। (12)
(वार्यमाणोपि पुनः सन्तापकदर्थितेन हृदयेन।
स्तनभरवयस्येन विशुद्धजातिर्न चलत्यस्या हारः।।)
अत्र विशुद्धजातित्वलक्षणहेत्वलङ्कारेण हारोऽनवरतं कम्पमान एवास्ते, इति ण चलइपदद्योत्यं वस्तु।
सो मुद्धसामलङ्गो धम्मिल्लो कलिअललिअणिअदेहो।
तीए खंधाहि बलं गहिअ सरो सुरअसंगरे जअइ ।। 87 ।। (13)
(स मुग्धश्यामलाङ्गो धम्मिल्लः कलितललितनिजदेहः।
तस्याः स्कन्धाद्बहुलं गृहीत्वा स्मरः सुरतसङ्गरे जयति।।)
अत्र रूपकेण मुहुर्मुहुराकर्षणेन तथा केशपाशः स्कन्धयोः प्राप्तः, यथा रतिविरतावप्यनिवृत्ताभिलाषः कामुकोऽभूदिति खंधपदद्योत्या विभावना। एषु कविप्रौढोक्तिमात्रनिष्पन्नशरीरः।
णवपुण्णिमामिअंकस्स सुहअ को त्तं सि भणसु मह सच्चम्।
का सोहग्गसमग्ग पओसरअणि व्व तुह अज्ज ।। 88 ।। (14)
(नवपूर्णिमामृगाङ्कस्य सुभग कस्त्वमसि भण मम सत्यम्।
का सौभाग्यसमग्रा प्रदोषरजनीव तवाद्य।।)
अत्र वस्तुना मयीवान्यस्यामपि प्रथममनुक्तस्त्वं न तत इति णवेत्यादिपओसेत्यादिपदद्योत्यं वस्तु व्यज्यते।
सहिं णवणिहुवमसमपम्मि अंकवालीसहीए णिबिडाए।
हारो णिवारिओ विअ उच्छेरन्तो तदो कहं रमिअम् ।। 89 ।। (15)
(सखि नवनिधुवनसमरेङ्कपालीसख्या निबिडया।
हारो निवारित एवोच्छ्रियमाणस्ततः कथं रमितम्।।)
अत्र वस्तुना हारच्छेदानन्तरमन्यदेव रतमवश्यमभूत् तत्कथय कीदृगिति व्यतिरेकः कहंपदगम्यः।
प्रविसंती घरवारं विवलिअवअणा विलोइऊण पहम्।
खंधे घेत्तूण घडं हा हा णठ्ठोत्ति रुअसि सहि किंति ।। 90 ।।
(प्रविशन्ती गृहद्वारं विवलितवदना विलोक्य पन्थानम्।
स्कन्धे घटं गृहीत्वा हा हा नष्ट इति रोदिषि किमिति।।)
अत्र हेत्वलङ्कारेण संकेतनिकेतनं गच्छन्तं दृष्ट्वा यदि तत्र गन्तुमिच्छसि तदा, अपरं घटं गृहीत्वा गच्छेति वस्तु किंतिपदद्योत्यम्। यथा वा -
विहलंखलं तुमं सहि दट्ठूण कुडेण तरलतरदिट्ठिम्।
वारप्फंसमिसेण अ अप्पा गुरुओत्ति पाडिअ विहिण्णो ।। 91 ।। (16)
(विशृङ्खलां त्वां सखि दृष्ट्वा कुटेन तरलतरदृष्टिम्।
द्वारस्पर्शमिषेणचात्मा गुरुक इति पातयित्वा विभिन्नः।।)
अत्र नदीकूले लतागहने कृतसंकेतमप्राप्तं गृहप्रवेशावसरे पश्चादागतं दृष्ट्वा पुनर्नदीगमनाय द्वारोपघातव्याजेन बुद्धिपूर्वं व्याकुलतया त्वया घटः स्फोटित इति मया चिन्तितम् तत्किमिति नाश्वसिषि तत्समीहितसिद्धये व्रज, अहं ते श्वश्रूनिकटे सर्वं समर्थयिष्ये, इति द्वारस्पर्शनव्याजेनेत्यपह्नुत्या वस्तु।
जोह्णाइ महुरसेण अ विवण्णतारुण्णउत्सुअमणा सा।
बुड्ढा वि णवोढव्विअ परवहुआ अहह हरइ तुह हिअअम् ।। 92 ।। (17)
(ज्योत्स्नया मधुरसेन च वितीर्णतारुण्योत्सुकमनाः सा।
वृद्धापि नवोढेव परवधूरहह हरति तव हृदयम्।।)
अत्र काव्यलिङ्गेन वृद्धां परवधूं त्वमस्मानुज्झित्वाभिलषसीति त्वदीयमाचरितं वक्तुं न शक्यमित्याक्षेपः परवहुपदप्रकाश्यः।
एषु कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरः। वाक्यप्रकाश्ये तु पूर्वमुदाहृतम् शब्दार्थोभयशक्त्युद्भवस्तु पदप्रकाश्यो न भवतीति पञ्चत्रिंशद्भेदाः।
(सूo 60) प्रबन्धेऽप्यर्थशस्तिभूः ।।42।।
यथा गृध्रगोमायुसंवादादौ।
अलं स्थित्वा श्मशानेऽस्मिन् गृध्रगोमायुसंकुले।
कङ्कालबहुले घोरे सर्वप्राणिभयङ्करे ।। 93 ।।
न चेह जीवितः कश्चित् कालधर्ममुपागतः।
प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी ।। 94 ।।
इति दिवा प्रभवतो गृध्रस्य पुरुषविसर्जनपरमिदं वचनम्।
आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत साम्प्रतम्।
बहुविघ्नो मुहूर्तोऽयं जीवेदपि कदाचन ।। 95 ।।
अमुं कनकवर्णाभं बालमप्राप्तयौवनम्।
गृध्रवाक्यात्कथं मूढास्त्यजध्वमविशङ्किताः ।। 96 ।।
इति निशि विजृम्भमाणस्य गोमायोर्जनव्यावर्तननिष्ठं च वचनमिति प्रबन्ध एव प्रथते। अन्ये त्वेकादश भेदा ग्रन्थविस्तरभयान्नोदाहृताः स्वयं तु लक्षणतोऽनुसर्तव्याः। अपिशब्दात्पदवाक्ययोः।।
(सूo 61) पदैकदेशरचनावर्णेष्वपि रसादयः।।
तत्र प्रकृत्या यथा -
रइकेलिहिअणिअसणकरकिसलअरुद्धणअणजुअलस्स।
रुद्दस्स तइअणअणं पव्वईपरिचुंबिअं जअइ ।। 97 ।।
(रतिकेलिहृतनिवसनकरकिसलयरुद्धनयनयुगलस्य।
रुद्रस्य तृतीयनयनं पार्वतीपरिचुम्बितं जयति।।)
अथ जयतीति न तु शोभते, इत्यादि। समानेऽपि हि स्थगनव्यापारे लोकोत्तरेणैव व्यापारेणास्य पिधानमिति तदेवोत्कृष्टम्। यथा वा -
प्रेयान् सोऽयमपाकृतः सशपथं पादानतः कान्तया
द्वित्राण्येव पदानि वासभवनाद्यावन्न यात्युन्मनाः।
तावत्प्रत्युत पाणिसंपुटगलन्नीवीनिबन्धं धृतो
धावित्वेव कृतप्रणामकमहो प्रेम्णो विचित्रा गतिः ।। 98 ।।
अत्र पदानीति न तु द्वाराणीति। तिङ्सुपोर्यथा -
पथि पथि शुकचञ्चूचारुराभाङ्कुराणां
दिशि दिशि पवमानो वीरुधां लासकश्च।
नरि नरि किरति द्राक् सायकान् पुष्पधन्वा
पुरि पुरि विनिवृत्ता मानिनीमानचर्चा ।। 99 ।।
अत्र किरतीति किरणस्य साध्यमानत्वम् निवृत्तेति निवर्तनस्य सिद्धत्वं तिङा सुपा च। तत्रापि क्तप्रत्ययेनातीतत्वं द्योत्यते।
यथा वा -
लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितो
निराहाराः सख्यः सततरुदितोच्छूननयनाः।
परित्यक्तं सर्वं हसितपठितं पञ्जरशुकै-
स्तवावस्था चेयं विसृज कठिने मानमधुना ।। 100 ।।
अत्र लिखन्निति न तु लिखतीति तथा, आस्ते, इति न तु, आसित इति, अपि तु प्रसादपर्यन्तमास्ते, इति, भूमिमिति न तु भूमाविति न हि बुद्धिपूर्वकमपरं किंचिल्लिखतीति तिङ्सुब्विभक्तीनां व्यङ्ग्यम्। सम्बन्धस्य यथा -
गामारुहम्मि गामे वसामि णअरठ्ठिइं ण जाणामि।
णाअरिआणं पइणो हरेमि जा होमि सा होमि ।। 101 ।।
(ग्रामरुहास्मि ग्रामे वसामि नगरस्थितिं न जानामि।
नागरिकाणां पतीन् हरामि या भवामि सा भवामि।।)
अत्र नागरिकाणामिति षष्ठ्याः।
`रमणीयः क्षत्त्रियकुमार आसीत्' इति कालस्य। एषा हि भग्नमहेश्वरकार्मुकं दाशरथिं प्रति कुपितस्य भार्गवस्योक्तिः।
वचनस्य यथा -
ताणँ गुणग्गहणाणं ताणुक्कंठाणं तस्स पेम्मस्स।
ताणँ भणिआणं सुंदर एरिसिअँ जाअमवसाणम् ।। 102 ।।
(तेषां गुणग्रहणानां तासामुत्कण्ठानां तस्य प्रेम्णः।
तासां भणितीनां सुन्दर ईदृशं जातमवसानम्।।)
अत्र गुणग्रहणादीनां बहुत्वं प्रेम्णश्चैकत्वं द्योत्यते.। पुरुषव्यत्ययस्य यथा
रे रे चञ्चललोचनाञ्चितरुचे चेतः प्रमुच्य स्थिर-
प्रेमाणं महिमानमेणनयनामालोक्य किं नृत्यसि।
किं मन्ये विहरिष्यसे बत हतां मुञ्चान्तराशामिमा-
मेषा कण्ठतटे कृता खलु शिला संसारवारां निधौ ।। 103 ।।
अत्र प्रहासः। पूर्वनिपातस्य यथा -
येषां दोर्बलमेव दुर्बलतया ते संमतास्तैरपि
प्रायः केवलनीतिरीतिशरणैः कार्यं किमुर्वीश्वरैः।
ये क्ष्माशक्र पुनः पराक्रमनयस्वीकारकान्तक्रमा-
स्ते स्युर्नैव भवादृशास्त्रिजगति द्वित्राः पवित्राः परम् ।। 104 ।।
अत्र पराक्रमस्य प्राधान्यमवगम्यते। विभक्तिविशेषस्य यथा -
प्रधनाध्वनि धीरधनुर्ध्वनिभृति विधुरैरयोधि तव दिवसम्।
दिवसेन तु नरप भवानयुद्ध विधिसिद्धसाधुवादपदम् ।। 105 ।।
अत्र दिवसेनेत्यपवर्गे तृतीया फलप्राप्तिं द्योतयति।
भूयो भूयः सविधनगरीरथ्यया पर्यटन्तं
दृष्ट्वा दृष्ट्वा भवनवलभीतुङ्गवातायनस्था।
साक्षात्कामं नवमिव रतिर्मालती माधवं यत्
गाढोत्कण्ठालुलितलुलितैरङ्गकैस्ताम्यतीति ।। 106 ।।
अत्रानुकम्पावृत्तेः करूपतद्धितस्य।
परिच्छेदातीतः सकलवचनानामविषयः
पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान्।
विवेकप्रध्वंसादुपचितमहामोहगहनो
विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते ।। 107 ।।
अत्र प्रशब्दस्योसर्गस्य।
कृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्च नो द्विषः।
तमांसि तिष्ठन्ति हि तावदंशुमान् न यावदायात्युदयाद्रिमौलिताम् ।। 108 ।।
अत्र तुल्ययोगिताद्योतकस्य `च' इति निपातस्य।
रामोऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं परा-
मस्मद्भाग्यविपर्ययाद्यदि परं देवो न जानाति तम्।
वन्दीवैष यशांसि गायति मरुद्यस्यैकबाणाहति-
श्रेणीभूतविशालतालविवरोद्गीर्णैः स्वरैः सप्तभिः ।। 109 ।।
अत्रासाविति भुवनेष्विति गुणैरिति सर्वनामप्रातिपदिकवचनानां न त्वदिति न मदिति, अपि तु अस्मदित्यस्य सर्वाक्षेपिणः, भाग्यविपर्ययादित्यन्यथासंपत्तिमुखेन न त्वभावमुखेनाभिधानस्य।
तरुणिमनि कलयति कलामनुमदनधनुर्भ्रुवोः पठत्यग्रे।
अधिवसति सकलललनामौलिमियं चकितहरिणचलनयना ।। 110 ।।
अत्र, इमनिजव्ययीभावकर्मभूताधाराणां स्वरूपस्य तरुणत्वे, इति धनुषः समीपे, इति मौलौ वसतीति त्वादिभिस्तुल्ये, अप्येषां वाचकत्वे, अस्ति कश्चित् स्वरूपस्य विशेषो यश्चमत्कारकारी स एव व्यञ्जकत्वं प्राप्नोति। एवमन्येषामपि बोद्धव्यम्।
वर्णरचनानां व्यञ्जकत्वं गुणस्वरूपनिरूपणे उदाहरिष्यते। अपिशब्दात् प्रबन्धेषु नाटकादिषु।
एवं रसादीनां पूर्वगणितभेदाभ्यां सह षड्भेदाः।
(सूo 62) भेदास्तदेकपञ्चाशत्
व्याख्याताः।।
(सूo 63) तेषां चान्योन्ययोजने ।।43।।
संकरेण त्रिरूपेण संसृष्ट्या चैकरूपया।
न केवलं शुद्धा एवैकपञ्चाशद्भेदा भवन्ति यावत्तेषां स्वप्रभेदैरेकपञ्चाशता संशयास्पदत्वेनानुग्राह्यानुग्राहकतयैकव्यञ्जकानुप्रवेशेन चेति त्रिविधेन संकरेण परस्परनिरपेक्षरूपयैकप्रकारया संसृष्ट्या चेति चतुर्भिर्गुणने।
(सूo 64) वेदखाब्धिवियच्चन्द्राः (10404)
शुद्धभेदैः सह
(सूo 65) शरेषुयुगखेन्दवः (10455) ।।44।।
तत्र दिङ्मात्रमुदाह्रियते।
खणपाहुणिआ देअर जाआए सुहअ किंपि दे भणिआ।
रुअइ पडोहरवलहीघरम्मि अणुणिज्जउ वराई ।। 111 ।।
(क्षणप्राघुणिका देवर जायया सुभग किमपि ते भणिता।
रोदिति गृहपश्चाद्भागवलभीगृहेनुनीयतां वराकी।।)
अत्रानुनयः किमुपभोगलक्षणेऽर्थान्तरे संक्रमितः किमनुरणनन्यायेनोपभेगे, एव व्यङ्ग्ये व्यञ्जकः, इति सन्देहः।
स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका घनाः
वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः।
कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे
वैदेही तु कथं भविष्यति ह हा हा देवि धीरा भव ।। 112 ।।
अत्र लिप्तेति पयोदसुहृदामिति च, अत्यन्ततिरस्कृतवाच्ययोः संसृष्टिः। ताभ्यां सह रामोऽस्मीत्यर्थान्तरसंक्रमितवाच्यस्यानुग्राह्यानुग्राहकभावेन रामपदलक्षणैकव्यञ्जकानुप्रवेशेन चार्थान्तरसंक्रमितवाच्यरसध्वन्योः संकरः। एवमन्यदप्युदाहार्यम्।।
।। इति काव्यप्रकाशे ध्वनिनिर्णयो नाम चतुर्थ उल्लासः ।।4।।
।। श्रीः ।।
मम्मटाचार्यविरचितः
काव्यप्रकाशः
।। अथ पञ्चम उल्लासः ।।
एवं ध्वनौ निर्णीते गुणीभूतव्यङ्ग्यप्रभेदानाह।
(सूo 66) अगूढमपरस्याङ्गं वाच्यसिद्ध्यङ्गमस्फुटम्।
सन्दिग्धतुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम् ।।45।।
व्यङ्ग्यमेवं गुणीभूतव्यङ्ग्यस्याष्टौ भिदाः स्मृताः।
कामिनीकुचकलशवत् गूढं चमत्करोति, अगूढं तु स्फुटतया वाच्यायमानमिति गुणीभूतमेव। अगूढं यथा -
यस्यासुहृत्कृततिरस्कृतिरेत्य तप्त-
सूचीव्यधव्यतिकरेण युनक्ति कर्णौ।
काञ्चीगुणग्रथनभाजनमेष सोऽस्मि
जीवन्न संप्रति भवामि किमावहामि ।। 113 ।।
अत्र जीवन्नित्यर्थान्तरसङ्क्रमितवाच्यस्य।
उन्निद्रकोकनदरेणुपिशङ्गिताङ्गा गायन्ति मञ्जु मधुपा गृहदीर्घिकासु।
एतच्चकास्ति च रवेर्नवबन्धुजीवपुष्पच्छदाभमुदयाचलचुम्बि बिम्बम् ।। 114 ।।
अत्र चुम्बनस्यात्यन्ततिरस्कृतवाच्यस्य।
अत्रासीत् फणिपाशबन्धनविधिः शक्त्या भवद्देवरे
गाढं वक्षसि ताडिते हनुमता द्रोणाद्रिरत्राहृतः।
दिव्यैरिन्द्रजिदत्र लक्ष्मणशरैर्लोकान्तरं प्रापितः
केनाप्यत्र मृगाक्षि राक्षसपतेः कृत्ता च कण्ठाटवी ।। 115 ।। (1)
अत्र केनाप्यत्रेत्यर्थशक्तिमूलानुरणनरूपस्य। `तस्याप्यत्र' इति युक्तः पाठः। अपरस्य रसादेर्वाच्यस्य वा (वाक्यार्थीभूतस्य) अङ्गं रसादि, अनुरणनरूपं वा। यथा
अयं स रशनोत्कर्षी पीनस्तनविमर्दनः।
नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ।। 116 ।।
अत्र शृङ्गारः करुणस्य।
कैलासालयभाललोचनरुचा निर्वर्तितालक्तक-
व्यक्तिः पादनखद्युतिर्गिरिभुवः सा वः सदा त्रायताम्।
स्पर्धाबन्धसमृद्धयेव सुदृढं रूढा यया नेत्रयोः
कान्तिः कोकनदानुकारसरसा सद्यः समुत्सार्यते ।। 117 ।।
अत्र भावस्य रसः।
अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधय-
स्तानेतानपि बिभ्रती किमपि न क्लान्तासि तुभ्यं नमः।
आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुव-
स्तावद्बिभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ।। 118 ।।
अत्र भूविषयो रत्याख्यो भावो राजविषयस्य रतिभावस्य।
बन्दीकृत्य नृप द्विषां मृगदृशस्ताः पश्यतां प्रेयसां
श्लिष्यन्ति प्रणमन्ति लान्ति परितश्चुम्बन्ति ते सैनिकाः।
अस्माकं सुकृतैर्दृशोर्निपतितोऽस्यौचित्यवारांनिधे
विध्वस्ता विपदोऽखिलास्तदिति तैः प्रत्यर्थिभिः स्तूयसे ।। 119 ।।
अत्र भावस्य रसाभासभावाभासौ प्रथमार्धद्वितीयार्धद्योत्यौ।
अविरलकरवालकम्पनैर्भ्रुकुटीतर्जनगर्जनैर्मुहुः।
ददृशे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात् ।। 120 ।।
अत्र भावस्य भावप्रशमः।
साकं कुरङ्गकदृशा मधुपानलीलां
कर्तुं सुहृद्भिरपि वैरिणि ते प्रवृत्ते
अन्याभिधायि तव नाम विभो गृहीतं
केनापि तत्र विषमामकरोदवस्थाम् ।। 121 ।।
अत्र त्रासोदयः।
असोढा तत्कालोल्लसदसहभावस्य तपसः
कथानां विश्रम्भेष्वथ च रसिकः शैलदुहितुः।
प्रमोदं वो दिश्यात् कपटवटुवेषापनयने
त्वराशैथिल्याभ्यां युगपदभियुक्तः स्मरहरः ।। 122 ।।
अत्रावेगधैर्ययोः सन्धिः।।
पश्येत्कश्चिच्चल चपल रे का त्वराहं कुमारी
हस्तालम्बं वितर ह ह हा व्युत्क्रमः क्वासि यासि।
इत्थं पृथ्वीपरिवृढ भवद्विद्विषोऽरण्यवृत्तेः
कन्या कञ्चित् फलकिसलयान्याददानाभिधत्ते ।। 123 ।।
अत्र शङ्कासूयाधृतिस्मृतिश्रमदैन्यविबोधौत्सुक्यानां शबलता।
एते च रसवदाद्यलङ्काराः। यद्यपि भावोदयभावसन्धिभावशबलत्वानि नालङ्कारतया, उक्तानि तथापि कश्चित् ब्रूयादित्येवमुक्तम्।
यद्यपि स नास्ति कश्चिद्विषयः, यत्र ध्वनिगुणीभूतव्यङ्ग्ययोः स्वप्रभेदादिभिः सह संकरः संसृष्टिर्वा नास्ति तथापि प्राधान्येन व्यपदेशा भवन्तीति क्वचित्केनचिद्व्यवहारः।
जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया
वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम्।
कृतालङ्काभर्तुर्वदनपरिपाटीषु घटना
मयाप्तं रामत्वं कुशलवसुता न त्वधिगता ।। 124 ।।
अत्र शब्दशक्तिमूलानुरणनरूपो रामेण सहोपमानोपमेयभावो वाच्याङ्गतां नीतः।
आगत्य सम्प्रति वियोगविसंष्ठुलाङ्गीमम्भोजिनीं क्वचिदपि क्षपितत्रियामः।
एतां प्रसादयति पश्य शनैः प्रभाते तन्वङ्गि पादपतनेन सहस्ररश्मिः ।। 125 ।। (2)
अत्र नायकवृत्तान्तोऽर्थशक्तिमूलो वस्तुरूपो निरपेक्षरविकमलिनीवृत्तान्ताध्यारोपेणैव स्थितः।।
वाच्यसिद्ध्यङ्गं यथा -
भ्रमिमरतिमलसहृदयतां प्रलयं मूर्छां तमः शरीरसादम्।
मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ।। 126 ।।
अत्र हालाहलं व्यङ्ग्यं भुजगरूपस्य वाच्यस्य सिद्धिकृत्। यथा वा -
गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते
किं त्वेवं विजनस्थयोर्हतजनः संभावयत्यन्यथा।
इत्यामन्त्रणभङ्गिसूचितवृथावस्थानखेदालसा-
माश्लिष्यन् पुलकोत्कराञ्चिततनुर्गोपीं हरिः पातु वः ।। 127 ।। (3)
अत्राच्युतादिपदव्यङ्ग्यमामन्त्रणेत्यादिवाच्यस्य।
एतच्चैकत्र, एकवक्तृगतत्वेन, अपरत्र भिन्नवक्तृगतत्वेनेत्यनयोर्भेदः।
अस्फुटं यथा -
अदृष्टे दर्शनोत्कण्ठा दृष्टे विच्छेदभीरुता।
नादृष्टेन न दृष्टेन भवता लभ्यते सुखम् ।। 128 ।। (4)
अत्रादृष्टो यथा न भवसि वियोगभयं च यथा नोत्पद्यते तथा कुर्या इति क्लिष्टम्। सन्दिग्धप्राधान्यं यथा -
हरस्तु किंचित्परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः।
उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ।। 129 ।। (5)
अत्र परिचुम्बितुमैच्छदिति किं प्रतीयमानम्, किं वा विलोचनव्यापारणं वाच्यं प्रधानमिति सन्देहः।
तुल्यप्राधान्यं यथा -
ब्राह्मणातिक्रमत्यागो भवतामेव भूतये।
जामदग्न्यस्तथा मित्रमन्यथा दुर्मनायते ।। 130 ।। (6)
अत्र जामदग्न्यः सर्वेषां क्षत्रियाणामिव रक्षसां क्षणात् क्षयं करिष्यतीनि व्यङ्ग्यस्य वाच्यस्य च समं प्राधान्यम्।
काक्वाक्षिप्तं यथा -
मथ्नामि कौरवशतं समरे न कोपाद्
दुःशासनस्य रुधिरं न पिबाम्युरस्तः।।
सञ्चूर्णयामि गदया न सुयोधनोरू
सन्धिं करोतु भवतां नृपतिः पणेन ।। 131 ।। (7)
अत्र मथ्नाम्येवेत्यादि व्यङ्ग्यं वाच्यनिषेधसहभावेन स्थितम्।
असुन्दरं यथा -
वाणीरकुडंगुड्डीणसउणिकोलाहलं सुणंतीए।
घरकम्मवावडाए बहुए सीअन्ति अंगाइं ।। 132 ।। (8)
(वानीरकुञ्जोड्डीनशकुनिकोलाहलं शृण्वन्त्याः।
गृहकर्मव्यापृताया वध्वाः सीदन्त्यङ्गानि।।)
अत्र दत्तसंकेतः कश्चिल्लतागहनं प्रविष्ट इति व्यङ्ग्यात् सीदन्त्यङ्गानीति वाच्यं सचमत्कारम्।।
(सूo 67) एषां भेदा यथायोगं वेदितव्याश्च पूर्ववत् ।।46।।
यथायोगमिति -
``व्यज्यन्ते वस्तुमात्रेण यदालङ्कृतयस्तदा।
ध्रुवं ध्वन्यङ्गता तासां काव्यवृत्तेस्तदाश्रयात्''
इति ध्वनिकारोक्तदिशा वस्तुमात्रेण यत्रालङ्कारो व्यज्यते न तत्र गुणीभूतव्यङ्ग्यत्वम्।
(सूo 68) सालङ्कारैर्ध्वनेस्तैश्च योगः संसृष्टिसंकरैः।
सालङ्कारैरिति तैरेवालङ्कारैः, अलङ्कारयुक्तैश्च तैः। तदुक्तं ध्वनिकृता -
``स गुणीभूतव्यङ्ग्यैः सालङ्कारैः सह प्रभेदैः स्वैः।
संकरसंसृष्टिभ्यां पुनरप्युद्द्योतते बहुधा।।'' इति।
(सूo 69) अन्योन्ययोगादेवं स्याद्भेदसंख्यातिभूयसी ।।47।।
एवम् अनेन प्रकारेण, अवान्तरभेदगणनेऽतिप्रभूततरा गणना। तथाहि - शृङ्गारस्यैव भेदप्रभेदगणनायामानन्त्यम्। का गणना तु सर्वैषाम्।
संकलनेन पुनरस्य ध्वनेस्त्रयो भेदाः। व्यङ्ग्यस्य त्रिरूपत्वात्। तथाहि- किंचिद्वाच्यतां सहते किञ्चित्त्वन्यथा। तत्र वाच्यतासहमविचित्रं विचित्रं चेति। अविचित्रं वस्तुमात्रम्। विचित्रं त्वलङ्काररूपम्। यद्यपि प्राधान्येन तदलङ्कार्यम् तथापि ब्राह्मणश्रमणन्यायेन तथोच्यते। रसादिलक्षणस्त्वर्थः स्वप्नेऽपि न वाच्यः। स हि रसादिशब्देन शृङ्गारादिशब्देन वाभिधीयेत। न चाभिधीयते। तत्प्रयोगेऽपि विभावाद्याप्रयोगे तस्याप्रतिपत्तेस्तदप्रयोगेऽपि विभावादिप्रयोगे तस्य प्रतिपत्तेश्चेत्यन्वयव्यतिरेकाभ्यां विभावाद्यभिधानद्वारेणैव प्रतीयते, इति निश्वीयते। तेनासौ व्यङ्ग्य एव। मुख्यार्थबाधाद्यभावान्न पुनर्लक्षणीयः।
अर्थान्तरसंक्रमितात्यन्ततिरस्कृतवाच्ययोर्वस्तुमात्ररूपं व्यङ्ग्यं विना लक्षणैव न भवतीति प्राक् प्रतिपादितम्। शब्दशक्तिमूले तु, अभिधाया नियन्त्रणेनानभिधेयस्यार्थान्तरस्य तेन सहोपमादेरलङ्कारस्य च निर्विवादं व्यङ्ग्यत्वम्।
अर्थशक्तिमूलेऽपि वेशेषे संकेतः कर्तुं न युज्यते, इति सामान्यरूपाणां पदार्थानामाकाङ्क्षासंनिधियोग्यतावशात्परस्परसंसर्गो यत्रापदार्थोऽपि विशेषरूपो वाक्यार्थस्तत्राभिहितान्वयवादे का वार्ता व्यङ्ग्यस्याभिधेयतायाम्। येऽप्याहुः -
``शब्दवृद्धाभिधेयांश्च प्रत्यक्षेणात्र पश्यति।
श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया ।।
अन्यथानुपपत्त्या तु बोधेच्छक्तिं द्वयात्मिकाम्।
अर्थापत्त्यावबोधेत संबन्धं त्रिप्रमाणकम् ।।
इति प्रतिपादितदिशा `देवदत्त गामानय' इत्याद्युत्तमवृद्धवाक्यप्रयोगाद्देशाद्देशान्तरं सास्नादिमन्तमर्थं मध्यमवृद्धे नयति सति' अनेनास्माद्वाक्यादेवंविधोऽर्थः प्रतिपन्नः' इति तच्चेष्टयानुमाय तयोरखण्डवाक्यवाक्यार्थयोरर्थापत्त्या वाच्यवाचकभावलक्षणं संबन्धमवधार्य बालस्तत्र व्युत्पद्यते। परतः `चैत्र गामानय, देवदत्त, अश्वमानय, देवदत्त गां नय' इत्यादिवाक्यप्रयोगे तस्य तस्य शब्दस्य तं तमर्थमवधारयतीति, अन्वयव्यतिरेकाभ्यां प्रवृत्तिनिवृत्तिकारि वाक्यमेव प्रयोगयोग्यमिति वाक्यस्थितानामेव पदानामन्वितैः पदार्थैरन्वितानामेव संकेतो गृह्यते इति विशिष्टा एव पदार्था वाक्यार्थः। न तु पदार्थानां वैशिष्ट्यम्। यद्यपि वाक्यान्तरप्रयुज्यमानान्यपि प्रत्यभिज्ञाप्रत्ययेन तान्येवैतानि पदानि निश्चीयन्ते, इति पदार्थान्तरमात्रेणान्वितः पदार्थः संकेतगोचरः, तथापि सामान्यावच्छादितो विशेषरूप एवासौ प्रतिपद्यते व्यतिषक्तानां पदार्थानां तथाभूतत्वादित्यन्विताभिधानवादिनः।
तेषामपि मते सामान्यविशेषरूपः पदार्थः संकेतविषय इत्यतिविशेषभूतो वाक्यार्थान्तर्गतोऽसंकेतितत्वादवाच्य एव यत्र पदार्थः प्रतिपद्यते तत्र दूरे, अर्थान्तरभूतस्य निःशेषच्युतेत्यादौ विध्यादेश्चर्चा।
अनन्वितोऽर्थोऽभिहितान्वये पदार्थान्तरमात्रेणान्वितस्त्वन्विताभिधाने, अन्वितविशेषस्त्ववाच्य एव इत्युभयनयेऽप्यपदार्थ एव वाक्यार्थः।
यदप्युच्यते `नैमित्तिकानुसारेण निमित्तानि कल्प्यन्ते' इति। तत्र निमित्तत्वं कारकत्वं ज्ञापकत्वं वा। शब्दस्य प्रकाशकत्वान्न कारकत्वम्। ज्ञापकत्वं तु-अज्ञातस्य कथम्। ज्ञातत्वं च संकेतेनैव स चान्वितमात्रे। एवं च निमित्तस्य नियतनिमित्तत्वं यावन्न निश्चितं तावन्नैमित्तिकस्य प्रतीतिरेव कथम् - इति `नैमित्तिकानुसारेण निमित्तानि कल्प्यन्ते' इत्यविचारिताभिधानम्।
ये त्वभिदधति `सोऽयमिषोरिव दीर्घदीर्घतरो व्यापारः' इति `यत्परः शब्दः स शब्दार्थः' इति च विधिरेवात्र वाच्य इति। तेऽप्यतात्पर्यज्ञास्तात्पर्यवाचोयुक्तेर्देवानांप्रियाः। तथाहि - `भूतभव्यसमुच्चारणे भूतं भव्यायोपदिश्यते' इति कारकपदार्थाः क्रियापदार्थेनान्वीयमानाः प्रधानक्रियानिर्वर्तकस्वक्रियाभिसंबन्धात् साध्यायमानतां प्राप्नुवन्ति। ततश्चादग्धदहनन्यायेन यावदप्राप्तं तावद्विधीयते। यथा-ऋत्विक्प्रचरणे प्रमाणान्तरात् सिद्धे ``लोहितोष्णीषा ऋत्विजः प्रचरन्ति'' इत्यत्र लोहितोष्णीषत्वमात्रं विधेयम्। हवनस्यान्यतः सिद्धेः ``दध्ना जुहोति'' इत्यादौ दध्यादेः करणत्वमात्रं विधेयम्। क्वचिदुभयविधिः। क्वचित्त्रिविधिरपि। यथा-`रक्तं पटं वयः' इत्यादौ, एकविधिर्द्विविधिस्त्रिविधिर्वा ततश्च `यदेव विधेयं तत्रैव तात्पर्यम्' इत्युपात्तस्यैव शब्दस्यार्थे तात्पर्यं न तु प्रतीतमात्रे। एवं हि `पूर्वो धावति' इत्यादावपराद्यर्थेऽपि क्वचित्तात्पर्यं स्यात्।
यत्तु `विषं भक्षय मा चास्य गृहे भुङ्क्थाः' इत्यत्र `एतद्गृहे न भोक्तव्यम्' इत्यत्र तात्पर्यमिति स एव वाक्यार्थ इति। उच्यते तत्र चकार एकवाक्यतासूचनार्थः। न चाख्यातवाक्ययोर्द्वयोरङ्गाङ्गिभाव इति विषभक्षणवाक्यस्य सुहृद्वाक्यत्वेनाङ्गता कल्पनीयेति `विषभक्षणादपि दुष्टमेतद्गृहे भोजनमिति सर्वथा मास्य गृहे भुङ्क्थाः' इति, उपात्तशब्दार्थे, एव तात्पर्यम्।
यदि चशब्दश्रुतेरनन्तरं यावानर्थो लभ्यते तावति शब्दस्याभिधैव व्यापारः, ततः कथं `ब्राह्मण पुत्रस्ते जातः, ब्राह्मण कन्या ते गर्भिणी' इत्यादौ हर्षशोकादीनामपि न वाच्यत्वम्। कस्माच्च लक्षणा लक्षणीयेऽप्यर्थे दीर्घदीर्घतराभिधाव्यापारेणैव प्रतीतिसिद्धेः। किमिति च श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां पूर्वपूर्वबलीयस्त्वम् इत्यन्विताभिधानवादेऽपि विधेरपि सिद्धं व्यङ्ग्चत्वम्।
किं च `कुरु रुचिम्' इति पदयोर्वैपरीत्ये काव्यान्तर्वर्तिनि कथं दुष्टत्वम्। न ह्यत्रासभ्योऽर्थः पदार्थान्तरैरन्वितः, इत्यनभिधेय एवेति, एवमादि, अपरित्याज्यं स्यात्।
यदि च वाच्यवाचकत्वव्यतिरेकेण व्यङ्ग्यव्यञ्जकभावो नाभ्युपेयते तदासाधुत्वादीनां नित्यदोषत्वं कष्टत्वादीनामनित्यदोषत्वमिति विभागकरणमनुपपन्नं स्यात्। न चानुपपन्नम्। सर्वस्यैव विभक्ततया प्रतिभासात्। वाच्यवाचकभावव्यतिरेकेण व्यङ्ग्यव्यञ्जकताश्रयणे तु व्यङ्ग्यस्य बहुविधत्वात् क्वचिदेव कस्यचिदेवौचित्येनोपपद्यत एव विभागव्यवस्था।
`द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः।'
इत्यादौ पिनाक्यादिपदवैलक्षण्येन किमिति कपाल्यादिपदानां काव्यानुगुणत्वम्।
अपि च वाच्योऽर्थः सर्वान् प्रतिपत्तृन् प्रति, एकरूप एवेति नियतोऽसौ। न हि `गतोऽस्तमर्कः'इत्यादौ वाच्योऽर्थः क्वचिदन्यथा भवति। प्रतीयमानस्तु तत्तत्प्रकरणवक्तृप्रतिपत्त्रादिविशेषसहायतया नानात्वं भजते। तथा च `गतोऽस्तमर्कः' इत्यतः सपत्नं प्रत्यवस्कन्दनावसर इति, अभिसरणमुपक्रम्यतामिति, प्राप्तप्रायस्ते प्रेयानिति कर्मकरणान्निवर्तामहे, इति सांध्यो विधिरुपक्रम्यतामिति, दूरं मा गा इति, सुरभयो गृहं प्रवेश्यन्तामिति, संतापोऽदुना न भवतीति, विक्रेयवस्तूनि संह्रियन्तामिति, नागतोऽद्यापि प्रेयानित्यादिरनवधिर्व्यङ्ग्योऽर्थः, तत्र तत्र प्रतिभाति।
वाच्यव्यङ्ग्ययोः निःशेषेत्यादौ निषेधविध्यात्मना,
``मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमुदाहरन्तु।
सेव्या नितम्बाः किमु भूधराणामुत स्मरस्मेरविलासिनीनाम् ।। 133 ।।''
इत्यादौ संशयशान्तशृङ्गार्यन्तरनिश्चयरूपेण,
``कथमवनिप दर्पो यन्निशातासिधारा-
दलनगलितमूर्ध्नां विद्विषां स्वीकृता श्रीः।
ननु तव निहतारेरप्यसौ किं न नीता
त्रिदिवमपगताङ्गैर्वल्लभा कीर्तिरेभिः ।। 134 ।।''
इत्यादौ निन्दास्तुतिवपुषा स्वरूपस्य,
पूर्वपश्चाद्भावेन प्रतीतेः कालस्य शब्दाश्रयत्वेन शब्दतदेकदेशतदर्थवर्णसंघटनाशयत्वेन च, आश्रयस्य शब्दानुशासनज्ञानेन प्रकरणादिसहायप्रतिभानैर्मल्यसहितेन तेन चावगम इति निमित्तस्य बोद्धृमात्रविदग्धव्यपदेशयोः प्रतीतिमात्रचमत्कृत्योश्च करणात् कार्यस्य गतोऽस्तमर्क इत्यादौ प्रदर्शितनयेन संख्यायाः,
``कस्स व ण होइ रोसो दट्ठूण पिआइ सव्वणं अहरं।
सभमरपडमग्घाइणि वारिअवामे सहसु एण्हिं ।। 135 ।।''
(कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः सव्रणमधरम्।
सभ्रमरपद्याघ्रायिणि वारितवामे सहस्वेदानीम्।।)
इत्यादौ सखीतत्कान्तादिगतत्वेन विषयस्य च भेदेऽपि यद्येकत्वं तत् क्वचिदपि नीलपीतादौ भेदो न स्यात्। उक्तं हि ``अयमेव हि भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यासः कारणभेदश्च'' इति।
वाचकानामर्थापेक्षा व्यञ्जकानां तु न तदपेक्षत्वमिति न वाचकत्वमेव व्यञ्जकत्वम्। किं च वाणीरकुडंग्वित्यादौ प्रतीयमानमर्थमभिव्यज्य वाच्यं स्वरूपे, एव यत्र विश्राम्यति तत्र गुणीभूतव्यङ्ग्येऽतात्पर्यभूतोऽप्यर्थः स्वशब्दानभिधेयः प्रतीतिपथमवतरन् कस्य व्यापारस्य विषयतामवलम्बतामिति।
ननु `रामोऽस्मि सर्वं सहे' इति `रामेण प्रियजीवितेन तु कृतं प्रेम्णः प्रिये नोचितम्' इति `रामोऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं पराम्' इत्यादौ लक्षणीयोऽप्यर्थो नानात्वं भजते विशेषव्यपदेशहेतुश्च भवति तदवगमश्च शब्दार्थायत्तः प्रकरणादिसव्यपेक्षश्चेति कोऽयं नूतनः प्रतीयमानो नाम। उच्यते--लक्षणीयस्यार्थस्य नानात्वेऽपि, अनेकार्थशब्दाभिधेयवन्नियतत्वमेव। न खलु मुख्येनार्थेनानियतसंबन्धो लक्षयितुं शक्यते। प्रतीयमानस्तु प्रकरणादिविशेषवशेन नियतसंबन्धः, अनियतसंबन्धः संबद्धसंबन्धश्च द्योत्यते।
न च
``अत्ता एत्थ णिमञ्जइ एत्थ अहं दिअहए पलोएहि।
मा पहिअ रत्तिअन्धअ सेज्जाए मह णिमज्जहिसि ।। 136 ।।''
इत्यादौ विवक्षितान्यपरवाच्ये ध्वनौ मुख्यार्थबाधः। तत्कथमत्र लक्षणा। लक्षणायामपि व्यञ्जनमवश्यमाश्रयितव्यमिति प्रतिपादितम्। यथा च समयसव्यपेक्षा, अभिधा तथा मुख्यार्थबाधादित्रयसमयविशेषसव्यपेक्षा लक्षणा, अत एवाभिधापुच्छभूता सेत्याहुः।
न च लक्षणात्मकमेव ध्वननम्। तदनुगमेन तस्य दर्शनात्। न च तदनुगतमेव, अभिधावलम्बनेनापि तस्य भावात्। न चोभयानुसार्येव, अवाचकवर्णानुसारेणापि तस्य दृष्टेः, न च शब्दानुसार्येव, अशब्दात्मकनेत्रत्रिभागावलोकनादिगतत्वेनापि तस्य प्रसिद्धेरिति, अभिधातात्पर्यलक्षणात्मकव्यापारत्रयातिवर्ती ध्वननादिपर्यायो व्यापारोऽनपह्नवनीय एव।
तत्र ``अत्ता, एत्थ'' इत्यादौ नियतसंबन्धः ``कस्स व ण होइ रोसो'' इत्यादौ, अनियतसंबन्धः।
``विपरीअरए लच्छी बम्हं दट्ठूण णाहिकमलठ्ठं।
हरिणो दाहिणणअणं रसाउला झत्ति ढक्केइ ।। 137 ।।''
(विपरीतरते लक्ष्मीर्ब्रह्माणं दृष्ट्वा नाभिकमलस्थम्।
हरेर्दक्षिणनयनं रसाकुला झटिति स्थगयति।।)
इत्यादौ संबद्धसंबन्धः। अत्र हि हरिपदेन दक्षिणनयनस्य सूर्यात्मकता व्यज्यते। तन्निमीलनेन सूर्यास्तमयः, तेन पद्मस्य संकोचः, ततो ब्रह्मणः स्थगनम्। तत्र सति गोप्याङ्गस्यादर्शनेन, अनिर्यन्त्रणं निधुवनविलसितमिति।
`अखण्डबुद्धिनिर्ग्राह्यो वाक्यार्थ एव वाच्यः, वाक्यमेव च वाचकम्' इति येऽप्याहुः, तैरप्यविद्यापदपतितैः पदपदार्थकल्पना कर्तव्यैवेति तत्पक्षेऽप्यवश्यमुक्तोदाहरणादौ विध्यादिर्व्यङ्ग्य एव।
ननु वाच्यादसंबद्धं तावन्न प्रतीयते यतः कुतश्चित् यस्य कस्यचिदर्थस्य प्रतीतेः प्रसङ्गात्। एवं च संबन्धात् व्यङ्ग्यव्यञ्जकभावोऽप्रतिबन्धेऽवश्यं न भवतीति व्याप्तत्वेन नियतधर्मिनिष्ठत्वेन च त्रिरूपाल्लिङ्गाल्लिङ्गिज्ञानमनुमानं यत् तद्रूपः पर्यवस्यति। तथाहि--
``भम धम्मिअ वीसद्धो सो सुणओ अज्ज मारिओ तेण।
गोलाणइकच्छकुडंगवासिणा दरिअसीहेण ।। 138 ।।''
(भ्रम धार्मिक विश्रब्धः स शुनकोद्य मारितस्तेन।
गोदानदीकच्छनिकुञ्चवासिना दृप्तसिंहेन।।)
अत्र गृहे श्वनिवृत्त्या भ्रमणं विहितं गोदावरीतीरे सिंहोपलब्धेरभ्रमणमनुमापयति।
यत् यत् भीरुभ्रमणं तत्तद्भयकारणनिवृत्त्युपलब्धिपूर्वकं गोदावरीतीरे च सिंहोपलब्धिरिति व्यापकविरुद्धोपलब्धिः।
अत्रोच्यते--भीरुरपि गुरोः प्रभोर्वा निदेशेन प्रियानुरागेण, अन्येन चैवंभूतेन हेतुना सत्यपि भयकारणे भ्रमतीत्यनैकान्तिको हेतुः शुनो बिभ्यदपि वीरत्वेन सिंहान्न बिभेतीति विरुद्धोऽपि गोदावरीतीरे सिंहसद्भावः प्रत्यक्षादनुमानाद्वा न निश्चितः, अपि तु वचनात्। न च वचनस्य प्रामाण्यमस्ति, अर्थेनाप्रतिबन्धादित्यसिद्धश्च तत्कथमेवंविधाद्धेतोः साध्यसिद्धिः। तथा निःशेषच्युतेत्यादौ गमकतया यानि चन्दनच्यवनादीन्युपात्तानि तानि कारणान्तरतोऽपि भवन्ति, अतश्चात्रैव स्नानकार्यत्वेनोक्तानीति नोपभोगे, एव प्रतिबद्धानीत्यनैकान्तिकानि।
व्यक्तिवादिना चाधमपदसहायानामेषां व्यञ्जकत्वमुक्तम्। न चात्राधमत्वं प्रमाणप्रतिपन्नमिति कथमनुमानम्। एवंविधादर्थादेवंविधोऽर्थ उपपत्त्यनपेक्षत्वेऽपि प्रकाशते, इति व्यक्तिवादिनः पुनस्तत् अदूषणम्।।
।। इति काव्यप्रकाशे धवनिगुणीभूतव्यङ्ग्यसंकीर्णभेदनिर्णयो नाम पञ्चम उल्लासः ।। 5 ।।
।। श्रीः ।।
मम्मटाचार्यविरचितः
काव्यप्रकाशः
।। अथ षष्ठ उल्लासः ।।
(सूo 70) शब्दार्थचित्रं यत्पूर्वं काव्यद्वयमुदाहृतम्।
गुणप्राधान्यतस्तत्र स्थितिश्चित्रार्थशब्दयोः ।।48।।
न तु शब्दचित्रेऽर्थस्याचित्रत्वम्। अर्थचित्रे वा शब्दस्य।
तथा चोक्तम् -
``रूपकादिरलङ्कारस्तस्यान्यैर्बहुधोदितः।
न कान्तमपि निर्भूषं विभाति वनिताननम्।।
रूपकादिमलङ्कारं बाह्यमाचक्षते परे।
सुपां तिङां च व्युत्पत्तिं वाचां वाञ्छन्त्यलंकृतिम्।।
तदेतदाहुः सौशब्द्यं नार्थव्युत्पत्तिरीदृशी।
शब्दाभिधेयालङ्कारभेदादिष्टं द्वयं तु नः ।।'' इति ।।
शब्दचित्रं यथा -
प्रथममरुणच्छायस्तावत्ततः कनकप्रभ-
स्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः।
उदयति ततो ध्वान्तध्वंसक्षमः क्षणदामुखे
सरसबिसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः ।। 139 ।।
अर्थचित्रं यथा
ते दृष्टिमात्रपतिता अपि कस्य नात्र क्षोभाय पक्ष्मलदृशामलकाः खलाश्च।
नीयाः सदैव सविलासमलीकलग्ना ये कालतां कुटिलतामिव न त्यजन्ति ।। 140 ।।
यद्यपि सर्वत्र काव्येऽन्ततः, विभावादिरूपतयैव पर्यवसानम्। तथापि स्फुटस्य रसस्यानुपलम्भादव्यङ्ग्यमेतत्काव्यद्वयमुक्तम्। अत्र च शब्दार्थालङ्कारभेदाद्बहवो भेदाः, ते चालङ्कारनिर्णये निर्णेष्यन्ते।।
।। इति काव्यप्रकाशे शब्दार्थचित्रनिरूपणं नाम षष्ठ उल्लासः ।।6।।
।। श्रीः ।।
मम्मटाचार्यविरचितः
काव्यप्रकाशः
।। अथ सप्तम उल्लासः ।।
काव्यस्वरूपं निरूप्य दोषाणां सामान्यलक्षणमाह-
(सूo 71) मुख्यार्थहतिर्दोषो रसश्च मुख्यस्तदाश्रयाद्वाच्यः।
उभयोपयोगिनः स्युः शब्दाद्यास्तेन तेष्वपि सः ।।49।।
हतिरपकर्षः। शब्दाद्या, इत्याद्यग्रहणाद्वर्णरचने।
विशेषलक्षणमाह-
(सुo 72) दुष्टं पदं श्रुतिकटु च्युतसंस्कृत्यप्रयुक्तमसमर्थम्।
निहतार्थमनुचितार्थं निरर्थकमवाचकं त्रिधाऽश्लीलम् ।।50।।
सन्दिग्धमप्रतीतं ग्राम्यं नेयार्थमथ भवेत्क्लिष्टम्।
अविमृष्टविधेयांशं विरुद्धमतिकृत्समासगतमेव ।।51।।
(1) `श्रुतिकटु' परुषवर्णरूपं दुष्टं यथा-
अनङ्गमङ्गलगृहापाङ्गभङ्गितरङ्गितैः।
आलिङ्गितः स तन्वङ्ग्या कार्तार्थ्यं लभते कदा ।। 141 ।।
अत्र कार्तार्थ्यमिति।।
(2) `च्युतसंस्कृति' व्याकरणलक्षणहीनं यथा-
एतन्मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डर-
प्रान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते।
तत्पल्लीपतिपुत्रि कुञ्जरकुलं कुम्भाभयाभ्यर्थना-
दीनं त्वामनुनाथते कुचयुगं पत्रावृतं मा कृथाः ।। 142 ।।
अत्रानुनाथते, इति। `सर्पिषो नाथते' इत्यादाविवाशिष्येव नाथतेरात्मनेपदं विहितम् ``आशिषि नाथः'' इति। अत्र तु याचनमर्थः। तस्मात् `अनुनाथति स्तनयुगम्' इति पठनीयम्।
(3) `अप्रयुक्तं' तथाऽऽम्नातमपि कविभिर्नादृतम्। यथा
यथाऽयं दारुणाचारः सर्वदैव विभाव्यते।
तथा मन्ये दैवतोऽस्य पिशाचो राक्षसोऽथ वा ।। 143 ।।
अत्र दैवतशब्दो ``दैवतानि पुंसि वा' इति पुंस्याम्नातोऽपि न केनचित्प्रयुज्यते।
(4) `असमर्थं' यत्तदर्थं पठ्यते न च तत्रास्य शक्तिः। यथा
तीर्थान्तरेषु स्नानेन समुपार्जितसत्कृतिः।
सुरस्रोतस्विनीमेष हन्ति संप्रति सादरम् ।। 144 ।।
अत्र हन्तीति गमनार्थम्।।
(5) `निहतार्थं' यदुभयार्थमप्रसिद्धेऽर्थे प्रयुक्तम्। यथा
यावकरसार्द्रपादप्रहारशोणितकचेन दयितेन।
मुग्धा साध्वसतरला विलोक्य परिरभ्य चुम्बिता सहसा ।। 145 ।।
अत्र शोणितशब्दस्य रुधिरलक्षणेनार्थेनोज्ज्वलीकृतत्वरूपोऽर्थो व्यवधीयते।
(6) `अनुचितार्थं' यथा-
तपस्विभिर्या सुचिरेण लभ्यते प्रयत्नतः सत्रिभिरिष्यते च या।
प्रयान्ति तामाशु गतिं यशस्विनो रणाश्वमेधे पशुतामुपागताः ।। 146 ।।
अत्र पशुपदं कातरतामभिव्यनक्तीत्यनुचितार्थम्।।
(7) `निरर्थकं' पादपूरणमात्रप्रयोजनं चादिपदम्। यथा
उत्फुल्लकमलकेसरपरागगौरद्युते मम हि गौरि।
अभिवाञ्छितं प्रसिध्यतु भगवति युष्मत्प्रसादेन ।। 147 ।।
अत्र हिशब्दः।।
(8) `अवाचकं' यथा
अवन्धयकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः।
अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः ।। 148 ।।
अत्र जन्तुपदमदातर्यर्थे विवक्षितम् तत्र च नाभिधायकम्। यथा वा
हा धिक्सा किल तामसी शशिमुखी दृष्टा मया यत्र सा
तद्विच्छेदरुजान्धकारितमिदं दग्धं दिनं कल्पितम्।
किं कुर्मः कुशले सदैव विधुरो धाता न चेत्तत्कथं
तादृग्यामवतीमयो भवति मे नो जीवलोकोऽधुना ।। 149 ।।
अत्र दिनमिति प्रकाशमयमित्यर्थेऽवाचकम्।
यच्चोपसर्गसंसर्गादर्थान्तरगतम्। यथा-
जङ्घाकाण्डोरुनालो नखकिरणलसत्केसरालीकरालः
प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जुमञ्जीरभृङ्गः।
भर्तुर्नृत्तानुकारे जयति निजतनुस्वच्छलावण्यवापी-
संभूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः ।। 150 ।।
अत्र दधदित्यर्थे विदधदिति।।
(9) `अश्लीलम्' त्रिधेति व्रीडाजुगुप्सामङ्गलव्यञ्जकत्वात्। यथा
साधनं सुमहद्यस्य यन्नान्यस्य विलोक्यते।
तस्य धीशालिनः कोऽन्यः सहेतारालितां भ्रुवम् ।। 151 ।। (1)
लीलातामरसाहतोऽन्यवनितानिःशङ्कदष्टाधरः
कश्चित्केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थितः।
मुग्धा कुड्मलिताननेन ददती वायुं स्थिता तस्य सा
भ्रान्त्या धूर्ततयाऽथवा नतिमृते तेनानिशं चुम्बिता ।। 152 ।। (2)
मृदुपवनविभिन्नो मत्प्रियाया विनाशात्
घनरुचिरकलापो निःसपत्नोऽद्य जातः।
रतिविगलितबन्धे केशपाशे सुकेश्याः
सति कुसुमसनाथे कं हरेदेष बर्ही ।। 153 ।। (3)
एषु साधनवायुविनाशशब्दा, व्रीडादिव्यञ्जकाः।।
(10) `सन्दिग्धं' यथा-
आलिङ्गितस्तत्रभवान्सम्पराये जयश्रिया।
आशीःपरम्परां वन्द्यां कर्णे कृत्वा कृपां कुरु ।। 154 ।।
अत्र वन्द्यां किं हठहृतमहिलायां किं वा नमस्यामिति सन्देहः।।
(11) `अप्रतीतं' यत्केवले शास्त्रे प्रसिद्धम्। यथा
सम्यग्ज्ञानमहाज्योतिर्दलिताशयताजुषः।
विधीयमानमप्येतन्न भवेत्कर्म बन्धनम् ।। 155 ।।
अत्राऽऽशयशब्दो वासनापर्यायो योगशास्त्रादावेव प्रसिद्धः।।
(12) `ग्राम्यं' यत्केवले लोके स्थितम्। यथा
राकाविभावरीकान्तसङ्क्रान्तद्युति ते मुखम्।
तपनीयशिलाशोभा कटिश्च हरते मनः ।। 156 ।।
अत्र कटिरिति।।
(13) `नेयार्थं' ``निरूढा लक्षणाः काश्चित् सामर्थ्यादभिधानवत्। क्रियन्ते साम्प्रतं काश्चित् काश्चिन्नैव त्वशक्तितः।।'' इति यन्निषिद्धं लाक्षणिकम्। यथा
शरत्कालसमुल्लासिपूर्णिमाशर्वरीप्रियम्।
करोति ते मुखं तन्वि चपेटापातनातिथिम् ।। 157 ।।
अत्र चपेटापातनेन निर्जितत्वं लक्ष्यते।।
अथ समासगतमेव दुष्टमिति सम्बन्धः, अन्यत् केवलं समासगतं च।।
(14) `क्लिष्टं' यतः, अर्थप्रतिपत्तिर्व्यवहिता। यथा
अत्रिलोचनसम्भूतज्योतिरुद्गमभासिभिः।
सदृशं शोभतेऽत्यर्थं भूपाल तव चेष्टितम् ।। 158 ।।
अत्रात्रिलोचनसम्भूतस्य चन्द्रस्य ज्योतिरुद्गमेन भासिभिः कुमुदैरित्यर्थः।।
(15) `अविमृष्टविधेयांशं' अविमृष्टः प्राधान्येनानिर्दिष्टो विधेयांशो यत्र तत्। यथा- मूर्ध्नामुद्वृत्तकृत्ताविरलगलगलद्रक्तसंसक्तधारा-
धौतेशाङ्घ्रिप्रसादोपनतजयजगज्जातमिथ्यामहिम्नाम्।
कैलासोल्लासनेच्छाव्यतिकरपिशुनोत्सर्पिदर्पोद्धुराणां
दोष्णां चैषां किमेतत्फलमिह नगरीरक्षणे यत्प्रयासः ।। 159 ।।
अत्र मिथ्यामहिमत्वं नानुवाद्यम् अपि तु विधेयम्। यथा वा,
स्रस्तां नितम्बादवरोपयन्ती पुनः पुनः केसरदामकाञ्चीम्।
न्यासीकृतां स्थानविदा स्मरेण द्वितीयमौर्वीमिव कार्मुकस्य ।। 160 ।।
अत्र द्वितीयत्वमात्रमुत्प्रेक्ष्यम्। मौर्वीं द्वितीयामिति युक्तः पाठः। यथा वा,
वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु।
वरेषु यद्बालमृगाक्षि मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने ।। 161 ।।
अत्र `अलक्षिता जनिः' इति वाच्यम्। यथा वा,
आनन्दसिन्धुरतिचापलशालिचित्तसंदाननैकसदनं क्षणमप्यमुक्ता।
या सर्वदैव भवता तदुदन्तचिन्ता तान्तिं तनोति तव सम्प्रति धिग्धिगस्मान् ।। 162 ।।
अत्र `न मुक्ता' इति निषेधो विधेयः। यथा-
नवजलधरः संनद्धोऽयं न दृप्तनिशाचरः
सुरधनुरिदं दूराकृष्टं न तस्य शरासनम्।
अयमपि पटुर्धारासारो न बाणपरम्परा
कनकनिकषस्निग्धा विद्युत्प्रिया न ममोर्वशी ।। 163 ।।
इत्यत्र। न त्वमुक्ततानुवादेनान्यदत्र किञ्चिद्विहितम्। यथा
जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः।
अगृध्नुराददे सोऽर्थानसक्तः सुखमन्वभूत् ।। 164 ।।
इत्यत्रात्रस्तत्वाद्यनुवादेनाऽऽत्मनो गोपनादि।।
(16) `विरुद्धमतिकृत्' यथा-
सुधाकरकराकारविशारदविचेष्टितः।
अकार्यमित्रमेकोऽसौ तस्य किं वर्णयामहे ।। 165 ।।
अत्र `कार्यं विना मित्रम्' इति विवक्षितम्। `अकार्येषु मित्रम् इति' तु प्रतीतिः। यथा वा
चिरकालपरिप्राप्तलोचनानन्ददायिनः।
कान्ता कान्तस्य सहसा विदधाति गलग्रहम् ।। 166 ।।
अत्र `कण्ठग्रहम्' इति वाच्यम्। यथा वा-
न त्रस्तं यदि नाम भूतकरुणासन्तानशान्तात्मनः
तेन व्यारुजता धनुर्भगवतो देवाद्भवानीपतेः।
तत्पुत्रस्तु मदान्धतारकवधाद्विश्वस्य दत्तोत्सवः
स्कन्दः स्कन्द इव प्रियोऽहमथवा शिष्यः कथं विस्मृतः ।। 167 ।।
अत्र भवानीपतिशब्दो भवान्याः पत्यन्तरे प्रतीतिं करोति। इन्द्रवरुणभवेत्यादिना पुंयोगान्ङीप्प्रत्ययेन भवस्य पत्नी भवानी। यथा वा-
गोरपि यद्वाहनतां प्राप्तवतः सोऽपि गिरिसुतासिंहः।
सविधे निरहङ्कारः पायाद्वः सोऽम्बिकारमणः ।। 168 ।।
अत्राम्बिकारमण इति विरुद्धां धियमुत्पादयति।।
`श्रुतिकटु' समासगतं यथा-
सा दूरे च सुधासान्द्रतरङ्गितविलोचना।
बर्हिनिर्ह्रादनार्होऽयं कालश्च समुपागतः ।। 169 ।।
एवमन्यदपि ज्ञेयम्।।
(सूo 47) अपास्य च्युतसंस्कारमसमर्थं निरर्थकम्।
वाक्येऽपि दोषाः सन्त्येते पदस्यांशेऽपि केचन ।।52।।
केचन न पुनः सर्वे। क्रमेणोदाहरणम्
सोऽध्यैष्ट वेदांस्त्रिदशानयष्ट पितॄनतार्प्सीत्सममंस्त बन्धून्।
व्यजेष्ट षड्वर्गमरंस्त नीतौ समूलघातं न्यवधीदरींश्च ।। 170 ।।
स रातु वो दुश्च्यवनो भावुकानां परम्पराम्।
अनेडमूकताद्यैश्च द्यतु दोषैरसम्मतान् ।। 171 ।।
अत्र दुश्च्यवन इन्द्रः, अनेडमूको मूकबधिरः।।
सायकसहायबाहोर्मकरध्वजनियमितक्षमाधिपतेः।
अब्जरुचिभास्वरस्ते भातितरामवनिप श्लोकः ।। 172 ।।
अत्र सायकादयः शब्दाः खड्गाब्धिभूचन्द्रयशःपर्यायाः शराद्यर्थतया प्रसिद्धाः।।
कुविन्दस्त्वं तावत्पटयसि गुणग्राममभितो
यशो गायन्त्येते दिशि दिशि च नग्नास्तव विभो।
शरज्ज्योत्स्नागौरस्फुटविकटसर्वाङ्गसुभगा
तथापि त्वत्कीर्तिर्भ्रमति विगताच्छादनमिह ।। 173 ।।
अत्र कुविन्दादिशब्दोऽर्थान्तरं प्रतिपादयन्नुपश्लोक्यमानस्य तिरस्कारं व्यनक्तीत्यनुचितार्थः।
प्राभ्रभ्राड्विष्णुधामाप्य विषमाश्वः करोत्ययम्।
निद्रां सहस्रपर्णानां पलायनपरायणाम् ।। 174 ।।
अत्र प्राभ्रभ्राड्विष्णुधामविषमाश्वनिद्रापर्णशब्दाः प्रकृष्टजलदगगनसप्ताश्वसङ्कोचदलानामवाचकाः।।
भूपतेरुपसर्पन्ती कम्पना वामलोचना।
तत्तत्प्रहरणोत्साहवती मोहनमादधौ ।। 175 ।।
अत्रोपसर्पणप्रहरणमोहनशब्दा व्रीडादायित्वादश्लीलाः।
तेऽन्यैर्वान्तं समश्नन्ति परोत्सर्गञ्च भुञ्जते।
इतरार्थग्रहे येषां कवीनां स्यात्प्रवर्तनम् ।। 176 ।।
अत्र वान्तोत्सर्गप्रवर्तनशब्दा जुगुप्सादायिनः।
पितृवसतिमहं व्रजामि तां सह परिवारजनेन यत्र मे।
भवति सपदि पावकान्वये हृदयमशेषितशोकशल्यकम् ।। 177 ।।
अत्र पितृगृहमित्यादौ विवक्षिते श्मशानादिप्रतीतावमङ्गलार्थम्।।
सुरालयोल्लासपरः प्राप्तपर्याप्तकम्पनः।
मार्गणप्रवणो भास्वद्भूतिरेष विलोक्यताम् ।। 178 ।।
अत्र किं सुरादिशब्दा देवसेनाशरविभूत्यर्थाः किं मदिराद्यर्था, इति सन्देहः।।
तस्याधिमात्रोपायस्य तीव्रसंवेगताजुषः।
दृढभूमिः प्रियप्राप्तौ यत्नः स फलितः सखे ।। 179 ।।
अत्राधिमात्रोपायादयः शब्दा योगशास्त्रमात्रप्रयुक्तत्वादप्रतीताः।।
ताम्बूलभृतगल्लोऽयं भल्लं जल्पति मानुषः।
करोति खादनं पानं सदैव तु यथा तथा ।। 180 ।।
अत्र गल्लादयः शब्दाः ग्राम्याः।।
वस्त्रवैदूर्यचरणैः क्षतसत्त्वरजःपरा।
निष्कम्पा रचिता नेत्रयुद्धं वेदय साम्प्रतम् ।। 181 ।।
अत्राम्बररत्नपादैः क्षततमा, अचला भूः कृता नेत्रद्वन्द्वं बोधयेति नेयार्थता।।
धम्मिल्लस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशावाक्ष्याः।
रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम् ।। 182 ।।
अत्र धम्मिल्लस्य शोभां प्रेक्ष्य कस्य मानसं न रज्यतीति संबन्धे क्लिष्टत्वम्।।
न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः
सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः।
धिग्धिक् शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा
स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ।। 183 ।।
अत्र `अयमेव न्यक्कारः' इति वाच्यम्। उच्छूनत्वमात्रं चानुवाद्यं, न वृथात्वविशेषितम्। अत्र च शब्दरचना विपरीता कृतेति वाक्यस्यैव दोषो न वाक्यार्थस्य।
यथा वा-
अपाङ्गसंसर्गितरङ्गितं दृशोर्भ्रुवोररालान्तविलासि वेल्लितम्।
विसारिरोमाञ्चनकञ्चुकं तनोस्तनोति योऽसौ सुभगे तवागतः ।। 184 ।।
अत्र योऽसाविति पदद्वयमनुवाद्यमात्रप्रतीतिकृत्।
तथाहि--प्रक्रान्तप्रसिद्धानुभूतार्थविषयस्तच्छब्दो यच्छब्दोपादानं नापेक्षते।
क्रमेणोदाहरणम्-
कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम्।
अतः सिद्धिं समेताभ्यामुभाभ्यामन्वियेष सः ।। 185 ।।
द्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया कपालिनः।
कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ।। 186 ।।
उत्कम्पिनी भयपरिस्खलितांशुकान्ता ते लोचने प्रतिदिशं विधुरे क्षिपन्ती।
क्रूरेण दारुणतया सहसैव दग्धा धूमान्धितेन दहनेन न वीक्षितासि ।। 187 ।।
यच्छब्दस्तूत्तरवाक्यानुगतत्वेनोपात्तः सामर्थ्यात्पूर्ववाक्यानुगतस्य तच्छब्दस्योपादानं नापेक्षते। यथा
साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताधिके।
उद्यता जयिनि कामिनीमुखे तेन साहसमनुष्ठितं पुनः ।। 188 ।।
प्रागुपात्तस्तु यच्छब्दस्तच्छब्दोपादानं विना साकाङ्क्षः। यथा अत्रैव श्लोके, आद्यपादयोर्व्यत्यासे। द्वयोरुपादाने तु निराकाङ्क्षत्वं प्रसिद्धम्। अनुपादानेऽपि सामर्थ्यात्कुत्रचिद्द्वयमपि गम्यते। यथा
ये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्ति ते किमपि तान् प्रति नैष यत्नः।
उत्पत्स्यतेऽस्ति मम कोऽपि समानधर्मा कालो ह्ययं निरवधिर्विपुला च पृथ्वी ।। 189 ।।
अत्र य उत्पत्स्यते तं प्रतीति।
एवं च तच्छब्दानुपादानेऽत्र साकाङ्क्षत्वम्। न चासाविति तच्छब्दार्थमाह।
असौ मरुच्चुम्बितचारुकेसरः प्रसन्नताराधिपमण्डलाग्रणीः।
वियुक्तरामातुरदृष्टिवीक्षितो वसन्तकालो हनुमानिवागतः ।। 190 ।।
अत्र हि न तच्छब्दार्थप्रतीतिः।
प्रतीतौ वा
करकालकरालदोःसहायो युधि योऽसौ विजयार्जुनैकमल्लः।
यदि भूपतिना स तत्र कार्ये विनियुज्येत ततः कृतं कृतं स्यात् ।। 191 ।।
अत्र स इत्यस्यानर्थक्यं स्यात्।
अथ-
योऽविकल्पमिदमर्थमण्डलं पश्यतीश निखिलं भवद्वपुः।
आत्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम् ।। 192 ।।
इतीदंशब्दवददःशब्दस्तच्छब्दार्थमभिधत्ते, इति, उच्यते। तर्ह्यत्रैव वाक्यान्तरे, उपादानमर्हति न तत्रैव। यच्छब्दस्य हि निकटे स्थितः प्रसिद्धिं परामृशति। यथा-
यत्तदूर्जितमत्युग्रं क्षात्रं तेजोऽस्य भूपतेः।
दीव्यताऽक्षैस्तदानेन नूनं तदपि हारितम् ।। 193 ।।
इत्यत्र तच्छब्दः।
ननु कथम्-
कल्याणानां त्वमसि महसां भाजनं विश्वमूर्ते!
धुर्यां लक्ष्मीमथ मयि भृशं धेहि देव! प्रसीद।
यद्यत्पापं प्रतिजहि जगन्नाथ! नम्रस्य तन्मे
भद्रं भद्रं वितर भगवन्! भूयसे मङ्गलाय ।। 194 ।।
अत्र यद्यदित्युक्त्वा तन्मे, इत्युक्तम्। उच्यते--यद्यदिति येन केनचिद्रूपेण स्थितं सर्वात्मकं वस्त्वाक्षिप्तं तथाभूतमेव तच्छब्देन परामृश्यते।
यथा वा-
किं लोभेन विलङ्घितः स भरतो येनैतदेवं कृतं
मात्रा स्त्रीलघुतां गता किमथ वा मातैव मे मध्यमा।
मिथ्यैतन्मम चिन्तितं द्वितयमप्यार्यानुजोऽसौ गुरु-
र्माता तातकलत्रमित्यनुचितं मन्ये विधात्रा कृतम् ।। 195 ।।
अत्रार्यस्येति तातस्येति च वाच्यम्। न त्वनयोः समासे गुणीभावः कार्यः। एवं समासान्तरेऽप्युदाहार्यम्।।
विरुद्धमतिकृद्यथा-
श्रितक्षमा रक्तभुवः शिवालिङ्गितमूर्तयः।
विग्रहक्षपणेनाद्य शेरते ते गतासुखाः ।। 196 ।।
अत्र क्षमादिगुणयुक्ताः सुखमासते, इति विवक्षिते हता इति विरुद्धा प्रतीतिः।।
पदैकदेशे यथासंभवं क्रमेणोदाहरणम्-
अलमतिचपलत्वात्स्वप्नमायोपमत्वात्
परिणतिविरसत्वात्सङ्गमेनाङ्गनायाः।
इति यदि शतकृत्वस्तत्त्वमालोचयाम-
स्तदपि न हरिणाक्षीं विस्मरत्यन्तरात्मा ।। 197 ।।
अत्र त्वादिति। यथा वा-
तद्गच्छ सिद्ध्यै कुरु देवकार्यमर्थोऽयमर्थान्तरलभ्य एव।
अपेक्षते प्रत्ययमङ्गलब्ध्यै बीजाङ्कुरः प्रागुदयादिवाम्भः ।। 198 ।।
अत्र द्ध्यै ब्ध्यै, इति कटुः।।
यश्चाप्सरोविभ्रममण्डनानां सम्पादयित्रीं शिखरैर्बिभर्ति।
बलाहकच्छेदविभक्तरागामकालसन्ध्यामिव धातुमत्ताम् ।। 199 ।।
अत्र मत्ताशब्दः क्षीबार्थे निहतार्थः।।
आदावञ्जनपुञ्जलिप्तवपुषां श्वासानिलोल्लासित-
प्रोत्सर्पद्विरहानलेन च ततः सन्तापितानां दृशाम्।
सम्प्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो
भल्लीनामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा ।। 200 ।।
अत्र दृशामिति बहुवचनं निरर्थकम्। कुरङ्गेक्षणाया एकस्या एवोपादानात्। न चालसवलितैरित्यादिवत् व्यापारभेदाद्बहुत्वम्। व्यापाराणामनुपात्तत्वात्। न च व्यापारेऽत्र दृक्शब्दो वर्तते। अत्रैव `कुरुते' इत्यात्मनेपदमप्यनर्थकम्। प्रधानक्रियाफलस्य कर्त्रसम्बन्धे कर्त्रभिप्रायक्रियाफलाभावात्।।
चापाचार्यस्त्रिपुरविजयी कार्त्तिकेयो विजेयः
शस्त्रव्यस्तः सदनमुदधिर्भूरियं हन्तकारः।
अस्त्येवैतत् किमु कृतवता रेणुकाकण्ठबाधां
बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः ।। 201 ।।
अत्र विजेय इति कृत्यप्रत्ययः क्तप्रत्ययार्थेऽवाचकः।।
अतिपेलवमतिपरिमितवर्णं लघुतरमुदाहरति शठः।
परमार्थतः स हृदयं वहति पुनः कालकूटघटितमिव ।। 202 ।।
अत्र पेलवशब्दः।।
यः पूयते सुरसरिन्मुखतीर्थसार्थस्नानेन शास्त्रपरिशीलनकीलनेन।
सौजन्यमान्यजनिरूर्जितमूर्जितानां सोऽयं दृशोः पतति कस्यचिदेव पुंसः ।। 203 ।।
अत्र पूयशब्दः।।
विनयप्रणयैककेतनं सततं योऽभवदङ्ग! तादृशः।
कथमद्य स तद्वदीक्ष्यतां तदभिप्रेतपदं समागतः ।। 204 ।।
अथ प्रेतशब्दः।।
कस्मिन्कर्मणि सामर्थ्यमस्य नोत्तपतेतराम्।
अयं साधुचरस्तस्मादञ्जलिर्बध्यतामिह ।। 205 ।।
अत्र किं पूर्वं साधुः, उत साधुषु चरतीति सन्देहः।।
किमुच्यतेऽस्य भूपालमौलिमालामहामणेः।
सुदुर्लभं वचोबाणैस्तेजो यस्य विभाव्यते ।। 206 ।।
अत्र वचःशब्देन गीःशब्दो लक्ष्यते। अत्र खलु न केवलं पूर्वपदम्, यावदुत्तरपदमपि पर्यायपरिवर्तनं न क्षमते। जलध्यादावुत्तरपदमेव वडवानलादौ पूर्वपदमेव।।
यद्यप्यसमर्थस्यैवाप्रयुक्तादयः केचन भेदाः, तथाप्यन्यैरालङ्कारिकैर्विभागेन प्रदर्शिता इति भेदप्रदर्शनेनोदाहर्त्तव्या इति च विभज्योक्ताः।।
(सूo 75) प्रतिकूलवर्णमुपहतलुप्ताविसर्गं विसन्धि हतवृत्तम्।
न्यूनाधिककथितपदं पतत्प्रकर्षं समाप्तपुनरात्तम् ।।53।।
अर्धान्तरैकवाचकमभवन्मतयोगमनभिहितवाच्यम्।
अपदस्थपदसमासं सङ्कीर्णं गर्भितं प्रसिद्धिहतम् ।।54।।
भग्नप्रक्रममक्रमममतपरार्थं च वाक्यमेव तथा।
(1) रसानुगुणत्वं वर्णानां वक्ष्यते तद्विपरीतं प्रतिकूलवर्णम्। यथा शृङ्गारे
अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठि! माम्।
कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर ।। 207 ।।
रौर्दे यथा-
देशः सोऽयमरातिशोणितजलैर्यस्मिन्ह्रदाः पूरिताः
क्षत्त्रादेव तथाविधः परिभवस्तातस्य केशग्रहः।
तान्येवाहितहेतिघस्मरगुरूण्यस्त्राणि भास्वन्ति मे
यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः ।। 208 ।।
अत्र हि विकटवर्णत्वं दीर्घसमासत्वं चोचितम्। यथा-
प्रागप्राप्तनिशुम्भशाम्भवधनुर्द्वेधाविधाविर्भवत्-
क्रोधप्रेरितभीमभार्गवभुजस्तम्भापविद्धः क्षणात्।
उज्ज्वालः परशुर्भवत्वशिथिलस्त्वत्कण्ठपीठातिथि-
र्येनानेन जगत्सु खण्डपरशुर्देवो हरः ख्याप्यते ।। 209 ।।
यत्र तु न क्रोधस्तत्र चतुर्थपादाभिधाने तथैव शब्दप्रयोगः।।
(2) उपहत उत्वं प्राप्तो (3) लुप्तो वा विसर्गो यत्र तत्। यथा
धीरो विनीतो निपुणो वराकारो नृपोऽत्र सः।
यस्य भृत्या बलोत्सिक्ता भक्ता बुद्धिप्रभाविताः ।। 210 ।।
(4) विसन्धि सन्धेर्वैरूप्यं विश्लेषोऽश्लीलत्वं कष्टत्वं च। तत्राद्यं यथा-
राजन्विभान्ति भवतश्चरितानि तानि इन्दोर्द्युतिं दधति यानि रसातलेऽन्तः।
धीदोर्बले अतितते उचितानुवृत्ती आतन्वती विजयसम्पदमेत्य भातः ।। 211 ।।
यथा वा-
तत उदित उदारहारहारिद्युतिरुच्चैरुदयाचलादिवेन्दुः।
निजवंश उदात्तकान्तकान्तिर्बत मुक्तामणिवच्चकास्त्यनर्घः ।। 212 ।।
संहितां न करोमीति स्वेच्छया सकृदपि दोषः। प्रगृह्यादिहेतुकत्वे त्वसकृत्।।
वेगादुड्डीय गगने चलण्डामरचेष्टितः।
अयमुत्तपते पत्त्री ततोऽत्रैव रुचिङ्कुरु ।। 213 ।।
अत्र सन्धावश्लीलता।।
उर्व्यसावत्र तर्वाली मर्वन्ते चार्ववस्थितिः।
नात्रर्जु युज्यते गन्तुं शिरो नमय तन्मनाक् ।। 214 ।।
(4) हतं लक्षणाऽनुसरणेऽप्यश्रव्यम् अप्राप्तगुरुभावान्तलघु रसाननुगुणं च वृत्तं यत्र तत् हतवृत्तम्। क्रमेणोदाहरणम्--
अमृतममृतं कः सन्देहो मधून्यपि नान्यथा
मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम्।
सकृदपि पुनर्मध्यस्थः सन् रसान्तरविज्जनो
वदतु यदिहान्यत्स्वादु स्यात्प्रियादशनच्छदात् ।। 215 ।।
अत्र `यदिहान्यत्स्वादु स्यात्' इत्यश्रव्यम्। यथा वा-
जं परिहरिउं तीरइ मणअं पि ण सुन्दरत्तणगुणेण।
अह णवरँ जस्स दोसो पडिपक्खेहिं पि पडिवण्णो ।। 216 ।।
यत्परिहर्तुं तीर्यते मनागपि न सुन्दरत्वगुणेन ।
अथ केवलं यस्य दोषः प्रतिपक्षैरपि प्रतिपन्नः ।। अत्र द्वितीयतृतीयगणौ सकारभकारौ।
विकसितसहकारतारहारिपरिमलगुञ्जितपुञ्जितद्विरेफः।
नवकिसलयचारुचामरश्रीर्हरति मुनेरपि मानसं वसन्तः ।। 217 ।।
अत्र हारिशब्दः। हारिप्रमुदितसौरभेति पाठो युक्तः। यथा वा-
अन्यास्ता गुणरत्नरोहणभुवो धन्या मृदन्यैव सा
सम्भाराः खलु तेऽन्य एव विधिना यैरेष सृष्टो युवा।
श्रीमत्कान्तिजुषां द्विषां करतलात्स्त्रीणां नितम्बस्थलाद्
दृष्टे यत्र पतन्ति मूढमनसामस्त्राणि वस्त्राणि च।।218।। अत्र `वस्त्राण्यपि' इति पाठे लघुरपि गुरुतां भजते।
हा नृप ! हा बुध ! हा कविबन्धो ! विप्रसहस्रसमाश्रय ! देव !।
मुग्ध विदग्ध सभान्तररत्न क्वासि गतः क्व वयं च तवैते ।। 219 ।।
हास्यरसव्यञ्जकमेतद्वृत्तम्
(6) न्यूनपदं यथा-
तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां
वने व्याधैः सार्धं सुचिरमुषितं वल्कलधरैः।
विराटस्यावासे स्थितमनुचितारम्भनिभृतं
गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ।। 220 ।।
अत्रास्माभिरिति ``खिन्ने'' इत्यस्मात्पूर्वमित्थमिति च ।।
(7) अधिकं यथा-
स्फटिकाकृतिनिर्मलः प्रकामं प्रतिसङ्क्रान्तनिशातशास्त्रतत्त्वः।
अविरुद्धसमन्वितोक्तियुक्तिः प्रतिमल्लास्तमयोदयः स कोऽपि ।। 221 ।।
अत्राकृतिशब्दः। यथा वा-
इदमनुचितमक्रमश्च पुंसां यदिह जरास्वपि मान्मथा विकाराः।
यदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा ।। 222 ।।
अत्र कृतमिति। कृतं प्रत्युत प्रक्रमभङ्गमावहति। तथा च `यदपि च न कुरङ्गलोचनानाम्' इति पाठे निराकाङ्क्षैव प्रतीतिः।।
(8) कथितपदं यथा-
अधिकरतलतल्पं कल्पितस्वापलीला-
परिमिलननिमीलत्पाण्डिमा गण्डपाली।
सुतनु कथय कस्य व्यञ्जयत्यञ्जसैव
स्मरनरपतिलीलायौवराज्याभिषेकम् ।। 223 ।।
अत्र लीलेति।।
(9) पतत्प्रकर्षं यथा-
कः कः कुत्र न घुर्घुरायितघुरीघोरो घुरेत्सूकरः
कः कः कं कमलाकरं विकमलं कर्तुं करी नोद्यतः।
के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः
सिंहीस्नेहविलासबद्धवसतिः पञ्चाननो वर्तते ।। 224 ।।
(10) समाप्तपुनरात्तं यथा-
क्रेङ्कारः स्मरकार्मुकस्य सुरतक्रीडापिकीनां रवो
झङ्कारो रतिमञ्जरीमधुलिहां लीलाचकोरीध्वनिः।
तन्व्याः कञ्चुलिकापसारणभुजाक्षेपस्खलत्कङ्कण-
क्काणः प्रेम तनोतु वो नववयोलास्याय वेणुस्वनः ।। 225 ।।
(11) द्वितीयार्धगतैकवाचकशेषप्रथमार्धं यथा
मसृणचरणपातं गम्यतां भूः सदर्भा
विरचय सिचयान्तं मूर्ध्नि घर्मः कठोरः।
तदिति जनकपुत्री लोचनैरश्रुपूर्णैः
पथि पथिकवधूभिर्वीक्षिता शिक्षिता च ।। 226 ।।
(12) अभवन्मतः (इष्टः) योगः (संबन्धः) यत्र तत्। यथा-
येषां तास्त्रिदशेभदानसरितः पीताः प्रतापोष्मभि-
र्लीलापानभुवश्च नन्दनवनच्छायासु यैः कल्पिताः।
येषां हुंकृतयः कृतामरपतिक्षोभाः क्षपाचारिणां
किन्तैस्त्वत्परितोषकारि विहितं किञ्चित्प्रवादोचितम् ।। 227 ।।
अत्र ``गुणानां च परार्थत्वादसम्बन्धः समत्वात्स्यात्'' इत्युक्तनयेन यच्छब्दनिर्देश्यानामर्थानां परस्परमसमन्वयेन यैरित्यत्र विशेषस्याप्रतीतिरिति। `क्षपाचारिभिः' इति पाठे युज्यते समन्वयः।
यथा वा-
त्वमेवंसौन्दर्या स च रुचिरतायाः परिचितः
कलानां सीमानं परमिह युवामेव भजथः।
अपि द्वन्द्वं दिष्ट्या तदिति सुभगे संवदति वा-
मतः शेषं यत्स्याज्जितमिह तदानीं गुणितया ।। 228 ।।
अत्र यदित्यत्र तदिति तदानीमित्यत्र यदेति वचनं नास्ति। `चेत्स्यात्' इति युक्तः पाठः।
यथा वा-
सङ्ग्रामाङ्गणमागतेन भवता चापे समारोपिते
देवाकर्णय येन येन सहसा यद्यत्समासादितम्।
कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं
तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम् ।। 229 ।।
अत्राकर्णनक्रियाकर्मत्वे कोदण्डं शरानित्यादि वाक्यार्थस्य कर्मत्वे कोदण्डः शरा इति प्राप्तम्। न च यच्छब्दार्थस्तद्विशेषणं वा कोदण्डादि। न च केन केनेत्यादिप्रश्नः।
यथा वा-
चापाचार्यस्त्रिपुरविजयी कार्त्तिकेयो विजेयः
शस्त्रव्यस्तः सदनमुदधिर्भूरियं हन्तकारः।
अस्त्येवैतत् किमु कृतवता रेणुकाकण्ठबाधां
बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः ।। 230 ।।
इत्यादौ भार्गवस्य निन्दायां तात्पर्यम्। कृतवतेति परशौ सा प्रतीयते `कृतवतः' इति तु पाठे मतयोगो भवति। यथा वा-
चत्वारो वयमृत्विजः स भगवान्कर्मोपदेष्टा हरिः
सङ्ग्रामाध्वरदीक्षितो नरपतिः पत्नी गृहीतव्रता।
कौरव्याः पशवः प्रियापरिभवक्लेशोपशान्तिः फलं
राजन्योपनिमन्त्रणाय रसति स्फीतं हतो दुन्दुभिः ।। 231 ।।
अत्राध्वरशब्दः समासे गुणीभूत इति न तदर्थः सवैः संयुज्यते। यथा वा-
जङ्घाकाण्डोरुनालो नखकिरणलसत्केसरालीकरालः
प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जुमञ्जीरभृङ्गः।
भर्तुर्नृत्तानुकारे जयति निजतनुस्वच्छलावण्यवापी-
सम्भूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः ।। 232 ।।
अत्र दण्डपादगता निजतनुः प्रतीयते। भवान्याः सम्बन्धिनी तु विवक्षिता।।
(13) अवश्यवक्तव्यमनुक्तं यत्र। यथा-
अप्राकृतस्य चरितातिशयैश्च दृष्टैरत्यद्भुतैरपहृतस्य तथापि नास्था।
कोऽप्येष वीरशिशुकाकृतिरप्रमेयसौन्दर्यसारसमुदायमयः पदार्थः ।। 233 ।।
अत्र `अपहृतोऽस्मि' इत्यपहृतत्वस्य विधिर्वाच्यः, तथापीत्यस्य द्वितीयवाक्यगतत्वेनैवोपपत्तेः।
यथा वा-
एषोऽहमद्रितनयामुखपद्मजन्मा प्राप्तः सुरासुरमनोरथदूरवर्त्ती।
स्वप्नेऽनिरुद्धघटनाधिगताभिरूपलक्ष्भीफलामसुरराजसुतां विधाय ।। 234 ।।
अत्र मनोरथानामपि दूरवर्त्तीत्यप्यर्थो वाच्यः। यथा वा
त्वयि निबद्धरतेः प्रियवादिनः प्रणयभङ्गपराङ्मुखचेतसः।
कमपराधलवं मम पश्यसि त्यजसि मानिनि ! दासजनं यतः ।। 235 ।।
अत्र `अपराधस्य लवमपि' इति वाच्यम्।।
(14) अस्थानस्थपदं यथा-
प्रियेण संग्रथ्य विपक्षसन्निधावुपाहितां वक्षसि पीवरस्तने।
स्रजं न काचिद्विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुषु ।। 236 ।।
अत्र `काचिन्न विजहौ' इति वाच्यम्। यथा वा-
लग्नः केलिकचग्रहश्लथजटालम्बेन निद्रान्तरे
मुद्राङ्कः शितिकन्धरेन्दुशकलेनान्तःकपोलस्थलम्।
पार्वत्या नखलक्ष्मशङ्कितसखीनर्मस्मितह्रीतया
प्रोन्मृष्टः करपल्लवेन कुटिलाताम्रच्छविः पातु वः ।। 237 ।।
अत्र नखलक्ष्मेत्यतः पूर्वं `कुटिलताम्र' इति वाच्यम्।।
(15) अस्थानस्थसमासं यथा-
अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि
स्थातुं वाञ्छति मान एष धिगिति क्रोधादिवालोहितः।
प्रोद्यद्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणात्
फुल्लत्कैरवकोशनिःसरदलिश्रेणीकृपाणं शशी ।। 238 ।।
अत्र क्रुद्धस्योक्तौ समासो न कृतः कवेरुक्तौ तु कृतः।।
(16) सङ्कीर्णम्। यत्र वाक्यान्तरस्य पदानि वाक्यान्तरमनुप्रविशन्ति। यथा
किमिति न पश्यसि कोपं पादगतं बहुगुणं गृहाणेमम्।
ननु मुञ्च हृदयनाथं कण्ठे मनसस्तमोरूपम् ।। 239 ।।
अत्र पादगतं बहुगुणं हृदयनाथं किमिति न पश्यसि, इमं कण्ठे गृहाण मनसस्तमोरूपं कोपं मुञ्चेति। एकवाक्यतायां तु क्लिष्टमिति भेदः।।
(17) गार्भितं यत्र वाक्यस्य मध्ये वाक्यान्तरमनुप्रविशति। यथा-
परापकारनिरतैर्दुर्जनैः सह सङ्गतिः।
वदामि भवतस्तत्त्वं न विधेया कदाचन ।। 240 ।।
अत्र तृतीयपादो वाक्यान्तरमध्ये प्रविष्टः। यथा वा-
लग्नं रागावृताङ्ग्या सुदृढमिव ययैवासियष्ट्यारिकण्ठे
मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती।
तत्सक्तोऽयं न किञ्चिद्गणयति विदितं तेऽस्तु तेनास्मि दत्ता
भृत्येभ्यः श्रीनियोगाद्गदितुमिव गतेत्यम्बुधिं यस्य कीर्तिः ।। 241 ।।
अत्र `विदितं तेऽस्तु' इत्येतत्कृतम्। प्रत्युत लक्ष्मीस्ततोऽपसरतीति विरुद्धमतिकृत्।।
(18) ``मञ्जीरादिषु रणितप्रायं पक्षिषु च कूजितप्रभृति।
स्तनितभणितादि सुरते मेघादिषु गर्जितप्रमुखम्।।''
इति प्रसिद्धिमतिक्रान्तम्। यथा-
महाप्रलयमारुतक्षुभितपुष्करावर्त्तक-
प्रचण्डघनगर्जितप्रतिरुतानुकारी मुहुः।
रवःश्रवणभैरवः स्थगितरोदसीकन्दरः
कुतोऽद्य समरोदधेरयमभूतपूर्वः पुरः ।। 242 ।।
अत्र रवो मण्डूकादिषु प्रसिद्धो न तूक्तविशेषे सिंहनादे।।
(19) भग्नः प्रक्रमः प्रस्तावः, यत्र। यथा-
नाथे निशाया नियतेर्नियोगादस्तङ्गते हन्त निशाऽपि याता।
कुलाङ्गनानां हि दशानुरूपं नातः परं भद्रतरं समस्ति ।। 243 ।।
अत्र `गते' इति प्रक्रान्ते `याता' इति प्रकृतेः। `गता निशापि' इति तु युक्तम्।
ननु `नैकं पदं द्विः प्रयोज्यं प्रायेण' इत्यन्यत्र कथितपदं दुष्टमिति चेहैवोक्तम्। तत्कथमेकस्य पदस्य द्विःप्रयोगः,। उच्यते। उद्देश्यप्रतिनिर्देश्यव्यतिरिक्तो विषय एकपदद्विःप्रयोगनिषेधस्य तद्वति विषये प्रत्युत तस्यैव पदस्य सर्वनाम्नो वा प्रयोगं विना दोषः। तथाहि--
उदेति सविता ताम्रस्ताम्र एवास्तमेति च।
संपत्तौ च विपत्तौ च महतामेकरूपता ।। 244 ।।
अत्र रक्त एवास्तमेतीति यदि क्रियते तदा पदान्तरप्रतिपादितः स एवार्थोऽर्थान्तरतयेव प्रतिभासमानः प्रतीतिं स्थगयति। अत्र तादृगेवेति पाठे वा न दोषः, सर्वनाम्नः प्रयोगात। यथा वा-
यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसङ्ख्यामतिवर्त्तितुं वा।
निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः ।। 245 ।।
अत्र प्रत्ययस्य। `सुखमीहितुं वा' इति युक्तः पाठः।
ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम्।
सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः ।। 246 ।।
अत्र सर्वनाम्नः। `अनेन विसृष्टाः' इति तु वाच्यम्।
महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम्।
अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा ।। 247 ।।
अत्र पर्यायस्य। `महीभृतोऽपत्यवतोऽपि' इति युक्तम्। `अत्र सत्यपि पुत्रे कन्यारूपेऽप्यपत्ये सस्नेहोऽभूत्' इति केचित्समर्थयन्ते।
विपदोऽभिभवन्त्यविक्रमं रहयत्यापदुपेतमायतिः।
नियता लघुता निरायतेरगरीयान्न पदं नृपश्रियः ।। 248 ।।
अत्रोपसर्गस्य पर्यायस्य च। `तदभिभवः कुरुते निरायतिम्। लघुतां भजते निरायतिर्लघुतावान्न पदं नृपश्रियः।।' इति युक्तम्।
काचित्कीर्णा रजोभिर्दिवमनुविदधौ मन्दवक्त्रेन्दुलक्ष्मी-
रश्रीकाः काश्चिदन्तर्दिश इव दधिरे दाहमुद्भ्रान्तसत्त्वाः ।
भ्रेमुर्वात्या इवान्याः प्रतिपदमपरा भूमिवत्कम्पमानाः
प्रस्थाने पार्थिवानामशिवमिति पुरो भावि नार्यः शशंसुः ।। 249 ।।
अत्र वचनस्य। `काश्चित्कीर्णा रजोभिर्दिवमनुविदधुर्मन्दवक्त्रेन्दुशोभानिःश्रीकाः' इति `कम्पमानाः' इत्यत्र `कम्पमापुः' इति च पठनीयम्।
गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं
छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यताम्।
विश्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले
विश्रान्तिं लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ।। 250 ।।
अत्र कारकस्य। ` विश्रब्धा रचयन्तु सूकरवरा मुस्ताक्षतिम्' इत्यदुष्टम्।
अकलिततपस्तेजोवीर्यप्रथिम्नि यशोनिधा-
ववितथमदाध्माते रोषान्मुनावभिगच्छति।
अमिनवधनुर्विद्यादर्पक्षमाय च कर्मणे
स्फुरति रभसात्पाणिः पादोपसङ्ग्रहणाय च ।। 251 ।।
अत्र क्रमस्य। पादोपसङ्ग्रहणायेति पूर्वं वाच्यम्। एवमन्यदप्यनुसर्त्तव्यम्।।
(20) अविद्यमानः क्रमो यत्र । यथा-
द्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया कपालिनः।
कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ।। 252 ।।
अत्र त्वंशब्दानन्तरं चकारो युक्तः। यथा वा-
शक्तिर्निस्त्रिंशजेयं तव भुजयुगले नाथ ! दोषाकरश्री-
र्वक्त्रे पार्श्वे तथैषा प्रतिवसति महाकुट्टनी खड्गयष्टिः।
आज्ञेयं सर्वगा ते विलसति च पुरः किं मया वृद्धया ते
प्रोच्येवेत्थं प्रकोपाच्छशिकरसितया यस्य कीर्त्या प्रयातम् ।। 253 ।।
अत्र `इत्थं प्रोच्येव' इति न्याय्यम्। तथा-
`लग्नं रागावृताङ्ग ।। 253 (क) ।।
इत्यादौ `इति श्रीनियोगात्' इति वाच्यम् ।।
(21) अमतः प्रकृतविरुद्धः परार्थो यत्र। यथा-
राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी ।
गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ।। 254 ।।
अत्र प्रकृते रसे विरुद्धस्य शृङ्गारस्य व्यञ्जकोऽपरोऽर्थः।
अर्थदोषानाह-
(सूo 76) अर्थोऽपुष्टः कष्टो व्याहतपुनरुक्तदुष्क्रमग्राम्याः ।।55।।
सन्दिग्धो निर्हेतुः प्रसिद्धिविद्याविरुद्धश्च।
अनवीकृतः सनियमानियमविशेषाविशेषपरिवृत्ताः ।।56।।
साकाङ्क्षोऽपदयुक्तः सहचरभिन्नः प्रकाशितविरुद्वः।
विध्यनुवादायुक्तस्त्यक्तपुनःस्वीकृतोऽश्लीलः ।।57।।
दुष्ट इति सम्बध्यते। क्रमेणोदाहरणम्--
(1) अतिविततगगनसरणिप्रसरणपरिमुक्तविश्रमानन्दः।
मरुदुल्लासितसौरभकमलाकरहासकृद्रविर्जयति ।। 255 ।।
अत्रातिविततत्वादयोऽनुपादानेऽपि प्रतिपाद्यमानमर्थं न बाधन्त इत्यपुष्टाः, न त्वसङ्गताः पुनरुक्ता
वा।।
(2) सदा मध्ये यासामियममृतनिस्यन्दसुरसा
सरस्वत्युद्दामा वहति बहुमार्गा परिमलम्।
प्रसादं ता एता घनपरिचिताः केन महतां
महाकाव्यव्योम्नि स्फुरितमधुरा यान्तु रुचयः ।। 256 ।।
अत्र यासां कविरुचीनां मध्ये सुकुमारविचित्रमध्यमात्मकत्रिमार्गा भारती चमत्कारं वहति ताः, गम्भीरकाव्यपरिचिताः कथमितरकाव्यवत्प्रसन्ना भवन्तु। यासामादित्यप्रभाणां मध्ये त्रिपथगा वहति ताः, मेघपरिचिताः कथं प्रसन्ना भवन्तीति सङ्क्षेपार्थः इति कष्टम्।।
(3) जगति जयिनस्ते ते भावा नवेन्दुकलादयः
प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये।
मम तु यदियं याता लोके विलोचनचन्द्रिका
नयनविषयं जन्मन्येकः स एव महोत्सवः ।। 257 ।।
अत्रेन्दुकलादयो यं प्रति पस्पशप्रायाः स एव चन्द्रिकात्वमुत्कर्षार्थमारोपयतीति व्याहतत्वम्।।
(4) कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं
मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः।
नरकरिपुणा सार्धं तेषां सभीमकिरीटिना-
मयमहमसृङ्मेदोमांसै करोमि दिशां बलिम् ।। 258 ।।
अत्रार्जुनार्जुनेति भवद्भिरिति चोक्ते सभीमकिरीटिनामिति किरीटिपदार्थः पुनरुक्तः।
यथा वा-
अस्त्रज्वालावलीढप्रतिबलजलधेरन्तरौर्वायमाणे
सेनानाथे स्थितेऽस्मिन्मम पितरि गुरौ सर्वधन्वीश्वराणाम्।
कर्णालं सम्भ्रमेण व्रज कृप समरं मुञ्च हार्दिक्यशङ्कां
ताते चापद्वितीये वहति रणधुरं को भयस्यावकाशः ।। 259 ।।
अत्र चतुर्थपादवाक्यार्थः पुनरुक्तः।।
(5) भूपालरत्न निर्दैन्यप्रदानप्रथितोत्सवः।
विश्राणय तुरङ्गं मे मातङ्गं वा मदालसम् ।। 260 ।।
अत्र मातङ्गस्य प्राङ्निर्देशो युक्तः।
(6) स्वपिति यावदयं निकटे जनः स्वपिमि तावदहं किमपैति ते।
तदयि ! साम्प्रतमाहर कूर्परं त्वरितमूरुमुदञ्चय कुञ्चितम् ।। 261 ।।
एषोऽविदग्धः।।
(7) मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमुदाहरन्तु।
सेव्या नितम्बाः किमु भूधराणामुत स्मरस्मेरविलासिनीनाम् ।। 262 ।।
अत्र प्रकरणाद्यभावे संदेहः शान्तशृङ्गार्यन्यतराभिधाने तु निश्चयः।।
(8) गृहीतं येनासीः परिभवभयान्नोचितमपि
प्रभावाद्यस्याभून्न खलु तव कश्चिन्न विषयः।
परित्यक्तं तेन त्वमसि सुतशोकान्न तु भया-
द्विमोक्ष्ये शस्त्र ! त्वामहमपि यतः स्वस्ति भवते ।। 263 ।।
अत्र शस्त्रविमोचने हेतुर्नोपात्तः।।
(9) इदं ते केनोक्तं कथय कमलातङ्कवदने !
यदेतस्मिन्हेम्नः कटकमिति धत्से खलु धियम्।
इदं तद्दुःसाधाक्रमणपरमास्त्रं स्मृतिभुवा
तव प्रीत्या चक्रं करकमलमूले विनिहितम् ।। 264 ।।
अत्र कामस्य चक्र लोकेऽप्रसिद्धम् । यथा वा-
(9 अ) उपपरिसरं गोदावर्याः परित्यजताध्वगाः
सरणिमपरो मार्गस्तावद्भवद्भिरिहेक्ष्यताम्।
इह हि विहितो रक्ताशोकः कयापि हताशया
चरणनलिनन्यासोदञ्चन्नवाङ्कुरकञ्चुकः ।। 265 ।।
अत्र पादाघातेनाशोकस्य पुष्पोद्गमः कविषु प्रसिद्धो न पुनरङ्कुरोद्गमः।
सुसितवसनालङ्कारायां कदाचन कौमुदी-
महसि सुदृशि स्वैरं यान्त्यां गतोऽस्तमभूद्विधुः।
तदनु भवतः कीर्तिः केनाप्यगीयत येन सा
प्रियगृहमगान्मुक्ता शङ्का क्व नासि शुभप्रदः ।। 266 ।।
अत्रामूर्तापि कीर्तिः ज्योत्स्नावत्प्रकाशरूपा कथितेति लोकविरुद्धमपि कविप्रसिद्धेर्न दुष्टम् ।।
(10) सदा स्नात्वा निशीथिन्यां सकलं वासरं बुधः।
नानाविधानि शास्त्राणि व्याचष्टे च शृणोति च ।। 267 ।।
ग्रहोपरागादिकं विना रात्रौ स्नानं धर्मशास्त्रेण विरुद्धम्।
(10 अ) अनन्यसदृशं यस्य बलं बाह्वोः समीक्ष्यते।
षाड्गुण्यानुसृतिस्तस्य सत्यं सा निष्प्रयोजना ।। 268 ।।
एतदर्थशास्त्रेण।
(10 आ) विधाय दूरे केयूरमनङ्गाङ्गणमङ्गना।
बभार कान्तेन कृतां करजोल्लेखमालिकाम् ।। 269 ।।
अत्र केयूरपदे नखक्षतं न विहितमिति। एतत्कामशास्त्रेण।
(10 इ) अष्टाङ्गयोगपरिशीलनकीलनेन दुःसाध्यसिद्धिसविधं विदधद्विदूरे।
आसादयन्नभिमतामधुना विवेकख्यातिं समाधिधनमौलिमणिर्विमुक्तः ।। 270 ।।
अत्र विवेकख्यातिस्ततः सम्प्रज्ञातसमाधिः पश्चादसम्प्रज्ञातस्ततो मुक्तिर्न तु विवेकख्यातौ एतत् योगशास्त्रेण। एवं विद्यान्तरैरपि विरुद्धमुदाहार्यम्।।
(11) प्राप्ताः श्रियः सकलकामदुघास्ततः किं दत्तं पदं शिरसि विद्विषतां ततः किम्।
सन्तर्पिताः प्रणयिनो विभवैस्ततः किं कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ।। 271 ।।
अत्र ततः किमिति न नवीकृतम्। तत्तु यथा-
यदि दहत्यनलोऽत्र किमद्भुतं यदि च गौरवमद्रिषु किं ततः।
लवणमम्बु सदैव महोदधेः प्रकृतिरेव सतामविषादिता ।। 272 ।।
(12) यत्रानुल्लिखितार्थमेव निखिलं निर्माणमेतद्विधे-
रुत्कर्षप्रतियोगिकल्पनमपि न्यक्कारकोटिः परा।
याताः प्राणभृतां मनोरथगतीरुल्लङ्घयत्सम्पद-
स्तस्याभासमणीकृताश्मसु मणेरश्मत्वमेवोचितम् ।। 273 ।।
अत्र `छायामात्रमणीकृताश्मसु मणेस्तस्याश्मतैवोचिता' इति सनियमत्वं वाच्यम्।।
(13) वक्त्राम्भोजे सरस्वत्यधिवसति सदा शोण एवाधरस्ते
बाहुः काकुत्स्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते समुद्रः।
वाहिन्यः पार्श्वमेताः क्षणमपि भवतो नैव मुञ्चन्त्यभीक्ष्णं
स्वच्छेऽन्तर्मानसेऽस्मिन् कथमवनिपते ! तेऽम्बुपानाभिलाषः ।। 274 ।।
अत्र `शोण एव' इति नियमो न वाच्यः।।
(14) श्यामां श्यामलिमानमानयत भोः ! सान्द्रैर्मषीकूर्चकै-
र्मन्त्रं तन्त्रमथ प्रयुज्य हरत श्वेतोत्पलानां श्रियम्।
चन्द्रं चूर्णयत क्षणाच्च कणशः कृत्वा शिलापट्टके
येन द्रष्टुमहं क्षमे दश दिशस्तद्वक्त्रमुद्राङ्किताः ।। 275 ।।
अत्र `ज्यौत्स्नीम्' इति श्यामाविशेषो वाच्यः।।
(15) कल्लोलवेल्लितदृषत्परुषप्रहारै रत्नान्यमूनि मकरालय ! मावमंस्थाः।
किं कौस्तुभेन विहितो भवतो न नाम याच्ञाप्रसारितकरः पुरुषोत्तमोऽपि ।। 276 ।।
अत्र `एकेन किं न विहितो भवतः स नाम' इति सामान्यं वाच्यम्।
(16) अर्थित्वे प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोः प्रत्युत
द्रुह्यन् दाशरथिर्विरुद्धचरितो युक्तस्तया कन्यया।
उत्कर्षञ्च परस्य मानयशसोर्विस्रंसनं चात्मनः
स्त्रीरत्नञ्च जगत्पतिर्दशमुखो देवः कथं मृष्यते ।। 277 ।।
अत्र स्त्रीरत्नम् `उपेक्षितुम्' इत्याकाङ्क्षति। नहि परस्येत्यनेन सम्बन्धो योग्यः।।
(17) आज्ञा शक्रशिखामणिप्रणयिनी शास्राणि चक्षुर्नवं
भक्तिर्भूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी।
उत्पत्तिर्द्रुहिणान्वये च तदहो नेदृग्वरो लभ्यते
स्याच्चेदेष न रावणः क्व नु पुनः सर्वत्र सर्वे गुणाः ।। 278 ।।
अत्र `स्याच्चेदेष न रावणः' इत्यत्र, एव समाप्यम्।
(18) श्रुतेन बुद्धिर्व्यसनेन मूर्खता मदेन नारी सलिलेन निम्नगा।
निशा शशाङ्केन धृतिः समाधिना नयेन चालङ्क्रियते नरेन्द्रता ।। 279 ।।
अत्र श्रुतादिभिरुत्कृष्टैः सहचरितैर्व्यसनमूर्खतयोर्निकृष्टयोर्भिन्नत्वम्। 'विनयेन धीरता इति पाठो युक्तः।।'
(19) लग्नं रागावृताङ्ग्या सुदृढमिव ययैवासियष्ट्यारिकण्ठे
मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती।
तत्सक्तोऽयं न किञ्चिद्गणयति विदितं तेऽस्तु तेनास्मि दत्ता
भृत्येभ्यः श्रीनियोगाद्गदितुमिव गतेत्यम्बुधिं यस्य कीर्तिः ।। 280 ।।
इत्यत्र विदितं तेऽस्त्वित्यनेन श्रीस्तस्मादपसरतीति विरुद्धं प्रकाश्यते।।
(20) प्रयत्नपरिबोधितः स्तुतिभिरद्य शेषे निशा-
मकेशवमपाण्डवं भुवनमद्य निःसोमकम्।
इयं परिसमाप्यते रणकथाऽद्य दोःशालिना-
मपैतु रिपुकाननातिगुरुरद्य भारो भुवः ।। 281 ।।
अत्र `शयितः प्रयत्नेन बोध्यसे' इति विधेयम्।'सुखेन शयितश्चिरादुषसि बोध्यसे मागधैः' इति युक्तम्। यथा वा -
वाताहारतया जगद्विषधरैराश्वास्य निःशेषितं
ते ग्रस्ताः पुनरभ्रतोयकणिकातीव्रव्रतैर्बर्हिभिः।
तेऽपि क्रूरचमूरुचर्मवसनैर्नीताः क्षयं लुब्धकै-
र्दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते ।। 282 ।।
अत्र वाताहारादित्रयं व्युत्क्रमेण वाच्यम्।
(21) अरे रामाहस्ताभरण भसलश्रेणिशरण !
स्मरक्रीडाव्रीडाशमन ! विरहिप्राणदमन।
सरोहंसोत्तंस ! प्रचलदलनीलोत्पलसखे
सखेदोऽहं मोहं श्लथय कथय क्वेन्दुवदना ।। 283 ।।
अत्र `विरहिप्राणदमन' इति नानुवाद्यम्।।
(22) लग्नं रागावृताङ्ग्या सुदृढमिव ययैवासियष्ट्यारिकण्ठे
मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती।
तत्सक्तोऽयं न किञ्चिद्गणयति विदितं तेऽस्तु तेनास्मि दत्ता
भृत्येभ्यः श्रीनियोगाद्गदितुमिव गतेत्यम्बुधिं यस्य कीर्तिः ।। 284 ।।
अत्र `विदितं तेऽस्तु' इत्युपसंहृतोऽपि तेनेत्यादिना पुनरुपात्तः।।
(23) हन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः।
यथास्य जायते पातो न तथा पुनरुन्नतिः ।। 285 ।।
अत्र पुंव्यञ्जनस्यापि प्रतीतिः।
यत्रैको दोषः प्रदर्शितस्तत्र दोषान्तराण्यपि सन्ति तथापि तेषां तत्राप्रकृतत्वात्प्रकाशनं न कृतम्।।
(सूo 77) कर्णावतंसादिपदे कर्णादिध्वनिनिर्मितिः।
संनिधानादिबोधार्थम्
अवतंसादीनि कर्णाद्याभरणान्येवोच्यन्ते तत्र कर्णादिशब्दाः कर्णादिस्थितिप्रतिपत्तये। यथा-
अस्याः कर्णावतंसेन जितं सर्वं विभूषणम्।
तथैव शोभतेऽत्यर्थमस्याः श्रवणकुण्डलम् ।। 286 ।।
अपूर्वमधुरामोदप्रमोदितदिशस्ततः।
आययुर्भृङ्गमुखराः शिरःशेखरशालिनः ।। 287 ।।
अत्र कर्णश्रवणशिरःशब्दाः सन्निधानप्रतीत्यर्थाः।।
विदीर्णाभिमुखारातिकराले सङ्गरान्तरे।
धनुर्ज्याकिणचिह्नेन दोष्णा विस्फुरितं तव ।। 288 ।।
अत्र धनुःशब्द आरूढत्वावगतये। अन्यत्र तु-
ज्याबन्धनिष्पन्दभुजेन यस्य विनिश्वसद्वक्त्रपरम्परेण।
कारागृहे निर्जितवासवेन लङ्केश्वरेणोषितमाप्रसादात् ।। 289 ।।
इत्यत्र केवलो ज्याशब्दः।
प्राणेश्वरपरिष्वङ्गविभ्रमप्रतिपत्तिभिः।
मुक्ताहारेण लसता हसतीव स्तनद्वयम् ।। 290 ।।
अत्र मुक्तानामन्यरत्नामिश्रितत्वबोधनाय मुक्ताशब्दः।
सौन्दर्यसम्पत्तारुण्यं यस्यास्ते ते च विभ्रमाः।
षट्पदान् पुष्पमालेव कान् नाकर्षति सा सखे !।। 291 ।।
अत्रोत्कृष्टपुष्पविषये पुष्पशब्दः। निरुपपदो हि मालाशब्दः पुष्पस्रजमेवाभिधत्ते।।
(सूo 78) स्थितेष्वेतत्समर्थनम् ।।58।।
न खलु कर्णावतंसादिवज्जघनकाञ्चीत्यादि क्रियते।
जगाद मधुरां वाचं विशदाक्षरशालिनीम् ।। 292 ।।
इत्यादौ क्रियाविशेषणत्वेऽपि विवक्षितार्थप्रतीतिसिद्धौ ``गतार्थस्यापि विशेष्यस्य विशेषणदानार्थं क्वचित्प्रयोगः कार्यः'' इति न युक्तम्। युक्तत्वे वा
चरणत्रपरित्राणरहिताभ्यामपि द्रुतम्।
पादाभ्यां दूरमध्वानं व्रजन्नेष न खिद्यते ।। 293 ।।
इत्युदाहार्यम्।।
(सूo 79) ख्यातेऽर्थे निर्हेतोरदुष्टता ।
यथा-
चन्द्रं गता पद्मगुणान्न भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम्।
उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ।। 294 ।।
अत्र रात्रौ पद्मस्य सङ्कोचः, दिवा चन्द्रमसश्च निष्प्रभत्वं लोकप्रसिद्धमिति `न भुङ्क्ते' इति हेतुं नापेक्षते।।
(सूo 80) (अ)नुकरणे तु सर्वेषाम्।
सर्वेषां श्रुतिकटुप्रभृतीनां दोषाणाम्। यथा-
मृगचक्षुषमद्राक्षमित्यादिकथयत्ययम्।
पश्यैष च गवित्याह सुत्रामाणं यजेति च ।। 295 ।।
(सूo 81) वक्त्राद्यौचित्यवशाद्दोषोऽपि गुणः क्वचित्क्वचिन्नोभौ ।।49।।
वक्तृप्रतिपाद्यव्यङ्ग्यवाच्यप्रकरणादीनां महिम्ना दोषोऽपि क्वचिद्गुणः क्वचिन्न दोषो न गुणः। तत्र वैयाकरणादौ वक्तरि प्रतिपाद्ये च रौद्रादौ च रसे व्यङ्ग्ये कष्टत्वं गुणः।
क्रमेणोदाहरणम्--
दीधीङ्वेवीङ्समः कश्चिद्गुणवृद्ध्योरभाजनम्।
क्विप्प्रत्ययनिभः कश्चिद्यत्र सन्निहिते न ते ।। 296 ।।
यदा त्वामहमद्राक्षं पदविद्याविशारदम्।
उपाध्यायं तदाऽस्मार्षं समस्प्राक्षं च सम्मदम् ।। 297 ।।
अन्त्रप्रोतबृहत्कपालनलकक्रूरक्वणत्कङ्कण-
प्रायप्रेङ्खितभूरिभूषणरवैराघोषयन्त्यम्बरम्।
पीतच्छर्दितरक्तकर्दमघनप्राग्भारघोरोल्लस-
द्व्यालोलस्तनभारभैरववपुर्दर्पोद्धतं धावति ।। 298 ।।
वाच्यवशाद्यथा-
मातङ्गाः ! किमु वल्गितैः किमफलैराडम्बरैर्जम्बुकाः !
सारङ्गा ! महिषा ! मदं व्रजथ किं शून्येषु शूरा न के।
कोपाटोपसमुद्भटोत्कटसटाकोटेरिभारेः पुरः
सिन्धुध्वानिनि हुङ्कृते स्फुरति यत्तद्गर्जितं गर्जितम् ।। 299 ।।
अत्र सिंहे वाच्ये परुषाः शब्दाः।।
प्रकरणवशाद्यथा-
रक्ताशोक ! कृशोदरी क्व नु गता त्यक्त्वानुरक्तं जनं
नो दृष्टेति मुधैव चालयसि किं वातावधूतं शिरः।
उत्कण्ठाघटमानषट्पदघटासङ्घट्टदष्टच्छद-
स्तत्पादाहतिमन्तरेण भवतः पुष्पोद्गमोऽयं कुतः ।। 300 ।।
अत्र शिरोधूननेन कुपितस्य वचसि।।
क्वचिन्नीरसे न गुणो न दोषः। यथा-
शीर्णघ्राणाङ्घ्रिपाणीन्व्रणिभिरपघनैर्घर्घराव्यक्तघोषान्
दीर्घाघ्रातानघौघैः पुनरपि घटयत्येक उल्लाघयन् यः।
घर्मांशोस्तस्य वोऽन्तर्द्विगुणघनघृणानिघ्ननिर्विघ्नवृत्ते-
र्दत्तार्घाः सिद्धसङ्घैर्विदधतु घृणयः शीघ्रमंहोविघातम् ।। 301 ।।
अप्रयुक्तनिहतार्थौ श्लेषादावदुष्टौ। यथा-
येन ध्वस्तमनोभवेन बलिजित्कायः पुरा स्त्रीकृतो
यश्चोद्वृत्तभुजङ्गहारवलयो गङ्गां च योऽधारयत्।
यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः
पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदो माधवः ।। 302 ।।
अत्र माधवपक्षे शशिमदन्धकक्षयशब्दावप्रयुक्तनिहतार्थौ।
अश्लीलं क्वचिद् गुणः। यथा सुरतारम्भगोष्ट्याम् `` द्व्यर्थैः पदैः पिशुनयेच्च रहस्यवस्तु'' इति कामशास्त्रस्थितौ-
करिहस्तेन सम्बाधे प्रविश्यान्तर्विलोडिते।
उपसर्पन् ध्वजः पुंसः साधनान्तर्विराजते ।। 303 ।।
शमकथासु-
उत्तानोच्छूनमण्डूकपाटितोदरसन्निभे।
क्लेदिनि स्त्रीव्रणे सक्तिरकृमेः कस्य जायते ।। 304 ।।
निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन।
रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ।। 305 ।।
अत्र भाव्यमङ्गलसूचकम् ।।
सन्दिग्धमपि वाच्यमहिम्ना क्वचिन्नियतार्थप्रतीतिकृत्त्वेन व्याजस्तुतिपर्यवसायित्वे गुणः। यथा
पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव !।
विलसत्करेणुगहनं सम्प्रति सममावयोः सदनम् ।। 306 ।।
प्रतिपाद्यप्रतिपादकयोर्ज्ञत्वे सत्यप्रतीतं गुणः। यथा
आत्मारामा विहितरतयो निर्विकल्पे समाधौ
ज्ञानोद्रेकाद्विघटिततमोग्रन्थयः सत्त्वनिष्ठाः।
यं वीक्षन्ते कमपि तमसां ज्योतिषां वा परस्ता-
त्तं मोहान्धः कथमयममुं वेत्ति देवं पुराणम् ।। 307 ।।
स्वयं वा परामर्शे। यथा-
षडधिकदशनाडीचक्रमध्यस्थितात्मा
हृदि विनिहितरूपः सिद्धिदस्तद्विदां यः।
अविचलितमनोभिः साधकैर्मृग्यमाणः
स जयति परिणद्धः शक्तिभिः शक्तिनाथः ।। 308 ।।
अधमप्रकृत्युक्तिषु ग्राम्यो गुणः। यथा-
फुल्लुक्करं कलमकूरणिहं वहन्ति जे सिन्धुवारविडवा मह वल्लहादे।
जे गालिदस्स महिसीदहिणो सरिच्छा दे किं च मुद्धविअइल्लपसूणपुञ्जा ।। 309 ।।
पुष्पोत्करं कलमभक्तनिभं वहन्ति ये सिन्धुवारविटपा मम वल्लभास्ते ।
ये गालितस्य महीषीदघ्नः सदृक्षास्ते किञ्च मुग्ध विचकिलप्रसूनपुञ्जाः ।।
अत्र कलमभक्तमहिषीदधिशब्दा ग्राम्या अपि विदूषकोक्तौ।।
न्यूनपदं क्वचिद्गुणः। यथा-
गाढालिङ्गनवामनीकृतकुचप्रोद्भूतरोमोद्गमा
सान्द्रस्नेहरसातिरेकविगलच्छ्रीमन्नितम्बाम्बरा।
मा मा मानद माऽति मामलमिति क्षामाक्षरोल्लापिनी
सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम् ।। 310 ।।
क्वचिन्न गुणो न दोषः। यथा-
तिष्ठेत्कोपवशात्प्रभावपिहिता दीर्घं न सा कुप्यति
स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः।
तां हर्तुं विबुधद्विषोऽपि न च मे शक्ताः पुरोवर्तिनीं
सा चात्यन्तमगोचरं नयनयोर्यातेति कोऽयं विधिः ।। 311 ।।
अत्र पिहितेत्यतोऽनन्तरं `नैतद्यतः' इत्येतैर्न्यूनैः पदैर्विशेषबुद्धेरकरणान्न गुणः। उत्तरा प्रतिपत्तिः पूर्वां प्रतिपत्तिं बाधते, इति न दोषः।
अधिकपदं क्वचिद्गुणः। यथा-
यद्वञ्चनाहितमतिर्बहुचाटुगर्भं कार्योन्मुखः खलजनः कृतकं ब्रवीति।
तत्साधवो न न विदन्ति विदन्ति किन्तु कर्तुं वृथा प्रणयमस्य न पारयन्ति ।। 312 ।।
अत्र `विदन्ति' इति द्वितीयमन्ययोगव्यवच्छेदपरम्। यथा वा-
वद वद जितः स शत्रुर्न हतो जल्पंश्च तव तवास्मीति।
चित्रं चित्रमरोदीद्धा हेति परं मृते पुत्रे ।। 313 ।।
इत्येवमादौ हर्षभयादियुक्ते वक्तरि।।
कथितपदं क्वचिद्गुणः, लाटानुप्रासे, अर्थान्तरसङ्क्रमितवाच्ये विहितस्यानुवाद्यत्वे च। क्रमेणोदाहरणम्--
सितकरकररुचिरविभा विभाकराकार ! धरणिधर ! कीर्तिः।
पौरुषकमला कमला सापि तवैवास्ति नान्यस्य ।। 314 ।।
ताला जाअंति गुणा जाला दे सहिअएहिँ धेप्पन्ति।
रइकिरणाणुग्गहिआइँ होन्ति कमलाइँ कमलाइँ ।। 315 ।।
तदा जायन्ते गुणा यदा ते सहृदयैर्गृह्यन्ते ।
रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ।।
जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते।
गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि सम्पदः ।। 316 ।।
पतत्प्रकर्षमपि क्वचिद्गुणः। यथा- उदाहृते
प्रागप्राप्तनिशुम्भशाम्भवधनुर्द्वेधाविधाविर्भवत्-
क्रोधप्रेरितभीमभार्गवभुजस्तम्भापविद्धः क्षणात्।
उज्ज्वालः परशुर्भवत्वशिथिलस्त्वत्कण्ठपीठातिथि-
र्येनानेन जगत्सु खण्डपरशुर्देवो हरः ख्याप्यते ।। 317 ।।
इत्यादौ।
समाप्तपुनरात्तं क्वचिन्न गुणो न दोषः। यत्र न विशेषणमात्रदानार्थं पुनर्ग्रहणम् अपि तु वाक्यान्तरमेव क्रियते।
यथा, अत्रैव
प्रागप्राप्तनिशुम्भशाम्भवधनुर्द्वेधाविधाविर्भवत्-
क्रोधप्रेरितभीमभार्गवभुजस्तम्भापविद्धः क्षणात्।
उज्ज्वालः परशुर्भवत्वशिथिलस्त्वत्कण्ठपीठातिथि-
र्येनानेन जगत्सु खण्डपरशुर्देवो हरः ख्याप्यते ।। 318 ।।
इत्यादौ।
अपदस्थसमासं क्वचिद्गुणः यथा, उदाहृते
रक्ताशोक ! कृशोदरी क्व नु गता त्यक्त्वानुरक्तं जनं
नो दृष्टेति मुधैव चालयसि किं वातावधूतं शिरः।
उत्कण्ठाघटमानषट्पदघटासङ्घट्टदष्टच्छद-
स्तत्पादाहतिमन्तरेण भवतः पुष्पोद्गमोऽयं कुतः ।। 319 ।।
इत्यादौ गर्भितं तथैव । यथा-
हुमि अवहत्थिअरेहो णिरङ्कुसो अह विवेअरहिओ वि।
सिविणे वि तुमम्मि पुणो पत्तिहि भत्तिं ण पसुमरामि ।। 320 ।।
भवाम्यपहस्तितरेखो निरङ्कुशोऽथ विवेकरहितोऽपि ।
स्वप्नेऽपि त्वयि पुनः प्रतीहि भक्तिं न प्रस्मरामि ।।
अत्र प्रतीहीति मध्ये दृढप्रत्ययोत्पादनाय। एवमन्यदपि लक्ष्याल्लक्ष्यम्।।
(सूo 82) व्यभिचारिरसस्थायिभावानां शब्दवाच्यता।
कष्टकल्पनया व्यक्तिरनुभावविभावयोः ।।60।।
प्रतिकूलविभावादिग्रहो दीप्तिः पुनः पुनः।
अकाण्डे प्रथनच्छेदावङ्गस्याप्यतिविस्तृतिः ।।61।।
अङ्गिनोऽननुसन्धानं प्रकृतीनां विपर्ययः।
अनङ्गस्याभिधानं च रसे दोषाः स्युरीदृशाः ।।62।।
(1) स्वशब्दोपादानं व्यभिचारिणः। यथा-
सव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे
सत्रासा भुजगे सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि।
सेर्ष्या जह्नुसुतावलोकनविधौ दीना कपालोदरे
पार्वत्या नवसङ्गमप्रणयिनी दृष्टिः शिवायाऽस्तु वः ।। 321 ।।
अत्र व्रीडादीनाम्। `व्यानम्रा दयितानने मुकुलिता मातङ्गचर्माम्बरे सोत्कम्पा भुजगे निमेषरहिता चन्द्रेऽमृतस्यन्दिनि। मीलद्भ्रूः सुरसिन्धुदर्शनविधौ म्लाना कपालोदरे' इत्यादि तु युक्तम्।।
(2) रसस्य स्वशब्देन शृङ्गारादिशब्देन वा वाच्यत्वम्। क्रमेणोदाहरणम्--
तामनङ्गजयमङ्गलश्रियं किञ्चिदुच्चभुजमूललोकिताम्।
नेत्रयोः कृतवतोऽस्य गोचरे कोऽप्यजायत रसो निरन्तरः।। 322 ।।
आलोक्य कोमलकपोलतलाभिषिक्तव्यक्तानुरागसुभगामभिराममूर्तिम्।
पश्यैष बाल्यमतिवृत्त्य विवर्तमानः शृङ्गारसीमनि तरङ्गितमातनोति ।। 323 ।।
(3) स्थायिनो यथा-
सम्प्रहारे प्रहरणैः प्रहाराणाम्परस्परम्
ठणत्कारैः श्रुतिगतैरुत्साहस्तस्य कोऽप्यभूत् ।। 324 ।।
अत्रोत्साहस्य।।
(4) कर्पूरधूलिधवलद्युतिपूरधौतदिङ्मण्डले शिशिररोचिषि तस्य यूनः।
लीलाशिरोंऽशुकनिवेशविशेषक्लृप्तिव्यक्तस्तनोन्नतिरभून्नयनावनौ सा ।। 325 ।।
अत्रोद्दीपनालम्बनरूपाः श्रृङ्गारयोग्या विभावा अनुभावपर्यवसायिनः स्थिता इति कष्टकल्पना।।
(5) परिहरति रतिं मतिं लुनीते स्खलति भृशं परिवर्तते च भूयः।
इति बत विषमा दशाऽस्य देहं परिभवति प्रसभं किमत्र कुर्मः ।। 326 ।।
अत्र रतिपरिहारादीनामनुभावानां करुणादावपि सम्भवात्कामिनीरूपो विभावो यत्नतः प्रतिपाद्यः।।
(6) प्रसादे वर्तस्व प्रकटय मुदं सन्त्यज रुषं
प्रिये शुष्यन्त्यङ्गान्यमृतमिव ते सिञ्चतु वचः।
निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं
न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः ।। 327 ।।
अत्र शृङ्गारे प्रतिकूलस्य शान्तस्यानित्यताप्रकाशनरूपो विभावस्तत्प्रकाशितो निर्वेदश्च व्यभिचारी, उपात्तः।।
णिहुअरमणम्मि लोअणपहम्पि पडिए गुरुअण मज्झम्मि।
सअलपरिहारहिअआ वणगमणं एव्व महइ वहू ।। 328 ।।
निभृतरमणे लोचनपथे पतिते गुरुजनमध्ये ।
सकलपरिहारहृदया वनगमनमेवेच्छति वधूः ।।
अत्र सकलपरिहारवनगमने शान्तानुभावौ। इन्धनाद्यानयनव्याजेनोपभोगार्थं वनगमनं चेत् न दोषः।।
(7) दीप्तिः पुनः पुनः। यथा कुमारसम्भवे रतिविलापे।।
(8) अकाण्डे प्रथनम्। यथा वेणीसंहारे द्वितीयेऽङ्केऽनेकवीरक्षये प्रवृत्ते भानुमत्या सह दुर्योधनस्य शृङ्गारवर्णनम्।।
(9) अकाण्डे छेदः। यथा वीरचरिते द्वितीयेऽङ्के राघवभार्गवयोर्धाराधिरूढे वीररसे `कङ्कणमोचनाय गच्छामि' इति राघवस्योक्तौ ।।
(10) अङ्गस्याप्रधानस्यातिविस्तरेण वर्णनम्। यथा हयग्रीववधे हयग्रीवस्य।।
(11) अङ्गिनोऽननुसन्धानम्। यथा रत्नावल्यां चतुर्थेऽङ्के बाभ्रव्यागमने सागरिकाया विस्मृतिः।।
(12) प्रकृतयो दिव्या अदिव्या दिव्यादिव्याश्च वीररौद्रशृङ्गारशान्तरसप्रधाना धीरोदात्तधीरोद्धतधीरललितधीरप्रशान्ताः, उत्तमाधममध्यमाश्च। रतिहासशोकाद्भुतानि, अदिव्यो- त्तमप्रकृतिवत् दिव्येष्वपि। किन्तु रतिः सम्भोगशृङ्गाररूपाम्, उत्तमदेवताविषया न वर्णनीया। तद्वर्णनं हि पित्रोः सम्भोगवर्णनमिवात्यन्तमनुचितम्।
क्रोधं प्रभो ! संहर संहरेति यावद्गिरः खे मरुतां चरन्ति ।
तावत्स वह्निर्भवनेत्रजन्मा भस्मावशेषं मदनञ्चकार ।। 329 ।।
इत्युक्तवत् भ्रुकुट्यादिविकारवर्जितः क्रोधः सद्यःफलदः स्वर्गपातालगगनसमुद्रोल्लङ्घनाद्युत्साहश्च दिव्येष्वेव। अदिव्येषु तु यावदवदानं प्रसिद्धमुचितं वा तावदेवोपनिबद्धव्यम्। अधिकं तु निबध्यमानमसत्यप्रतिभासनं `नायकवद्वर्तितव्यं न प्रतिनायकवत्' इत्युपदेशेन पर्यवस्येत्। दिव्यादिव्येषु, उभयथाऽपि। एवमुक्तस्यौचित्यस्य दिव्यादीनामिव धीरोदात्तादीनामप्यन्यथावर्णनं विपर्ययः। तत्रभवन् भगवन्नित्युत्तमेन न, अधमेन मुनिप्रभृतौ न राजादौ भट्टारकेति नोत्तमेन राजादौ प्रकृतिविपर्ययापत्तेर्वाच्यम्। एवं देशकालवयोजात्यादीनां वेषव्यवहारादिकमुचितमेवोपनिबद्वव्यम्।।
(13) अनङ्गस्य रसानुपकारकस्य वर्णनम्। यथा कर्पूरमञ्जर्यां नायिकया स्वात्मना च कृतं वसन्तवर्णनमनादृत्य वन्दिवर्णितस्य राज्ञा प्रशंसनम्।।
``ईदृशाः'' इति। नायिकापादप्रहारादिना नायककोपादिवर्णनम्। उक्तं हि ध्वनिकृता-
``अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम्।
औचित्योपनिबन्धस्तु रसस्योपनिषत्परा।।'' इति।।
इदानीं क्वचिददोषा अप्येते, इत्युच्यन्ते।
(सूo 83) न दोषः स्वपदेनोक्तावपि सञ्चारिणः क्वचित्।
यथा-
औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्रिया
तैस्तैर्बन्धुवधूजनस्य वचनैर्नीताभिमुख्यं पुनः।
दृष्ट्वाऽग्रे वरमात्तसाध्वसरसा गौरी नवे सङ्गमे
संरोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः ।। 330 ।।
अत्रौत्सुक्यशब्द इव तदनुभावो न तथा प्रतीतिकृत्। अत एव `दूरादुत्सुकम्' इत्यादौ व्रीडाप्रेमाद्यनुभावानां विवलितत्वादीनामिवोत्सुकत्वानुभावस्य सहसा प्रसरणादिरूपस्य तथा- प्रतिपत्तिकारित्वाभावादुत्सुकमिति कृतम् ।।
(सूo 84) सञ्चार्यादेर्विरुद्धस्य बाध्यस्योक्तिर्गुणावहा ।।63।।
बाध्यत्वेनोक्तिर्न परमदोषः, यावत्प्रकृतरसपरिपोषकृत्। यथा-
`क्वाकार्यं शशलक्ष्मणः क्व च कुलम्' इत्यादौ ।। 331 ।।
अत्र वितर्कादिषु, उद्गतेष्वपि चिन्तायामेव विश्रान्तिरिति प्रकृतरसपरिपोषः।।
पाण्डु क्षामं वदनं हृदयं सरसं तवालसं च वपुः।
आवेदयति नितान्तं क्षेत्रियरोगं सखि हृदन्तः ।। 332 ।।
इत्यादौ साधारणत्वं पाण्डुतादीनामिति न विरुद्धम् ।।
सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः।
किन्तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ।। 333 ।।
इत्यत्राद्यमर्धं बाध्यत्वेनैवोक्तम्। जीवितादपि, अधिकमपाङ्गभङ्गस्यास्थिरत्वमिति प्रसिद्धभङ्गुरोपमानतयोपात्तं शान्तमेव पुष्णाति न पुनः शृङ्गारस्यात्र प्रतीतिस्तदङ्गाप्रतिपत्तेः। न तु विनेयोन्मुखीकरणमत्र परिहारः शान्तशृङ्गारयोर्नैरन्तर्यस्याभावात्। नापि काव्यशोभाकरणं रसान्तरादनुप्रासमात्राद्वा तथा भावात्।।
(सूo 85) आश्रयैक्ये विरुद्धो यः स कार्यो भिन्नसंश्रयः।
रसान्तरेणान्तरितो नैरन्तर्येण यो रसः ।।64।।
वीरभयानकयोरेकाश्रयत्वेन विरोध इति प्रतिपक्षगतत्वेन भयानको निवेशयितव्यः। शान्तशृङ्गारयोस्तु नैरन्तर्येण विरोध इति रसान्तरमन्तरे कार्यम्। यथा नागानन्दे शान्तस्य जीमूतवाहनस्य `अहो गीतम् अहो वादित्रम्' इत्यद्भुतमन्तर्निवेश्य मलयवतीं प्रतिशृङ्गारो निबद्धः।
न परं प्रबन्धे यावदेकस्मिन्नपि वाक्ये रसान्तरव्यवधिना विरोधो निवर्तते। यथा-
भूरेणुदिग्धान् नवपारिजातमालारजोवासितबाहुमध्याः।
गाढं शिवाभिः परिरभ्यमाणान् सुराङ्गनाश्लिष्टभुजान्तरालाः ।। 334 ।।
सशोणितैः क्रव्यभुजां स्फुरद्भिः पक्षैः खगानामुपवीज्यमानान्।
संवीजिताश्चन्दनवारिसेकैः सुगन्धिभिः कल्पलतादुकूलैः ।। 335 ।।
विमानपर्यङ्कतले निषण्णाः कुतूहलाविष्टतया तदानीम्।
निर्दिश्यमानान् ललनाङ्गुलीभिर्वीराः स्वदेहान् पतितानपश्यन् ।। 336 ।।
अत्र बीभत्सशृङ्गारयोरन्तर्वीररसो निवेशितः।
(सूo 86) स्मर्यमाणो विरुद्धोऽपि साम्येनाथ विवक्षितः।
अङ्गिन्यङ्गत्वमाप्तौ यौ तौ न दुष्टौ परस्परम् ।।65।।
अयं स रसनोत्कर्षी पीनस्तनविमर्दनः।
नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ।। 337 ।।
एतद् भूरिश्रवसः समरभुवि पतितं हस्तमालोक्य तद्वधूरभिदधौ। अत्र पूर्वावस्थास्मरणं शृङ्गाराङ्गमपि करुणं परिपोषयति।।
दन्तक्षतानि करजैश्च विपाटितानि प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे।
दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैर्मुनिभिरप्यवलोकितानि ।। 338 ।।
अत्र कामुकस्य दन्तक्षतादीनि यथा चमत्कारकारीणि तथा जिनस्य। यथा वा परः शृङ्गारी तदवलोकनात्सस्पृहस्तद्वत् एतद्दृशो मुनय इति साम्यविवक्षा।।
क्रामन्त्यः क्षतकोमलाङ्गुलिगलद्रक्तैः सदर्भाः स्थलीः
पादैः पातितयावकैरिव गलद्बाष्पाम्बुधौताननाः।
भीता भर्तृकरावलम्बितकरास्त्वच्छत्रुनार्योऽधुना
दावाग्निं परितो भ्रमन्ति पुनरप्युद्यद्विवाहा इव ।। 339 ।।
अत्र चाटुके राजविषया रतिः प्रतीयते। तत्र करुण इव शृङ्गारोऽप्यङ्गमिति तयोर्न विरोधः।
यथा-
एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर।
एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः ।। 340 ।।
इत्यत्र, एहीति क्रीडन्ति गच्छेति क्रीडन्तीति क्रीडनापेक्षयोरागमनगमनयोर्न विरोधः।
क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं
गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण।
आलिङ्गन् योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः
कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ।। 341 ।।
इत्यत्र त्रिपुररिपुप्रभावातिशयस्य करुणोऽङ्गं तस्य तु शृङ्गारः। तथापि न करुणे विश्रान्तिरिति तस्याङ्गतैव। अथवा प्राग् यथा कामुक आचरति स्म तथा शराग्निरिति शृङ्गारपोषितेन करुणेन मुख्य एवार्थ उपोद्बल्यते। उक्तं हि-
`गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते।
प्रधानस्योपकारे हि तथा भूयसि वर्तते।।' इति।।
प्राक्प्रतिपादितस्य रसस्य रसान्तरेण न विरोधः, नाप्यङ्गाङ्गिभावो भवति, इति रसशब्देनात्र स्थायिभाव उपलक्ष्यते।।
।। इति काव्यप्रकाशे दोषदर्शनो नाम सप्तम उल्लासः ।।7।।
।। श्रीः ।।
मम्मटाचार्यविरचितः
काव्यप्रकाशः
।। अथ अष्टम उल्लासः ।।
एवं दोषानुक्त्वा गुणालङ्कारविवेकमाह -
(सूo 87) ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः।
उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः ।।66।।
आत्मन एव हि यथा शौर्यादयो नाकारस्य तथा रसस्यैव माधुर्यादयो गुणा न वर्णानाम्। क्वचित्तु शौर्यादिसमुचितस्याकारमहत्त्वादेर्दर्शनात् `आकार एवास्य शूरः' इत्यादेर्व्यवहारादन्यत्राशूरेऽपि वितताकृतित्वमात्रेण `शूर' इति क्वापि शूरेऽपि मूर्तिलाघवमात्रेण `अशूरः' इति, अविश्रान्तप्रतीतयो यथा व्यवहरन्ति तद्वन्मधुरादिव्यञ्जकसुकुमारादिवर्णानां मधुरादिव्यवहारप्रवृत्तेरमधुरादिरसाङ्गानां वर्णानां सौकुमार्यादिमात्रेण माधुर्यादि मधुरादिरसोपकरणानां तेषामसौकुमार्यादेरमाधुर्यादि रसपर्यन्तविश्रान्तप्रतीतिबन्ध्या व्यवहरन्ति, अत एव माधुर्यादयो रसधर्माः समुचितैर्वर्णैर्व्यज्यन्ते न तु वर्णमात्राश्रयाः। यथैषां व्यञ्जकत्वं तथोदाहरिष्यते।।
(सूo 88) उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित्।
हारादिवदलङ्कारास्तेऽनुप्रासोपमादयः ।।67।।
ये वाच्यवाचकलक्षणाङ्गातिशयमुखेन मुख्यं रसं सम्भविनमुपकुर्वन्ति ते कण्ठाद्यङ्गानामुत्कर्षाधानद्वारेण शरीरिणोऽपि, उपकारका हारादय इवालङ्काराः । यत्र तु नास्ति रसस्तत्रोक्तिवैचित्र्यमात्रपर्यवसायिनः। क्वचित्तु सन्तमपि नोपकुर्वन्ति। यथाक्रममुदाहरणानि--
अपसारय घनसारं कुरु हारं दूर एव किं कमलैः।
अलमलमालि ! मृणालैरिति वदति दिवानिशं बाला ।। 342 ।।
इत्यादौ वाचकमुखेन,
मनोरागस्तीव्रं विषमिव विसर्पत्यविरतं
प्रमाथी निर्धूमं ज्वलति विधुतः पावक इव।
हिनस्ति प्रत्यङ्गं ज्वर इव गरीयानित इतो
न मां त्रातुं तातः प्रभवति न चाम्बा न भवती ।। 343 ।।
इत्यादौ वाच्यमुखेनालङ्कारौ रसमुपकुरुतः।।
चित्ते विहट्टदिण टुट्टदि सा गुणेसुं सेज्जासु लोट्टदि विसट्टदि दिम्मुहेसुं।
बोलम्मि बट्टदि पवट्टदि कव्वबन्धे झाणेण टुट्टदि चिरं तरुणी तरट्टी ।। 344 ।।
चित्ते विघटते न त्रुट्यति सा गुणेषु शय्यासु लुठति विसर्पति दिङ्मुखेषु ।
वचने वर्त्तते प्रवर्त्तते काव्यबन्धे ध्यानेन त्रुट्यति चिरं तरुणी प्रगल्भा ।।
इत्यादौ वाचकमेव।
मित्रे क्वापि गते सरोरुहवने बद्धानने ताम्यति
क्रन्दत्सु भ्रमरेषु वीक्ष्य दयितासन्नं पुरः सारसम् ।
चक्राह्वेन वियोगिना बिसलता नास्वादिता नोज्झिता
कण्ठे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः ।। 345 ।।
इत्यादौ वाच्यमेव न तु रसम्। अत्र बिसलता न जीवं रोद्धुं क्षमेति प्रकृताननुगुणोपमा।।
एष एव च गुणालङ्कारप्रविभागः। एवं च ``समवायवृत्त्या शौर्यादयः संयोगवृत्त्या तु हारादय इत्यस्तु गुणालङ्काराणां भेदः, ओजःप्रभृतीनामनुप्रासोपमादीनां चोभयेषामपि समवायवृत्त्या स्थितिरिति गड्डलिकाप्रवाहेणैवैषां भेदः'' इत्यभिधानमसत्।।
यदप्युक्तम् ``काव्यशोभायाः कर्तारो धर्मा गुणास्तदतिशयहेतवस्त्वलङ्काराः'' इति। तदपि न युक्तम् यतः किं समस्तैर्गुणैः काव्यव्यवहारः, उत कतिपयैः। यदि समस्तैः, तत्कथमसमस्तगुणा गौडी पाञ्चाली च रीतिः काव्यस्यात्मा।
अथ कतिपयैः, ततः
अद्रावत्र प्रज्वलत्यग्निरुच्चैः प्राज्यः प्रोद्यन्नुल्लसत्येष धूमः ।। 346 ।।
इत्यादावोजःप्रभृतिषु गुणेषु सत्सु काव्यव्यवहारप्राप्तिः।
स्वर्गप्राप्तिरनेनैव देहेन वरवर्णिनी।
अस्या रदच्छदरसो न्यक्करोतितरां सुधाम् ।। 347 ।।
इत्यादौ विशेषोक्तिव्यतिरेकौ गुणनिरपेक्षौ काव्यव्यवहारस्य प्रवर्त्तकौ।।
इदानीं गुणानां भेदमाह-
(सूo 89) माधुर्यौजःप्रसादाख्यास्त्रयस्ते न पुनर्दश।
एषां क्रमेण लक्षणमाह-
(सूo 90) आह्लादकत्वं माधुर्यं शृङ्गारे द्रुतिकारणम् ।।68।।
शृङ्गारे अर्थात् सम्भोगे। द्रुतिर्गलितत्वमिव। श्रव्यत्वं पुनरोजःप्रसादयोरपि।।
(सूo 91) करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम्।
अत्यन्तद्रुतिहेतुत्वात्।।
(सूo 92) दीप्त्यात्मविस्तृतेर्हेतुरोजो वीररसस्थिति ।।69।।
चित्तस्य विस्ताररूपदीप्तत्वजनकमोजः।।
(सूo 93) बीभत्सरौद्ररसयोस्तस्याधिक्यं क्रमेण च।
वीराद्बीभत्से ततो रौद्रे सातिशयमोजः।।
(सूo 94) शुष्केन्धनाग्निवत् स्वच्छजलवत्सहसैव यः ।।70।।
(सूo 95) व्याप्नोत्यन्यत्प्रसादोऽसौ सर्वत्र विहितस्थितिः।
अन्यदिति। व्याप्यमिह चित्तम्। सर्वत्रेति। सर्वेषु रसेषु सर्वासु रचनासु च।।
गुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता ।।71।।
गुणवृत्त्या, उपचारेण। तेषां गुणानाम्। आकारे शौर्यस्येव।।
कुतस्त्रय एव न दश इत्याह
(सूo 96) केचिदन्तर्भवन्त्येषु दोषत्यागात्परे श्रिताः।
अन्ये भजन्ति दोषत्वं कुत्रचिन्न ततो दश ।।72।।
बहूनामपि पदानामेकपदवद्भासनात्मा यः श्लेषः, यश्चारोहावरोहक्रमरूपः समाधिः, या च विकटत्वलक्षणा, उदारता यश्चौजोमिश्रितशैथिल्यात्मा प्रसादः, तेषामोजस्यन्तर्भावः। पृथक्पदत्वरूपं माधुर्यं भङ्ग्या
साक्षादुपात्तम् प्रसादेनार्थव्यक्तिर्गृहीता। मार्गाभेदरूपा समता क्वचिद्दोषः। तथाहि `मातङ्गाः किमु वल्गितैः' इत्यादौ सिंहाभिधाने मसृणमार्गत्यागो गुणः। कष्टत्वग्राम्यत्वयोर्दुष्टताभिधानात्तन्निराकरणेनापारुष्यरूपं सौकुमार्यम् औज्ज्वल्यरूपा कान्तिश्च स्वीकृता। एवं न दश शब्दगुणाः।।
`पदार्थे वाक्यरचनं वाक्यार्थे च पदाभिधा।
प्रौढिर्व्याससमासौ च साभिप्रायत्वमस्य च।।'
इति या प्रौढिः ओज इत्युक्तं तत् वैचित्र्यमात्रं न गुणः। तदभावेऽपि काव्यव्यवहारप्रवृत्तेः। अपुष्टार्थत्वाधिकपदत्वानवीकृतत्वामङ्गलरूपाश्लीलग्राम्याणां निराकरणेन च साभिप्रायत्वरूपमोजः, अर्थवैमल्यात्मा प्रसादः, उक्तिवैचित्र्यरूपं माधुर्यम् अपारुष्यरूपं सौकुमार्यम्, अग्राम्यत्वरूपा, उदारता च स्वीकृतानि। अभिधास्यमानस्वभावोक्त्यलङ्कारेण रसध्वनिगुणीभूतव्यङ्ग्याभ्यां च वस्तुस्वभावस्फुटत्वरूपा, अर्थव्यक्तिः, दीप्तरसत्वरूपा कान्तिश्च स्वीकृता। क्रमकौटिल्यानुल्बणत्वोपपत्तियोगरूपघटनात्मा श्लेषोऽपि विचित्रत्वमात्रम्। अवैषम्यस्वरूपा समता दोषाभावमात्रं न पुनर्गुणः। कः खल्वनुन्मत्तोऽन्यस्य प्रस्तावेऽन्यदभिदध्यात्। अर्थस्यायोनेरन्यच्छायायोनेर्वा यदि न भवति दर्शनं तत्कथं काव्यम् इत्यर्थदृष्टिरूपः समाधिरपि न गुणः।।
(सूo 97) तेन नार्थगुणा वाच्याः
वाच्याः वक्तव्याः।।
(सूo 98) प्रोक्ताः शब्दगुणाश्च ये।
वर्णाः समासो रचना तेषां व्यञ्जकतामिताः ।।73।।
के कस्य इत्याह
(सूo 99) मूर्ध्नि वर्गान्त्यगाः स्पर्शा अटवर्गा रणौ लघू।
अवृत्तिर्मध्यवृत्तिर्वा माधुर्ये घटना तथा ।।74।।
टठडढवर्जिताः कादयो मान्ताः शिरसि निजवर्गान्त्ययुक्ताः, तथा रेफलकारौ ह्रस्वान्तरिताविति
वर्णाः समासभावो मध्यमः समासो वेति समासः। तथा माधुर्यवती पदान्तरयोगेन रचना माधुर्यस्य व्यञ्जिका। उदाहरणम्-
अनङ्गरङ्गप्रतिमं तदङ्गं भङ्गीभिरङ्गीकृतमानताङ्ग्याः।
कुर्वन्ति यूनां सहसा यथैताः स्वान्तानि शान्तापरचिन्तनानि ।। 348 ।।
(सूo 100) योग आद्यतृतीयाभ्यामन्त्ययो रेण तुल्ययोः।
टादिः शषौ वृत्तिदैर्घ्यं गुम्फ उद्धत ओजसि ।।75।।
वर्गप्रथमतृतीयाभ्यामन्त्ययोः, द्वितीयचतुर्थयोः, रेफेण, अध उपरि, उभयत्र वा यस्य कस्यचित् तुल्ययोः, तेन तस्यैव संबन्धः टवर्गोऽर्थात् णकारवर्जः शकारषकारौ दीर्घसमासः, विकटा सङ्घटना, ओजसः। उदाहरणम् -
मूर्ध्नामुद्वृत्तकृत्ताविरलगलगलद्रक्तसंसक्तधारा-
धौतेशाङ्घ्रिप्रसादोपनतजयजगज्जातमिथ्यामहिम्नाम्।
कैलासोल्लासनेच्छाव्यतिकरपिशुनोत्सर्पिदर्पोद्धुराणां
दोष्णां चैषां किमेतत्फलमिह नगरीरक्षणे यत्प्रयासः ।। 349 ।।
(सूo 101) श्रुतिमात्रेण शब्दात्तु येनार्थप्रत्ययो भवेत्।
साधारणः समग्राणां स प्रसादो गुणो मतः ।।76।।
समग्राणां रसानां सङ्घटनानां च। उदाहरणम् -
परिम्लानं पीनस्तनजघनसङ्गादुभयत-
स्तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम्।
इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः
कृशाङ्ग्याः सन्तापं वदति बिसिनीपत्रशयनम् ।। 350 ।।
यद्यपि गुणपरतन्त्राः संघटनादयस्तथापि
(सूo 102) वक्तृवाच्यप्रबन्धानामौचित्येन क्वचित्क्वचित् ।
रचनावृत्तिवर्णानामन्यथात्वमपीष्यते ।।77।।
क्वचिद्वाच्यप्रबन्धानपेक्षया वक्त्रौचित्यादेव रचनादयः। यथा-
मन्थायस्तार्णवाम्भः प्लुतकुहरचलन्मन्दरध्वानधीरः
कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसंघट्टचण्डः।
कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः
केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितोऽसौ ।। 351 ।।
अत्र हि न वाच्यं क्रोधादिव्यञ्जकम्। अभिनेयार्थं च काव्यमिति तत्प्रतिकूला उद्धता रचनादयः। वक्ता चात्र भीमसेनः।।
क्वचिद्वक्तृप्रबन्धानपेक्षया वाच्यौचित्यादेव रचनादयः। यथा-
प्रौढच्छेदानुरूपोच्छलनरयभवत्सैंहिकेयोपघात-
त्रासाकृष्टाश्वतिर्यग्वलितरविरथेनारुणेनेक्ष्यमाणम्।
कुर्वत्काकुत्स्थवीर्यस्तुतिमिव मरुतां कन्धरारन्ध्रभाजां
भाङ्कारैर्भीममेतन्निपतति वियतः कुम्भकर्णोत्तमाङ्गम् ।। 352 ।।
क्वचिद्वक्तृवाच्यानपेक्षाः प्रबन्धोचिता एव ते। तथाहि-- आख्यायिकायां शृङ्गारेऽपि न मसृणवर्णादयः कथायां रौद्रेऽपि नात्यन्तमुद्धताः। नाटकादौ रौद्रेऽपि न दीर्घसमासादयः।
एवमन्यदप्यौचित्यमनुसर्तव्यम्।।
।। इति काव्यप्रकाशे गुणालङ्कारभेदनियतगुणनिर्णयो नाम अष्टम उल्लासः ।।8।।
।। श्रीः ।।
मम्मटाचार्यविरचितः
काव्यप्रकाशः
।। अथ नवम उल्लासः ।।
गुणविवेचने कृतेऽलङ्काराः प्राप्तावसरा, इति सम्प्रति शब्दालङ्कारानाह-
(सूo 103) यदुक्तमन्यथावाक्यमन्यथाऽन्येन योज्यते।
श्लेषेण काक्वा वा ज्ञेया सा वक्रोक्तिस्तथा द्विधा ।।78।।
तथेति श्लेषवक्रोक्तिः काकुवक्रोक्तिश्च। तत्र पदभङ्गश्लेषेण यथा
नारीणामनुकूलमाचरसि चेज्जानासि कश्चेतनो
वामानां प्रियमादधाति हितकृन्नैवाबलानां भवान्।
युक्तं किं हितकर्तनं ननु बलाभावप्रसिद्धात्मनः
सामर्थ्यं भवतः पुरन्दरमतच्छेदं विधातुं कुतः ।। 353 ।।
अभङ्गश्लेषेण यथा
अहो केनेदृशी बुद्धिर्दारुणा तव निर्मिता।
त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित् ।। 354 ।।
काक्वा यथा-
गुरुजनपरतन्त्रतया दूरतरं देशमुद्यतो गन्तुम्।
अलिकुलकोकिलललिते नैष्यति सखि ! सुरभिसमयेऽसौ ।। 355 ।।
(सूo 104) वर्णसाम्यमनुप्रासः
स्वरवैसादृश्येऽपि व्यञ्जनसदृशत्वं वर्णसाम्यम्। रसाद्यनुगतः प्रकृष्टो न्यासोऽनुप्रासः।
(सूo 105) छेकवृत्तिगतो द्विधा।
छेकाः, विदग्धाः। वृत्तिर्नियतवर्णगतो रसविषयो व्यापारः। गत इति छेकानुप्रासो वृत्त्यनुप्रासश्च।
किन्तयोः स्वरूपम्, इत्याह--
(सूo 106) सोऽनेकस्य सकृत्पूर्वः
अनेकस्य, अर्थाद् व्यञ्जनस्य सकृदेकवारं सादृश्यं छेकानुप्रासः। उदाहरणम् -
ततोऽरुणपरिस्पन्दमन्दीकृतवपुः शशी।
दध्रे कामपरिक्षामकामिनीगण्डपाण्डुताम् ।। 356 ।।
(सूo 107) एकस्याप्यसकृत्परः ।।79।।
एकस्य, अपिशब्दादनेकस्य व्यञ्जनस्य द्विर्बहुकृत्वो वा सादृश्यं वृत्त्यनुप्रासः।
तत्र-
(सूo 108) माधुर्यव्यञ्जकैर्वर्णैरुपनागरिकोच्यते।
(सूo 109) ओजःप्रकाशकैस्तैस्तु परुषा
उभयत्रापि प्रागुदाहृतम्।
अनङ्गरङ्गप्रतिमं तदङ्गं भङ्गीभिरङ्गीकृतमानताङ्ग्याः।
कुर्वन्ति यूनां सहसा यथैताः स्वान्तानि शान्तापरचिन्तनानि ।। 357 ।।
मूर्ध्नामुद्वृत्तकृत्ताविरलगलगलद्रक्तसंसक्तधारा-
धौतेशाङ्घ्रिप्रसादोपनतजयजगज्जातमिथ्यामहिम्नाम्।
कैलासोल्लासनेच्छाव्यतिकरपिशुनोत्सर्पिदर्पोद्धुराणां
दोष्णां चैषां किमेतत्फलमिह नगरीरक्षणे यत्प्रयासः।। 358 ।।
(सूo 110) कोमला परैः ।।80।।
परैः शेषैः। तामेव केचित् ग्राम्येति वदन्ति। उदाहरणम्-
अपसारय घनसारं कुरु हारं दूर एव किं कमलैः।
अलमलमालि ! मृणालैरिति वदति दिवानिशं बाला ।। 359 ।।
(सूo 111) केषांचिदेता वैदर्भीप्रमुखा रीतयो मताः।
एतास्तिस्रो वृत्तयः, वामनादीनां मते वैदर्भीगौडीपाञ्चाल्याख्या रीतयो मताः।।
(सूo 112) शाब्दस्तु लाटानुप्रासो भेदे तात्पर्यमात्रतः ।। 81 ।।
शब्दगतोऽनुप्रासः शब्दार्थयोरभेदेऽप्यन्वयमात्रभेदात् लाटजनवल्लभत्वाच्च लाटानुप्रासः।
एष पदानुप्रास इत्यन्ये ।।
(सूo 113) पदानां सः
स इति लाटानुप्रासः। उदाहरणम्-
यस्य न सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य।
यस्य च सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य ।। 360 ।।
(सूo 114) पदस्यापि
अपिशब्देन स इति समुच्चीयते। उदाहरणम्-
वदनं वरवर्णिन्यास्तस्याः सत्यं सुधाकरः।
सुधाकरः क्व नु पुनः कलङ्कविकलो भवेत् ।। 361 ।।
(सूo 115) वृत्तावन्यत्र तत्र वा।
नाम्नः स वृत्त्यवृत्त्योश्च
एकस्मिन् समासे भिन्ने वा समासे समासासमासयोर्वा नाम्नः प्रातिपदिकस्य न तु पदस्य सारूप्यम्। उदाहरणम्-
सितकरकररुचितविभा विभाकराकार ! धरणिधर ! कीर्तिः।
पौरुषकमला कमला सापि तवैवास्ति नान्यस्य ।। 362 ।।
(सूo 116) तदेवं पञ्चधा मतः ।।82।।
(सूo 117) अर्थे सत्यर्थभिन्नानां वर्णानां सा पुनःश्रुतिः।
यमकम्
समरसमरसोऽयमित्यादावेकेषामर्थवत्त्वेऽन्येषामनर्थकत्वे भिन्नार्थानामिति न युज्यते वक्तुम् इति, अर्थे सतीत्युक्तम्। सेति सरो रस इत्यादिवैलक्षण्येन तेनैव क्रमेण स्थिता।
(सूo 118) पादतद्भागवृत्ति तद्यात्यनेकताम् ।।83।।
प्रथमो द्वितीयादौ द्वितीयस्तृतीयादौ तृतीयश्चतुर्थे प्रथमस्त्रिष्वपीति सप्त। प्रथमो द्वितीये तृतीयश्चतुर्थे प्रथमश्चतुर्थे द्वितीयस्तृतीये, इति द्वे तदेवं पादजं नवभेदम्। अर्धावृत्ति श्लोकावृत्तिश्चेति द्वे।
द्विधा विभक्ते पादे प्रथमादिपादादिभागः पूर्ववत् द्वितीयादिपादादिभागेषु, अन्तभागोऽन्तभागेष्विति विंशतिर्भेदाः श्लोकान्तरे हि नासौ भागावृत्तिः। त्रिखण्डे त्रिंशत् चतुःखण्डे चत्वारिंशत्।
प्रथमपादादिगतान्त्यार्धादिभागो द्वितीयपादादिगते, आद्यार्धादिभागे यम्यते, इत्याद्यन्वर्थतानुसरणेनानेकभेदम्
अन्तादिकम् आद्यन्तिकम् तत्समुच्चयः, मध्यादिकम् आदिमध्यम्
अन्तमध्यम् मध्यान्तिकम् तेषां समुच्चयः। तथा तस्मिन्नेव पादे, आद्यादिभागानां मध्यादिभागेषु, अनियते च स्थाने, आवृत्तिरिति प्रभूततमभेदम्। तदेतत्काव्यान्तर्गडुभूतम् इति नास्य भेदलक्षणं कृतम्। दिङ्मात्रमुदाह्रियते
सन्नारीभरणोमायमाराध्य विधुशेखरम्।
सन्नारीभरणोऽमायस्ततस्त्वं पृथिवीं जय ।। 363 ।।
विनायमेनो नयताऽसुखादिना विना यमेनोनयता सुखादिना।
महाजनोऽदीयत मानसादरं महाजनोदी यतमानसादरम् ।। 364 ।।
स त्वारम्भरतोऽवश्यमबलं विततारवम्।
सर्वदा रणमानैषीदवानलसमस्थितः ।। 365 ।।
सत्वारम्भरतोऽवश्यमवलम्बिततारवम्।
सर्वदारणमानैषी दवानलसमस्थितः ।। 366 ।।
अनन्तमहिमव्याप्तविश्वां वेधा न वेद याम्।
या च मातेव भजते प्रणते मानवे दयाम् ।। 367 ।।
यदानतोऽयदानतो नयात्ययं न यात्ययम्।
शिवेहितां शिवे हितां स्मरामितां स्मरामि ताम् ।। 368 ।।
सरस्वति ! प्रसादं मे स्थितिं चित्तसरस्वति !।
सर स्वति कुरु क्षेत्रकुरुक्षेत्रसरस्वति !।। 369 ।।
ससार साकं दर्पेण कन्दर्पेण ससारसा।
शरन्नवाना बिभ्राणा नाबिभ्राणा शरन्नवा ।। 370 ।।
मधुपराजिपराजितमानिनीजनमनःसुमनःसुरभि श्रियम्।
अभृत वारितवारिजविप्लवं स्फुटितताम्रतताम्रवणं जगत् ।। 371 ।।
एवं वैचित्र्यसहस्रैः स्थितमन्यदुन्नेयम्।।
(सूo 119) वाच्यभेदेन भिन्ना यद् युगपद्भाषणस्पृशः।
श्लिष्यन्ति शब्दाः श्लेषोऽसावक्षरादिभिरष्टधा ।।84।।
`अर्थभेदेन शब्दभेदः' इति दर्शने `काव्यमार्गे स्वरो न गण्यते' इति च नये वाच्यभेदेन भिन्ना अपि शब्दा यद् युगपदुच्चारणेन श्लिष्यन्ति भिन्नं स्वरूपमपह्नुवते स श्लेषः। स च वर्णपदलिङ्गभाषाप्रकृतिप्रत्ययविभक्तिवचनानां भेदादष्टधा। क्रमेणोदाहरणम्--
अलङ्कारः शङ्काकरनरकपालं परिजनो
विशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः।
अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो-
र्विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनरमी ।। 372 ।।
पृथुकार्त्तस्वरपात्रं भूषितनिःशेषपरिजनं देव।
विलसत्करेणुगहनं सम्प्रति सममावयोः सदनम् ।। 373 ।।
भक्तिप्रह्वविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी
ध्यानालम्बनतां समाधिनिरतैर्नीते हितप्राप्तये।
लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती
युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ।। 374 ।।
एष वचनश्लेषोऽपि।
महदेसुरसन्धम्मे तमवसमासङ्गमागमाहरणे।
हरबहुसरणं तं चित्तमोहमवसर उमे सहसा ।। 375 ।।
(मम देहि रसं धर्मे तमोवशामाशां गमागमाद्धरं नः।
हरवधूः शरणं त्व चित्तमोहोपसरतु मे सहसा।।)
अयं सर्वाणि शास्त्राणि हृदि ज्ञेषु च वक्ष्यति।
सामर्थ्यकृदमित्राणां मित्राणां च नृपात्मजः ।। 376 ।।
रजनिरमणमौलेः पादपद्मावलोकक्षणसमयपराप्तापूर्वसम्पत्सहस्रम्।
प्रमथनिवहमध्ये जातुचित्त्वत्प्रसादादहमुचितरुचिः स्यान्नन्दिता सा तथा मे ।। 377 ।।
सर्वस्वं हर सर्वस्य त्वं भवच्छेदतत्परः।
नयोपकारसाम्मुख्यमायासि तनुवर्तनम् ।। 378।।
(सूo 120) भेदाभावात्प्रकृत्यादेर्भेदोऽपि नवमो भवेत्।
नवमोऽपीत्यपिर्भिन्नक्रमः। उदाहरणम्--
योऽसकृत्परगोत्राणां पक्षच्छेदक्षणक्षमः।
शतकोटिदतां बिभ्रद्विबुधेन्द्रः स राजते ।। 379 ।।
अत्र प्रकरणादिनियमाभावात् द्वावप्यर्थौ वाच्यौ।।
ननु स्वरितादिगुणभेदात् भिन्नप्रयत्नोच्चार्याणां तदभावादभिन्नप्रयत्नोच्चार्याणां च शब्दानां बन्धेऽलङ्कारान्तरप्रतिभोत्पत्तिहेतुः शब्दश्लेषोऽर्थश्लेषश्चेति द्विविधोऽप्यर्थालङ्कारमध्ये परिगणितोऽन्यैरिति कथमयं शब्दालङ्कारः। उच्यते--इह दोषगुणालङ्काराणां शब्दार्थगतत्वेन यो विभागः सः, अन्वयव्यतिरेकाभ्यामेव व्यवतिष्ठते। तथाहि--कष्टत्वादिगाढत्वाद्यनुप्रासादयः, व्यर्थत्वादिप्रौढ्याद्युपमादयस्तद्भावतदभावानुविधायित्वादेव शब्दार्थगतत्वेन व्यवस्थाप्यन्ते।
स्वयं च पल्लवाताम्रभास्वत्करविरीजिता। इत्यभङ्गः
प्रभातसन्ध्येवास्वापफललुब्धेहितप्रदा ।। 380 ।। इति सभङ्गः
इति द्वावपि शब्दैकसमाश्रयाविति द्वयोरपि शब्दश्लेषत्वमुपपन्नम् न त्वाद्यस्यार्थश्लेषत्वम्। अर्थश्लेषस्य तु स विषयः, यत्र शब्दपरिवर्तनेऽपि न श्लेषत्वखण्डना। यथा-
स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम्।
अहो सुसदृशी वृत्तिस्तुलाकोटेः खलस्य च ।। 381 ।।
न चायमुपमाप्रतिभोत्पत्तिहेतुः श्लेषः, अपि तु श्लेषप्रतिभोत्पत्तिहेतुरुपमा। तथाहि--यथा
`कमलमिव मुखं मनोज्ञमेतत्कचतितराम्' इत्यादौ गुणसाम्ये क्रियासाम्ये, उभयसाम्ये वा, उपमा। तथा `सकलकलं पुरमेतज्जातं सम्प्रति सुधांशुबिम्बमिव' इत्यादौ शब्दमात्रसाम्येऽपि सायुक्तैव। तथा ह्युक्तं रुद्रटेन
``स्फुटमर्थालङ्कारावेतावुपमासमुच्चयौ किन्तु।
आश्रित्य शब्दमात्रं सामान्यमिहापि संभवतः।।'' इति।
न च `कमलमिव मुखम्' इत्यादिः साधारणधर्मप्रयोगशून्य उपमाविषय इति वक्तुं युक्तम्। पूर्णोपमाया निर्विषयत्वापत्तेः।।
देव ! त्वमेव पातालमाशानां त्वं निबन्धनम्।
त्वं चामरमरुद्भूमिरेको लोकत्रयात्मकः।। 382 ।।
इत्यादिः श्लेषस्य चोपमाद्यलङ्कारविविक्तोऽस्ति विषय इति द्वयोर्योगे, संकर एव। उपपत्तिपर्यालोचने तु, उपमाया एवायं युक्तो विषयः अन्यथा विषयापहार एव पूर्णोपमायाः स्यात्।
न च `अविन्दुसुन्दरी नित्यं गलल्लावण्यबिन्दुका' इत्यादौ विरोधप्रतिभोत्पत्तिहेतुः श्लेषः, अपि तु
श्लेषप्रतिभोत्पत्तिहेतुर्विरोधः। नह्यत्रार्थद्वयप्रतिपादकः शब्दश्लेषः, द्वितीयार्थस्य प्रतिभातमात्रस्य प्ररोहाभावात्। न च विरोधाभास इव विरोधः श्लेषाभासः श्लेषः। तदेवमादिषु वाक्येषु श्लेषप्रतिभोत्पत्तिहेतुरलङ्कारान्तरमेव। तथा च -
सद्वंशमुक्तामणिः ।। 383 ।।
नाल्पः कविरिव स्वल्पश्लोको देव ! महान् भवान् ।। 384 ।।
अनुरागवती सन्ध्या दिवसस्तत्पुरःसरः।
अहो दैवगतिश्चित्रा तथाऽपि न समागमः ।। 385 ।।
आदाय चापमचलं कृत्वाऽहीनं गुणं विषमदृष्टिः।
यश्चित्रमच्युतशरो लक्ष्यमभाङ्क्षीन्नमस्तस्मै ।। 386 ।।
इत्यादावेकदेशविवर्तिरूपकश्लेषव्यतिरेकसमासोक्तिविरोधत्वमुचितं न तु श्लेषत्वम्।।
शब्दश्लेष इति चोच्यते, अर्थालङ्कारमध्ये च लक्ष्यते, इति कोऽयं नयः । किं च वैचित्र्यमलङ्कार इति य एव कविप्रतिभासंरम्भगोचरस्तत्रैव विचित्रता, इति सैवालङ्कारभूमिः। अर्थमुखप्रेक्षित्वमेतेषां शब्दानामिति चेत् अनुप्रासादीनामपि तथैवेति तेऽप्यर्थालङ्काराः किं नोच्यन्ते। रसादिव्यञ्जकस्वरूपवाच्यविशेषसव्यपेक्षत्वेऽपि ह्यनुप्रासादीनामलङ्कारता। शब्दगुणदोषाणामप्यर्थापेक्षयैव गुणदोषता। अर्थगुणदोषालङ्काराणां शब्दापेक्षयैव व्यवस्थितिरिति तेऽपि शब्दगतत्वेनोच्यन्ताम्। `विधौ वक्रे मूर्ध्नि' इत्यादौ च वर्णादिश्लेषे, एकप्रयत्नोच्चार्यत्वेऽर्थश्लेषत्वं शब्दभेदेऽपि प्रसज्यतामित्येवमादि स्वयं विचार्यम्।।
(सूo 121) तच्चित्रं यत्र वर्णानां खड्गाद्याकृतिहेतुता।।85।।
सन्निवेशविशेषेण यत्र न्यस्ता वर्णाः खड्गमुरजपद्माद्याकारमुल्लासयन्ति तच्चित्रं काव्यम्। कष्टं काव्यमेतदिति दिङ्मात्रं प्रदर्श्यते। उदाहरणम्--
मारारिशक्ररामेभमुखैरासाररंहसा।
सारारब्धस्तवा नित्यं तदार्तिहरणक्षमा ।। 387 ।।
माता नतानां संघट्टः श्रियां बाधितसंभ्रमा।
मान्याऽथ सीमा रामाणां शं मे दिश्यादुमादिमा ।। 388 ।।
(खड्गबन्धः)
सरला बहुलारम्भतरलालिवलारवा।
बारलाबहुलामन्दकरलाबहुलामला ।। 389 ।।
(मुरजबन्धः)
भासते प्रतिभासार रसाभाताहताविभा।
भावितात्मा शुभा वादे देवाभा बत ते सभा ।। 390 ।।
(पद्मबन्धः)
रसासार ! रसा सारसायताक्ष ! क्षतायसा।
सातावात ! तवातासा रक्षतस्त्वस्त्वतंक्षर ।। 391 ।।
(सर्वतोभद्रम्)
सम्भविनोऽप्यन्ये प्रभेदाः शक्तिमात्रप्रकाशका न तु काव्यरूपतां दधतीति न प्रदर्श्यन्ते।।
(सूo 122) पुनरुक्तवदाभासो विभिन्नाकारशब्दगा।।
एकार्थतेव
भिन्नरूपसार्थकानर्थकश्ब्दनिष्ठमेकार्थत्वेन मुखे भासनं पुनरुक्तवदाभासः। स च
(सूo 123) शब्दस्य
सभङ्गाभङ्गरूपकेवलशब्दनिष्ठः। उदाहरणम्--
अरिवधदेहशरीरः सहसा रथिसूततुरगपादातः।
भाति सदानत्यागः स्थिरतायामवनितलतिलकः ।। 392 ।।
चकासत्यङ्गनारामाः कौतुकानन्दहेतवः।
तस्य राज्ञः सुमनसो विबुधाः पार्श्ववर्तिनः ।। 393 ।।
(सूo 124) तथा शब्दार्थयोरयम् ।।86।।
उदाहरणम्--
तनुवपुरजघन्योऽसौ करिकुञ्जररुधिररक्तखरनखरः।
तेजोधाम महःपृथुमनसामिन्द्रो हरिर्जिष्णुः ।। 394 ।।
अत्रैकस्मिन् पदे परिवर्त्तिते नालङ्कार इति शब्दाश्रयः, अपरस्मिंस्तु परिवर्तितेऽपि स न हीयते, इत्यर्थनिष्ठ इत्युभयालङ्कारोऽयम्।।
।। इति काव्यप्रकाशे शब्दालङ्कारनिर्णयो नाम नवम उल्लासः ।। 9 ।।
।। श्रीः ।।
मम्मटाचार्यविरचितः
काव्यप्रकाशः
।। अथ दशम उल्लासः ।।
अर्थालङ्कारानाह--
(सूo 125) साधर्म्यमुपमा भेदे
उपमानोपमेययोरेव न तु कार्यकारणादिकयोः साधर्म्यं भवतीति तयोरेव समानेन धर्मेण सम्बन्ध उपमा। भेदग्रहणमनन्वयव्यवच्छेदाय।।
(सूo 126) पूर्णा लुप्ता च
उपमानोपमेयसाधारणधर्मोपमाप्रतिपादकानामुपादाने पूर्णा, एकस्य द्वयोस्त्रयाणां वा लोपे लुप्ता।
(सूo 127) साग्रिमा। श्रौत्यार्थी च भवेद्वाक्ये समासे तद्धिते तथा ।।87।।
अग्रिमा पूर्णा। यथेववादिशब्दा यत्परास्तस्यैवोपमानताप्रतीतिरिति यद्यप्युमानविशेषणान्येते तथापि शब्दशक्तिमहिम्ना श्रुत्यैव षष्ठीवत् सम्बन्धं प्रतिपादयन्तीति तत्सद्भावे श्रौती, उपमा। तथैव ``तत्र तस्येव'' इत्यनेनेवार्थे विहितस्य वतेरुपादाने श्रौती। `तेन तुल्यं मुखम्' इत्यादावुपमेये, एव `तत्तुल्यमस्य' इत्यादौ चोपमाने, एव `इदं च तच्च तुल्यम्' इत्युभयत्रापि तुल्यादिशब्दानां विश्रान्तिरिति साम्यपर्यालोचनया तुल्यताप्रतीतिरिति साधर्म्यस्यार्थत्वात्तुल्यादिशब्दोपादाने आर्थी। तद्वत् `तेन तुल्यं क्रिया चेद्वतिः' इत्यनेन विहितस्य वतेः स्थितौ।
``इवेन नित्यसमासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च'' इति नित्यसमासे, इवशब्दयोगे समासगा। क्रमेणोदाहरणम्--
स्वप्नेऽपि समरेषु त्वां विजयश्रीर्न मुञ्चति।
प्रभावप्रभवं कान्तं स्वाधीनपतिका यथा ।। 395 ।।
चकितहरिणलोललोचनायाः क्रुधि तरुणारुणतारहारिकान्ति।
सरसिजमिदमाननं च तस्याः सममिति चेतसि सम्मदं विधत्ते ।। 396 ।।
अत्यायतैर्नियमकारिभिरुद्धतानां दिव्यैः प्रभाभिरनपायमयैरुपायैः।
शौरिर्भुजैरिव चतुर्भिरदः सदा यो लक्ष्मीविलासभवनैर्भुवनं बभार ।। 397 ।।
अवितथमनोरथपथप्रथनेषु प्रगुणगरिमगीतश्रीः।
सुरतरुसदृशः स भवानभिलषणीयः क्षितीश्वर ! न कस्य ।। 398 ।।
गाम्भीर्यगरिमा तस्य सत्यं गङ्गाभुजङ्गवत्।
दुरालोकः स समरे निदाघाम्बररत्नवत् ।। 399 ।।
स्वाधीनपतिका कान्तं भजमाना यथा लोकोत्तरचमत्कारभूः, तथा जयश्रीस्त्वदासेवनेनेत्यादिना प्रतीयमानेन विना यद्यपि नोक्तेर्वैचित्र्यम्, वैचित्र्यं चालङ्कारः, तथापि न ध्वनिगुणीभूतव्यङ्ग्यव्यवहारः। न खलु व्यङ्ग्यसंस्पर्शपरामर्शादत्र चारुताप्रतीतिः, अपि तु वाच्यवैचित्र्यप्रतिभासादेव। रसादिस्तु व्यङ्ग्योऽर्थोऽलङ्कारान्तरं च सर्वत्राव्यभिचारीत्यगणयित्वैव तदलङ्कारा उदाहृताः। तद्रहितत्वेन तु, उदाह्रियमाणा विरसतामावहन्तीति पूर्वापरविरुद्धाभिधानमिति न चोदनीयम्।।
(सूo 128) तद्वत् धर्मस्य लोपे स्यान्न श्रौती तद्धिते पुनः।
धर्मः साधारणः। तद्धिते कल्पबादौ त्वार्थ्येव तेन पञ्च। उदाहरणम्--
धन्यस्यानन्यसामान्यसौजन्योत्कर्षशालिनः
करणीयं वचश्चेतः सत्यं तस्यामृतं यथा ।। 400 ।।
आकृष्टकरवालोऽसौ संपराये परिभ्रमन्।
प्रत्यर्थिसेनया दृष्टः कृतान्तेन समः प्रभुः ।। 401 ।।
करवाल इवाचारस्तस्य वागमृतोपमा।
विषकल्पं मनो वेत्सि यदि जीवसि तत्सखे !।। 402 ।।
(सूo 129) उपमानानुपादाने वाक्यगाऽथ समासगा ।।88।।
सअलकरणपरवीसामसिरिविअरणं ण सरसकव्वस्स।
दीसइ अह व णिसम्मइ सरिसं अंसंसमेत्तेण ।। 403 ।।
(सकलकरणपरविश्रामश्रोवितरण न सरसकाव्यस्य।
दृश्यतेथवा निशम्यते सदृशमंशांशमात्रेण)
कव्वस्सेत्यत्र कव्वसममिति सरिसमित्यत्र च णूणमिति पाठे, एषैव समासगा।।
(सूo 130) वादेर्लोपे समासे सा कर्माधारक्यचि क्यङि।
कर्मकर्त्रोर्णमुलि
वाशब्दः, उपमाद्योतक इति वादेरुपमाप्रतिपादकस्य लोपे षट् समासेन कर्मणोऽधिकरणाच्चोत्पन्नेन क्यचा कर्तुः क्यङा कर्मकर्त्रोरुपपदयोर्णमुला च भवेत्।।
उदाहरणम्--
ततः कुमुदनाथेन कामिनीगण्डपाण्डुना।
नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलङ्कृता ।। 404 ।।
तथा
असितभुजगभीषणासिपत्रो रुहरुहिकाहितचित्ततूर्णचारः।
पुलकिततनुरुत्कपोलकान्तिः प्रतिभटविक्रमदर्शनेऽयमासीत् ।। 405 ।।
पौरं सुतीयति जनं समरान्तरेऽसावन्तःपुरीयति विचित्रचरित्रचुञ्चुः।
नारीयते समरसीम्नि कृपाणपाणेरालोक्य तस्य चरितानि सपत्नसेना ।। 406 ।।
मृधे निदाघघर्मांशुदर्शं पश्यन्ति तं परे।
स पुनः पार्थसंचारं संचरत्यवनीपतिः ।। 407 ।।
(सूo 131) एतद्द्विलोपे क्विप्समासगा ।।89।।
एतयोर्धर्मवाद्योः। उदाहरणम्--
सविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्यः।
यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि ।। 408 ।।
परिपन्थिमनोराज्यशतैरपि दुराक्रमः।
संपरायप्रवृत्तौऽसो राजते राजकुञ्जरः ।। 409 ।।
(सूo 132) धर्मोपमानयोर्लोपे वृत्तौ वाक्ये च दृश्यते।
उदाहरणम् -
ढुण्ढुण्णन्तो मरिहसि कण्टअकलिआइँ केअइवणाइँ।
मालइकुसुमसरिच्छं भमर भमन्तो ण पाविहिसि ।। 410 ।।
(ढुण्ढुलायमानो भरिष्यसि कण्टककलितानि केतकीवनानि।
मालतीकुसुमसदृक्षं भ्रमर भ्रमन्नपि न प्राप्स्यसि।।)
कुसुमेण सममिति पाठे वाक्यगा।
(सूo 133) क्यचि वाद्युपमेयासे
आसे निरासे।
अरातिविक्रमालोकविकस्वरविलोचनः।
कृपाणोदग्रदोर्दण्डः स सहस्रायुधीयति ।। 411 ।।
अत्रात्मा, उपमेयः।
(सूo 134) त्रिलोपे च समासगा ।।90।।
त्रयाणां वादिधर्मोपमानानाम्। उदाहरणम्--
तरुणिमनि कृतावलोकना ललितविलासवितीर्णविग्रहा।
स्मरशरविसराचितान्तरा मृगनयना हरते मुनेर्मनः ।। 412 ।।
अत्र सप्तम्युपमानेत्यादिना यदा समासलोपौ भवतस्तदेदमुदाहरणम्।।
क्रूरस्याचारस्यायःशूलतयाध्यवसायात् अयःशूलेनान्विच्छति `आयःशूलिक' इत्यतिशयोक्तिर्न तु क्रूराचारोपमेयतैक्ष्ण्यधर्मवादीनां लोपे त्रिलोपेयमुपमा।
एवमेकोनविंशतिर्लुप्ताः पूर्णाभिः सह पञ्चविंशतिः।।
अनयेनेव राज्यश्रीर्दैन्येनेव मनस्विता।
मम्लौ साऽथ विषादेन पद्मिनीव हिमाम्भसा ।। 413 ।।
इत्यभिन्ने साधारणे धर्मे,
ज्योत्स्नेव नयनानन्दः सुरेव मदकारणम्।
प्रभुतेव समाकृष्टसर्वलोका नितम्बिनी ।। 414 ।।
इति भिन्ने च तस्मिन् एकस्यैव बहूपमानोपादाने मालोपमा।
यथोत्तरमुपमेयस्योपमानत्वे पूर्ववदभिन्नभिन्नधर्मत्वे,
अनवरतकनकवितरणजललवभृतकरतरङ्गितार्थिततेः।
भणितिरिव मतिर्मतिरिव चेष्टा चेष्टेव कीर्तिरतिविमला ।। 415 ।।
मतिरिव मूर्त्तिर्मधुरा मूर्त्तिरिव सभा प्रभावचिता।
तस्य सभेव जयश्रीः शक्या जेतुं नृपस्य न परेषाम् ।। 416 ।।
इत्यादिका रशनोपमा च न लक्षिता, एवंविधवैचित्र्यसहस्रसंभवात् उक्तभेदानतिक्रमाच्च।।
(सूo 135) उपमानोपमेयत्वे, एकस्यैवैकवाक्यगे।
अनन्वयः
उपमानान्तरसम्बन्धाभावोऽनन्वयः। उदाहरणम्--
न केवलं भाति नितान्तकान्तिर्नितम्बिनी सैव नितम्बिनीव।
यावद्विलासायुधलास्यवासास्ते तद्विलासा इव तद्विलासाः ।। 417 ।।
(सूo 136) विपर्यास उपमेयोपमा तयोः ।।91।।
तयोरुपमानोपमेययोः परिवृत्तिः, अर्थाद्वाक्यद्वये। इतरोपमानव्यवच्छेदपरा, उपमेयेनोपमा, इति, उपमेयोपमा। उदाहरणम्--
कमलेव मतिर्मतिरिव कमला तनुरिव विभा विभेव तनुः।
धरणीव धृतिर्धृतिरिव धरणी सततं विभाति बत यस्य ।। 418 ।।
(सूo 137) संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्।
समेन, उपमानेन। उदाहरणम्--
उन्मेषं यो मम न सहते जातिवैरी निशाया-
मिन्दोरिन्दीवरदलदृशा तस्य सौन्दर्यदर्पः।
नीतः शान्तिं प्रसभमनया वक्त्रकान्त्येति हर्षा-
ल्लग्ना मन्ये ललिततनु ते पादयोः पद्मलक्ष्मीः ।। 419 ।।
लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः।
असत्पुरुषसेवेव दृष्टिर्विफलतां गता ।। 420 ।।
इत्यादौ व्यापनादिलेपनादिरूपतया संभावितम्।।
(सूo 138) ससन्देहस्तु भेदोक्तौ तदनुक्तौ च संशयः ।।92।।
भेदोक्तौ यथा-
अयं मार्तण्डः किं ? स खलु तुरगैः सप्तभिरितः
कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम्।
कृतान्तः किं ? साक्षान्महिषवहनोऽसाविति चिरं
समालोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाः ।। 421 ।।
भेधोक्तावित्यनेन न केवलमयं निश्चयगर्भो यावन्निश्चयान्तोऽपि सन्देहः स्वीकृतः।
यथा-
इन्दुः किं क्व कलङ्कः सरसिजमेतत्किमम्बु कुत्र गतम्।
ललितसविलासवचनैर्मुखमिति हरिणाक्षि ! निश्चितं परतः ।। 422 ।।
किन्तु निश्चयगर्भ इव नात्र निश्चयः प्रतीयमान इति, उपेक्षितो भट्टोद्भटेन। तदनुक्तौ यथा-
अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः
शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः।
वेदाभ्यासजडः कथन्नु विषयव्यावृत्तकौतूहलो
निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ।। 423 ।।
(सूo 139) तद्रूपकमभेदो य उपमानोपमेययोः।
अतिसाम्यादनपह्नुतभेदयोरभेदः।
(सूo 140) समस्तवस्तुविषयं श्रौता आरोपिता यदा ।।93।।
आरोपविषया इव आरोप्यमाणा, यदा शब्दोपात्तास्तदा समस्तानि वस्तूनि विषयोऽस्येति
समस्तवस्तुविषयम्। आरोपिता इति बहुवचनमविवक्षितम्। यथा-
ज्योत्स्नाभस्मच्छुरणधवला बिभ्रती तारकास्थी-
न्यन्तर्द्धानव्यसनरसिका रात्रिकापालिकीयम्।
द्वीपाद् दीपं भ्रमति दधती चन्द्रमुद्राकपाले
न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्य च्छलेन ।। 424 ।।
अत्र पादत्रये, अन्तर्द्धानव्यसनरसिकत्वमारोपितधर्म एवेति रूपकपरिग्रहे साधकमस्तीति तत्सङ्कराशङ्का न कार्या।।
(सूo 141) श्रौता आर्थाश्च ते यस्मिन्नेकदेशविवर्ति तत्।।
केचिदारोप्यमाणाः शब्दोपात्ताः कोचिदर्थसामर्थ्यादवसेयाः, इत्येकदेशविवर्त्तनात् एकदेशविवर्ति। यथा
जस्स रणन्तेउरए करे कुणन्तस्स मण्डलग्गलअम्।
रससंमुहीवि सहसा परंमुही होइ रिउसेणा ।। 425 ।।
यस्य रणान्तःपुरे करे कुर्वतो मण्डलाग्रलताम् ।
रससम्मुख्यापि सहसा पराङ्मुखी भवति रिपुसेना ।।
अत्र रणस्यान्तःपुरत्वमारोप्यमाणं शब्दोपात्तम्। मण्डलाग्रलतायाः नायिकात्वं रिपुसेनायाश्च प्रतिनायिकात्वम् अर्थसामर्थ्यादवसीयते, इत्येकदेशे विशेषेण वर्त्तनादेकदेशविवर्ति।
(सूo 142) साङ्गमेतत्
उक्तद्विभेदं सावयवम्।।
(सूo 143) निरङ्गन्तु शुद्धम्
यथा-
कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु यत्
सखीं कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति यत्।
अनिद्रं यच्चान्तः स्वपिति तदहो वेद्म्यभिनवां
प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम् ।। 426 ।।
(सूo 144) माला तु पूर्ववत् ।।94।।
मालोपमायामिवैकस्मिन् बहव आरोपिताः। यथा-
सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्गमः
कान्तेः कार्मणकर्म नर्मरहसामुल्लासनावासभूः।
विद्या वक्रगिरां विधेरनवधिप्रावीण्यसाक्षात्क्रिया
बाणाः पञ्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया ।। 427 ।।
(सूo 145) नियतारोपणोपायः स्यादारोपः परस्य यः।
तत्परम्परितं श्लिष्टे वाचके भेदभाजि वा ।।95।।
यथा-
विद्वन्मानसहंस ! वैरिकमलासङ्कोचदीप्तद्युते
दुर्गामार्गणनीललोहित ! समित्खीकारवैश्वानर ! ।
सत्यप्रीतिविधानदक्ष ! विजयप्राग्भावभीम ! प्रभो !
साम्राज्यं वरवीर ! वत्सरशतं वैरिञ्चमुच्चैः क्रियाः ।। 428 ।।
अत्र मानसमेव मानसम् कमलायाः सङ्कोच एव कमलानामसङ्कोचः, दुर्गाणाममार्गणमेव दुर्गायाः
मार्गणम् समितां स्वीकार एव समिधां स्वीकारः सत्ये प्रीतिरेव सत्यामप्रीतिः, विजयः पराभव एव विजयोऽजुनः, एवमारोपणनिमित्तो हंसादेरारोपः।
यद्यपि शब्दार्थालङ्कारोऽयमित्युक्तम्, वक्ष्यते च तथापि प्रसिद्ध्यनुरोधादत्रोक्तः एकदेशविवर्त्ति हीदमन्यैरभिधीयते। भेदभाजि यथा-
आलानं जयकुञ्जरस्य दृषदां सेतुर्विपद्वारिधेः
पूर्वाद्रिः करवालचण्डमहसो लीलोपधानं श्रियः।
सङ्ग्रामामृतसागरप्रमथनक्रीडाविधौ मन्दरो
राजन् ! राजति वीरवैरिवनितावैधव्यदस्ते भुजः ।। 429 ।।
अत्र जयोदेर्भिन्नशब्दवाच्यस्य कुञ्जरत्वाद्यारोपे भुजस्य, सालानत्वाद्यारोपो युज्यते।
अलौकिकमहालोकप्रकाशितजगत्त्रयः।
स्तूयते देव ! सद्वंशमुक्तारत्नं न कैर्भवान् ।। 430 ।।
निरवधि च निराश्रयं च यस्य स्थितमनिवर्त्तितकौतुकप्रपञ्चम्।
प्रथम इह भवान् स कूर्ममूर्तिर्जयति चतुर्दशलोकवल्लिकन्दः ।। 431 ।।
इति च, अमालारूपकमपि परंपरितं द्रष्टव्यम्।।
किसलयकरैर्लतानां करकमलैः कामिनां मनो जयति।
नलिनीनां कमलमुखैर्मुखेन्दुभिर्योषितां मदनः ।। 432 ।।
इत्यादिरशनारूपकं न वैचित्र्यवदिति न लक्षितम्।।
(सूo 146) प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपह्नुतिः।
उपमेयमसत्यं कृत्वोपमानं सत्यतया यत्स्थाप्यते सा त्वपह्नुतिः।
उदाहरणम्--
अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये !
कलङ्को नैवायं विलसति शशाङ्कस्य वपुषि।
अमुष्येयं मन्ये विगलदमृतस्यन्दशिशिरे
रतिश्रान्ता शेते रजनिरमणी गाढमुरसि ।। 433 ।।
इत्थं वा-
बत सखि ! कियदेतत् पश्य वैरं स्मरस्य
प्रियविरहकृशेऽस्मिन् रागिलोके तथा हि।
उपवनसहकारोद्भासिभृङ्गच्छलेन
प्रतिविशिखमनेनोट्टङ्कितं कालकूटम् ।। 434 ।।
अत्र हि न सभृङ्गाणि सहकाराणि, अपि तु सकालकूटाः शरा इति प्रतीतिः। एवं वा -
अमुष्मिँल्लावण्यामृतसरसि नूनं मृगदृशः
स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतितः।
यदङ्गाङ्गाराणां प्रशमपिशुना नाभिकुहरे
शिखा धूमस्येयं परिणमति रोमावलिवपुः ।। 435 ।।
अत्र न रोमावलिः, धूमशिखेयमिति प्रतिपत्तिः एवमियं भङ्ग्यन्तरैरप्यूह्या।।
(सूo 147) श्लेषः स वाक्य, एकस्मिन् यत्रानेकार्थता भवेत् ।।96।।
एकार्थप्रतिपादकानामेव शब्दानां यत्रानेकोऽर्थः स श्लेषः। उदाहरणम्--
उदयमयते दिङ्मालिन्यं निराकुरुतेतरां
नयति निधनं निद्रामुद्रां प्रवर्त्तयति क्रियाः।
रचयतितरां स्वैराचारप्रवर्त्तनकर्तनं
बत बत लसत्तेजःपुञ्जो विभाति विभाकरः ।। 436 ।।
अत्राभिधाया अनियन्त्रणात् द्वावप्यर्कभूपौ वाच्यौ।।
(सूo 148) परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिः
प्रकृतार्थप्रतिपादकवाक्येन श्लिष्टविशेषणमाहात्म्यात् न तु विशेष्यस्य सामर्थ्यादपि यत् अप्रकृतस्यार्थस्याभिधानं सा
समासेन संक्षेपेणार्थद्वयकथनात् समासोक्तिः। उदाहरणम्--
लहिऊण तुज्झ बाहुप्फंसं जीए स कोवि उल्लासो।
जअलच्छी तुह विरहे ण हूज्जला दुव्वला णं सा ।। 437 ।।
लब्ध्वा तव बाहुस्पर्शं यस्याः स कोऽप्युल्लासः ।
जयलक्ष्मीस्तव विरहे न खलूज्ज्वला दुर्बला ननु सा ।।
अत्र जयलक्ष्मीशब्दस्य केवलं कान्तावाचकत्वं नास्ति।
(सूo 149) निदर्शना।
अभवन् वस्तुसम्बन्ध उपमापरिकल्पकः ।।97।।
निदर्शनं दृष्टान्तकरणम्। उदाहरणम्--
क्वसूर्यप्रभवो वंशः क्व चाल्पविषया मतिः।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ।। 438 ।।
अत्रोडुपेन सागरतरणमिव मन्मत्या सूर्यवंशवर्णनमित्युपमायां पर्यवस्यति।
यथा वा-
उदयति विततोर्ध्वरश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम्।
वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ।। 439 ।।
अत्र कथमन्यस्य लीलामन्यो वहतीति तत्सदृशीमित्युपमायां पर्यवसानम्।
दोर्भ्यां तितीर्षति तरङ्गवतीभुजङ्गमादातुमिच्छति करे हरिणाङ्कबिम्बम्।
मेरुं लिलङ्घयिषति ध्रुवमेव देव! यस्ते गुणान् गदितुमुद्यममादधाति ।। 440 ।।
इत्यादौ मालारूपाऽप्येषा द्रष्टव्या।।
(सूo 150) स्वस्वहेत्वन्वयस्योक्तिः क्रिययैव च साऽपरा।
क्रिययैव स्वस्वरूपस्वकारणयोः संबन्धो यदवगम्यते साऽपरा निदर्शना। यथा-
उन्नतं पदमवाप्य यो लघुर्हेलयैव स पतेदिति ब्रुवन्।
शैलशेखरगतो दृषत्कणश्चारुमारुतधुतः पतत्यधः ।। 441 ।।
अत्र पातक्रियया पतनस्य लाघवे सति, उन्नतपदप्राप्तिरूपस्य च सम्बन्धः ख्याप्यते।।
(सूo 151) अप्रस्तुतप्रशंसा या सा सैव प्रस्तुताश्रया ।।98।।
अप्राकरणिकस्याभिधानेन प्राकरणिकस्याक्षेपोऽप्रस्तुतप्रशंसा।
(सूo 152) कार्ये निमित्तो सामान्ये विशेषे प्रस्तुते सति।
तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्चधा ।।99।।
तदन्यस्य कारणादेः। क्रमेणोदाहरणम्-
याता किन्न मिलन्ति सुन्दरि ! पुनश्चिन्ता त्वया मत्कृते
नो कार्या नितरां कृशाऽसि कथयत्येवं सबाष्पे मयि।
लज्जामन्थरतारकेण निपतत्पीताश्रुणा चक्षुषा
दृष्ट्वा मां हसितेन भाविमरणोत्साहस्तया सूचितः ।। 442 ।।
अत्र प्रस्थानात्किमिति निवृत्तोऽसीति कार्ये पृष्टे कारणमभिहितम्।
राजन्राजसुता न पाठयति मां देव्योऽपि तूष्णीं स्थिताः
कुब्जे भोजय मां कुमार ! सचिवैर्नाद्यापि किं भुज्यते।
इत्थं नाथ ! शुकस्तवारिभवने मुक्तोऽध्वगैः पञ्जरात्
चित्रस्थानवलोक्य शून्यवलभावेकैकमाभाषते ।। 443 ।।
अत्र प्रस्थानोद्यतं भवन्तं ज्ञात्वा सहसैव त्वदरयः पलाय्य गता, इति कारणे प्रस्तुते कार्यमुक्तम्।
एतत्तस्य मुखात्कियत् कमलिनीपत्रे कणं वारिणो
यन्मुक्तामणिरित्यमंस्त स जडः श्रुण्वन्यदस्मादपि।
अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनैः
कुत्रोड्डीय गतो ममेत्यनुदिनं निद्राति नान्तःशुचा ।। 444 ।।
अत्रास्थाने जडानां ममत्वसंभावना भवतीति सामान्ये प्रस्तुते विशेषः कथितः।
सुहृद्वधूबाष्पजलप्रमार्जनं करोति वैरप्रतियातनेन यः।
स एव पूज्यः स पुमान्स नीतिमान्सुजीवितं तस्य स भाजनं श्रियः ।। 445 ।।
अत्र `कृष्णं निहत्य नरकासुरवधूनां यदि दुःखं प्रशमयसि तत् त्वमेव श्लाघ्यः' इति विशेषे प्रकृते सामान्यमभिहितम्।
तुल्ये प्रस्तुते तुल्याभिधाने त्रयः प्रकाराः। श्लेषः समासोक्तिः सादृश्यमात्रं वा तुल्यात्तुल्यस्य ह्याक्षेपे हेतुः। क्रमेणोदाहरणम्-
पुंस्त्वादपि प्रविचलेद्यदि यद्यधोऽपि यायाद्यदि प्रणयने न महानपि स्यात्।
अभ्युद्धरेत्तदपि विश्वमितीदृशीयं केनापि दिक् प्रकटिता पुरुषोत्तमेन ।। 446 ।।
येनास्यभ्युदितेन चन्द्र ! गमितः क्लान्तिं रवौ तत्र ते
युज्येत प्रतिकर्त्तुमेव न पुनस्तस्यैव पादग्रहः।
क्षीणेनैतदनुष्ठितं यदि ततः किं लज्जसे नो मनाग्
अस्त्येवं जडधामता तु भवतो यद्व्योम्नि विस्फूर्जसे ।। 447 ।।
आदाय वारि परितः सरितां मुखेभ्यः किन्तावदर्जितमनेन दुरर्णवेन।
क्षारीकृतं च वडवादहने हुतं च पातालकुक्षिकुहरे विनिवेशितं च ।। 448 ।।
इयं च काचित् वाच्ये प्रतीयमानार्थाऽनध्यारोपेणैव भवति। यथा-
अब्धेरम्भःस्थगितभुवनाभोगपातालकुक्षेः
पोतोपाया इह हि बहवो लङ्घनेऽपि क्षमन्ते।
आहो रिक्तः कथमपि भवेदेष दैवात्तदानीं
को नाम स्यादवटकुहरालोकनेऽप्यस्य कल्पः ।। 449 ।।
क्वचिदध्यारोपेणैव। यथा-
कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं
वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते।
वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते
न च्छायापि परोपकारकरणे मार्गस्थितस्यापि मे ।। 450 ।।
क्वचिदंशेष्वध्यारोपेण। यथा-
सोऽपूर्वो रसनाविपर्ययविधिस्तत्कर्णयोश्चापलं
दृष्टिः सा मदविस्मृतस्वपरदिक् किं भूयसोक्तेन वा।
सर्वं विस्मृतवानसि भ्रमर ! हे यद्वारणोऽद्याप्यसौ
अन्तःशून्यकरो निषेव्यत इति भ्रातः क एष ग्रहः ।। 451 ।।
अत्र रसनाविपर्यासः शून्यकरत्वं च भ्रमरस्यासेवने न हेतुः कर्णचापलं तु हेतुः, मदः प्रत्युत सेवने निमित्तम्।।
(सूo 153) निगीर्याध्यवसानन्तु प्रकृतस्य परेण यत्।
प्रस्तुतस्य यदन्यत्वं यद्यर्थोक्तौ च कल्पनम् ।।100।।
कार्यकारणयोर्यश्च पौर्वापर्यविपर्ययः।
विज्ञेयाऽतिशयोक्तिः सा
उपमानेनान्तर्निगीर्णस्योपमेयस्य यदध्यवसानं सैका। यथा-
कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम्।
सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ।। 452 ।।
अत्र मुखादि कमलादिरूपतयाध्यवसितम्।
यच्च तदेवान्यत्वेनाध्यवसीयते साऽपरा। यथा-
अण्णं लडहत्तणअं अण्णा विआ का वि वत्तणच्छाआ।
सामा सामण्णपआवइणो रेह च्चिअ ण होई ।। 453 ।।
(अन्यं यत्सौकुमार्यमन्यैव च काऽपि वर्तनच्छाया ।
श्यामा सामान्यप्रजापतेः रेखैव च न भवति ।।)
`यद्यर्थस्य' यदिशब्देन चेच्छब्देन वा, उक्तौ यत्कल्पनम् (अर्थादसम्भविनोऽर्थस्य) सा तृतीया। यथा
राकायामकलङ्कं चेदमृतांशोर्भवेद्वपुः।
तस्या मुखं तदा साम्यपराभवमवाप्नुयात् ।। 454 ।।
कारणस्य शीघ्रकारितां वक्तुं कार्यस्य पूर्वमुक्तौ चतुर्थी। यथा-
हृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन।
चरमं रमणीवल्लभ ! लोचनविषयं त्वया भजता ।। 455 ।।
(सूo 154) प्रतिवस्तूपमा तु सा ।।101।।
सामान्यस्य द्विरेफस्य यत्र वाक्यद्वये स्थितिः।
साधारणो धर्मः, उपमेयवाक्ये, उपमानवाक्ये च कथितपदस्य दुष्टतयाऽभिहितत्वात् शब्दभेदेन यत् उपादीयते सा वस्तुनो वाक्यार्थस्योपमानत्वात् प्रतिवस्तूपमा। यथा-
देवीभावं गमिता परिवारपदं कथं भजत्वेषा।
न खलु परिभोगयोग्यं दैवतरूपाङ्कितं रत्नम् ।। 456 ।।
यदि दहत्यनलोऽत्र किमद्भुतं यदि च गौरवमद्रिषु किन्ततः।
लवणमम्बु सदैव महोदधेः प्रकृतिरेव सतामविषादिता ।। 457 ।।
इत्यादिका मालाप्रतिवस्तूपमा द्रष्टव्या। एवमन्यत्राप्यनुसर्तव्यम्।।
(सूo 155) दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम् ।।102।।
एतेषां साधारणधर्मादीनाम्। दृष्टोऽन्तो निश्चयो यत्र स दृष्टान्तः।
त्वयि दृष्ट एव तस्या निर्वाति मनो मनोभवज्वलितम्।
आलोके हि हिमांशोर्विकसति कुसुमं कुमुद्वत्याः ।। 458 ।।
एष साधर्म्येण वैधर्म्येण तु-
तवाहवे साहसकर्मशर्मणः करं कृपाणान्तिकमानिनीषतः।
भटाः परेषां विशरारुतामगुर्दधत्यवाते स्थिरतां हि पांसवः ।। 459 ।।
(सूo 156) सकृद्वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम्।
सैव क्रियासु बह्वीषु कारकस्येति दीपकम् ।।103।।
प्राकरणिकाप्राकरणिकानामर्थादुपमानोपमेयानां धर्मः क्रियादिः, एकवारमेव यदुपादीयते तत् एकस्थस्यैव समस्तवाक्यदीपनात् दीपकम्। यथा-
किवणाणँ धणं णाआणं फणमणी केशराइँ सीहाणं।
कुलवालिआणँ त्थणआ कुत्तो छिप्पन्ति अमुआणम् ।। 460 ।।
(कृपणानां धनं नागानां फणमणिः केसराश्च सिंहानाम् ।
कुलबालिकानां च स्तनः कुतः स्पृश्यन्तेऽमृतानतम् ।।)
कारकस्य च बह्वीषु क्रियासु सकृद्वृत्तिर्दीपकम्। यथा-
स्विद्यति कूणति वेल्लति विवलति निमिषति विलोकयति तिर्यक्।
अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणया वधूः शयने ।। 461 ।।
(सूo 157) मालादीपकमाद्यं चेद्यथोत्तरगुणावहम्।
पूर्वेण पूर्वेण वस्तुना, उत्तरमुत्तरं चेदुपक्रियते तत् मालादीपकम्। यथा-
सङ्ग्रामाङ्गणमागतेन भवता चापे समारोपिते
देवाकर्णय येन येन सहसा यद्यत्समासादितम्।
कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं
न त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम् ।। 462 ।।
(सूo 158) नियतानां सकृद्धर्मः सा पुनस्तुल्ययोगिता ।।104।।
नियतानां प्राकरणिकानामेव अप्राकरणिकानामेव वा। क्रमेणोदाहरणम्--
पाण्डुक्षामं वदनं हृदयं सरसं तवालसं च वपुः।
आवेदयति नितान्तं क्षेत्रियरोगं सखि ! हृदन्तः ।। 463 ।।
कुमुदकमलनीलनीरजालिर्ललितविलासजुषोर्द्दशोः पुरः का।
अमृतममृतरश्मिरम्बुजन्म प्रतिहतमेकपदे तवाननस्य ।। 464 ।।
(सूo 159) उपमानाद्यदन्यस्य व्यतिरेकः स एव सः।
अन्यस्योपमेयस्य व्यतिरेक आधिक्यम्।
क्षीणः क्षीणोऽपि शशी भूयो भूयोऽभिवर्धते नित्यम्।
विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ।। 465 ।।
इत्यादावुपमानस्योपमेयादाधिक्यमिति केनचिदुक्तं तदयुक्तमत्र यौवनगता स्थैर्याधिक्यं हि विवक्षितम्।
(सूo 160) हेत्वोरुक्तावनुक्तीनां त्रये साम्ये निवेदिते ।।105।।
शब्दार्थाभ्यामथाक्षिप्ते श्लिष्टे तद्वत् त्रिरष्ट तत्।
व्यतिरेकस्य हेतुः, उपमेयगतमुत्कर्षनिमित्तम्, उपमानगतमपकर्षकारणं तयोर्द्वयोरुक्तिः, एकतरस्य
द्वयोर्वा, अनुक्तिरित्यनुक्तित्रयम् । एतद्भेदचतुष्टयमुपमानोपमेयभावे शब्देन प्रतिपादिते, आर्थेन च क्रमेणोक्ताश्चत्वार एव भेदाः, आक्षिप्ते चौपम्ये तावन्त एव, एवं द्वादश। एते च श्लेषेऽपि भवन्तीति चतुर्विंशतिर्भेदाः। क्रमेणोदाहरणम्--
असिमात्रसहायस्य प्रभूतारिपराभवे।
अन्यतुच्छजनस्येव न स्मयोऽस्य महाधृतेः ।। 466 ।।
अत्रैव तुच्छेति महाधृतेरित्यनयोः पर्यायेण युगपद्वानुपादानेऽन्यत् भेदत्रयम्। एवमन्येष्वपि द्रष्टव्यम्।
अत्रेवशब्दस्य सद्भावाच्छाब्दमौपम्यम्।
असिमात्रसहायोऽपि प्रभूतारिपराभवे।
नैवान्यतुच्छजनवत्सगर्वोऽयं महाधृतिः ।। 467 ।।
अत्र तुल्यार्थे वतिरित्यार्थमौपम्यम्।
इयं सुनयना दासीकृततामरसश्रिया।
आननेनाकलङ्केन जयतीन्दुं कलङ्किनम् ।। 468 ।।
अत्रेवादितुल्यादिपदविरहेण, आक्षिप्तैवोपमा।
जितेन्द्रियतया सम्यग्विद्यावृद्धनिषेविणः।
अतिगाढगुणस्यास्य नाब्जवद्भङ्गुरा गुणाः ।। 469 ।।
अत्रेवार्थे वतिः, गुणशब्दः श्लिष्टः शाब्दमौपम्यम्।
अखण्डमण्डलः श्रीमान् पश्यैष पृथिवीपतिः।
न निशाकरवज्जातु कलावैकल्यमागतः ।। 470 ।।
अत्र तुल्यार्थे वतिः कलाशब्दः श्लिष्टः।
मालाप्रतिवस्तूपमावत् मालाव्यतिरेकोऽपि सम्भवति। तस्यापि भेदा एवमूह्याः। दिङ्मात्रमुदाह्रियते।
यथा-
हरवन्न विषमदृष्टिर्हरिवन्न विभो विधूतविततवृषः।
रविवन्न चातिदुःसहकरतापितभूः कदाचिदपि ।। 471 ।।
अत्र तुल्यार्थे वतिः विषमादयश्च शब्दाः श्लिष्टाः।
नित्योदितप्रतापेन त्रियामामीलितप्रभः।
भास्वताऽनेन भूपेन भास्वानेष विनिर्जितः ।। 472 ।।
अत्र ह्याक्षिप्तैवोपमा भास्वतेति श्लिष्टः। यथा वा-
स्वच्छात्मतागुणसमुल्लसितेन्दुबिम्बं बिम्बप्रभाधरमकृत्रिमहृद्यगन्धम्।
यूनामतीव पिबतां रजनीषु यत्र तृष्णां जहार मधु नाननमङ्गनानाम् ।। 473 ।।
अत्रेवादीनां तुल्यादीनां च पदानामभावेऽपि श्लिष्टविशेषणैराक्षिप्तैवोपमा प्रतीयते एवञ्जातीयकाः श्लिष्टोक्तियोग्यस्य पदस्य पृथगुपादानेऽन्येऽपि भेदाः संभवन्ति। तेऽप्यनयैव दिशा द्रष्टव्याः।।
(सूo 161) निषेधो वक्तुमिष्टस्य यो विशेषाभिधित्सया ।।106।।
वक्ष्यमाणोक्तविषयः स आक्षेपो द्विधा मतः।
विवक्षितस्य प्राकरणिकत्वादनुपसर्जनीकार्यस्य, अशक्यवक्तव्यत्वमतिप्रसिद्धत्वं वा विशेषं वक्तुं निषेधो निषेध इव यः स वक्ष्यमाणविषय उक्तविषयश्चेति द्विधा, आक्षेपः। क्रमेणोदाहरणम्--
ए एहि किंपि कीएवि कएण णिक्कि व भणामि अलमहवा।
अविआरिअकज्जारम्भआरिणी मरउ ण भणिस्सम् ।। 474 ।।
(ए एहि किमपि कस्या अपि कृत् निष्कृप ! भणामि अलमथ वा ।
अविचारितकायारम्भकारिणी म्रियतां न भणिष्यामि ।। )
ज्योत्स्ना मौक्तिकदाम चन्दनरसः शीतांशुकान्तद्रवः
कर्पूरं कदली मृणालवलयान्यम्भोजिनीपल्लवाः।
अन्तर्मानसमास्त्वया प्रभवता तस्याः स्फुलिङ्गोत्कर-
व्यापाराय भवन्ति हन्त किमनेनोक्तेन न ब्रूमहे ।। 475 ।।
(सूo 162) क्रियायाः प्रतिषेधेऽपि फलव्यक्तिर्विभावना ।।107।।
हेतुरूपक्रियाया, निषेधेऽपि तत्फलप्रकाशनं विभावना। यथा-
कुसुमितलताभिरहताप्यधत्त रुजमलिकुलैरदष्टाऽपि।
परिवर्त्तते स्म नलिनीलहरीभिरलोलिताप्यघूर्णत सा ।। 476 ।।
(सूo 163) विशेषोक्तिरखण्डेषु कारणेषु फलावचः।
मिलितेष्वपि कारणेषु कार्यस्याकथनं विशेषोक्तिः। अनुक्तनिमित्ता, उक्तनिमित्ता, अचिन्त्यनिमित्ता च। क्रमेणोदारहणम्--
निद्रानिवृत्तावुदिते द्युरत्ने सखीजने द्वारपदं पराप्ते।
श्लथीकृताश्लेषरसे भुजङ्गे चचाल नालिङ्गनतोऽङ्गना सा ।। 477 ।।
कर्पूर इव दग्धोऽपि शक्तिमान् यो जने जने।
नमोऽस्त्ववार्यवीर्याय तस्मै मकरकेतवे ।। 478 ।।
स एकस्त्रीणि जयति जगन्ति कुसुमायुधः।
हरताऽपि तनुं यस्य शम्भुना न बलं हृतम् ।। 479 ।।
(सूo 164) यथासङ्ख्यं क्रमेणैव क्रमिकाणां समन्वयः ।।108।।
यथा-
एकस्त्रिधा वससि चेतसि चित्रमत्र देव ! द्विषां च विदुषां च मृगीदृशां च।
तापं च संमदरसं च रतिं च पुष्णन् शौर्योष्मणा च विनयेन च लीलया च ।। 480 ।।
(सूo 165) सामान्यं वा विशेषो वा तदन्येन समर्थ्यते।
यत्र सोऽर्थान्तरन्यासः साधर्म्येणेतरेण वा ।।109।।
साधर्म्येण वैधर्म्येण वा सामान्यं विशेषेण यत् समर्थ्यते विशेषो वा सामान्येन सोऽर्थान्तरन्यासः। क्रमेणोदाहरणम्--
निजदोषावृतमनसामतिसुन्दरमेव भाति विपरीतम्।
पश्यति पित्तोपहतः शशिशुभ्रं शङ्खमपि पीतम् ।। 481 ।।
सुसितवसनालङ्कारायां कदाचन कौमुदी-
महसि सुदृशि स्वैरं यान्त्यां गतोऽस्तमभूद्विधुः।
तदनु भवतः कीर्तिः केनाप्यगीयत येन सा
प्रियगृहमगान्मुक्ताशङ्का क्व नासि शुभप्रदः ।। 482 ।।
गुणानामेव दौरात्म्याद् धुरि धुर्यो नियुज्यते।
असंजातकिणस्कन्धः सुखं स्वपिति गौर्गलिः ।। 483 ।।
अहो हि मे बह्वपराद्धमायुषा यदप्रियं वाच्यमिदं मयेदृशम्।
त एव धन्याः सुहृदः पराभवं जगत्यदृष्ट्वैव हि ये क्षयं गताः ।। 484 ।।
(सूo 166) विरोधः सोऽविरोधेऽपि विरुद्धत्वेन यद्वचः।
वस्तुवृत्तेनाविरोधेऽपि विरुद्धयोरिव यदभिधानं स विरोधः।
(सूo 167) जातिश्चतुर्भिर्जात्याद्यैर्विरुद्धा स्याद् गुणस्त्रिभिः ।।110।।
क्रिया द्वाभ्यामपि द्रव्यं द्रव्येणैवेति ते दश।
क्रमेणोदाहरणम्--
अभिनवनलिनीकिसलयमृणालवलयादि दवदहनराशिः।
सुभग ! कुरङ्गदृशोऽस्या विधिवशतस्त्वद्वियोगपविपाते ।। 485 ।।
गिरयोऽप्यनुन्नतियुजो मरुदप्यचलोऽब्धयोऽप्यगम्भीराः।
विश्वम्भराप्यतिलघुर्नरनाथ ! तवान्तिके नियतम् ।। 486 ।।
येषां कण्ठपरिग्रहप्रणयितां संप्राप्य धाराधर-
स्तीक्ष्णः सोऽप्यनुरज्यते च कमपि स्नेहं पराप्नोति च।
तेषां सङ्गरसङ्गसक्तमनसां राज्ञां त्वया भूपते !
पांसूनां पटलैः प्रसाधनविधिर्निर्वर्त्यते कौतुकम् ।। 487 ।।
सृजति च जगदिदमवति च संहरति च हेलयैव यो नियतम्।
अवसरवशतः शफरो जनार्दनः सोऽपि चित्रमिदम् ।। 488 ।।
सततं मुसलासक्ता बहुतरगृहकर्मघटनया नृपते ! ।
द्विजपत्नीनां कठिनाः सति भवति कराः सरोजसुकुमाराः ।। 489 ।।
पेशलमपि खलवचनं दहतितरां मानसं सत्त्वविदाम्।
परुषमपि सुजनवाक्यं मलयजरसवत् प्रमोदयति ।। 490 ।।
क्रौञ्चाद्रिरुद्दामदृषद्दृढोऽसौ यन्मार्गणानर्गलशातपाते।
अभून्नवाम्भोजदलाभिजातः स भार्गवः सत्यमपूर्वसर्गः ।। 491 ।।
परिच्छेदातीतः सकलवचनानामविषयः
पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान्।
विवेकप्रध्वंसादुपचितमहामोहगहनो
विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते ।। 492 ।।
अयं वारामेको निलय इति रत्नाकर इति
श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः।
क एवं जानीते निजकरपुटीकोटरगतं
क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः ।। 493 ।।
समदमतङ्गजमदजलनिस्यन्दतरङ्गिणीपरिष्वङ्गात्।
क्षितितिलक ! त्वयि तटजुषि शङ्करचूडापगाऽपि कालिन्दी ।। 494 ।।
(सूo 168) स्वभावोक्तिस्तु डिम्भादेः स्वक्रियारूपवर्णनम् ।।111।।
स्वयोस्तदेकाश्रययोः। रूपं वर्णः संस्थानं च। उदाहरणम्--
पश्चादङ्घ्री प्रसार्य त्रिकनतिविततं द्राघयित्वाऽङ्गमुच्चैः
आसज्याभुग्नकण्ठो मुखमुरसि सटां धूलिधूम्रां विधूय।
घासग्रासाभिलाषादनवरतचलत्प्रोथतुण्डस्तुरङ्गो
मन्दं शब्दायमानो विलिखति शयनादुत्थितः क्ष्मां खुरेण ।। 495 ।।
(सूo 169) व्याजस्तुतिर्मुखे निन्दास्तुतिर्वा रूढिरन्यथा।
व्याजरूपा व्याजेन वा स्तुतिः । क्रमेणोदाहरणम्--
हित्वा त्वामुपरोधवन्ध्यमनसां मन्ये न मौलिः परो
लज्जावर्जनमन्तरेण न रमामन्यत्र संदृश्यते।
यस्त्यागं तनुतेतरां मुखशतैरेत्याश्रितायाः श्रियः
प्राप्य त्यागकृतावमाननमपि त्वय्येव यस्याः स्थितिः ।। 496 ।।
हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे !
नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः।
तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशो-
भारप्रोद्वहने करोषि कृपया साहायकं यन्मरोः ।। 497 ।।
(सूo 170) सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम् ।।112।।
एकार्थाभिधायकमपि सहार्थबलाद् यत् उभयस्याप्यवगमकं सा सहोक्तिः। यथा-
सह दिअहणिसाहिं दीहरा सासदण्डा
सह मणिवलयेहिं वाप्पधारा गलन्ति।
तुह सुहअ विओए तीअ उव्विग्गिरीए
सह अ तणुलदाए दुब्बला जीविदासा ।। 498 ।।
(सह दिवसनिशाभिर्दीर्घाः श्वासदण्डाः सह मणिवलयैर्बाष्पधारा गलन्ति ।
तव सुभगवियोगे तस्या उद्विग्नायाः सह च तनुलतया दुर्बला जीविताशा ।।)
श्वासदण्डादिगतं दीर्घत्वादि शाब्दम्। दिवसनिशादिगतं तु सहार्थसामर्थ्यात्प्रतिपद्यते।।
(सूo 171) विनोक्तिः सा विनाऽन्येन यत्रान्यः सन्न नेतरः।
क्वचिदशोभनः क्वचिच्छोभनः। क्रमेणोदाहरणम्--
अरुचिर्निशया विना शशी शशिना सापि विना महत्तमः।
उभयेन विना मनोभवस्फुरितं नैव चकास्ति कामिनोः ।। 499 ।।
मृगलोचनया विना विचित्रव्यवहारप्रतिभाप्रभाप्रगल्भः।
अमृतद्युतिसुन्दराशयोऽयं सुहृदा तेन विना नरेन्द्रसूनुः ।। 500 ।।
(सूo 172) परिवृत्तिर्विनिमयो योऽर्थानां स्यात्समासमैः ।।113।।
परिवृत्तिरलङ्कारः। उदाहरणम्--
लतानामेतासामुदितकुसुमानां मरुदयं
मतं लास्यं दत्त्वा श्रयति भृशमामोदमसमम्।
लतास्त्वध्वन्यानामहह दृशमादाय सहसा
ददत्याधिव्याधिभ्रमिरुदितमोहव्यतिकरम् ।। 501 ।।
अत्र प्रथमेऽर्धे समेन समस्य द्वितीये, उत्तमेन न्यूनस्य।
नानाविधप्रहरणैर्नृप ! सम्प्रहारे स्वीकृत्य दारुणनिनादवतः प्रहारान्।
दृप्तारिवीरविसरेण वसुन्धरेयं निर्विप्रलम्भपरिरम्भविधिर्वितीर्णा ।। 502 ।।
अत्र न्यूनेनोत्तमस्य।।
(सूo 173) प्रत्यक्षा इव यद्भावाः क्रियन्ते भूतभाविनः।
तद्भाविकम् ।
भूताश्च भाविनश्वेति द्वन्द्वः। भावः कवेरभिप्रायोऽत्रास्तीति भाविकम्। उदाहरणम्--
आसीदञ्जनमत्रेति पश्यामि तव लोचने ।
भाविभूषणसंभारां साक्षात्कुर्वे तवाकृतिम् ।। 503 ।।
अत्र आद्ये भूतस्य द्वितीये भाविनो दर्शनम्।।
(सूo 174) काव्यलिङ्गं हेतोर्वाक्यपदार्थता ।।114।।
वाक्यार्थता यथा-
वपुःप्रादुर्भावादनुमितमिदं जन्मनि पुरा
पुरारे न प्रायः क्वचिदपि भवन्तं प्रणतवान्।
नमन्मुक्तः सम्प्रत्यहमतनुरग्रेऽप्यनतिभाङ्
महेश क्षन्तव्यं तदिदमपराधद्वयमपि ।। 504 ।।
अनेकपदार्थता यथा-
प्रणयिसखीसलीलपरिहासरसाधिगतै-
र्ललितशिरीषपुष्पहननैरपि ताम्यति यत्।
वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः
पततु शिरस्यकाण्डयमदण्ड इवैष भुजः ।। 505 ।।
एकपदार्थता यथा-
भस्मोद्धूलन ! भद्रमस्तु भवते रुद्राक्षमाले ! शुभं
हा सोपानपरम्परां गिरिसुताकान्तालयालङ्कृतिम्।
अप्याराधनतोषितेन विभुना युष्मत्सपर्यासुखा-
लोकोच्छेदिनि मोक्षनामनि महामोहे विधीयामहे ।। 506 ।।
एषु, अपराधद्वये पूर्वापरजन्मनोरनमनम्, भुजपाते शस्त्रोपक्षेपः, महामोहे सुखावलोकोच्छेदित्वं च यथाक्रममुक्तरूपो हेतुः।।
(सूo 175) पर्यायोक्तं विना वाच्यवाचकत्वेन यद्वचः।
वाच्यवाचकभावव्यतिरिक्तेनावगमनव्यापारेण यत्प्रतिपादनं तत्पर्यायेण, भङ्ग्यन्तरेण कथनात्
पर्यायोक्तम्। उदाहरणम्--
यं प्रेक्ष्य चिररूढाऽपि निवासप्रीतिरुज्झिता।
मदेनैरावणमुखे मानेन हृदये हरेः ।। 507 ।।
अत्रैरावणशक्रौ मदमानमुक्तौ जाताविति व्यङ्ग्यमपि शब्देनोच्यते तेन यदेवोच्यते तदेव व्यङ्ग्यम्। यथा तु व्यङ्ग्यं न तथोच्यते।
यथा गवि शुक्ले चलति दृष्टे `गौः शुक्लश्चलति' इति विकल्पः। यदेव दृष्टं तदेव विकल्पयति न तु यथा दृष्टं तथा। यतोऽभिन्नासंसृष्टत्वेन दृष्टम्, भेदसंसर्गाभ्यां विकल्पयति।।
(सूo 176) उदात्तं वस्तुनः सम्पत्
सम्पत् समृद्धियोगः। यथा-
मुक्ताः केलिविसूत्रहारगलिताः सम्मार्जनीभिर्हृताः
प्रातः प्राङ्गणसीम्नि मन्थरचलद्बालाङ्घ्रिलाक्षारुणाः।
दूराद्दाडिमबीजशङ्कितधियः कर्षन्ति केलीशुकाः
यद्विद्वद्भवनेषु भोजनृपतेस्तत् त्यागलीलायितम् ।। 508 ।।
(सूo 177) महतां चोपलक्षणम् ।।115।।
उपलक्षणमङ्गभावः, अर्थादुपलक्षणीयेऽर्थे। उदाहरणम्--
तदिदमरण्यं यस्मिन्दशरथवचनानुपालनव्यसनी।
निवसन् बाहुसहायश्चकार रक्षःक्षयं रामः ।। 509 ।।
न चात्र वीरो रसः, तस्येहाङ्गत्वात् ।।
(सूo 178) तत्सिद्धिहेतावेकस्मिन् यत्रान्यत्तत्करं भवेत्।
समुच्चयोऽसौ
तस्य प्रस्तुतस्य कार्यस्य, एकस्मिन्साधके स्थिते साधकान्तराणि यत्र सम्भवन्ति स समुच्चयः। उदाहरणम्--
दुर्वाराः स्मरमार्गणाः प्रियतमो दूरे मनोऽत्युत्सुकं
गाढं प्रेम नवं वयोऽतिकठिनाः प्राणाः कुलं निर्मलम्।
स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत् कालः कृतान्तोऽक्षमो
नो सख्यश्चतुराः कथन्नु विरहः सोढव्य इत्थं शठः ।। 510 ।।
अत्र विरहासहत्वं स्मरमार्गणा एव कुर्वन्ति तदुपरि प्रियतमदूरस्थित्यादि, उपात्तम्। एष एव समुच्चयः सद्योगेऽसद्योगे च पर्यवस्यतीति न पृथक्लक्ष्यते। तथाहि--
कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतिशालिनी
भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम्।
प्रकृतिसुभगा ह्येते भावा अमीभिरयं जनो
व्रजति सुतरां दर्पं राजन् त एव तवाङ्कुशाः ।। 511 ।।
अत्र सतां योगः। उक्तोदाहरणे त्वसतां योगः।
शशी दिवसधूसरो गलितयौवना कामिनी
सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः।
प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ।। 512 ।।
अत्र शशिनि धूसरे शल्ये शल्यान्तराणीति शोभनाशोभनयोगः।
(सूo 179) स त्वन्यो युगपद् या गुणक्रियाः ।।116।।
गुणौ च क्रिये च गुणक्रिये च गुणक्रियाः। क्रमेणोदाहरणम्--
विदलितसकलारिकुलं तव बलमिदमभवदाशु विमलं च।
प्रखलमुखानि नराधिप ! मलिनानि च तानि जातानि ।। 513 ।।
अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे।
नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्वरम्यैः ।। 514 ।।
कलुषं च तवाहितेष्वकस्मात्सितपङ्केरुहसोदरश्रि चक्षुः।
पतितं च महीपतीन्द्र ! तेषां वपुषि प्रस्फुटमापदां कटाक्षैः ।। 515 ।।
`धुनोति चासिं तनुते च कीर्तिम्' इत्यादेः `कृपाणपाणिश्च भवान् रणक्षितौ ससाधुवादाश्च सुराः सुरालये' इत्यादेश्च दर्शनाद् `व्यधिकरणे' इति `एकस्मिन् देशे' इति च न वाच्यम्।।
(सूo 180) एक क्रमेणानेकस्मिन् पर्यायः
एकं वस्तु क्रमेणानेकस्मिन् भवति क्रियते वा स पर्यायः। क्रमेणोदाहरणम्--
नन्वाश्रयस्थितिरियं तव कालकूट ! केनोत्तरोत्तरविशिष्टपदोपदिष्टा।
प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वससि वाचि पुनः खलानाम् ।। 516 ।।
श्रेणीबन्धःस्त्यजति तनुतां सेवते मध्यभागः पद्भ्यां मुक्तास्तरलगतयः संश्रिता लोचनाभ्याम्।
धत्ते वक्षः कुचसचिवतामद्वितीयं च वक्त्रं तद्गात्राणां गुणविनिमयः कल्पितो यौवनेन।। 517।।
बिम्बोष्ठ एव रागस्ते तन्वि पूर्वमदृश्यत।
अधुना हदयेऽप्येष मृगशावाक्षि ! लक्ष्यते ।। 518 ।।
रागस्य वस्तुतो भेदेऽप्येकतयाऽध्यवसितत्वादेकत्वमविरुद्धम्।
तं ताण सिरिसहोअररअणाहरणम्मि हिअअमेक्करसम्।
बिम्बाहरे पिआणं णिवेसिअं कुसुमबाणेण ।। 519 ।।
(तत्तेषां श्रीसहोदररत्नाभरणे हृदयमेकरसम् ।
बिम्बाधरे प्रियाणां निवेशितं कुसुमबाणेन ।।)
(सूo 181) अन्यस्ततोऽन्यथा।
अनेकमेकस्मिन् क्रमेण भवति क्रियते वा सोऽन्यः। क्रमेणोदाहरणम्--
मधुरिमरुचिरं वचः खलानाममृतमहो प्रथमं पृथु व्यनक्ति।
अथ कथयति मोहहेतुमन्तर्गतमिव हालहलं विषं तदेव ।। 520 ।।
तद्गेहं नतभित्ति मन्दिरमिदं लब्धावकाशं दिवः
सा धेनुर्जरती नदन्ति करिणामेता घनाभा घटाः।
स क्षुद्रो मुसलध्वनिः कलमिदं सङ्गीतकं योषिता-
माश्चर्यं दिवसैर्द्विजोऽयमियतीं भूमिं समारोपितः ।। 521 ।।
अत्रैकस्यैव हानोपादानयोरविवक्षितत्वान्न परिवृत्तिः।।
(सूo 182) अनुमानं तदुक्तं यत् साध्यसाधनयोर्वचः ।।117।।
पक्षधर्मान्वयव्यतिरेकित्वेन त्रिरूपो हेतुः साधनम्। धर्मिणि, अयोगव्यवच्छेदो व्यापकस्य साध्यम्।
यथा-
यत्रैता लहरीचलाचलदृशो व्यापारयन्ति भ्रुवं
यत्तत्रैव पतन्ति सन्ततममी मर्मस्पृशो मार्गणाः।
तच्चक्रीकृतचापमञ्चितशरप्रेङ्खत्करः क्रोधनो
धावत्यग्रत एव शासनधरः सत्यं सदाऽऽसां स्मरः ।। 522 ।।
साध्यसाधनयोः पौर्वापर्यविकल्पे न किंचिद्वैचित्र्यमिति न तथा दर्शितम्।।
(सूo 183) विशेषणैर्यत्साकूतैरुक्तिः परिकरस्तु सः।
अर्थाद्विशेष्यस्य। उदाहरणम्--
महौजसो मानधना धनार्चिता धनुर्भृतः संयति लब्धकीर्तयः।
न संहतास्तस्य न भेदवृत्तयः प्रियाणि वाञ्छन्त्यसुभिः समीहितुम् ।। 523 ।।
यद्यप्यपुष्टार्थस्य दोषताभिधानात्तन्निराकरणेन पुष्टार्थस्वीकारः कृतः, तथाप्येकनिष्ठत्वेन बहूनां विशेषणानामेवमुपन्यासे वैचित्र्यमित्यलङ्कारमध्ये गणितः।।
(सूo 184) व्याजोक्तिश्छद्मनोद्भिन्नवस्तुरूपनिगूहनम् ।।118।।
निगूढमपि वस्तुनो रूपं कथमपि प्रभिन्नं केनापि व्यपदेशेन यदपह्नूयते सा व्याजोक्तिः। न चैषापह्नुतिः प्रकृताप्रकृतोभयनिष्ठस्य साम्यस्येहासम्भवात्। उदाहरणम्--
शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लसद्--
रोमाञ्चादिविसंष्ठुलाखिलविधिव्यासङ्गभङ्गाकुलः।
हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान् सस्मितं
शैलान्तःपुरमातृमण्डलगणैर्दृष्टोऽवताद्वः शिवः ।। 524 ।।
अत्र पुलकवेपथू सात्त्विकरूपतया प्रसृतौ शैत्यकारणतया प्रकाशितत्वादपलपितस्वरूपौ व्याजोक्तिं प्रयोजयतः।।
(सूo 185) किञ्चित् पृष्टमपृष्टं वा कथितं यत्प्रकल्पते।
तादृगन्यव्यपोहाय परिसङ्ख्या तु सा स्मृता ।।119।।
प्रमाणान्तरावगतमपि वस्तु शब्देन प्रतिपादितं प्रयोजनान्तराभावात्सदृशवस्त्वन्तरव्यवच्छेदाय यत् पर्यवस्यति सा भवेत्परिसङ्ख्या। अत्र च कथनं प्रश्नपूर्वकं तदन्यथा च परिदृष्टं तथोभयत्र व्यपोह्यमानस्य प्रतीयमानता वाच्यत्वं चेति चत्वारो भेदाः। क्रमेणोदाहरणम्--
किमासेव्यं पुंसां सविधमनवद्यं द्युसरितः
किमेकान्ते ध्येयं चरणयुगलं कौस्तुभभृतः।
किमाराध्यं पुण्यं किमभिलषणीयं च करुणा
यदासक्त्या चेतो निरवधि विमुक्त्यै प्रभवति ।। 525।।
किं भूषणं सुदृढमत्र यशो न रत्नं किं कार्यमार्यचरितं सुकृतं न दोषः।
किं चक्षुरप्रतिहतं धिषणा न नेत्रं जानाति कस्त्वदपरः सदसद्विवेकम् ।। 526 ।।
कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते।
काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति ।। 527 ।।
भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्त्रे।
चिन्ता यशसि न वपुषि प्रायः परिदृश्यते महताम् ।। 528 ।।
(सूo 186) यथोत्तरं चेत् पूर्वस्य पूर्वस्यार्थस्य हेतुता।
तदा कारणमाला स्यात्
उत्तरमुत्तरं प्रति यथोत्तरम्। उदाहरणम्--
जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते।
गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि सम्पदः ।। 529 ।।
``हेतुमता सह हेतोरभिधानमभेदतो हेतुः।''
इति हेत्वलङ्कारो न लक्षितः। आयुर्घृतमित्यादिरूपो ह्येष न भूषणतां कदाचिदर्हति वैचित्र्याभावात्।
अविरलकमलविकासः सकलालिमदश्च कोकिलानन्दः।
रम्योऽयमेति संप्रति लोकोत्कण्ठाकरः कालः ।। 530 ।।
इत्यत्र काव्यरूपतां कोमलानुप्रासमहिम्नैव समाम्नासिषुर्न पुनर्हेत्वलङ्कारकल्पनयेति पूर्वोक्तकाव्यलिङ्गमेव हेतुः।।
(सूo 187) क्रियया तु परस्परम् ।।120।।
वस्तुनोर्जननेऽन्योन्यम्-
अर्थयोरेकक्रियामुखेन परस्परं कारणत्वे सति, अन्योन्यं नामाऽलङ्कारः। उदाहरणम्--
हंसाणं सरोहिँ सिरी सारिज्जइ अह सराण हंसेहिँ।
अण्णोण्णं विअ एए अप्पाणं णवार गरुअन्ति ।। 531 ।।
(हंसानां सरोभिः श्रीः सार्यतेथ सरसां हंसैः ।
अन्योन्यमेवैत आत्मानं केवलं गुरूकुर्वन्ति ।।)
अत्रोभयेषामपि परस्परं जनकता मिथःश्रीसारतासम्पादनद्वारेण।।
(सूo 188) उत्तरश्रुतिमात्रतः।
प्रश्नस्योन्नयनं यत्र क्रियते तत्र वा सति ।।121।।
असकृद्यदसम्भाव्यमुत्तरं स्यात् तदुत्तरम्।
प्रतिवचनोपलम्भादेव पूर्ववाक्यं यत्र कल्प्यते तदेकं तावदुत्तरम्। उदाहरणम्--
वाणिअअ हत्थिदन्ता कुत्तो अम्हाणॅ वग्घकित्तीअ।
जावलुलिआलअमुही घरम्मि परिसक्कए सोण्हा ।। 532 ।।
(वणिजक? हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत्तयश्च ।
यावल्लुलितालकमुखी गृहे परिसङ्क्रामति स्नुषा ।।)
हस्तिदन्तव्याघ्रकृत्तीनामहमर्थी ताः, मूल्येन प्रयच्छेति क्रेतुर्वचनम् अमुना वाक्येन समुन्नीयते।
न चैतत् काव्यलिङ्गम्। उत्तरस्य ताद्रूप्यानुपपत्तेः। नहि प्रश्नस्य प्रतिवचनं जनको हेतुः। नापीदमनुमानम्। एकधर्मिनिष्ठतया साध्यसाधनयोरनिर्देशादित्यलङ्कारान्तरमेवोत्तरं साधीयः।
प्रश्नादनन्तरं लोकातिक्रान्तगोचरतया यदसम्भाव्यरूपं प्रतिवचनं स्यात्तदपरमुत्तरम्। अनयोश्च सकृदुपादाने न चारुताप्रतीतिरित्यसकृदित्युक्तम्। उदाहरणम्--
का विसमा देव्वगई किंदुल्लहं जं जणो गुणग्गाही।
किं सोख्खं सुकलत्तं किं दुक्खं जं खलो लोओ ।। 533 ।।
(का विषमा दैवगतिः किं दुर्लभं यज्जनो गुणग्राही ।
किं सौख्यं सुकलत्रं किं दुःखं यत् खलो लोकः ।।)
प्रश्नपरिसङ्ख्यायामन्यव्यपोहे, एव तात्पर्यम्। इह तु वाच्ये, एव विश्रान्तिरित्यनयोर्विवेकः।।
(सूo 189) कुतोऽपि लक्षितः सूक्ष्मोऽप्यर्थोऽन्यस्मै प्रकाश्यते ।।122।।
धर्मेण केनचिद्यत्र तत्सूक्ष्मं परिचक्षते।
कुतोऽपि, आकारादिङ्गिताद्वा सूक्ष्मस्तीक्ष्णमतिसंवेद्यः। उदाहरणम्--
वक्त्रस्यन्दिस्वेदबिन्दुप्रबन्धैर्दृष्ट्वा भिन्नं कुङ्कुमं कापि कण्ठे।
पुंस्त्वं तन्व्या व्यञ्जयन्ती वयस्या स्मित्वा पाणौ खड्गलेखां लिलेख ।। 534 ।।
अत्राकृतिमवलोक्य कयाऽपि वितर्कितं पुरुषायितम् असिलतालेखनेन वैदग्ध्यादभिव्यक्तिमुपनीतम्। पुंसामेव कृपाणपाणिता योग्यत्वात्। यथा वा-
सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया।
ईषन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम् ।। 535 ।।
अत्र जिज्ञासितः सङ्केतकालः कयाचिदिङ्गितमात्रेण विदितो निशासमयशंसिना कमलनिमीलनेन लीलया प्रतिपादितः।।
(सूo 190) उत्तरोत्तरमुत्कर्षो भवेत्सारः परावधिः ।।123।।
परः पर्यन्तभागोऽवधिर्यस्य। धाराधिरोहितया तत्रैवोत्कर्षस्य विश्रान्तेः। उदाहरणम्--
राज्ये सारं वसुधा वसुधायां पुरं पुरे सौधम्।
सौधे तल्पं तल्पे वराङ्गनाऽनङ्गसर्वस्वम् ।। 536 ।।
(सूo 191) भिन्नदेशतयाऽत्यन्तं कार्यकारणभूतयोः।
युगपद्धर्मयोर्यत्र ख्यातिः सा स्यादसङ्गतिः ।।124।।
इह यद्देशं कारणम्, तद्देशमेव कार्यमुत्पद्यमानं दृष्टंम्, यथा धूमादि। यत्र तु हेतुफलरूपयोरपि धर्मयोः केनाप्यतिशयेन
नानादेशतया युगपदवभासनं सा तयोः स्वभावोत्पन्नपरस्परसङ्गतित्यागादसङ्गतिः। उदाहरणम्--
जस्सेअ वणो तस्सेअ वे अणा भणइ तं जणो अलिअम्।
दन्तक्खअं कवोले बहूए वेअणा सवत्तीणम् ।। 537 ।।
(यस्यैव व्रणस्तस्यैव वेदना भणति तज्जनोऽलीकम् ।
दन्तक्षतं कपोले वध्वा वेदना सपत्नीनाम् ।।)
एषा च विरोधबाधिनी न विरोधः भिन्नाधारतयैव द्वयोरिह विरोधितायाः प्रतिभासात्। विरोधे तु
विरोधित्वमेकाश्रयनिष्ठमनुक्तमपि पर्यवसितम्। अपवादविषयपरिहारेणोत्सर्गस्य व्यवस्थितेः। तथा चैवं निदर्शितम्।।
(सूo 192) समाधिः सुकरं कार्यं कारणान्तरयोगतः।
साधनान्तरोपकृतेन कर्त्रा यदक्लेशेन कार्यमारब्धं समाधीयते स समाधिर्नाम। उदाहरणम्--
मानमस्या निराकर्त्तुं पादयोर्मे पतिष्यतः।
उपकाराय दिष्ट्येदमुदीर्णं घनगर्जितम् ।। 538 ।।
(सूo 193) समं योग्यतया योगो यदि सम्भावितः क्वचित् ।।125।।
इदमनयोः श्लाघ्यमिति योग्यतया सम्बन्धस्य नियतविषयमध्यवसानं चेत्तदा समं तत्सद्योगेऽसद्योगे च। उदाहरणम्--
धातुः शिल्पातिशयनिकषस्थानमेषा मृगाक्षी
रूपे देवोऽप्ययमनुपमो दत्तपत्रः स्मरस्य।
जातं दैवात्सदृशमनयोः सङ्गतं यत्तदेत-
च्छृङ्गारस्योपनतमधुना राज्यमेकातपत्रम् ।। 539 ।।
चित्रं चित्रं बत बत महच्चित्रमेतद्विचित्रं
जातो दैवादुचितरचनासंविधाता विधाता।
यन्निम्बानां परिणतफलस्फीतिरास्वादनीया
यच्चैतस्याः कवलनकलाकोविदः काकलोकः ।। 540 ।।
(सूo 194) क्वचिद्यदतिवैधर्म्यान्न श्लेषो घटनामियात्।
कर्तुः क्रियाफलावाप्तिर्नैवानर्थश्च यद्भवेत् ।।126।।
गुणक्रियाभ्यां कार्यस्य कारणस्य गुणक्रिये।
क्रमेण च विरुद्धे यत्स एष विषमो मतः ।।127।।
द्वयोरत्यन्तविलक्षणतया यदनुपपद्यमानतयैव योगः प्रतीयते[1] यच्च किञ्चिदारभमाणः कर्ता क्रियायाः प्रणाशात् न केवलमभीष्टं यत्फलं न लभेत यावदप्रार्थितमप्यनर्थं विषयमासादयेत् [2] तथा सत्यपि कार्यस्य कारणरूपानुकारे यत् तयोर्गुणौ क्रिये च परस्परं विरुद्धतां व्रजतः [3,4] स समविपर्ययात्मा चतूरूपो विषमः। क्रमेणोदाहरणम्--
शिरीषादपि मृद्वङ्गी क्वेयमायतलोचना।
अयं क्व च कुकूलाग्निकर्कशो मदनानलः ।। 541 ।।
सिंहिकासुतसंत्रस्तः शशः शीतांशुमाश्रितः।
जग्रसे साश्रयं तत्र तमन्यः सिंहिकासुतः ।। 532 ।।
सद्यः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा।
तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोक्याभरणं प्रसूते ।। 543 ।।
आनन्दममन्दमिमं कुवलयदललोचने ददासि त्वम्।
विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ।। 544 ।।
अत्रानन्ददानं शरीरतापेन विरुध्यते। एवम् -
विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये।
मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा ।। 545 ।।
इत्यादावपि विषमत्वं यथायोगमवगन्तव्यम्।।
(सूo 195) महतोर्यन्महीयांसावाश्रिताश्रययोः क्रमात्।
आश्रयाश्रयिणौ स्यातां तनुत्वेऽप्यधिकं तु तत् ।।128।।
आश्रितमाधेयम् आश्रयस्तदाधारः, तयोर्महतोरपि विषये तदपेक्षया तनू, अप्याश्रयाश्रयिणौ प्रस्तुतवस्तुप्रकर्षविवक्षया यथाक्रमं यत् अधिकतरतां व्रजतः, तदिदं द्विविधम् अधिकं नाम। क्रमेणोदाहरणम्--
अहो विशालं भूपाल भुवनत्रितयोदरम्।
माति मातुमशक्योऽपि यशोराशिर्यदत्र ते ।। 546 ।।
युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकाशमासत।
तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसम्भवा मुदः ।। 547 ।।
(सूo 196) प्रतिपक्षमशक्तेन प्रतिकर्तुं तिरस्क्रिया।
या तदीयस्य तत्स्तुत्यै प्रत्यनीकं तदुच्यते ।।129।।
न्यक्कृतिपरमपि विपक्षं साक्षान्निरसितुमशक्तेन केनापि यत् तमेव प्रतिपक्षमुत्कर्षयितुं तदाश्रितस्य तिरस्करणं
तदनीकप्रतिनिधितुल्यत्वात्प्रत्यनीकमभिधीयते। यथाऽनीकेऽभियोज्ये तत्प्रतिनिधीभूतमपरं मूढतया केनचिदभियुज्यते तथेह प्रतियोगिनि विजेये तदीयोऽन्यो विजीयते, इत्यर्थः। उदाहरणम्--
त्वं विनिर्जितमनोभवरूपः सा च सुन्दर भवत्यनुरक्ता।
पञ्चभिर्युगपदेव शरैस्तां तापयत्यनुशयादिव कामः ।। 548 ।।
यथा वा-
यस्य किञ्चिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः।
कान्तवक्त्रसदृशाकृतिं कृती राहुरिन्दुमधुनाऽपि बाधते ।। 549 ।।
इन्देरत्र तदीयता सम्बन्धिसम्बन्धात् ।।
(सूo 197) समेन लक्ष्मणा वस्तु वस्तुना यन्निगूह्यते।
निजेनागन्तुना वापि तन्मीलितमिति स्मृतम् ।।130।।
सहजमागन्तुकं वा किमपि साधारणं यत् लक्षणम् तद्द्वारेण यत्किञ्चित् केनचिद्वस्तु वस्तुस्थित्यैव बलीयस्तया तिरोधीयते तन्मीलितमिति द्विधा स्मरन्ति। क्रमेणोदाहरणम्--
अपाङ्गतरले दृशौ मधुरवक्रवर्णा गिरो
विलासभरमन्थरा गतिरतीव कान्तं मुखम्।
इति स्फुरितमङ्गके मृगदृशां स्वतो लीलया
तदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते ।। 550 ।।
अत्र दृक्तरलतादिकमङ्गस्य लिङ्गं स्वाभाविकं साधारणं च महोदयेन तत्राप्येतस्य दर्शनात्।
ये कन्दरासु निवसन्ति सदा हिमाद्रेस्त्वत्पातशङ्कितधियो विवशा द्विषस्ते।
अप्यङ्गमुत्पुलकमुद्वहतां सकम्पं तेषामहो बत भियां न बुधोऽप्यभिज्ञः ।। 551 ।।
अत्र तु सामर्थ्यादवसितस्य शैत्यस्य, आगन्तुकत्वात्तत्प्रभवयोरपि कम्पपुलकयोस्ताद्रूप्यं समानता च भयेष्वपि तयोरुपलक्षितत्वात्।।
(सूo 198) स्थाप्यतेऽपोह्यते वापि यथापूर्वं परं परम्।
विशेषणतया यत्र वस्तु सैकावली द्विधा ।।131।।
पूर्वं पूर्वं प्रति यथोत्तरस्य वस्तुनो वीप्सया विशेषणभावेन यत्स्थापनं निषेधो वा सम्भवति सा द्विधा बुधैरेकावली भण्यते। क्रमेणोदाहरणम्--
पुराणि यस्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताङ्ग्यः।
रूपं समुन्मीलितसद्विलासमस्त्रं विलासाः कुसुमायुधस्य ।। 552 ।।
न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद्यदलीनषट्पदम्।
न षट्पदोऽसौ कलगुञ्जितो न यो न गुञ्जितं तन्न जहार यन्मनः ।। 553 ।।
पूर्वत्र पुराणां वराङ्गनाः तासामङ्गविशेषणमुखेन रूपं तस्य विलासाः, तेषामप्यस्त्रमित्यमुना
क्रमेण विशेषणं विधीयते। उत्तरत्र प्रतिषेधेऽप्येवं योज्यम्।।
(सूo 199) यथाऽनुभवमर्थस्य दृष्टे तत्सदृशे स्मृतिः।
स्मरणम्-
यः पदार्थः केनचिदाकारेण नियतः, यदा कदाचिदनुभूतोऽभूत् स कालान्तरे स्मृतिप्रतिबोधाधायिनि तत्समाने वस्तुनि दृष्टे सति यत्तथैव स्मर्यते तद्भवेत्स्मरणम्। उदाहरणम्--
निम्ननाभिकुहरेषु यदम्भः प्लावितं चलदृशां लहरीभिः।
तद्भवैः कुहरुतैः सुरनार्यः स्मारिताः सुरतकण्ठरुतानाम् ।। 554 ।।
यथा वा-
करजुअगहिअजसोआत्थणमुहविणिवेसिआहरपुडस्स।
संभरिअपञ्चजण्णस्स णमह कण्हस्स रोमाञ्चम् ।। 555 ।।
(करयुगगृहीतयशोदास्तनमुखविनिवेशिताधरपुटस्य।
संस्मृतपाञ्चजन्यस्य नमत कृष्णस्य रोमाञ्चम्।।)
(सूo 200) भ्रान्तिमानन्यसंवित्तत्तुल्यदर्शने ।132।।
तदिति अन्यत् अप्राकरणिकं निर्दिश्यते। तेन समानम् अर्थादिह प्राकरणिकम् आश्रीयते। तस्य तथाविधस्य दृष्टौ सत्यां यत् अप्राकरणिकतया संवेदनं स भ्रान्तिमान्। न चैष रूपकं प्रथमातिशयोक्तिर्वा। तत्र वस्तुतो भ्रमस्याभावात्। इह चार्थानुगमनेन संज्ञायाः प्रवृत्तेः तस्य स्पष्टमेव प्रतिपन्नत्वात् । उदाहरणम्--
कपाले मार्जारः पय इति कराँल्लेढि शशिन-
स्तरुच्छिद्रप्रोतान् बिसमिति करी सङ्कलयति।
रतान्ते तल्पस्थान् हरति वनिताऽप्यंशुकमिति
प्रभामत्तश्चन्द्रो जगदिदमहो विप्लवयति ।। 556 ।।
(सूo 201) आक्षेप उपमानस्य प्रतीपमुपमेयता।
तस्यैव यदि वा कल्प्या तिरस्कारनिबन्धनम् ।।133।।
अस्य धुरं सुतरामुपमेयमेव वोढुं प्रौढमिति कैमर्थ्येन यदुपमानमाक्षिप्यते यदपि तस्यैवोपमानतया प्रसिद्धस्य, उपमानान्तरविवक्षयानादरार्थमुपमेयभावः कल्प्यते तदुपमेयस्योपमानप्रतिकूलवर्तित्वात् उभयरूपं प्रतीपम्। क्रमेणोदाहरणम्--
लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां
देव ! त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा।
इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं
चिन्तारत्नमदो मुधैव किममी सृष्टाः कुलक्ष्माभृतः ।। 557 ।।
ए एहि दाव सुन्दरि कण्णं दाऊण सुणसु वअणिज्जम्।
तुज्झ मुहेण किसोअरि चन्दो उअभिज्जइ जणेण ।। 558 ।।
(अयि एहि तावत्सुन्दरि कर्णं दत्त्वा शृणुष्व वचनीयम् ।
तव मुखेन कृशोदरि ! चन्द्र उपमीयते जनेन ।।)
अत्र मुखेनोपमीयमानस्य शशिनः स्वल्पतरगुणत्वादुपमित्यनिष्पत्त्या `वअणिज्जम्' इति वचनीयपदाभिव्यङ्ग्यस्तिरस्कारः।
क्वचित्तु निष्पन्नैवोपमितिक्रियाऽनादरनिबन्धनम्। यथा-
गर्वमसंवाह्यमिमं लोचनयुगलेन किं वहसि मुग्धे।
सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि ।। 559।।
इहोपमेयीकरणमेवोत्पलानामनादरः।
अनयैव रीत्या यदसामान्यगुणयोगात् नोपमानभावमपि, अनुभूतपूर्वि तस्य तत्कल्पनायामपि भवति प्रतीपमिति प्रत्येतव्यम्। यथा-
अहमेव गुरुः सुदारुणानामिति हालाहल तात मास्म दृप्यः।
ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन् वचनानि दुर्जनानाम् ।। 560 ।।
अत्र हालाहलस्योपमानत्वमसम्भाव्यमेवोपनिबद्धम् ।।
(सूo 202) प्रस्तुतस्य यदन्येन गुणसाम्यविवक्षया।
ऐकात्म्यं बध्यते योगात्तत्सामान्यमिति स्मृतम् ।।134।।
अतादृशमपि तादृशतया विवक्षितुं यत् अप्रस्तुतार्थेन संपृक्तमपरित्यक्तनिजगुणमेव तदेकात्मतया निबध्यते तत्समानगुणनिबन्धनात्सामान्यम्। उदाहरणम्--
मलयजरसविलिप्ततनवो नवहारलताविभूषिताः
सिततरदन्तपत्रकृतवक्त्ररुचो रुचिरामलांशुकाः।
शशभृति विततधाम्नि धवलयति धरामविभाव्यतां गताः।
प्रियवसतिं प्रयान्ति सुखमेव निरस्तभियोऽभिसारिकाः ।। 561 ।।
अत्र प्रस्तुततदन्ययोरन्यूनानतिरिक्ततया निबद्धं धवलत्वमेकात्मताहेतुः। अत एव पृथग्भावेन न तयोरुपलक्षणम्। यथा वा-
वेत्रत्वचा तुल्यरुचां वधूनां कर्णाग्रतो गण्डतलागतानि।
भृङ्गाः सहेलं यदि नापतिष्यन् कोऽवेदयिष्यन्नवचम्पकानि ।। 562 ।।
अत्र निमित्तान्तरजनिताऽपि नानात्वप्रतीतिः प्रथमप्रतिपन्नमभेदं न व्युदसितुमुत्सहते प्रतीतत्वात्तस्य प्रतीतेश्च बाधायोगात्।।
(सूo 203) विना प्रसिद्धमाधारमाधेयस्य व्यवस्थितिः।
एकात्मा युगपद्वृत्तिरेकस्यानेकगोचरा ।।135।।
अन्यत्प्रकुर्वतः कार्यमशक्यस्यान्यवस्तुनः।
तथैव करणं चेति विशेषस्त्रिविधः स्मृतः ।।136।।
प्रसिद्धाधारपरिहारेण यत् आधेयस्य विशिष्टा स्थितिरभिधीयते स प्रथमो विशेषः।
उदाहरणम्--
दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम्।
रमयन्ति जगन्ति गिरः कथमिह कवयो न ते वन्द्याः ।। 563 ।।
एकमपि वस्तु यत् एकेनैव स्वभावेन युगपदनेकत्र वर्तते स द्वितीयः। उदाहरणम्--
सा वसइ तुज्झ हिअए सा च्चिअ अच्छीसु सा अ वअणेसु।
अह्मारिसाण सुन्दर ओआसो कत्थ पावाणम् ।। 564 ।।
(सा वसति तव हृदये सैवाक्षिषु सा च वचनेषु ।
अस्मादृशीनां सुन्दर अवकाशः कुत्र पापानाम् ।।)
यदपि किञ्चिद्रभसेन, आरभमाणस्तेनैव यत्नेनाशक्यमपि कार्यान्तरमारभते सोऽपरो विशेषः।
उदाहरणम्--
स्फुरदद्भुतरूपमुत्प्रतापज्वलनं त्वां सृजताऽनवद्यविद्यम्।
विधिना ससृजे नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्च ।। 565 ।।
यथा वा-
गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ।
करुणाविमुखेन मृत्युना हरता त्वां बत किं न मे हृतम् ।। 566 ।।
सर्वत्र, एवंविधविषयेऽतिशयोक्तिरेव प्राणत्वेनावतिष्ठते। तां विना प्रायेणालङ्कारत्वायोगात्। अत एवोक्तम्
``सैषा सर्वत्र वक्रोक्तिरनयाऽर्थो विभाव्यते।
यत्नोऽस्यां कविना कार्यः कोऽलङ्कारोऽनया विना ।।'' इति।।
(सूo 204) स्वमुत्सृज्य गुणं योगादत्युज्ज्वलगुणस्य यत्।
वस्तु तद्गुणतामेति भण्यते स तु तद्गुणः ।।137।।
वस्तु तिरस्कतनिजरूपं केनापि समीपगतेन प्रगुणतया स्वगुणसंपदोपरक्तं तत्प्रतिभासमेव यत्समासादयति स तद्गुणः। तस्याप्रकृतस्य गुणोऽत्रास्तीति। उदाहरणम्--
विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या।
रत्नैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ।। 567 ।।
अत्र रवितुरगापेक्षया गरुडाग्रजस्य तदपेक्षया च हरिन्मणीनां प्रगुणवर्णना।।
(सूo 205) तद्रूपाननुहारश्चेदस्य तत्स्यादतद्गुणः।
यदि तु तदीयं वर्णं सम्भवन्त्यामपि योग्यतायामिदं न्यूनगुणं न गृह्णीयात्तदा भवेदतद्गुणो नाम। उदाहरणम्--
धवलोसि जहवि सुन्दर तहवि तुए मज्झ रज्जिअं हिअअम्।
राअभरिएवि हिअए सुहअ णिहित्तो ण रत्तोसि ।। 568 ।।
(धवलोऽसि यद्यपि सुन्दर ! तथापि त्वया मम रज्जितं हृदयम् ।
रागभरितेऽपि हृदये सुभग ! निहितो न रक्तोऽसि ।।)
अत्रातिरक्तेनापि मनसा संयुक्तो न रक्ततामुपगत इत्यतद्गुणः।
किञ्च तदिति अप्रकृतम् अस्येति च प्रकृतमत्र निर्दिश्यते। तेन यत् अप्रकृतस्य रूपं प्रकृतेन कुतोऽपि निमित्तान्नानुविधीयते सोऽतद्गुण इत्यपि प्रतिपत्तव्यम्। यथा-
गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः।
राजहंस ! तव सैव शुभ्रता चीयते न च न चापचीयते ।। 569 ।।
(सूo 206) यद्यथा साधितं केनाप्यपरेण तदन्यथा ।। 138 ।।
तथैव यद्विधीयेत स व्याघात इति स्मृतः।
येनोपायेन यत् एकेनोपकल्पितं तस्यान्येन जिगीषुतया तदुपायकमेव यदन्यथाकरणं स साधितवस्तुव्याहतिहेतुत्वाद्व्याघातः। उदाहरणम्--
दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः।
विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ।। 570 ।।
(सूo 207) सेष्टा संसृष्टिरेतेषां भेदेन यदिह स्थितिः ।।139।।
एतेषां समनन्तरमेवोक्तस्वरूपाणामलङ्काराणां यथासम्भवमन्योन्यनिरपेक्षतया यदेकत्र शब्दभागे एव, अर्थविषये, एव, उभयत्रापि वा, अवस्थानं सा, एकार्थसमवायस्वभावा संसृष्टिः।
तत्र शब्दालङ्कारसंसृष्टिर्यथा-
वदनसौरभलोभपरिभ्रमद्भ्रमरसंभ्रमसंभृतशोभया।
चलितया विदधे कलमेखलाकलकलोऽलकलोलदृशाऽन्यया ।। 571 ।।
अर्थालङ्कारसंसृष्टिस्तु
लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः।
असत्पुरुषसेवेव दृष्टिर्विफलतां गता ।। 572 ।।
पूर्वत्र परस्परनिरपेक्षौ यमकानुप्रासौ संसृष्टिं प्रयोजयतः। उत्तरत्र तु तथाविधे, उपमोत्प्रेक्षे।
शब्दार्थालङ्कारयोस्तु संसृष्टिः -
सो णत्थि एत्थ गामे जो एअं महमहन्तलाअण्णं।
तरूणाण हिअअलूडिं परिसक्कन्तीं णिवारेइ ।। 573 ।।
(स नास्त्यत्र ग्रामे य एनां महमहायमानलावण्यम् ।
तरुणानां हृदयलुण्ठाकीं परिष्वक्वमाणां निवारयति ।।)
अत्रानुप्रासो रूपकं चान्योन्यानपेक्षे। संसर्गश्च तयोरेकत्र वाक्ये छन्दसि वा समवेतत्वात्।।
(सूo 208) अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वं तु सङ्करः।
एते, एव यत्रात्मनि, अनासादितस्वतन्त्रभावाः परस्परमनुग्राह्यानुग्राहकतां दधति स एषां सङ्कीर्यमाणस्वरूपत्वात् सङ्करः। उदाहरणम्--
आत्ते सीमन्तरत्ने मरकतिनि हृते हेमताटङ्कपत्रे
लुप्तायां मेखलायां झटिति मणितुलाकोटियुग्मे गृहीते।
शोणं बिम्बोष्ठकान्त्या त्वदरिमृगदृशामित्वरीणामरण्ये
राजन्गुञ्जाफलानां स्रज इति शबरा नैव हारं हरन्ति ।। 574 ।।
अत्र तद्गुणमपेक्ष्य भ्रान्तिमता प्रादुर्भूतं तदाश्रयेण च तद्गुणः सचेतसां
प्रभूतचमत्कृतिनिमित्तमित्यनयोरङ्गाङ्गिभावः। यथा वा -
जटाभाभिर्भाभिः करधृतकलङ्काक्षवलयो
वियोगिव्यापत्तेरिव कलितवैराग्यविशदः।
परिप्रेङ्खत्तारापरिकरकपालाङ्किततले
शशी भस्मापाण्डुः पितृवन इव व्योम्नि चरति ।। 575 ।।
उपमा रूपकम् उत्प्रेक्षा श्लेषश्चेति चत्वारोऽत्र पूर्ववत् अङ्गाङ्गितया प्रतीयन्ते।
कलङ्क एवाक्षवलयमिति रूपकपरिग्रहे करधृतत्वमेव साधकप्रमाणतां प्रतिपद्यते। अस्य हि रूपकत्वे तिरोहितकलङ्करूपम् अक्षवलयमेव मुख्यतयाऽवगम्यते तस्यैव च करग्रहणयोग्यतायां सार्वत्रिकी प्रसिद्धिः। श्लेषच्छायया तु कलङ्कस्य करधारणमसदेव प्रत्यासत्त्या, उपचर्य योज्यते। शशाङ्केन केवलं कलङ्कस्य मूर्त्यैव, उद्वहनात्। कलङ्कोऽक्षवलयमिवेति तु, उपमायां कलङ्कस्योत्कटतया प्रतिपत्तिः। न चास्य करधृतत्वं तत्त्वतोऽस्तीति मुख्येऽप्युपचार एव शरणं स्यात्। एवंरूपश्च सङ्करः शब्दालङ्कारयोरपि परिदृश्यते। यथा-
राजति तटीयमभिहतदानवरासाऽतिपातिसारावनदाः ।
गजता च यूथमविरतदानवरा साऽतिपाति सारा वनदा ।। 576 ।।
अत्र यमकमनुलोमप्रतिलोमश्च चित्रभेदः पादद्वयगते परस्परापेक्षे।
(सूo 209) एकस्य च ग्रहे न्यायदोषाभावादनिश्चयः ।।140।।
द्वयोर्बहूनां वा, अलङ्काराणामेकत्र समावेशेऽपि विरोधान्न यत्र युगपदवस्थानं न चैकतरस्य परिग्रहे साधकं तदितरस्य वा परिहारे बाधकमस्ति । येनैकतर एव परिगृह्येत स निश्चयाभावरूपो द्वितीयः सङ्करः। समुच्चयेन सङ्करस्यैवाक्षेपात्। उदाहरणम्--
जह गहिरो जह रअणणिब्भरो जह अ णिम्मलच्छाओ।
तह किं विहिणा एसो सरसवाणीओ जलणिही ण किओ ।। 577 ।।
(यथा गम्भीरो यथा रत्ननिर्भरो यथा च निर्मलच्छायः ।
तथा किं विधिना एव सरसपानीयो जलनिधिर्न्न कृतः ।।)
अत्र समुद्रे प्रस्तुते विशेषणसाम्यादप्रस्तुतार्थप्रतीतेः किमसौ समासोक्तिः किमब्धेरप्रस्तुतस्य सुखेन कस्यापि तत्समगुणतया प्रस्तुतस्य प्रतीतेः, इयमप्रस्तुतप्रशंसा, इति सन्देहः।
यथा वा-
नयनानन्ददायीन्दोर्बिम्बमेतत्प्रसीदति।
अधुनापि निरुद्धाशमविशीर्णमिदन्तमः ।। 578 ।।
अत्र किं कामस्योद्दीपकः कालो वर्तते, इति भङ्ग्यन्तरेणाभिधानात्पर्यायोक्तम् उत वदनस्येन्दुबिम्बतया, अध्यवसानादतिशयोक्तिः किं वा, एतदिति वक्त्रं निर्दिश्य तद्रूपारोपवशाद्रूपकम् अथवा तयोः समुच्चयविवक्षायां दीपकम्, अथवा तुल्ययोगिता किमु प्रदोषसमये विशेषणसाम्यादाननस्यावगतौ समासोक्तिः, आहोस्विन्मुखनैर्मल्यप्रस्तावादप्रस्तुतप्रशंसा, इति बहूनां सन्देहादयमेव सङ्करः।
यत्र तु न्यायदोषयोरन्यतरस्यावतारः, तत्रैकतरस्य निश्चयान्न संशयः। न्यायश्च साधकत्वम् अनुकूलता। दोषोऽपि बाधकत्वं प्रतिकूलता। तत्र-
सौभाग्यं वितनोति वक्त्रशशिनो ज्योत्स्नेव हासद्युतिः ।। 579 ।।
इत्यत्र मुख्यतयाऽवगम्यमाना हासद्युतिर्वक्त्रे, एवानुकूल्यं भजते, इत्युपमायाः साधकम्, शशिनि तु न तथा प्रतिकूलेति रूपकं प्रति तस्या अबाधकता।
वक्त्रेन्दौ तव सत्ययं यदपरः शीतांशुरभ्युद्यतः ।। 580 ।।
इत्यात्रापरत्वमिन्दोरनुगुणं न तु वक्त्रस्य प्रतिकूलमिति रूपकस्य साधकतां प्रतिपद्यते न तूपमाया बाधकताम्।
राजनारायणं लक्ष्मीस्त्वामालिङ्गति निर्भरम् ।। 581 ।।
इत्यत्र पुनरालिङ्गनमुपमां निरस्यति। सदृशं प्रति परप्रेयसीप्रयुक्तस्यालिङ्गनस्यासंभवात्।
आनन्दमन्थनपुरन्दरमुक्तमाल्यं
मौलौ हठेन निहितं महिषासुरस्य।
पादाम्बुजं भवतु नो विजयाय मञ्जु-
मञ्जीररशिञ्जितमनोहरमम्बिकायाः ।। 582 ।।
इत्यत्र मञ्जीरशिञ्जितम् अम्बुजे प्रतिकूलम् असम्भवादिति रूपकस्य बाधकं न तु पादेऽनुकूलमित्युपमायाः साधकममिधीयते। विध्युपमर्दिनो बाधकस्य तदपेक्षयोत्कटत्वेन प्रतिपत्तेः। एवमन्यत्रापि सुधीभिः परीक्ष्यम्।।
(सूo 210) स्फुटमेकत्र विषये शब्दार्थालङ्कृतिद्वयम्।
व्यवस्थितं च.......
अभिन्ने, एव पदे स्फुटतया यदुभावपि शब्दार्थालङ्कारौ व्यवस्थां समासादयतः सोऽप्यपरः सङ्करः। उदाहरणम्--
स्पष्टोल्लसत्किरणकेसरसूर्यबिम्बविस्तीर्णकर्णिकमथो दिवसारविन्दम्।
श्लिष्टाष्टदिग्दलकलापमुखावतारबद्धान्धकारमधुपावलि सञ्चुकोच ।। 583 ।।
अत्रैकपदानुप्रविष्टौ रूपकानुप्रासौ।।
(सूo 211) तेनासौ त्रिरूपः परिकीर्त्तितः ।।141।।
तदयमनुग्राह्यानुग्राहकतया सन्देहेन, एकपदप्रतिपाद्यतया च व्यवस्थितत्वात्त्रिप्रकार एव सङ्करो व्याकृतः। प्रकारान्तरेण तु न शक्यो व्याकर्तुम् आनन्त्यात्तत्प्रभेदानामिति। प्रतिपादिताः शब्दार्थोभयगतत्वेन
त्रैविध्यजुषोऽलङ्काराः।।
कुतः पुनरेष नियमो यदेतेषां तुल्येऽपि काव्यशोभातिशयहेतुत्वे कश्चिदलङ्कारः शब्दस्य कश्चिदर्थस्य कश्चिच्चोभयस्येति चेत् । उक्तमत्र यथा काव्ये दोषगुणालङ्काराणां शब्दार्थोभयगतत्वेन व्यवस्थायामन्वयव्यतिरेकावेव प्रभवतः, निमित्तान्तरस्याभावात् । ततश्च योऽलङ्कारो यदीयान्वयव्यतिरेकावनुविधत्ते स तदलङ्कारो व्यवस्थाप्यते, इति।
एवं च यथा पुनरुक्तवदाभासः परम्परितरूपकं चोभयोर्भावाभावानुविधायितया, उभयालङ्कारौ तथा शब्दहेतुकार्थान्तरन्यासप्रभृतयोऽपि द्रष्टव्याः। अर्थस्य तु तत्र वैचित्र्यम् उत्कटतया प्रतिभासते, इति वाच्यालङ्कारमध्ये वस्तुस्थितिमनपेक्ष्यैव लक्षिताः। योऽलङ्कारो यदाश्रितः स तदलङ्कार इत्यपि कल्पनायाम् अन्वयव्यतिरेकावेव समाश्रयितव्यौ। तदाश्रयणमन्तरेण विशिष्टस्याश्रयाश्रयिभावस्याभावादित्यलङ्काराणां यथोक्तनिमित्त एव परस्परव्यतिरेको ज्यायान्।।
(सूo 212) एषां दोषा यथायोगं सम्भवन्तोऽपि केचन।
उक्तेष्वन्तर्भवन्तीति न पृथक् प्रतिपादिताः ।।142।।
तथा हि--अनुप्रासस्य प्रसिद्ध्यभावो वैफल्यं वृत्तिविरोध इति ये त्रयो दोषाः, ते प्रसिद्धिविरुद्धताम् अपुष्टार्थत्वं प्रतिकूलवर्णतां च यथाक्रमं न व्यतिक्रामन्ति तत्स्वभावत्वात् । क्रमेणोदाहरणम्--
चक्री चक्रारपङ्क्तिं हरिरपि च हरीन् धूर्जटिर्धूर्ध्वजाग्रा-
नक्षं नक्षत्रनाथोऽरुणमपि वरुणः कूबराग्रं कुबेरः।
रंहः सङ्घः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य
स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुचेः सोऽवतात्स्यन्दनो वः ।। 584 ।।
अत्र कर्तृकर्मप्रतिनियमेन स्तुतिः, अनुप्रासानुरोधेनैव कृता न पुराणेतिहासादिषु तथा प्रतीतेति
प्रसिद्धिविरोधः।।
भण तरुणि ! रमणमन्दिरमानन्दस्यन्दिसुन्दरेन्दुमुखि।
यदि सल्लीलोल्लासिनि गच्छसि तत् किं त्वदीयं मे ।। 585 ।।
अननुरणन्मणिमेखलमविरतशिञ्जानमञ्जुमञ्जीरम्।
परिसरणमरुणचरणे रणरणकमकारणं कुरुते ।। 586 ।।
अत्र वाच्यस्य विचिन्त्यमानं न किञ्चिदपि चारुत्वं प्रतीयते, इत्यपुष्टार्थतैवानुप्रासस्य वैफल्यम्।।
अकुण्ठोत्कण्ठया पूर्वमाकण्ठं कलकण्ठि माम्।
कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर।। 587 ।।
अत्र शृङ्गारे परुषवर्णाडम्बरः पूर्वोक्तरीत्या विरुध्यत, इति परुषानुप्रासोऽत्र प्रतिकूलवर्णतैव वृत्तिविरोधः।।
यमकस्य पादत्रयगतत्वेन यमकमप्रयुक्तत्वं दोषः।। यथा -
भुजङ्गमस्येव मणिः सदम्भा ग्राहावकीर्णेव नदी सदम्भाः।
दुरन्ततां निर्णयतोऽपि जन्तोः कर्षन्ति चेतः प्रसभं सदम्भाः ।। 588 ।।
उपमायामुपमानस्य जातिप्रमाणगतन्यूनत्वम् अधिकता वा तादृशी, अनुचितार्थत्वं दोषः। धर्माश्रये तु न्यूनाधिकत्वे यथाक्रमं हीनपदत्वमधिकपदत्वं च न व्यभिचरतः।।
क्रमेणोदाहरणम्--
चण्डालैरिव युष्माभिः साहसं परमं कृतम् ।। 589 ।।
वह्निस्फुलिङ्ग इव भानुरयं चकास्ति ।। 590 ।।
अयं पद्मासनासीनश्चक्रवाको विराजते।
युगादौ भगवान्वेधा विनिर्मित्सुरिव प्रजाः ।। 591 ।।
पातालमिव ते नाभिः स्तनौ क्षितिधरोपमौ।
वेणीदण्डः पुनरयं कालिन्दीपातसन्निभः ।। 592 ।।
अत्र चण्डालादिभिरुपमानैः प्रस्तुतोऽर्थोऽत्यर्थमेव कदर्थित इत्यनुचितार्थता।।
स मुनिर्लाञ्छितो मौञ्ज्या कृष्णाजिनपटं वहन्।
व्यराजन्नीलजीमूतभागाश्लिष्ट इवांशुमान् ।। 593 ।।
अत्रोपमानस्य मौञ्जीस्थानीयस्तडिल्लक्षणो धर्मः केनापि पदेन न प्रतिपादित इति हीनपदत्वम्।।
स पीतवासाः प्रगृहीतशार्ङ्गो मनोज्ञभीमं वपुराप कृष्णः।
शतह्रदेन्द्रायुधवान्निशायां संसृज्यमानः शशिनेव मेघः ।। 594 ।।
अत्रोपमेयस्य शङ्खादेरनिर्देशे शशिनो ग्रहणमतिरिच्यते, इत्यधिकपदत्वम्।।
लिङ्गवचनभेदोऽपि, उपमानोपमेययोः साधारणं चेत् धर्ममन्यरूपं कुर्यात्तदा, एकतरस्यैव तद्धर्मसमन्वयावगतेः सविशेषणस्यैव तस्योपमानत्वमुपमेयत्वं वा प्रतीयमानेन धर्मेण प्रतीयते, इति प्रक्रान्तस्यार्थस्य स्फुटमनिर्वाहादस्य भग्नप्रक्रमरूपत्वम्। यथा--
चिन्तारत्नमिव चयुतोऽसि करतो धिङ्मन्दभाग्यस्य मे ।। 595 ।।
सक्तवो भक्षिता देव शुद्धाः कुलवधूरिव ।। 596 ।।
यत्र तु नानात्वेऽपि लिङ्गवचनयोः सामान्याभिधायि पदं स्वरूपभेदं नापद्यते न तत्रैतद्दूषणावतारः, उभयथापि, अस्यानुगमक्षमस्वभावत्वात्। यथा-
गुणैरनर्घ्यैः प्रथितो रत्नैरिव महार्णवः ।। 597 ।।
तद्वेषोऽसदृशोऽन्याभिः स्त्रीभिर्मधुरताभृतः।
दधते स्म परां शोभां तदीया विभ्रमा इव ।। 598 ।।
कालपुरुषविध्यादिभेदेऽपि न तथा प्रतीतिरस्खलितरूपतया विश्रान्तिमासादयतीत्यसावपि
भग्नप्रक्रमतयैव व्याप्तः। यथा-
अतिथिं नाम काकुत्स्थात्पुत्रमाप कुमुद्वती।
पश्चिमाद्यामिनीयामात् प्रसादमिव चेतना ।। 599 ।।
अत्र चेतना प्रसादमाप्नोति न पुनरापेति कालभेदः।
प्रत्यग्रमज्जनविशेषविविक्तमूर्तिः कौसुम्भरागरुचिरस्फुरदंशुकान्ता।
विभ्राजसे मकरकेतनमर्चयन्ती बालप्रवालविटपप्रभवा लतेव ।। 600 ।।
अत्र लता विभ्राजते न तु विभ्राजसे, इति सम्बोध्यमाननिष्ठस्य परभागस्य, असम्बोध्यमानविषयतया व्यत्यासात्पुरुषभेदः।
गङ्गेव प्रवहतु ते सदैव कीर्त्तिः ।। 601 ।।
इत्यादौ च गङ्गा प्रवहति न तु प्रवहतु, इति, अप्रवृत्तप्रवर्त्तनात्मनो विधेः। एवं जातीयकस्य चान्यस्यार्थस्य, उपमानगतस्यासम्भवाद्विध्यादिभेदः।।
ननु समानमुच्चारितं प्रतीयमानं वा धर्मान्तरमुपादाय पर्यवसितायामुपमायाम् उपमेयस्य प्रकृतधर्माभिसम्बन्धान्न कश्चित्कालादिभेदोऽस्ति यत्राप्युपात्तेनैव सामान्यधर्मेण, उपमाऽवगम्यते यथा `युधिष्ठिर इवायं सत्यं वदति' इति तत्र युधिष्ठिर इव सत्यवाद्ययं सत्यं वदतीति प्रतिपत्स्यामहे। सत्यावादी सत्यं वदतीति च न पौनरुक्त्यमाशङ्कनीयम्। रैपोषं पुष्णातीतिवत् युधिष्ठिर इव सत्यवदनेन सत्यवाद्ययमित्यर्थावगमात्। सत्यमेवैतत् किन्तु स्थितेषु प्रयोगेषु समर्थनमिदं न तु सर्वथा निरवद्यं प्रस्तुतवस्तुप्रतीतिव्याघातादिति सचेतस एवात्र प्रमाणम्।।
असादृश्यासम्भवावप्युपमायामनुचितार्थतायामेव पर्यवस्यतः। यथा -
ग्रथ्नामि काव्यशशिनं विततार्थरश्मिम् ।। 602 ।।
अत्र काव्यस्य शशिना, अर्थानां च रश्मिभिः साधर्म्यं कुत्रापि न प्रतीतमित्यनुचितार्थत्वम्।
निपेतुरास्यादिव तस्य दीप्ताः शरा धनुर्मण्डलमध्यभाजः।
जाज्वल्यमाना इव वारिधारा दिनार्धभाजः परिवेषिणोऽर्कात् ।। 603 ।।
अत्रापि ज्वलन्त्योऽम्बुधाराः सूर्यमण्डलान्निष्पतन्त्यो न सम्भवन्तीत्युपनिबध्यमानोऽर्थोऽनौचित्यमेव पुष्णाति।।
उत्प्रेक्षायामपि सम्भावनं ध्रुवेवादय एव शब्दा वक्तुं सहन्ते न यथाशब्दोऽपि केवलस्यास्य साधर्म्यमेव प्रतिपादयितुं पर्याप्तत्वात् तस्य चास्यामविवक्षितत्वादिति तत्राशक्तिरस्यावाचकत्वं दोषः। यथा-
उद्ययौ दीर्घिकागर्भान्मुकुलं मेचकोत्पलम्।
नारीलोचनचातुर्यशङ्कासङ्कुचितं यथा ।। 604 ।।
उत्प्रेक्षितमपि तात्त्विकेन रूपेण परिवर्जितत्वात् निरूपाख्यप्रख्यं तत्समर्थनाय यत् अर्थान्तरन्यासोपादानम्, तत् आलोख्यमिव गगनतलेऽत्यन्तमसमीचीनमिति निर्विषयत्वमेतस्य, अनुचितार्थतैव दौषः। यथा-
दिवाकराद्रक्षति यो गुहासु लीनं दिवा भीतमिवान्धकारम्।
क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैः शिरसामतीव ।। 605 ।।
अत्राचेतनस्य तमसो दिवाकरात्रास एव न सम्भवतीति कुत एव तत्प्रयोजितमद्रिणा परित्राणम्।
सम्भावितेन तु रूपेण प्रतिभासमानस्यास्य न काचिदनुपपत्तिरवतरतीति व्यर्थ एव तत्समर्थनायां यत्नः।
साधारणविशेषणवशादेव समासोक्तिरनुक्तमपि, उपमानविशेषं प्रकाशयतीति तस्यात्र पुनरुपादाने प्रयोजनाभावात् अनुपादेयत्वं यत्तत् अपुष्टार्थत्वं पुनरुक्तं वा दोषः। यथा-
स्पृशति तिग्मरुचौ ककुभः करैर्दयितयेव विजृम्भिततापया।
अतनुमानपरिग्रहया स्थितं रुचिरया चिरयापि दिनश्रिया ।। 606 ।।
अत्र तिग्मरुचेः ककुभां च यथा सदृशविशेषणवशेन व्यक्तिविशेषपरिग्रहेण च नायकतया नायिकात्वेन च व्यक्तिः, तथा ग्रीष्मदिवसश्रियोऽपि प्रतिनायिकात्वेन भविष्यतीति किं दयितयेति स्वशब्दोपादानेन।।
श्लेषोपमायास्तु स विषयः, यत्रोपमानस्योपादानमन्तरेण साधारणेष्वपि विशेषणेषु न तथा प्रतीतिः। यथा -
स्वयं च पल्लवाताम्रभास्वत्करविराजिनी
प्रभातसन्ध्येवास्वापफललुब्धेहितप्रदा ।। 607 ।। इति।।
अप्रस्तुतप्रशंसायामपि उपमेयमनयैव रीत्या प्रतीतं न पुनः प्रयोगेण कदर्थतां नेयम्। यथा-
आहूतेषु विहङ्गमेषु मशको नायान् पुरो वार्यते
मध्येवारिधि वा वसंस्तृणमणिर्धत्ते मणीनां रुचम्।
खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनां
धिक् सामान्यमचेतनं प्रभुमिवानामृष्टतत्त्वान्तरम् ।। 608 ।।
अत्राचेतनस्य प्रभोरप्रस्तुतविशिष्टसामान्यद्वारेणाभिव्यक्तौ न युक्तमेव पुनः कथनम्।।
तदेतेऽलङ्कारदोषाः, यथासम्भविनोऽन्येऽप्येवंजातीयकाः पूर्वोक्तयैव दोषजात्याऽन्तर्भाविताः, न पृथक् प्रतिपादनमर्हन्तीति सम्पूर्णमिदं काव्यलक्षणम्।।
इत्येष मार्गो विदुषां विभिन्नोऽप्यभिन्नरूपः प्रतिभासते यत्।
न तद्विचित्रं यदमुत्र सम्यग्विनिर्मिता सङ्घटनैव हेतुः ।।1।।
।। इति श्रीमम्मटभट्टविरचिते काव्यप्रकाशेऽर्थालङ्कारनिर्णयो नाम दशमोल्लासः।। 10 ।।
।। समाप्तश्चायं काव्यप्रकाशः ।।