किरातार्जुनीयम्

The Verbs are highlighted in the text.
Click on the Verb to get the total form.

प्रथमसर्गः

श्रियः कुरूणामधिपस्य पालनीं प्रजासु वृत्तिं यमयुङ्क्त वेदितुम् ।
स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः ।। किरातार्जुनीयम् - 1 - 1 ।।
कृतप्रणामस्य महीं महीभुजे जितां सपत्नेन निवेदयिष्यतः
विव्यथे तस्य मनो न हि प्रियं प्रवक्तुम् इच्छन्ति मृषा हितैषिणः ।। किरातार्जुनीयम् - 1 - 2 ।।
द्विषां विघाताय विधातुम् इच्छतः रहस्यनुज्ञामधिगम्य भूभृतः ।
स सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थामिति वाचम् आददे ।। किरातार्जुनीयम् - 1 - 3 ।।
क्रियासु युक्तैर्नृप चारचक्षुषो न वञ्चनीयाः प्रभवोऽनुजीविभिः ।
अतो अर्हसि क्षन्तुमसाधु साधु वा हितं मनोहारि च दुर्लभं वचः ।। किरातार्जुनीयम् - 1 - 4 ।।
स किंसखा साधु न शास्ति योऽधिपं हितान्न यः संशृणुते स किंप्रभुः ।
सदानुकूलेषु हि कुर्वते रतिं नृपेष्वमात्येषु च सर्वसम्पदः ।। किरातार्जुनीयम् - 1 - 5 ।।
निसर्गदुर्बोधमबोधविक्लवाः क्व भूपतीनां चरितं क्व जन्तवः ।
तवानुभावोऽयम् अबोधि यन्मया निगूढतत्त्वं नयवर्त्म विद्विषाम् ।। किरातार्जुनीयम् - 1 - 6 ।।
विशङ्कमानो भवतः पराभवं नृपासनस्थोऽपि वनाधिवासिनः ।
दुरोदरच्छद्मजितां समीहते नयेन जेतुं जगतीं सुयोधनः ।। किरातार्जुनीयम् - 1 - 7 ।।
तथापि जिह्मः स भवज्जिगीषया तनोति शुभ्रं गुणसम्पदा यशः ।
समुन्नयन्भूतिमनार्यसङ्गमाद्वरं विरोधोऽपि समं महात्मभिः ।। किरातार्जुनीयम् - 1 - 8 ।।
कृतारिषड्वर्गजयेन मानवीमगम्यरूपां पदवीं प्रपित्सुना ।
विभज्य नक्तन्दिवमस्ततन्द्रिणा वितन्यते तेन नयेन पौरुषम् ।। किरातार्जुनीयम् - 1 - 9 ।।
सखीनिव प्रीतियुजोऽनुजीविनः समानमानान्सुहृदश्च बन्धुभिः ।
स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु बन्धुताम् ।। किरातार्जुनीयम् - 1 - 10 ।।
असक्तमाराधयतो यथायथं विभज्य भक्त्या समपक्षपातया ।
गुणानुरागादिव सख्यमीयिवान्न बाधते अस्य त्रिगणः परस्परम् ।। किरातार्जुनीयम् - 1 - 11 ।।
निरत्ययं साम न दानवर्जितं न भूरि दानं विरहय्य सत्क्रियाम् ।
प्रवर्तते तस्य विशेषशालिनी गुणानुरोधेन विना न सत्क्रिया ।। किरातार्जुनीयम् - 1 - 12 ।।
वसूनि वाञ्छन्न वशी न मन्युना स्वधर्म इत्येव निवृत्तकारणः ।
गुरूपदिष्टेन रिपौ सुतेऽपि वा निहन्ति दण्डेन स धर्मविप्लवम् ।। किरातार्जुनीयम् - 1 - 13 ।।
विधाय रक्षान्परितः परेतरानशङ्किताकारम् उपैति शङ्कितः ।
क्रियापवर्गेष्वनुजीविसात्कृताः कृतज्ञतामस्य वदन्ति सम्पदः ।। किरातार्जुनीयम् - 1 - 14 ।।
अनारतं तेन पदेषु लम्भिता विभज्य सम्यग्विनियोगसत्क्रियाम् ।
फलन्त्युपायाः परिबृंहितायतीरुपेत्य सङ्घर्षमिवार्थसम्पदः ।। किरातार्जुनीयम् - 1 - 15 ।।
अनेकराजन्यरथाश्वसङ्कुलं तदीयमास्थाननिकेतनाजिरम् ।
नयति अयुग्मच्छदगन्धिरार्द्रतां भृशं नृपोपायनदन्तिनां मदः ।। किरातार्जुनीयम् - 1 - 16 ।।
सुखेन लभ्या दधतः कृषीवलैरकृष्टपच्या इव सस्यसम्पदः ।
वितन्वति क्षेममदेवमातृकाश्चिराय तस्मिन्कुरवः चकासति ।। किरातार्जुनीयम् - 1 - 17 ।।
महौजसो मानधना धनार्चिता धनुर्भृतः संयति लब्धकीर्तयः ।
न संहतास्तस्य न भेदवृत्तयः प्रियाणि वाञ्छन्ति असुभिः समीहितुम् ।। किरातार्जुनीयम् - 1 - 18 ।।
उदारकीर्तेरुदयं दयावतः प्रशान्तबाधं दिशतोऽभिरक्षया ।
स्वयं प्रदुग्धे अस्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनी ।। किरातार्जुनीयम् - 1 - 19 ।।
महीभुजां सच्चरितैश्चरैः क्रियाः स वेद निःशेषमशेषितक्रियः ।
महोदयैस्तस्य हितानुबन्धिभिः प्रतीयते धातुरिवेहितं फलैः ।। किरातार्जुनीयम् - 1 - 20 ।।
न तेन सज्यं क्वचिदुद्यतं धनुर्न वा कृतं कोपविजिह्ममाननम् ।
गुणानुरागेण शिरोभिः उह्यते नराधिपैर्माल्यमिवास्य शासनम् ।। किरातार्जुनीयम् - 1 - 21 ।।
स यौवराज्ये नवयौवनोद्धतं निधाय दुःशासनमिद्धशासनः ।
मखेष्वखिन्नोऽनुमतः पुरोधसा धिनोति हव्येन हिरण्यरेतसम् ।। किरातार्जुनीयम् - 1 - 22 ।।
प्रलीनभूपालमपि स्थिरायति प्रशासदावारिधि मण्डलं भुवः ।
चिन्तयति एव भियस्त्वदेष्यतीरहो दुरन्ता बलवद्विरोधिता ।। किरातार्जुनीयम् - 1 - 23 ।।
कथाप्रसङ्गेन जनैरुदाहृतादनुस्मृताखण्डलसूनुविक्रमः ।
तवाभिधानाद् व्यथते नताननः स दुःसहान्मन्त्रपदादिवोरगः ।। किरातार्जुनीयम् - 1 - 24 ।।
तदाशु कर्तुं त्वयि जिह्ममुद्यते विधीयताम् तत्र विधेयमुत्तरम् ।
परप्रणीतानि वचांसि चिन्वतां प्रवृत्तिसाराः खलु मादृशां धियः ।। किरातार्जुनीयम् - 1 - 25 ।।
इतीरयित्वा गिरमात्तसत्क्रिये गतेऽथ पत्यौ वनसंनिवासिनाम् ।
प्रविश्य कृष्णा सदनं महीभुजा तदा आचचक्षे अनुजसन्निधौ वचः ।। किरातार्जुनीयम् - 1 - 26 ।।
निशम्य सिद्धिं द्विषतामपाकृतीस्ततस्ततस्त्या विनियन्तुमक्षमा ।
नृपस्य मन्युव्यवसायदीपिनीरुत् आजहार द्रुपदात्मजा गिरः ।। किरातार्जुनीयम् - 1 - 27 ।।
भवादृशेषु प्रमदाजनोदितं भवति अधिक्षेप इवानुशासनम् ।
तथापि वक्तुं व्यवसाययन्ति मां निरस्तनारीसमया दुराधयः ।। किरातार्जुनीयम् - 1 - 28 ।।
अखण्डमाखण्डलतुल्यधामभिश्चिरं धृता भूपतिभिः स्ववंशजैः ।
त्वया स्वहस्तेन मही मदच्युता मतङ्गजेन स्रगिवापवर्जिता ।। किरातार्जुनीयम् - 1 - 29 ।।
व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः ।
प्रविश्य हि घ्नन्ति शठास्तथाविधानसंवृताङ्गान्निशिता इवेषवः ।। किरातार्जुनीयम् - 1 - 30 ।।
गुणानुरक्ताम् अनुरक्तसाधनः कुलाभिमानी कुलजां नराधिपः ।
परैस्त्वदन्यः क इव अपहारयेत् मनोरमाम् आत्मवधूम् इव श्रियम् ।। किरातार्जुनीयम् - 1 - 31 ।।
भवन्तम् एतर्हि मनस्विगर्हिते विवर्तमानं नरदेव वर्त्मनि ।
कथं न मन्युः ज्वलयति उदीरितः शमीतरुं शुष्कम् इवाग्निरुच्छिखः ।। किरातार्जुनीयम् - 1 - 32 ।।
अवन्ध्यकोपस्य निहन्तुरापदां भवन्ति वश्याः स्वयम् एव देहिनः ।
अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः ।। किरातार्जुनीयम् - 1 - 33 ।।
परिभ्रमंल्लोहितचन्दनोचितः पदातिरन्तर्गिरि रेणुरूषितः ।
महारथः सत्यधनस्य मानसं दुनोति ते कच्चिदयं वृकोदरः ।। किरातार्जुनीयम् - 1 - 34 ।।
विजित्य यः प्राज्यं अयच्छत् उत्तरान्कुरूनकुप्यं वसु वासवोपमः ।
स वल्कवासांसि तवाधुनाहरन् करोति मन्युं न कथं धनञ्जयः ।। किरातार्जुनीयम् - 1 - 35 ।।
वनान्तशय्याकठिनीकृताकृती कचाचितौ विष्वगिवागजौ गजौ ।
कथं त्वं एतौ धृतिसंयमौ यमौ विलोकयन् उत्सहसे न बाधितुम् ।। किरातार्जुनीयम् - 1 - 36 ।।
इमाम् अहं वेद न तावकीं धियं विचित्ररूपाः खलु चित्तवृत्तयः ।
विचिन्तयन्त्या भवदापदं परां रुजन्ति चेतः प्रसभं ममाधयः ।। किरातार्जुनीयम् - 1 - 37 ।।
पुराधिरूढः शयनं महाधनं विबोध्यसे यः स्तुतिगीतिमङ्गलैः ।
अदभ्रदर्भाम् अधिशय्य स स्थलीं जहासि निद्राम् अशिवैः शिवारुतैः ।। किरातार्जुनीयम् - 1 - 38 ।।
पुरोपनीतं नृप रामणीयकं द्विजातिशेषेण यदेतदन्धसा ।
तदद्य ते वन्यफलाशिनः परं परैति कार्श्यं यशसा समं वपुः ।। किरातार्जुनीयम् - 1 - 39 ।।
अनारतं यौ मणिपीठशायिनौ अरञ्जयत् राजशिरःस्रजां रजः ।
निषीदतः तौ चरणौ वनेषु ते मृगद्विजालूनशिखेषु बर्हिषाम् ।। किरातार्जुनीयम् - 1 - 40 ।।
द्विषन्निमित्ता यदियं दशा ततः समूलम् उन्मूलयति इव मे मनः ।
परैरपर्यासितवीर्यसम्पदां पराभवोऽप्युत्सव एव मानिनाम् ।। किरातार्जुनीयम् - 1 - 41 ।।
विहाय शान्तिं नृप धाम तत्पुनः प्रसीद सन्धेहि वधाय विद्विषाम् ।
व्रजन्ति शत्रूनवधूय निःस्पृहाः शमेन सिद्धिं मुनयो न भूभृतः ।। किरातार्जुनीयम् - 1 - 42 ।।
पुरःसरा धामवतां यशोधनाः सुदुःसहं प्राप्य निकारम् ईदृशम् ।
भवादृशाश्चेत् अधिकुर्वते परान्निराश्रया हन्त हता मनस्विता ।। किरातार्जुनीयम् - 1 - 43 ।।
अथ क्षमां एव निरस्तसाधनश्चिराय पर्येषि सुखस्य साधनम् ।
विहाय लक्ष्मीपतिलक्ष्म कार्मुकं जटाधरः सञ्जुहुधि इह पावकम् ।। किरातार्जुनीयम् - 1 - 44 ।।
न समयपरिरक्षणं क्षमं ते निकृतिपरेषु परेषु भूरिधाम्नः ।
अरिषु हि विजयार्थिनः क्षितीशा विदधति सोपधि सन्धिदूषणानि ।। किरातार्जुनीयम् - 1 - 45 ।।
विधिसमयनियोगाद्दीप्तिसंहारजिह्मं शिथिलबलम् अगाधे मग्नम् आपत्पयोधौ ।
रिपुतिमिरम् उदस्योदीयमानं दिनादौ दिनकृतम् इव लक्ष्मीस्त्वां समभ्येतु भूयः ।। किरातार्जुनीयम् - 1 - 46 ।।


।। इति किरातार्जुनीयमहाकाव्ये प्रथमसर्गः ।।

द्वितीयसर्गः

विहितां प्रियया मनःप्रियाम् अथ निश्चित्य गिरं गरीयसीम् ।
उपपत्तिमदूर्जिताश्रयं नृपम् ऊचे वचनं वृकोदरः ।। किरातार्जुनीयम् - 2 -1 ।।
यत् अवोचत वीक्ष्य मानिनी परितः स्नेहमयेन चक्षुषा ।
अपि वागधिपस्य दुर्वचं वचनं तत् विदधीत विस्मयम् ।। किरातार्जुनीयम् - 2 -2 ।।
विषमोऽपि विगाह्यते नयः कृततीर्थः पयसाम् इवाशयः ।
स तु तत्र विशेषदुर्लभः सत् उपन्यस्यति कृत्यवर्त्म यः ।। किरातार्जुनीयम् - 2 -3 ।।
परिणामसुखे गरीयसि व्यथकेऽस्मिन्वचसि क्षतौजसाम् ।
अतिवीर्यवतीव भेषजे बहुरल्पीयसि दृश्यते गुणः ।। किरातार्जुनीयम् - 2 -4 ।।
इयम् इष्टगुणाय रोचताम् रुचिरार्था भवतेऽपि भारती ।
ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने विपश्चितः ।। किरातार्जुनीयम् - 2 -5 ।।
चतसृष्वपि ते विवेकिनी नृप विद्यासु निरूढिम् आगता ।
कथम् एत्य मतिर्विपर्ययं करिणी पङ्कम् इव अवसीदति ।। किरातार्जुनीयम् - 2 -6 ।।
विधुरं किम् अतः परं परैरवगीतां गमिते दशाम् इमाम् ।
अवसीदति यत्सुरैरपि त्वयि सम्भावितवृत्ति पौरुषम् ।। किरातार्जुनीयम् - 2 -7 ।।
द्विषताम् उदयः सुमेधसा गुरुरस्वन्ततरः सुमर्षणः ।
न महानपि भूतिम् इच्छता फलसम्पत्प्रवणः परिक्षयः ।। किरातार्जुनीयम् - 2 -8 ।।
अचिरेण परस्य भूयसीं विपरीतां विगणय्य चात्मनः ।
क्षययुक्तिम् उपेक्षते कृती कुरुते तत्प्रतिकारम् अन्यथा ।। किरातार्जुनीयम् - 2 -9 ।।
अनुपालयताम् उदेष्यतीं प्रभुशक्तिं द्विषताम् अनीहया ।
अपयान्ति अचिरान्महीभुजां जननिर्वादभयादिव श्रियः ।। किरातार्जुनीयम् - 2 -10 ।।
क्षययुक्तम् अपि स्वभावजं दधतं धाम शिवं समृद्धये ।
प्रणमन्ति अनपायम् उत्थितं प्रतिपच्चन्द्रम् इव प्रजा नृपम् ।। किरातार्जुनीयम् - 2 -11 ।।
प्रभवः खलु कोशदण्डयोः कृतपञ्चाङ्गविनिर्णयो नयः ।
स विधेयपदेषु दक्षतां नियतिं लोक इव अनुरुध्यते ।। किरातार्जुनीयम् - 2 -12 ।।
अभिमानवतो मनस्विनः प्रियम् उच्चैः पदम् आरुरुक्षतः ।
विनिपातनिवर्तनक्षमं मतम् आलम्बनम् आत्मपौरुषम् ।। किरातार्जुनीयम् - 2 -13 ।।
विपदः अभिभवन्ति अविक्रमं रहयत्यापदुपेतम् आयतिः ।
नियता लघुता निरायतेरगरीयान्न पदं नृपश्रियः ।। किरातार्जुनीयम् - 2 -14 ।।
तदलं प्रतिपक्षम् उन्नतेरवलम्ब्य व्यवसायवन्ध्यताम् ।
निवसन्ति पराक्रमाश्रया न विषादेन समं समृद्धयः ।। किरातार्जुनीयम् - 2 -15 ।।
अथ चेदवधिः प्रतीक्ष्यते कथम् आविष्कृतजिह्मवृत्तिना ।
धृतराष्ट्रसुतेन सुत्यज्याश्चिरम् आस्वाद्य नरेन्द्रसम्पदः ।। किरातार्जुनीयम् - 2 -16 ।।
द्विषता विहितं त्वयाथवा यदि लब्धा पुनरात्मनः पदम् ।
जननाथ तवानुजन्मनां कृतम् आविष्कृतपौरुषैर्भुजैः ।। किरातार्जुनीयम् - 2 -17 ।।
मदसिक्तमुखैर्मृगाधिपः करिभिः वर्तयति स्वयं हतैः ।
लघयन्खलु तेजसा जगन्न महान् इच्छति भूतिम् अन्यतः ।। किरातार्जुनीयम् - 2 -18 ।।
अभिमानधनस्य गत्वरैरसुभिः स्थास्नु यशश्चिचीषतः ।
अचिरांशुविलासचञ्चला ननु लक्ष्मीः फलम् आनुषङ्गिकम् ।। किरातार्जुनीयम् - 2 -19 ।।
ज्वलितं न हिरण्यरेतसं चयम् आस्कन्दति भस्मनां जनः ।
अभिभूतिभयादसूनतः सुखम् उज्झन्ति न धाम मानिनः ।। किरातार्जुनीयम् - 2 -20 ।।
किम् अवेक्ष्य फलं पयोधरान्ध्वनतः प्रार्थयते मृगाधिपः ।
प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया ।। किरातार्जुनीयम् - 2 -21 ।।
कुरु तन्मतिम् एव विक्रमे नृप निर्धूय तमः प्रमादजम् ।
ध्रुवम् एतत् अवेहि विद्विषां त्वदनुत्साहहता विपत्तयः ।। किरातार्जुनीयम् - 2 -22 ।।
द्विरदानिव दिग्विभावितांश्चतुरस्तोयनिधीनिवायतः ।
प्रसहेत रणे तवानुजान्द्विषतां कः शतमन्युतेजसः ।। किरातार्जुनीयम् - 2 -23 ।।
ज्वलतस्तव जातवेदसः सततं वैरिकृतस्य चेतसि ।
विदधातु शमं शिवेतरा रिपुनारीनयनाम्बुसन्ततिः ।। किरातार्जुनीयम् - 2 -24 ।।
इति दर्शितविक्रियं सुतं मरुतः कोपपरीतमानसम् ।
उपसान्त्वयितुं महीपतिर्द्विरदं दुष्टम् इव उपचक्रमे ।। किरातार्जुनीयम् - 2 -25 ।।
अपवर्जितविप्लवे शुचय्हृदयग्राहिणि मङ्गलास्पदे ।
विमला तव विस्तरे गिरां मतिरादर्श इव अभिदृश्यते ।। किरातार्जुनीयम् - 2 -26 ।।
स्फुटता न पदैरपाकृता न च न स्वीकृतम् अर्थगौरवम् ।
रचिता पृथगर्थता गिरां न च सामर्थ्यम् अपोहितं क्वचित् ।। किरातार्जुनीयम् - 2 -27 ।।
उपपत्तिरुदाहृता बलादनुमानेन न चागमः क्षतः ।
इदम् ईदृगनीदृगाशयः प्रसभं वक्तुम् उपक्रमेत कः ।। किरातार्जुनीयम् - 2 -28 ।।
अवितृप्ततया तथापि मे हृदयं निर्णयम् एव धावति
अवसाययितुं क्षमाः सुखं न विधेयेषु विशेषसम्पदः ।। किरातार्जुनीयम् - 2 -29 ।।
सहसा विदधीत न क्रियाम् अविवेकः परम् आपदां पदम् ।
वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयम् एव सम्पदः ।। किरातार्जुनीयम् - 2 -30 ।।
अभिवर्षति योऽनुपालयन्विधिबीजानि विवेकवारिणा ।
स सदा फलशालिनीं क्रियां शरदं लोक इव अधितिष्ठति ।। किरातार्जुनीयम् - 2 -31 ।।
शुचि भूषयति श्रुतं वपुः प्रशमस्तस्य भवत्यलङ्क्रिया ।
प्रशमाभरणं पराक्रमः स नयापादितसिद्धिभूषणः ।। किरातार्जुनीयम् - 2 -32 ।।
मतिभेदतमस्तिरोहिते गहने कृत्यविधौ विवेकिनाम् ।
सुकृतः परिशुद्ध आगमः कुरुते दीप इवार्थदर्शनम् ।। किरातार्जुनीयम् - 2 -33 ।।
स्पृहणीयगुणैर्महात्मभिश्चरिते वर्त्मनि यच्छतां मनः ।
विधिहेतुरहेतुरागसां विनिपातोऽपि समः समुन्नतेः ।। किरातार्जुनीयम् - 2 -34 ।।
शिवम् औपयिकं गरीयसीं फलनिष्पत्तिम् अदूषितायतिम् ।
विगणय्य नयन्ति पौरुषं विजितक्रोधरया जिगीषवः ।। किरातार्जुनीयम् - 2 -35 ।।
अपनेयम् उदेतुम् इच्छता तिमिरं रोषमयं धिया पुरः ।
अविभिद्य निशाकृतं तमः प्रभया नांशुमता अप्युदीयते ।। किरातार्जुनीयम् - 2 -36 ।।
बलवानपि कोपजन्मनस्तमसो नाभिभवं रुणद्धि यः ।
क्षयपक्ष इवैन्दवीः कलाः सकला हन्ति स शक्तिसम्पदः ।। किरातार्जुनीयम् - 2 -37 ।।
समवृत्तिरुपैति मार्दवं समये यश्च तनोति तिग्मताम् ।
अधितिष्ठति लोकम् ओजसा स विवस्वानिव मेदिनीपतिः ।। किरातार्जुनीयम् - 2 -38 ।।
क्व चिराय परिग्रहः श्रियां क्व च दुष्टेन्द्रियवाजिवश्यता ।
शरदभ्रचलाश्चलेन्द्रियैरसुरक्षा हि बहुच्छलाः श्रियः ।। किरातार्जुनीयम् - 2 -39 ।।
किम् असामयिकं वितन्वता मनसः क्षोभम् उपात्तरंहसः ।
क्रियते पतिरुच्चकैरपां भवता धीरतयाधरीकृतः ।। किरातार्जुनीयम् - 2 -40 ।।
श्रुतम् अप्यधिगम्य ये रिपून् विनयन्ते स्म न शरीरजन्मनः ।
जनयन्ति अचिराय सम्पदाम् अयशस्ते खलु चापलाश्रयम् ।। किरातार्जुनीयम् - 2 -41 ।।
अतिपातितकालसाधना स्वशरीरेन्द्रियवर्गतापनी ।
जनवन्न भवन्तम् अक्षमा नयसिद्धेरपनेतुम् अर्हति ।। किरातार्जुनीयम् - 2 -42 ।।
उपकारकम् आयतेर्भृशं प्रसवः कर्मफलस्य भूरिणः ।
अनपायि निबर्हणं द्विषां न तितिक्षासमम् अस्ति साधनम् ।। किरातार्जुनीयम् - 2 -43 ।।
प्रणतिप्रवणान्विहाय नः सहजस्नेहनिबद्धचेतसः ।
प्रणमन्ति सदा सुयोधनं प्रथमे मानभृतां न वृष्णयः ।। किरातार्जुनीयम् - 2 -44 ।।
सुहृदः सहजास्तथेतरे मतम् एषां न विलङ्घयन्ति ये ।
विनयादिव यापयन्ति ते धृतराष्ट्रात्मजम् आत्मसिद्धये ।। किरातार्जुनीयम् - 2 -45 ।।
अभियोग इमान्महीभुजो भवता तस्य ततः कृतावधेः ।
प्रविघाटयिता समुत्पतन्हरिदश्वः कमलाकरानिव ।। किरातार्जुनीयम् - 2 -46 ।।
उपजापसहान्विलङ्घयन्स विधाता नृपतीन्मदोद्धतः ।
सहते न जनोऽप्यधःक्रियां किमु लोकाधिकधाम राजकम् ।। किरातार्जुनीयम् - 2 -47 ।।
असमापितकृत्यसम्पदां हतवेगं विनयेन तावता ।
प्रभवन्ति अभिमानशालिनां मदम् उत्तम्भयितुं विभूतयः ।। किरातार्जुनीयम् - 2 -48 ।।
मदमानसमुद्धतं नृपं न वियुङ्क्ते नियमेन मूढता ।
अतिमूढ उदस्यते नयान्नयहीनादपरज्यते जनः ।। किरातार्जुनीयम् - 2 -49 ।।
अपरागसमीरणेरितः क्रमशीर्णाकुलमूलसन्ततिः ।
सुकरस्तरुवत्सहिष्णुना रिपुरुन्मूलयितुं महानपि ।। किरातार्जुनीयम् - 2 -50 ।।
अणुः अप्युपहन्ति विग्रहः प्रभुम् अन्तःप्रकृतिप्रकोपजः ।
अखिलं हि हिनस्ति भूधरं तरुशाखान्तनिघर्षजोऽनलः ।। किरातार्जुनीयम् - 2 -51 ।।
मतिमान्विनयप्रमाथिनः समुपेक्षेत समुन्नतिं द्विषः ।
सुजयः खलु तादृगन्तरे विपदन्ता ह्यविनीतसम्पदः ।। किरातार्जुनीयम् - 2 -52 ।।
लघुवृत्तितया भिदां गतं बहिरन्तश्च नृपस्य मण्डलम् ।
अभिभूय हरति अनन्तरः शिथिलं कूलम् इवापगारयः ।। किरातार्जुनीयम् - 2 -53 ।।
अनुशासतम् इत्यनाकुलं नयवर्त्माकुलम् अर्जुनाग्रजम् ।
स्वयम् अर्थ इवाभिवाञ्छितस्तम् अभीयाय पराशरात्मजः ।। किरातार्जुनीयम् - 2 -54 ।।
मधुरैरवशानि लम्भयन्नपि तिर्यञ्चि शमं निरीक्षितैः ।
परितः पटु बिभ्रदेनसां दहनं धाम विलोकनक्षमम् ।। किरातार्जुनीयम् - 2 -55 ।।
सहसोपगतः सविस्मयं तपसां सूतिरसूतिरेनसाम् ।
ददृशे जगतीभुजा मुनिः स वपुष्मानिव पुण्यसञ्चयः ।। किरातार्जुनीयम् - 2 -56 ।।
अथोच्चकैरासनतः परार्ध्यादुद्यन्स धूतारुणवल्कलाग्रः ।
रराज कीर्णाकपिशांशुजालः शृङ्गात्सुमेरोरिव तिग्मरश्मिः ।। किरातार्जुनीयम् - 2 -57 ।।
अवहितहृदयो विधाय स अर्हाम् ऋषिवदृषिप्रवरे गुरूपदिष्टाम् ।
तदनुमतम् अलं चकार पश्चात्प्रशम इव श्रुतम् आसनं नरेन्द्रः ।। किरातार्जुनीयम् - 2 -58 ।।
व्यक्तोदितस्मितमयूखविभासितोष्ठस्तिष्ठन्मुनेरभिमुखं स विकीर्णधाम्नः ।
तन्वन्तम् इद्धम् अभितो गुरुम् अंशुजालं लक्ष्मीम् उवाह सकलस्य शशाङ्कमूर्तेः ।। किरातार्जुनीयम् - 2 -59 ।।


।। इति किरातार्जुनीयमहाकाव्ये द्वितीयसर्गः ।।

तृतीयसर्गः

ततः शरच्चन्द्रकराभिरामैरुत्सर्पिभिः प्रांशुम् इवांशुजालैः ।
बिभ्राणम् आनीलरुचं पिशङ्गीर्जटास्तडित्वन्तम् इवाम्बुवाहम् ।। किरातार्जुनीयम् - 3 - 1 ।।
प्रसादलक्ष्मीं दधतं समग्रां वपुःप्रकर्षेण जनातिगेन ।
प्रसह्य चेतःसु समासजन्तम् असंस्तुतानाम् अपि भावम् आर्द्रम् ।। किरातार्जुनीयम् - 3 - 2 ।।
अनुद्धताकारतया विविक्तां तन्वन्तम् अन्तःकरणस्य वृत्तिम् ।
माधुर्यविस्रम्भविशेषभाजा कृतोपसम्भाषम् इवेक्षितेन ।। किरातार्जुनीयम् - 3 - 3 ।।
धर्मात्मजो धर्मनिबन्धिनीनां प्रसूतिम् एनःप्रणुदां श्रुतीनाम् ।
हेतुं तदभ्यागमने परीप्सुः सुखोपविष्टं मुनिम् आबभाषे ।। किरातार्जुनीयम् - 3 - 4 ।।
अनाप्तपुण्योपचयैर्दुरापा फलस्य निर्धूतरजाः सवित्री ।
तुल्या भवद्दर्शनसम्पदेषा वृष्टेर्दिवो वीतबलाहकायाः ।। किरातार्जुनीयम् - 3 - 5 ।।
अद्य क्रियाः कामदुघाः क्रतूनां सत्याशिषः सम्प्रति भूमिदेवाः ।
आ संसृतेः अस्मि जगत्सु जातस्त्वय्यागते यद्बहुमानपात्रम् ।। किरातार्जुनीयम् - 3 - 6 ।।
श्रियं विकर्षति अपहन्ति अघानि श्रेयः परिस्नौति तनोति कीर्तिम् ।
सन्दर्शनं लोकगुरोरमोघं तवात्मयोनेरिव किं न धत्ते ।। किरातार्जुनीयम् - 3 - 7 ।।
च्योतन्मयूखेऽपि हिमद्युतौ मे ननिर्वृतं निर्वृतिम् एति चक्षुः ।
समुज्झितज्ञातिवियोगखेदं त्वत्संनिधावुच्छ्वसतीव चेतः ।। किरातार्जुनीयम् - 3 - 8 ।।
निरास्पदं प्रश्नकुतूहलित्वम् अस्मास्वधीनं किमु निःस्पृहाणाम् ।
तथापि कल्याणकरीं गिरं ते मां श्रोतुमिच्छा मुखरीकरोति ।। किरातार्जुनीयम् - 3 - 9 ।।
इत्युक्तवानुक्तिविशेषरम्यं मनः समाधाय जयोपपत्तौ ।
उदारचेता गिरम् इत्युदारां द्वैपायनेन अभिदधे नरेन्द्रः ।। किरातार्जुनीयम् - 3 - 10 ।।
चिचीषतां जन्मवताम् अलघ्वीं यशोवतंसाम् उभयत्र भूतिम् ।
अभ्यर्हिता बन्धुषु तुल्यरूपा वृत्तिर्विशेषेण तपोधनानाम् ।। किरातार्जुनीयम् - 3 - 11 ।।
तथापि निघ्नं नृप तावकीनैः प्रह्वीकृतं मे हृदयं गुणौघैः ।
वीतस्पृहाणाम् अपि मुक्तिभाजां भवन्ति भव्येषु हि पक्षपाताः ।। किरातार्जुनीयम् - 3 - 12 ।।
सुता न यूयं किं उ तस्य राज्ञः सुयोधनं वा न गुणैरतीताः ।
यस्त्यक्तवान्वः स वृथा बलाद्वा मोहं विधत्ते विषयाभिलाषः ।। किरातार्जुनीयम् - 3 - 13 ।।
जहातु नैनं कथम् अर्थसिद्धिः संशय्य कर्णादिषु तिष्ठते यः ।
असाद्युयोगा हि जयान्तरायाः प्रमाथिनीनां विपदां पदानि ।। किरातार्जुनीयम् - 3 - 14 ।।
पथश्च्युतायां समितौ रिपूणां धर्म्यां दधानेन धुरं चिराय ।
त्वया विपत्स्वप्यविपत्ति रम्यम् आविष्कृतं प्रेम परं गुणेषु ।। किरातार्जुनीयम् - 3 - 15 ।।
विधाय विध्वंसनम् आत्मनीनं शमैकवृत्तेर्भवतश्छलेन ।
प्रकाशितत्वन्मतिशीलसाराः कृतोपकारा इव विद्विषस्ते ।। किरातार्जुनीयम् - 3 - 16 ।।
लभ्या धरित्री तव विक्रमेण ज्यायांश्च वीर्यास्त्रबलैर्विपक्षः ।
अतः प्रकर्षाय विधिर्विधेयः प्रकर्षतन्त्रा हि रणे जयश्रीः ।। किरातार्जुनीयम् - 3 - 17 ।।
त्रिःसप्तकृत्वो जगतीपतीनां हन्ता गुरुर्यस्य स जामदग्न्यः ।
वीर्यावधूतः स्म तदा विवेद प्रकर्षम् आधारवशं गुणानाम् ।। किरातार्जुनीयम् - 3 - 18 ।।
यस्मिन्ननैश्वर्यकृतव्यलीकः पराभवं प्राप्त इवान्तकोऽपि ।
धुन्वन्धनुः कस्य रणे न कुर्यात् मनो भयैकप्रवणं स भीष्मः ।। किरातार्जुनीयम् - 3 - 19 ।।
सृजन्तम् आजाविषुसंहतीर्वः सहेत कोपज्वलितं गुरुं कः ।
परिस्फुरल्लोलशिखाग्रजिह्वं जगज्जिघत्सन्तम् इवान्तवह्निम् ।। किरातार्जुनीयम् - 3 - 20 ।।
निरीक्ष्य संरम्भनिरस्तधैर्यं राधेयम् आराधितजामदग्न्यम् ।
असंस्तुतेषु प्रसभं भयेषु जायेत मृत्योरपि पक्षपातः ।। किरातार्जुनीयम् - 3 - 21 ।।
यया समासादितसाधनेन सुदुश्चराम् आचरता तपस्याम् ।
एते दुरापं समवाप्य वीर्यम् उन्मीलितारः कपिकेतनेन ।। किरातार्जुनीयम् - 3 - 22 ।।
महत्त्वयोगाय महामहिम्नाम् आराधनीं तां नृप देवतानाम् ।
दातुं प्रदानोचित भूरिधाम्नीम् उपागतः सिद्धिम् इव अस्मि विद्याम् ।। किरातार्जुनीयम् - 3 - 23 ।।
इत्युक्तवन्तं व्रज साधय इति प्रमाणयन्वाक्यम् अजातशत्रोः ।
प्रसेदिवांसं तम् उपाससाद वसन्निवान्ते विनयेन जिष्णुः ।। किरातार्जुनीयम् - 3 - 24 ।।
निर्याय विद्याऽथ दिनादिरम्याद्बिम्बादिवार्कस्य मुखान्महर्षेः ।
पार्थाननं वह्निकणावदाता दीप्तिः स्फुरत्पद्मम् इव अभिपेदे ।। किरातार्जुनीयम् - 3 - 25 ।।
योगं च तं योग्यतमाय तस्मै तपःप्रभावात् विततार सद्यः ।
येनास्य तत्त्वेषु कृते अवभासे समुन्मिमील इव चिराय चक्षुः ।। किरातार्जुनीयम् - 3 - 26 ।।
आकारम् आशंसितभूरिलाभं दधानम् अन्तःकरणानुरूपम् ।
नियोजयिष्यन्विजयोदये तं तपःसमाधौ मुनिरिति उवाच ।। किरातार्जुनीयम् - 3 - 27 ।।
अनेन योगेन विवृद्धतेजा निजां परस्मै पदवीम् अयच्छन्
समाचर आचारम् उपात्तशस्त्रो जपोपवासाभिषवैर्मुनीनाम् ।। किरातार्जुनीयम् - 3 - 28 ।।
करिष्यसे यत्र सुदुश्चराणि प्रसत्तये गोत्रभिदस्तपांसि ।
शिलोच्चयं चारुशिलोच्चयं तम् एष क्षणान् नेष्यति गुह्यकस्त्वाम् ।। किरातार्जुनीयम् - 3 - 29 ।।
इति ब्रुवाणेन महेन्द्रसूनुं महर्षिणा तेन तिरोबभूवे ।
तं राजराजानुचरोऽस्य साक्षात्प्रदेशम् आदेशम् इव अधितस्थौ ।। किरातार्जुनीयम् - 3 - 30 ।।
कृतानतिर्व्याहृतसान्त्ववादे जातस्पृहः पुण्यजनः स जिष्णौ ।
इयाय सख्याविव सम्प्रसादं विश्वासयत्याशु सतां हि योगः ।। किरातार्जुनीयम् - 3 - 31 ।।
अथोष्णभासेव सुमेरुकुञ्जान्विहीयमानानुदयाय तेन ।
बृहद्द्युतीन्दुःखकृतात्मलाभं तमः शनैः पाण्डुसुतान् प्रपेदे ।। किरातार्जुनीयम् - 3 - 32 ।।
असंशयालोचितकार्यनुन्नः प्रेम्णा समानीय विभज्यमानः ।
तुल्याद्विभागादिव तन्मनोभिर्दुःखातिभारोऽपि लघुः स मेने ।। किरातार्जुनीयम् - 3 - 33 ।।
धैर्येण विश्वास्यतया महर्षेस्तीव्रादरातिप्रभवाच्च मन्योः ।
वीर्यं च विद्वत्सु सुते मघोनः स तेषु न स्थानम् अवाप > शोकः ।। किरातार्जुनीयम् - 3 - 34 ।।
तान्भूरिधाम्नश्चतुरोऽपि दूरं विहाय यामानिव वासरस्य ।
एकौघभूतं तदशर्म कृष्णां विभावरीं ध्वान्तम् इव प्रपेदे ।। किरातार्जुनीयम् - 3 - 35 ।।
तुषारलेखाकुलितोत्पलाभे पर्यश्रुणी मङ्गलभङ्गभीरुः ।
अगूढभावापि विलोकने सा न लोचने मीलयितुं विषेहे ।। किरातार्जुनीयम् - 3 - 36 ।।
अकृत्रिमप्रेमरसाभिरामं रामार्पितं दृष्टिविलोभि दृष्टम् ।
मनःप्रसादाञ्जलिना निकामं जग्राह पाथेयम् इवेन्द्रसूनुः ।। किरातार्जुनीयम् - 3 - 37 ।।
धैर्यावसादेन हृतप्रसादा वन्यद्विपेनेव निदाघसिन्धुः ।
निरुद्धबाष्पोदयसन्नकण्ठम् उवाच कृच्छ्रादिति राजपुत्री ।। किरातार्जुनीयम् - 3 - 38 ।।
मग्नां द्विषच्छद्मनि पङ्कभूते सम्भवानां भूतिम् इवोद्धरिष्यन् ।
आधिद्विषामा तपसां प्रसिद्धेरस्मद्विना मा भृशम् उन्मनीभूः ।। किरातार्जुनीयम् - 3 - 39 ।।
यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसङ्ख्याम् अतिवर्तितुं वा ।
निरुत्सुकानाम् अभियोग्गभाजां समुत्सुकेवाङ्कम् उपैति सिद्धिः ।। किरातार्जुनीयम् - 3 - 40 ।।
लोकं विधात्रा विहितस्य गोप्तुं क्षत्त्रस्य मुष्णन्वसु जैत्रम् ओजः ।
तेजस्विताया विजयैकवृत्तेर्निघ्नन्प्रियं प्राणम् इवाभिमानम् ।। किरातार्जुनीयम् - 3 - 41 ।।
व्रीडानतैराप्तजनोपनीतः संशय्य कृच्छ्रेण नृपैः प्रपन्नः ।
वितानभूतं विततं पृथिव्यां यशः समूहन्निव दिग्विकीर्णम् ।। किरातार्जुनीयम् - 3 - 42 ।।
वीर्यावदानेषु कृतावमर्षस्तन्वन्नभूताम् इव सम्प्रतीतिम् ।
कुर्वन्प्रयामक्षयम् आयतीनाम् अर्कत्विषाम् अह्न इवावशेषः ।। किरातार्जुनीयम् - 3 - 43 ।।
प्रसह्य योऽस्मासु परैः प्रयुक्तः स्मर्तुं न शक्यः किम् उताधिकर्तुम् ।
नवीकरिष्यत्युपशुष्यदार्द्रः स त्वद्विना मे हृदयं निकारः ।। किरातार्जुनीयम् - 3 - 44 ।।
प्राप्तोऽभिमानव्यसनादसह्यं दन्तीव दन्तव्यसनाद्विकारम् ।
द्विषत्प्रतापान्तरितोरुतेजाः शरद्घनाकीर्ण इवादिरह्नः ।। किरातार्जुनीयम् - 3 - 45 ।।
सव्रीडमन्दैरिव निष्क्रियत्वान्नात्यर्थम् अस्त्रैरवभासमानः ।
यशःक्षयक्षीणजलार्णवाभस्त्वम् अन्यम् आकारम् इवाभिपन्नः ।। किरातार्जुनीयम् - 3 - 46 ।।
दुःशासनामर्षरजोविकीर्णैरेभिर्विनार्थैरिव भाग्यनाथैः ।
केशैः कदर्थीकृतवीर्यसारः कच्चित्स एव असि > धनञ्जयस्त्वम् ।। किरातार्जुनीयम् - 3 - 47 ।।
स क्षत्त्रियस्त्राणसहः सतां यस्तत्कार्मुकं कर्मसु यस्य शक्तिः ।
वहन्द्वयीं यद्यफलेऽर्थजाते करोति > असंस्कारहताम् इवोक्तिम् ।। किरातार्जुनीयम् - 3 - 48 ।।
वीतौजसः सन्निधिमात्रशेषा भवत्कृतां भूतिम् अपेक्षमाणाः ।
समानदुःखा इव नस्त्वदीयाः सरूपतां पार्थ गुणा भजन्ते > ।। किरातार्जुनीयम् - 3 - 49 ।।
आक्षिप्यमाणं रिपुभिः प्रमादान्नागैरिवालूनसटं मृगेन्द्रम् ।
त्वां धूरियं योग्यतयाधिरूढा दीप्त्या दिनश्रीरिव तिग्मरश्मिम् ।। किरातार्जुनीयम् - 3 - 50 ।।
करोति योऽशेषजनातिरिक्तां सम्भावनाम् अर्थवतीं क्रियाभिः ।
संसत्सु जाते पुरुषाधिकारे न पूरणी तं समुपैति सङ्ख्या ।। किरातार्जुनीयम् - 3 - 51 ।।
प्रियेषु यैः पार्थ विनोपपत्तेर्विचिन्त्यमानैः क्लमम् एति चेतः ।
तव प्रयातस्य जयाय तेषां क्रियात् अघानां मघवा विघातम् ।। किरातार्जुनीयम् - 3 - 52 ।।
मा गाः चिरायैकचरः प्रमादं वसन्नसम्बाधशिवेऽपि देशे ।
मात्सर्यरागोपहतात्मनां हि स्खलन्ति साधुष्वपि मानसानि ।। किरातार्जुनीयम् - 3 - 53 ।।
तदाशु कुर्वन्वचनं महर्षेर्मनोरथान्नः सफलीकुरुष्व ।
प्रत्यागतं त्व अस्मि कृतार्थम् एव स्तनोपपीडं परिरब्धुकामा ।। किरातार्जुनीयम् - 3 - 54 ।।
उदीरितां ताम् इति याज्ञसेन्या नवीकृतोद्ग्राहितविप्रकाराम् ।
आसाद्य वाचं स भृशं दिदीपे काष्ठाम् उदीचीं इव तिग्मरश्मिः ।। किरातार्जुनीयम् - 3 - 55 ।।
अथाभिपश्यन्निव विद्विषः पुरः पुरोधसारोपितहेतिसंहतिः ।
बभार रम्योऽपि वपुः स भीषणं गतः क्रियां मन्त्र इवाभिचारिकीम् ।। किरातार्जुनीयम् - 3 - 56 ।।
अविलङ्घ्यविकर्षणं परैः प्रथितज्यारवकर्म कार्मुकम् ।
अगतावरिदृष्टिगोचरं शितनिस्त्रिंशयुजौ महेषुधी ।। किरातार्जुनीयम् - 3 - 57 ।।
यशसेव तिरोदधन्मुहुर्महसा गोत्रभिदायुधक्षतीः ।
कवचं च सरत्नम् उद्वहञ्ज्वलितज्योतिरिवान्तरं दिवः ।। किरातार्जुनीयम् - 3 - 58 ।।
अकलाधिपभृत्यदर्शितं शिवम् उर्वीधरवर्त्म सम्प्रयान् ।
हृदयानि समाविवेश स क्षणम् उद्बाष्पदृशां तपोभृताम् ।। किरातार्जुनीयम् - 3 - 59 ।।
अनुजगुः अथ दिव्यं दुन्दुभिध्वानम् आशाः सुरकुसुमनिपातैर्व्योम्नि लक्ष्मीः वितेने
प्रियम् इव कथयिष्यन् आलिलिङ्ग स्फुरन्तीं भुवम् अनिभृतवेलावीचिबाहुः पयोधिः ।। किरातार्जुनीयम् - 3 - 60 ।।


।। इति किरातार्जुनीयमहाकाव्ये तृतीयसर्गः ।।

चतुर्थसर्गः

ततः स कूजत्कलहंसमेखलां सपाकसस्याहितपाण्डुतागुणाम् ।
उपाससाद उपजनं जनप्रियः प्रियामिवासादितयौवनां भुवं ।। किरातार्जुनीयम् - 4 - 1 ।।
विनम्रशालिप्रसवौघशालिनीरपेतपङ्काः ससरोरुहाम्भसः ।
ननन्द पश्यन्नुपसीम स स्थलीरुपायनीभूतशरद्गुणश्रियः ।। किरातार्जुनीयम् - 4 - 2 ।।
निरीक्ष्यमाणा इव विस्मयाकुलैः पयोभिरुन्मीलितपद्मलोचनैः ।
हृतप्रियादृष्टिविलासविभ्रमा मनोऽस्य जह्रुः शफरीविवृत्तयः ।। किरातार्जुनीयम् - 4 - 3 ।।
तुतोष पश्यन्कलमस्य स अधिकं सवारिजे वारिणि रामणीयकम् ।
सुदुर्लभे न अर्हति कोऽभिनन्दितुं प्रकर्षलक्ष्मीमनुरूपसङ्गमे ।। किरातार्जुनीयम् - 4 - 4 ।।
नुनोद तस्य स्थलपद्मिनीगतं वितर्कमाविष्कृतफेनसन्तति ।
अवाप्तकिञ्जल्कविभेदमुच्चकैर्विवृत्तपाठीनपराहतं पयः ।। किरातार्जुनीयम् - 4 - 5 ।।
कृतोर्मिरेखं शिथिलत्वमायता शनैः शनैः शान्तरयेण वारिणा ।
निरीक्ष्य रेमे स समुद्रयोषितां तरङ्गितक्षौमविपाण्डु सैकतम् ।। किरातार्जुनीयम् - 4 - 6 ।।
मनोरमं प्रापितमन्तरं भ्रुवोरलङ्कृतं केसररेणुणाणुना ।
अलक्तताम्राधरपल्लवश्रिया समानयन्तीमिव बन्धुजीवकम् ।। किरातार्जुनीयम् - 4 - 7 ।।
नवातपालोहितमाहितं मुहुर्महानिवेशौ परितः पयोधरौ ।
चकासयन्तीमरविन्दजं रजः परिश्रमाम्भःपुलकेन सर्पता ।। किरातार्जुनीयम् - 4 - 8 ।।
कपोलसंश्लेषि विलोचनत्विषा विभूषयन्तीमवतंसकोत्पलम् ।
सुतेन पाण्डोः कलमस्य गोपिकां निरीक्ष्य मेने शरदः कृतार्थता ।। किरातार्जुनीयम् - 4 - 9 ।।
उपारताः पश्चिमरात्रिगोचरादपारयन्तः पतितुं जवेन गाम् ।
तमुत्सुकाः चक्रुः अवेक्षणोत्सुकं गवां गणाः प्रस्नुतपीवरौधरसः ।। किरातार्जुनीयम् - 4 - 10 ।।
परीतमुक्षावजये जयश्रिया नदन्तमुच्चैः क्षतसिन्धुरोधसम् ।
ददर्श पुष्टिं दधतं स शारदीं सविग्रहं दर्पमिवाधिपं गवाम् ।। किरातार्जुनीयम् - 4 - 11 ।।
विमुच्यमानैरपि तस्य मन्थरं गवां हिमानीविशदैः कदम्बकैः ।
शरन्नदीनां पुलिनैः कुतूहलं गलद्दुकूलैर्जघनैरिव आदधे ।। किरातार्जुनीयम् - 4 - 12 ।।
गतान्पशूनां सहजन्मबन्धुतां गृहाश्रयं प्रेम वनेषु बिभ्रतः ।
ददर्श गोपानुपधेनु पाण्डवः कृतानुकारानिव गोभिरार्जवे ।। किरातार्जुनीयम् - 4 - 13 ।।
परिभ्रमन्मूर्धजषट्पदाकुलैः स्मितोदयादर्शितदन्तकेसरैः ।
मुखैश्चलत्कुण्डलरश्मिरञ्जितैर्नवातपामृष्टसरोजचारुभिः ।। किरातार्जुनीयम् - 4 - 14 ।।
निबद्धनिःश्वासविकम्पिताधरा लता इव प्रस्फुरितैकपल्लवाः ।
व्यपोढपार्श्वैरपवर्तितत्रिका विकर्षणैः पाणिविहारहारिभिः ।। किरातार्जुनीयम् - 4 - 15 ।।
व्रजाजिरेष्वम्बुदनादशङ्किनीः शिखण्डिनामुन्मदयत्सु योषितः ।
मुहुः प्रणुन्नेषु मथां विवर्तनैर्नदत्सु कुम्भेषु मृदङ्गमन्थरम् ।। किरातार्जुनीयम् - 4 - 16 ।।
स मन्थरावल्गितपीवरस्तनीः परिश्रमक्लान्तविलोचनोत्पलाः ।
निरीक्षितुं न उपरराम बल्लवीरभिप्रनृत्ता इव वारयोषितः ।। किरातार्जुनीयम् - 4 - 17 ।।
पपात पूर्वां जहतो विजिह्मतां वृषोपभुक्तान्तिकसस्यसम्पदः ।
रथाङ्गसीमन्तितसान्द्रकर्दमान्प्रसक्तसम्पातपृथक्कृतान्पथः ।। किरातार्जुनीयम् - 4 - 18 ।।
जनैरुपग्राममनिन्द्यकर्मभिर्विविक्तभावेङ्गितभूषणैर्वृताः ।
भृशं ददर्श आश्रममण्डपोपमाः सपुष्पहासाः स निवेशवीरुधः ।। किरातार्जुनीयम् - 4 - 19 ।।
ततः स सम्प्रेक्ष्य शरद्गुणश्रियं शरद्गुणालोकनलोलचक्षुषम् ।
उवाच यक्षस्तमचोदितोऽपि गां न हीङ्गितज्ञोऽवसरे अवसीदति ।। किरातार्जुनीयम् - 4 - 20 ।।
इयं शिवाया नियतेरिवायतिः कृतार्थयन्ती जगतः फलैः क्रियाः ।
जयश्रियं पार्थ पृथूकरोतु ते शरत्प्रसन्नाम्बुरनम्बुवारिदा ।। किरातार्जुनीयम् - 4 - 21 ।।
उपैति सस्यं परिणामरम्यता नदीरनौद्धत्यमपङ्कता महीम् ।
नवैर्गुणैः सम्प्रति संस्तवस्थिरं तिरोहितं प्रेम घनागमश्रियः ।। किरातार्जुनीयम् - 4 - 22 ।।
पतन्ति नास्मिन्विशदाः पतत्त्रिणो धृतेन्द्रचापा न पयोदपङ्क्तयः ।
तथापि पुष्णाति नभः श्रियं परां न रम्यमाहार्यम् अपेक्षते गुणम् ।। किरातार्जुनीयम् - 4 - 23 ।।
विपाण्डुभिर्ग्लानतया पयोधरैश्च्युताचिराभागुणहेमदामभिः ।
इयं कदम्बानिलभर्तुरत्यये न दिग्वधूनां कृशता न राजते ।। किरातार्जुनीयम् - 4 - 24 ।।
विहाय वाञ्छाम् उदिते मदात्ययादरक्तकण्ठस्य रुते शिखण्डिनः ।
श्रुतिः श्रयत्युन्मदहंसनिःस्वनं गुणाः प्रियत्वेऽधिकृता न संस्तवः ।। किरातार्जुनीयम् - 4 - 25 ।।
अमी पृथुस्तम्बभृतः पिशङ्गतां गता विपाकेन फलस्य शालयः ।
विकासि वप्राम्भसि गन्धसूचितं नमन्ति निघ्रातुमिवासितोत्पलम् ।। किरातार्जुनीयम् - 4 - 26 ।।
मृणालिनीनामनुरञ्जितं त्विषा विभिन्नमम्भोजपलाशशोभया ।
पयः स्फुरच्छालिशिखापिशङ्गितं द्रुतं धनुष्खण्डमिवाहिविद्विषः ।। किरातार्जुनीयम् - 4 - 27 ।।
विपाण्डु संव्यानमिवानिलोद्धतं निरुन्धतीः सप्तपलाशजं रजः ।
अनाविलोन्मीलितबाणचक्षुषः सपुष्पहासा वनराजियोषितः ।। किरातार्जुनीयम् - 4 - 28 ।।
अदीपितं वैद्युतजातवेदसा सिताम्बुदच्छेदतिरोहितातपम् ।
ततान्तरं सान्तरवारिशीकरैः शिवं नभोवर्त्म सरोजवायुभिः ।। किरातार्जुनीयम् - 4 - 29 ।।
सितच्छदानामपदिश्य धावतां रुतैरमीषां ग्रथिताः पतत्रिणाम् ।
प्रकुर्वते वारिदरोधनिर्गताः परस्परालापमिवामला दिशः ।। किरातार्जुनीयम् - 4 - 30 ।।
विहारभूमेरभिघोषमुत्सुकाः शरीरजेभ्यश्च्युतयूथपङ्क्तयः ।
असक्तमूधांसि पयः क्षरन्ति अमूरुपायनानीव नयन्ति धेनवः ।। किरातार्जुनीयम् - 4 - 31 ।।
जगत्प्रसूतिर्जगदेकपावनी व्रज उपकण्ठं तनयैरुपेयुषी ।
द्युतिं समग्रां समितिर्गवामसौ उपैति मन्त्रैरिव संहिताहुतिः ।। किरातार्जुनीयम् - 4 - 32 ।।
कृतावधानं जितबर्हिणध्वनौ सुरक्तगोपीजनगीतनिःस्वने ।
इदं जिघत्सामपहाय भूयसीं न सस्यम् अभ्येति मृगीकदम्बकम् ।। किरातार्जुनीयम् - 4 - 33 ।।
असावनास्थापरयावधीरितः सरोरुहिण्या शिरसा नमन्नपि ।
उपैति शुष्यन्कलमः सहाम्भसा मनोभुवा तप्त इवाभिपाण्डुताम् ।। किरातार्जुनीयम् - 4 - 34 ।।
अमी समुद्धूतसरोजरेणुना हृता हृतासारकणेन वायुना ।
उपागमे दुश्चरिता इवापदां गतिं न निश्चेतुमलं शिलीमुखाः ।। किरातार्जुनीयम् - 4 - 35 ।।
मुखैरसौ विद्रुमभङ्गलोहितैः शिखाः पिशङ्गीः कलमस्य बिभ्रती ।
शुकावलिर्व्यक्तशिरीषकोमला धनुःश्रियं गोत्रभिदो अनुगच्छति ।। किरातार्जुनीयम् - 4 - 36 ।।
इति कथयति तत्र नातिदूरादथ ददृशे पिहितोष्णरश्मिबिम्बः ।
विगलितजलभारशुक्लभासां निचय इवाम्बुमुचां नगाधिराजः ।। किरातार्जुनीयम् - 4 - 37 ।।
तमतनुवनराजिश्यामितोपत्यकान्तं नगमुपरि हिमानीगौरमासद्य जिष्णुः ।
व्यपगतमदरागस्यानुसस्मार लक्ष्मीमसितमधरवासो बिभ्रतः सीरपाणेः ।। किरातार्जुनीयम् - 4 - 38 ।।


।। इति किरातार्जुनीयमहाकाव्ये चतुर्थसर्गः ।।

पञ्चमसर्गः

अथ जयाय नु मेरुमहीभृतो रभसया नु दिगन्तदिदृक्षया ।
अभिययौ स हिमाचलम् उच्छ्रितं समुदितं नु विलङ्घयितुं नभः ।। किरातार्जुनीयम् - 5 - 1 ।।
तपनमण्डलदीतितम् एकतः सततनैशतमोवृतम् अन्यतः ।
हसितभिन्नतमिस्रचयं पुरः शिवम् इवानुगतं गजचर्मणा ।। किरातार्जुनीयम् - 5 - 2 ।।
क्षितिनभःसुरलोकनिवासिभिः कृतनिकेतम् अदृष्टपरस्परैः ।
प्रथयितुं विभुताम् अभिनिर्मितं प्रतिनिधिं जगताम् इव शम्भुना ।। किरातार्जुनीयम् - 5 - 3 ।।
भुजगराजसितेन नभःश्रिया कनकराजिविराजितसानुना ।
समुदितं निचयेन तडित्वतीं लघयता शरदम्बुदसंहतिम् ।। किरातार्जुनीयम् - 5 - 4 ।।
मणिमयूखचयांशुकभासुराः सुरवधूपरिभुक्तलतागृहाः ।
दधतम् उच्चशिलान्तरगोपुराः पुर इवोदितपुष्पवना भुवः ।। किरातार्जुनीयम् - 5 - 5 ।।
अविरतोज्झितवारिविपाण्डुभिर्विरहितैरचिरद्युतितेजसा ।
उदितपक्षम् इवारतनिःस्वनैः पृथुनितम्बविलम्बिभिरम्बुदैः ।। किरातार्जुनीयम् - 5 - 6 ।।
दधतम् आकरिभिः करिभिः क्षतैः समवतारसमैरसमैस्तटैः ।
विविधकामहिता महिताम्भसः स्फुटसरोजवना जवना नदीः ।। किरातार्जुनीयम् - 5 - 7 ।।
नवविनिद्रजपाकुसुमत्विषां द्युतिमतां निकरेण महाश्मनाम् ।
विहितसान्ध्यमयूखम् इव क्वचिन्निचितकाञ्चनभित्तिषु सानुषु ।। किरातार्जुनीयम् - 5 - 8 ।।
पृथुकदम्बकदम्बकराजितं ग्रहितमालतमालवनाकुलम् ।
लघुतुषारतुषारजलश्च्युतं धृतसदानसदाननदन्तिनम् ।। किरातार्जुनीयम् - 5 - 9 ।।
रहितरत्नचयान्न शिलोच्चयानफलताभवना न दरीभुवः ।
विपुलिनाम्बुरुहा न सरिद्वधूरकुसुमान्दधतं न महीरुहः ।। किरातार्जुनीयम् - 5 - 10 ।।
व्यथितसिन्धुम् अनीरशनैः शनैरमरलोकवधूजघनैर्घनैः ।
फणभृताम् अभितो विततं ततं दयितरम्यलताबकुलैः कुलैः ।। किरातार्जुनीयम् - 5 - 11 ।।
ससुरचापम् अनेकमणिप्रभैरपपयोविशदं हिमपाण्डुभिः ।
अविचलं शिखरैरुपबिभ्रतं ध्वनितसूचितम् अम्बुमुचां चयम् ।। किरातार्जुनीयम् - 5 - 12 ।।
विकचवारिरुहं दधतं सरः सकलहंसगणं शुचि मानसम् ।
शिवम् अगात्मजया च कृतेर्ष्यया सकलहं सगणं शुचिमानसम् ।। किरातार्जुनीयम् - 5 - 13 ।।
ग्रहविमानगणानभितो दिवं ज्वलयति औषधिजेन कृशानुना ।
मुहुरनुस्मरयन्तम् अनुक्षपं त्रिपुरदाहम् उपापतिसेविनः ।। किरातार्जुनीयम् - 5 - 14 ।।
विततशीकरराशिभिरुच्छ्रितैरुपलरोधविवर्तिभिरम्बुभिः ।
दधतम् उन्नतसानुसमुद्धतां धृतसितव्यजनाम् इव जाह्नवीम् ।। किरातार्जुनीयम् - 5 - 15 ।।
अनुचरेण धनाधिपतेरथो नगविलोकनविस्मितमानसः ।
जगदे वचनं प्रियम् आदरान्मुखरतावसरे हि विराजते ।। किरातार्जुनीयम् - 5 - 16 ।।
अलम् एष विलोकितः प्रजानां सहसा संहतिम् अंहसां विहन्तुम् ।
घनवर्त्म सहस्रधेव कुर्वन्हिमगौरैरचलाधिपः शिरोभिः ।। किरातार्जुनीयम् - 5 - 17 ।।
इह दुरधिगमैः किंचिदेवागमैः सततम् असुतरं वर्णयन्ति अन्तरम् ।
अमुम् अतिविपिनं वेद दिग्व्यापिनं पुरुषम् इव परं पद्मयोनिः परम् ।। किरातार्जुनीयम् - 5 - 18 ।।
रुचिरपल्लवपुष्पलतागृहैरुपलसज्जलजैर्जलराशिभिः ।
नयति सन्ततम् उत्सुकताम् अयं धृतिमतीरुपकान्तम् अपि स्त्रियः ।। किरातार्जुनीयम् - 5 - 19 ।।
सुलभैः सदा नयवतायवता निधिगुह्यकाधिपरमैः परमैः ।
अमुना धनैः क्षितिभृतातिभृता समतीत्य भाति जगती जगती ।। किरातार्जुनीयम् - 5 - 20 ।।
अखिलम् इदम् अमुष्य गैरीगुरोस्त्रिभुवनम् अपि नैति मन्ये तुलाम् ।
अधिवसति सदा यदेनं जनैरविदितविभवो भवानीपतिः ।। किरातार्जुनीयम् - 5 - 21 ।।
वीतजन्मजरसं परं शुचि ब्रह्मणः पदम् उपैतुम् इच्छताम् ।
आगमादिव तमोपहादितः सम्भवन्ति मतयो भवच्छिदः ।। किरातार्जुनीयम् - 5 - 22 ।।
दिव्यस्त्रीणां सचरणलाक्षारागा रागायाते निपतितपुष्पापीडाः ।
पीडाभाजः कुसुमचिताः साशंसं शंसन्त्यस्मिन्सुरतविशेषं शय्याः ।। किरातार्जुनीयम् - 5 - 23 ।।
गुणसम्पदा समधिगम्य परं महिमानम् अत्र महिते जगताम् ।
नयशालिनि श्रिय इवाधिपतौ विरमन्ति न ज्वलितुम् औषधयः ।। किरातार्जुनीयम् - 5 - 24 ।।
कुररीगणः कृतरवस्तरवः कुसुमानताः सकमलं कमलम् ।
इह सिन्धवश्च वरणावरणाः करिणां मुदे सनलदानलदाः ।। किरातार्जुनीयम् - 5 - 25 ।।
सादृश्यं गतम् अपनिद्रचूतगन्धैरामोदं मदजलसेकजं दधानः ।
एतस्मिन् मदयति कोकिलानकाले लीनालिः सुरकरिणां कपोलकाषः ।। किरातार्जुनीयम् - 5 - 26 ।।
सनाकवनितं नितम्बरुचिरं चिरं सुनिनदैर्नदैर्वृतम् अमुम् ।
मता फलवतोऽवतो रसपरा परास्तवसुधा सुधा अधिवसति ।। किरातार्जुनीयम् - 5 - 27 ।।
श्रीमल्लताभवनम् ओषधयः प्रदीपाः शय्या नवानि हरिचन्दनपल्लवानि ।
अस्मिन्रतिश्रमनुदश्च सरोजवाताः स्मर्तुं दिशन्ति न दिवः सुरसुन्दरीभ्यः ।। किरातार्जुनीयम् - 5 - 28 ।।
ईशार्थम् अम्भसि चिराय तपश्चरन्त्या यादोविलङ्घनविलोलविलोचनायाः ।
आलम्बताग्रकरम् अत्र भवो भवान्याः श्च्योतन्निदाघसलिलाङ्गुलिना करेण ।। किरातार्जुनीयम् - 5 - 29 ।।
येनापविद्धसलिलः स्फुटनागसद्मा देवासुरैरमृतम् अम्बुनिधिर्ममन्थे ।
व्यावर्तनैरहिपतेरयम् आहिताङ्कः खं व्यालिखन्निव विभाति स मन्दराद्रिः ।। किरातार्जुनीयम् - 5 - 30 ।।
नीतोच्छ्रायं मुहुरशिशिररश्मेरुस्रैरानीलाभैर्विरचितपरभागा रत्नैः ।
ज्योत्स्नाशङ्काम् इव वितरति हंसश्येनी मध्येऽप्यह्नः स्फटिकरजतभित्तिच्छाया ।। किरातार्जुनीयम् - 5 - 31 ।।
दधत इव विलासशालि नृत्यं मृदु पतता पवनेन कम्पितानि ।
इह ललितविलासिनीजनभ्रूगतिकुटिलेषु पयःसु पङ्कजानि ।। किरातार्जुनीयम् - 5 - 32 ।।
अस्मिन्नगृह्यत पिनाकभृता सलीलम् आबद्धवेपथुरधीरविलोचनायाः ।
विन्यस्तमङ्गलमहौषधिरीश्वरायाः स्रस्तोरगप्रतिसरेण करेण पाणिः ।। किरातार्जुनीयम् - 5 - 33 ।।
क्रामद्भिर्घनपदवीम् अनेकसङ्ख्यैस्तेजोभिः शुचिमणिजन्मभिर्विभिन्नः ।
उस्राणां व्यभिचरति इव सप्तसप्तेः पर्यस्यन्निह निचयः सहस्रसङ्ख्याम् ।। किरातार्जुनीयम् - 5 - 34 ।।
व्यधत्त यस्मिन्पुरम् उच्चगोपुरं पुरां विजेतुर्धृतये धनाधिपः ।
स एष कैलास उपान्तसर्पिणः करोति अकालास्तमयं विवस्वतः ।। किरातार्जुनीयम् - 5 - 35 ।।
नानारत्नज्योतिषां संनिपातैश्छन्नेष्वन्तःसानु वप्रान्तरेषु ।
बद्धां बद्धां भित्तिशङ्काम् अमुष्मिन्नावानावान्मातरिश्वा निहन्ति ।। किरातार्जुनीयम् - 5 - 36 ।।
रम्या नवद्युतिः अपैति न शाद्वलेभ्यः श्यामीभवन्त्यनुदिनं नलिनीवनानि ।
अस्मिन्विचित्रकुसुमस्तबकाचितानां शाखाभृतां परिणमन्ति न पल्लवानि ।। किरातार्जुनीयम् - 5 - 37 ।।
परिसरविषयेषु लीढमुक्ता हरिततृणोद्गमशङ्कया मृगीभिः ।
इह नवशुककोमला मणीनां रविकरसंवलिताः फलन्ति भासः ।। किरातार्जुनीयम् - 5 - 38 ।।
उत्फुल्लस्थलनलिनीवनादमुष्मादुद्धूतः सरसिजसम्भवः परागः ।
वात्याभिर्वियति विवर्तितः समन्ताद् आधत्ते कनकमयातपत्रलक्ष्मीम् ।। किरातार्जुनीयम् - 5 - 39 ।।
इह सनियमयोः सुरापगायाम् उषसि सयावकसव्यपादरेखा ।
कथयति शिवयोः शरीरयोगं विषमपदा पदवी विवर्तनेषु ।। किरातार्जुनीयम् - 5 - 40 ।।
संमूर्छतां रजतभित्तिमयूखजालैरालोकपादपलतान्तरनिर्गतानाम् ।
घर्मद्युतेरिह मुहुः पटलानि धाम्नाम् आदर्शमण्डलनिभानि समुल्लसन्ति ।। किरातार्जुनीयम् - 5 - 41 ।।
शुक्लैर्मयूखनिचयैः परिवीतमूर्तिर्वप्राभिघातपरिमण्डलितोरुदेहः ।
शृङ्गाण्यमुष्य भजते गणभर्तुरुक्षा कुर्वन्वधूजनमनःसु शशाङ्कशङ्काम् ।। किरातार्जुनीयम् - 5 - 42 ।।
सम्प्रति लब्धजन्म शनकैः कथम् अपि लघुनि क्षीणपयस्युपेयुषि भिदां जलधरपटले ।
खण्डितविग्रहं बलभिदो धनुरिह विविधाः पूरयितुं भवन्ति विभवः शिखरमणिरुचः ।। किरातार्जुनीयम् - 5 - 43 ।।
स्नपितनवलतातरुप्रवालैरमृतलवस्रुतिशालिभिर्मयूखैः ।
सततम् असितयामिनीषु शम्भो अमलयतीह वनान्तम् इन्दुलेखा ।। किरातार्जुनीयम् - 5 - 44 ।।
क्षिपति योऽनुवनं विततां बृहद्बृहतिकाम् इव रौचनिकीं रुचम् ।
अयम् अनेकहिरण्मयकन्दरस्तव पितुर्दयितो जगतीधरः ।। किरातार्जुनीयम् - 5 - 45 ।।
सक्तिं लवाद् अपनयति अनिले लतानां वैरोचनैर्द्विगुणिताः सहसा मयूखैः ।
रोधोभुवां मुहुरमुत्र हिरण्मयीनां भासस्तडिद्विलसितानि विडम्बयन्ति ।। किरातार्जुनीयम् - 5 - 46 ।।
कषणकम्पनिरस्तमहाहिभिः क्षणविमत्तमतङ्गजवर्जितैः ।
इह मदस्नपितैः अनुमीयते सुरगजस्य गतं हरिचन्दनैः ।। किरातार्जुनीयम् - 5 - 47 ।।
जलदजालघनैरसिताश्मनाम् उपहतप्रचयेह मरीचिभिः ।
भवति दीप्तिरदीपितकन्दरा तिमिरसंवलितेव विवस्वतः ।। किरातार्जुनीयम् - 5 - 48 ।।
भव्यो भवन्नपि मुनेरिह शासनेन क्षात्रे स्थितः पथि तपस्य हतप्रमादः ।
प्रायेण सत्यपि हितार्थकरे विधौ हि श्रेयांसि लब्धुम् असुखानि विनान्तरायैः ।। किरातार्जुनीयम् - 5 - 49 ।।
मा भूवन्नपथहृतस्तवेन्द्रियाश्वाः सन्तापे दिशतु शिवः शिवां प्रसक्तिम् ।
रक्षन्तस्तपसि बलं च लोकपालाः कल्याणीम् अधिकफलां क्रियां क्रियायुः ।। किरातार्जुनीयम् - 5 - 50 ।।
इत्युक्त्वा सपदि हितं प्रियं प्रियार्हे धाम स्वं गतवति राजराजभृत्ये ।
सोत्कण्ठं किम् अपि पृथासुतः प्रदध्यौ सन्धत्ते भृशम् अरतिं हि सद्वियोगः ।। किरातार्जुनीयम् - 5 - 51 ।।
तम् अनतिशयनीयं सर्वतः सारयोगादविरहितम् अनेकेनाङ्कभाजा फलेन ।
अकृशम् अकृशलक्ष्मीश्चेतसाशंसितं स स्वम् इव पुरुषकारं शैलम् अभ्याससाद ।। किरातार्जुनीयम् - 5 - 52 ।।


।। इति किरातार्जुनीयमहाकाव्ये पञ्चमसर्गः ।।

षष्ठसर्गः

रुचिराकृतिः कनकसानुमथो परमः पुमानिव पतिं पतताम्।
धृतसत्पथस्त्रिपथगाम् अभितः स तम् आरुरोह पुरुहूतसुतः ।। किरातार्जुनीयम् - 6 - 1 ।।
तं अनिन्द्यबन्दिन इवेन्द्रसुतं विहितालिनिक्वणजयध्वनयः ।
पवनेरिताकुलविजिह्मशिखा जगतीरुहोऽवचकरुः कुसुमैः ।। किरातार्जुनीयम् - 6 - 2 ।।
अवधूतपङ्कजपरागकणास्तनुजाह्नवीसलिलवीचिभिदः ।
परिरेभिरे अभिमुखम् एत्य सुखाः सुहृदः सखायम् इव तं मरुतः ।। किरातार्जुनीयम् - 6 - 3 ।।
उदितोपलस्खलनसंवलिताः स्फुटहंससारसविरावयुजः ।
मुदम् अस्य माङ्गलिकतूर्यकृतां ध्वनयः प्रतेनुरनुवप्रम् अपाम् ।। किरातार्जुनीयम् - 6 - 4 ।।
अवरुग्णतुङ्गसुरदारुतरौ निचये पुरः सुरसरित्पयसाम् ।
ददर्श वेतसवनाचरितां प्रणतिं बलीयसि समृद्धिकरीम् ।। किरातार्जुनीयम् - 6 - 5 ।।
प्रबभूव नालम् अवलोकयितुं परितः सरोजरजसारुणितम् ।
सरिदुत्तरीयम् इव संहतिमत्स तरङ्गरङ्गि कलहंसकुलम् ।। किरातार्जुनीयम् - 6 - 6 ।।
दधति क्षतीः परिणतद्विरदे मुदितालियोषिति मदस्रुतिभिः ।
अधिकां स रोधसि बबन्ध धृतिं महते रुजन्नपि गुणाय महान् ।। किरातार्जुनीयम् - 6 - 7 ।।
अनुहेमवप्रम् अरुणैः समतां गतम् ऊर्मिभिः सहचरं पृथुभिः ।
स रथाङ्गनामवनितां करुणैरनुबध्नतीम् अभिननन्द रुतैः ।। किरातार्जुनीयम् - 6 - 8 ।।
सितवाजिने निजगदू निजगदुः रुचयश्चलवीचिरागरचनापटवः ।
मणिजालम् अम्भसि निमग्नम् अपि स्फुरितं मनोगतम् इवाकृतयः ।। किरातार्जुनीयम् - 6 - 9 ।।
उपलाहतोद्धततरङ्गधृतं जविना विधूतविततं मरुता ।
ददर्श केतकशिखाविशदं सरितः प्रहासम् इव फेनम् अपाम् ।। किरातार्जुनीयम् - 6 - 10 ।।
बहु बर्हिचन्द्रिकनिभं विदधे धृतिम् अस्य दानपयसां पटलम् ।
अवगाढम् ईक्षितुम् इवैभपतिं विकसद्विलोचनशतं सरितः ।। किरातार्जुनीयम् - 6 - 11 ।।
प्रतिबोधजृम्भणविभीनमुखी पुलिने सरोरुहदृशा ददृशे
पतदच्छमौक्तिकमणिप्रकरा गलदश्रुबिन्दुरिव शुक्तिवधूः ।। किरातार्जुनीयम् - 6 - 12 ।।
शुचिरप्सु विद्रुमलताविटपस्तनुसान्द्रफेनलवसंवलितः ।
स्मरदायिनः स्मरयति स्म भृशं दयिताधरस्य दशनांशुभृतः ।। किरातार्जुनीयम् - 6 - 13 ।।
उपलभ्य चञ्चलतरङ्गहृतं मदगन्धम् उत्थितवतां पयसः ।
प्रतिदन्तिनाम् इव स सम्बुबुधे करियादसाम् अभिमुखान्करिणः ।। किरातार्जुनीयम् - 6 - 14 ।।
जगाम विस्मयम् उद्वीक्ष्य पुरः सहसा समुत्पिपतिषोः फणिनः ।
प्रहितं दिवि प्रजविभिः श्वसितैः शरदभ्रविभ्रमम् अपां पटलम् ।। किरातार्जुनीयम् - 6 - 15 ।।
ततार सैकतवतीरभितः शफरीपरिस्फुरितचारुदृशः ।
ललिताः सखीरिव बृहज्जघनाः सुरनिम्नगाम् उपयतीः सरितः ।। किरातार्जुनीयम् - 6 - 16 ।।
अधिरुह्य पुष्पभरनम्रशिखैः परितः परिष्कृततलां तरुभिः ।
मनसः प्रसत्तिम् इव मूर्ध्नि गिरेः शुचिम् आससाद स वनान्तभुवम् ।। किरातार्जुनीयम् - 6 - 17 ।।
अनुसानु पुष्पितलताविततिः फलितोरुभूरुहविविक्तवनः ।
धृतिम् आततान तनयस्य हरेस्तपसेऽधिवस्तुम् अचलाम् अचलः ।। किरातार्जुनीयम् - 6 - 18 ।।
प्रणिधाय तत्र विधिनाथ धियं दधतः पुरातनमुनेर्मुनिताम् ।
श्रमम् आदधौ असुकरं न तपः किम् इवावसादकरम् आत्मवताम् ।। किरातार्जुनीयम् - 6 - 19 ।।
शमयन्धृतेन्द्रियशमैकसुखः शुचिभिर्गुणैरघमयं स तमः ।
प्रतिवासरं सुकृतिभिः ववृधे विमलः कलाभिरिव शीतरुचिः ।। किरातार्जुनीयम् - 6 - 20 ।।
अधरीचकार च विवेकगुणादगुणेषु तस्य धियम् अस्तवतः ।
प्रतिघातिनीं विषयसङ्गरतिं निरुपप्लवः शमसुखानुभवः ।। किरातार्जुनीयम् - 6 - 21 ।।
मनसा जपैः प्रणतिभिः प्रयतः समुपेयिवानधिपतिं स दिवः ।
सहजेतरे जयशमौ दधती बिभरांबभूव युगपन्महसी ।। किरातार्जुनीयम् - 6 - 22 ।।
शिरसा हरिन्मणिनिभः स वहन्कृतजन्मनोऽभिषवणेन जटाः ।
उपमां ययावरुणदीधितिभिः परिमृष्टमूर्धनि तमालतरौ ।। किरातार्जुनीयम् - 6 - 23 ।।
धृतहेतिरप्यधृतजिह्ममतिश्चरितैर्मुनीनधरयञ्शुचिभिः ।
रजयाञ्चकार विरजाः स मृगान्कम् इव ईशते रमयितुं न गुणाः ।। किरातार्जुनीयम् - 6 - 24 ।।
अनुकूलपातिनम् अचण्डगतिं किरता सुगन्धिम् अभितः पवनम् ।
अवधीरितार्तवगुणं सुखतां नयता रुचां निचयम् अंशुमतः ।। किरातार्जुनीयम् - 6 - 25 ।।
नवपल्लवाञ्जलिभृतः प्रचये बृहतस्तरून्गमयतावनतिम् ।
स्तृणता तृणैः प्रतिनिशं मृदुभिः शयनीयताम् उपयतीं वसुधाम् ।। किरातार्जुनीयम् - 6 - 26 ।।
पतितैरपेतजलदान्नभसः पृषतैरपां शमयता च रजः ।
स दयालुनेव परिगाढकृशः परिचर्यया अनुजगृहे तपसा ।। किरातार्जुनीयम् - 6 - 27 ।।
महते फलाय तदवेक्ष्य शिवं विकसन्निमित्तकुसुमं स पुरः ।
जगाम विस्मयवशं वशिनां न निहन्ति धैर्यम् अनुभावगुणः ।। किरातार्जुनीयम् - 6 - 28 ।।
तदभूरिवासरकृतं सुकृतैरुपलभ्य वैभवम् अनन्यभवम् ।
उपतस्थुरास्थितविषादधियः शतयज्वनो वनचरा वसतिम् ।। किरातार्जुनीयम् - 6 - 29 ।।
विदिताः प्रविश्य विहितानतयः शिथिलीकृतेऽधिकृतकृत्यविधौ ।
अनपेतकालम् अभिरामकथाः कथयां बभूवुः इति गोत्रभिदे ।। किरातार्जुनीयम् - 6 - 30 ।।
शुचिवल्कवीततनुरन्यतमस्तिमिरच्छिदाम् इव गिरौ भवतः ।
महते जयाय मघवन्ननघः पुरुषस्तपस्यति तपज्जगतीम् ।। किरातार्जुनीयम् - 6 - 31 ।।
बिभर्ति भीषणभुजङ्गभुजः पृथि विद्विषां भयविधायि धनुः ।
अमलेन तस्य धृतसच्चरिताश्चरितेन चातिशयिता मुनयः ।। किरातार्जुनीयम् - 6 - 32 ।।
मरुतः शिवा नवतृणा जगती विमलं नभो रजसि वृष्टिरपाम् ।
गुणसम्पदानुगुणतां गमितः कुरुते ऽस्य भक्तिम् इव भूतगणः ।। किरातार्जुनीयम् - 6 - 33 ।।
इतरेतरानभिभवेन मृगास्तम् उपासते गुरुम् इवान्तसदः ।
विनमन्ति चास्य तरवः प्रचये परवान्स तेन भवतेव नगः ।। किरातार्जुनीयम् - 6 - 34 ।।
उरु सत्त्वम् आह विपरिश्रमता परमं वपुः प्रथयतीव जयम् ।
शमिनोऽपि तस्य नवसङ्गमने विभुतानुषङ्गि भयं एति जनः ।। किरातार्जुनीयम् - 6 - 35 ।।
ऋषिवंशजः स यदि दैत्यकुले यदि वान्वये महति भूमिभृताम् ।
चरतस्तपस्तव वनेषु सदा न वयं निरूपयितुम् अस्य गतिम् ।। किरातार्जुनीयम् - 6 - 36 ।।
विगणय्य कारणम् अनेकगुणं निजयाथवा कथितम् अल्पतया ।
असदप्यदः सहितुम् अर्हति नः क्व वनेचराः क्व निपुणा मतयः ।। किरातार्जुनीयम् - 6 - 37 ।।
अधिगम्य गुह्यकगणादिति तन्मनसः प्रियं प्रियसुतस्य तपः ।
निजुगोप हर्षं उदितं मघवा नयवर्त्मगाः प्रभवतां हि धियः ।। किरातार्जुनीयम् - 6 - 38 ।।
प्रणिधाय चित्तम् अथ भक्ततया विदितेऽप्यपूर्व इव तत्र हरिः ।
उपलब्धुम् अस्य नियमस्थिरतां सुरसुन्दरीरिति वचो अभिदधे ।। किरातार्जुनीयम् - 6 - 39 ।।
सुकुमारम् एकम् अणु मर्मभिदाम् अतिदूरगं युतम् अमोघतया ।
अविपक्षम् अस्त्रम् अपरं कतमद्विजयाय यूयम् इव चित्तभुवः ।। किरातार्जुनीयम् - 6 - 40 ।।
भववीतये हतबृहत्तमसाम् अवबोधवारि रजसः शमनम् ।
परिपीयमाणम् इव वोऽसकलैरवसादम् एति नयनाञ्जलिभिः ।। किरातार्जुनीयम् - 6 - 41 ।।
बहुधा गतां जगति भूतसृजा कमनीयतां समभिहृत्य पुरा ।
उपपादिता विदधता भवतीः सुरसद्मयानसुमुखी जनता ।। किरातार्जुनीयम् - 6 - 42 ।।
तदुपेत्य विघ्नयत तस्य तपः कृतिभिः कलासु सहिताः सचिवैः ।
हृतवीतरागमनसां ननु वः सुखसङ्गिनं प्रति सुखावजितिः ।। किरातार्जुनीयम् - 6 - 43 ।।
अविमृष्यम् एतत् अभिलष्यति स द्विषतां वधेन विषयाभिरतिम् ।
भववीतये न हि तथा स विधिः क्व शरासनं क्व च विमुक्तिपथः ।। किरातार्जुनीयम् - 6 - 44 ।।
पृथुदाम्नि तत्र परिबोधि च मा भवतीभिरन्यमुनिवद्विकृतिः ।
स्वयशांसि विक्रमवताम् अवतां न वधूष्वघानि विमृष्यन्ति धियः ।। किरातार्जुनीयम् - 6 - 45 ।।
आशंसितापचितिचारु पुरः सुराणाम् आदेशम् इत्यभिमुखं समवाप्य भर्तुः ।
लेभे परां द्युतिम् अमर्त्यवधूसमूहः सम्भावना ह्यधिकृतस्य तनोति तेजः ।। किरातार्जुनीयम् - 6 - 46 ।।
प्रणतिम् अथ विधाय प्रस्थिताः सद्मनस्ताः स्तनभरनमिताङ्गीरङ्गनाः प्रीतिभाजः ।
अचलनलिनलक्ष्मीहारि नालं बभूव स्तिमितम् अमरभर्तुर्द्रष्टुम् अक्ष्णां सहस्रम् ।। किरातार्जुनीयम् - 6 - 47 ।।


।। इति किरातार्जुनीयमहाकाव्ये षष्ठसर्गः ।।

सप्तमसर्गः

श्रीमद्भिः सरथगजैः सुराङ्गनानां गुप्तानाम् अथ सचिवैस्त्रिलोकभर्तुः ।
संमूर्छन्नलघुविमानरन्ध्रभिन्नः प्रस्थानं समभिदधे मृदङ्गनादः ।। किरातार्जुनीयम् - 7 - 1 ।।
सोत्कण्ठैरमरगणैरनुप्रकीर्णान्निर्याय ज्वलितरुचः पुरान्मघोनः ।
रामाणाम् उपरि विवस्वतः स्थितानां न आसेदे चरितगुणत्वम् आतपत्रैः ।। किरातार्जुनीयम् - 7 - 2 ।।
धूतानाम् अभिमुखपातिभिः समीरैरायासादविशदलोचनोत्पलानाम् ।
आनिन्ये मदजनितां श्रियं वधूनां उष्णांशुद्युतिजनितः कपोलरागः ।। किरातार्जुनीयम् - 7 - 3 ।।
तिष्ठद्भिः कथम् अपि देवतानुभावादाकृष्टैः प्रजविभिरायतं तुरङ्गैः ।
नेमीनाम् असति विवर्तने रथौघैः आसेदे वियति विमानवत्प्रवृत्तिः ।। किरातार्जुनीयम् - 7 - 4 ।।
कान्तानां कृतपुलकः स्तनाङ्गरागे वक्त्रेषु च्युततिलकेषु मौक्तिकाभस् ।
सम्पेदे श्रमसलिलोद्गमो विभूषा रम्याणां विकृतिरपि श्रियं तनोति ।। किरातार्जुनीयम् - 7 - 5 ।।
राजद्भिः पथि मरुताम् अभिन्नरूपैरुल्कार्चिः स्फुटगतिभिर्ध्वजाङ्कुशानाम् ।
तेजोभिः कनकनिकाषराजिगौरैरायामः क्रियत इव स्म सातिरेकः ।। किरातार्जुनीयम् - 7 - 6 ।।
रामाणाम् अवजितमाल्यसौकुमार्ये सम्प्राप्ते वपुषि सहत्वम् आतपस्य ।
गन्धर्वैरधिगतविस्मयैः प्रतीये कल्याणी विधिषु विचित्रता विधातुः ।। किरातार्जुनीयम् - 7 - 7 ।।
सिन्दूरैः कृतरुचयः सहेमकक्ष्याः स्रोतोभिस्त्रिदशगजा मदं क्षरन्तः ।
सादृश्यं ययुः अरुणांशुरागभिन्नैर्वर्षद्भिः स्फुरितशतह्रदैः पयोदैः ।। किरातार्जुनीयम् - 7 - 8 ।।
अत्यर्थं दुरुपसदादुपेत्य दूरं पर्यन्तादहिममयूखमण्डलस्य ।
आशानाम् उपरचिताम् इवैकवेणीं रम्योर्मीं त्रिदशनदीं ययुः बलानि ।। किरातार्जुनीयम् - 7 - 9 ।।
आमत्तभ्रमरकुलाकुलानि धुन्वन्नुद्भूतग्रथितरजांसि पङ्कजानि ।
कान्तानां गगननदीतरङ्गशीतः सन्तापं विरमयति स्म मातरिश्वा ।। किरातार्जुनीयम् - 7 - 10 ।।
सम्भिन्नैरिभतुरगावगाहनेन प्राप्योर्वीरनुपदवीं विमानपङ्क्तीः ।
तत्पूर्वं प्रतिविदधे सुरापगाया वप्रान्तस्खलितविवर्तनं पयोभिः ।। किरातार्जुनीयम् - 7 - 11 ।।
क्रान्तानां ग्रहचरितात्पथो रथानाम् अक्षाग्रक्षतसुरवेश्मवेदिकानाम् ।
निःसङ्गं प्रधिभिः उपाददे विवृत्तिः सम्पीडक्षुभितजलेषु तोयदेषु ।। किरातार्जुनीयम् - 7 - 12 ।।
तप्तानाम् उपदधिरे विषाणभिन्नाः प्रह्लादं सुरकरिणां घनाः क्षरन्तः ।
युक्तानां खलु महतां परोपकारे कल्याणी भवति रुजत्स्वपि प्रवृत्तिः ।। किरातार्जुनीयम् - 7 - 13 ।।
संवाता मुहुरनिलेन नीयमाने दिव्यस्त्रीजघनवरांशुके विवृत्तिम् ।
पर्यस्यत्पृथुमणिमेखलांशुजालं संजज्ञे युतकम् इवान्तरीयम् ऊर्वोः ।। किरातार्जुनीयम् - 7 - 14 ।।
प्रत्यार्द्रीकृततिलकास्तुषारपातैः प्रह्लादं शमितपरिश्रमा दिशन्तः ।
कान्तानां बहुमतिम् आययुः पयोदा नाल्पीयान्बहु सुकृतं हिनस्ति दोषः ।। किरातार्जुनीयम् - 7 - 15 ।।
यातस्य ग्रथिततरङ्गसैकताभे विच्छेदं विपयसि वारिवाहजाले ।
आतेनुः त्रिदशवधूजनाङ्गभाजां सन्धानं सुरधनुषः प्रभा मणीनाम् ।। किरातार्जुनीयम् - 7 - 16 ।।
संसिद्धाविति करणीयसंनिबद्धैरालापैः पिपतिषतां विलङ्घ्य वीथीम् ।
आसेदे दशशतलोचनध्वजिन्या जीमूतैरपिहितसानुरिन्द्रकीलः ।। किरातार्जुनीयम् - 7 - 17 ।।
आकीर्णा मुखनलिनैर्विलासिनीनाम् उद्भूतस्फुटविशदातपत्रफेना ।
सा तूर्यध्वनितगभीरम् आपतन्ती भूभर्तुः शिरसि नभोनदीव रेजे ।। किरातार्जुनीयम् - 7 - 18 ।।
सेतुत्वं दधति पयोमुचां विताने संरम्भादभिपततो रथाञ्जवेन ।
आनिन्युः नियमितरश्मिभुग्नघोणाः कृच्छ्रेण क्षितिम् अवनामितस्तुरङ्गाः ।। किरातार्जुनीयम् - 7 - 19 ।।
माहेन्द्रं नगम् अभितः करेणुवर्याः पर्यन्तस्थितजलदा दिवः पतन्तः ।
सादृश्यं निलयननिष्प्रकम्पपक्षैः आजग्मुः जलनिधिशायिभिर्नगेन्द्रैः ।। किरातार्जुनीयम् - 7 - 20 ।।
उत्सङ्गे समविषमे समं महाद्रेः क्रान्तानां वियदभिपातलाघवेन ।
आ मूलादुपनदि सैकतेषु लेभे सामग्री खुरपदवी तुरङ्गमाणाम् ।। किरातार्जुनीयम् - 7 - 21 ।।
सध्वानं निपतितनिर्झरासु मन्द्रैः संमूर्छन्प्रतिनिनदैरधित्यकासु ।
उद्ग्रीवैर्घनरवशङ्कया मयूरैः सोत्कण्ठं ध्वनिः उपशुश्रुवे रथानाम् ।। किरातार्जुनीयम् - 7 - 22 ।।
सम्भिन्नाम् अविरलपातिभिर्मयूखैर्नीलानां भृशम् उपमेखलं मणीनाम् ।
विच्छिनाम् इव वनिता नभोन्तराले वप्राम्भःस्रुतिम् अवलोकयांबभूवुः ।। किरातार्जुनीयम् - 7 - 23 ।।
आसन्नद्विपपदवीमदानिलाय क्रुध्यन्तो धियम् अवमत्य धूर्गतानाम् ।
सव्याजं निजकरिणीभिरात्तचित्ताः प्रस्थानं सुरकरिणः कथंचिदीषुः ।। किरातार्जुनीयम् - 7 - 24 ।।
नीरन्ध्रं पथिषु रजो रथाङ्गनुन्नं पर्यस्यन्नवसलिलारुणं वहन्ती ।
आतेने वनगहनानि वाहिनी सा घर्मान्तक्षुभितजलेव जह्नुकन्या ।। किरातार्जुनीयम् - 7 - 25 ।।
सम्भोगक्षमगहनाम् अथोपगङ्गं बिभ्राणां ज्वलितमणीनि सैकतानि ।
अध्यूषुश्च्युतकुसुमाचितां सहाया वृत्रारेरविरलशाद्वलां धरित्रीम् ।। किरातार्जुनीयम् - 7 - 26 ।।
भूभर्तुः समधिकम् आदधे तदोर्व्याः श्रीमत्तां हरिसखवाहिनीनिवेशः ।
संसक्तौ किम् असुलभं महोदयानाम् उच्छ्रायं नयति यदृच्छयापि योगः ।। किरातार्जुनीयम् - 7 - 27 ।।
सामोदाः कुसुमतरुश्रियो विविक्ताः सम्पत्तिः किसलयशालिनीलतानाम् ।
साफल्यं ययुः अमराङ्गनोपभुक्ताः सा लक्ष्मीः उपकुरुते यया परेषाम् ।। किरातार्जुनीयम् - 7 - 28 ।।
क्लान्तोऽपि त्रिदशवधूजनः पुरस्ताल्लीनाहिश्वसितविलोलपल्लवानाम् ।
सेव्यानां हतविनयैरिवावृतानां सम्पर्कं परिहरति स्म चन्दनानाम् ।। किरातार्जुनीयम् - 7 - 29 ।।
उत्सृष्टध्वजकुथकङ्कटा धरित्रीम् आनीता विदितनयैः श्रमं विनेतुम् ।
आक्षिप्तद्रुमगहना युगान्तवातैः पर्यस्ता गिरय इव द्विपा विरेजुः ।। किरातार्जुनीयम् - 7 - 30 ।।
प्रस्थानश्रमजनितां विहाय निद्राम् आमुक्ते गजपतिना सदानपङ्के ।
शय्यान्ते कुलमलिनां क्षणं विलीनं संरम्भच्युतम् इव शृङ्खलं चकाशे ।। किरातार्जुनीयम् - 7 - 31 ।।
आयस्तः सुरसरिदोघरुद्धवर्त्मा सम्प्राप्तुं वनगजदानगन्धि रोधः ।
मूर्धानं निहितशिताङ्कुशं विधुन्वन्यन्तारं न विगणयांचकार नागः ।। किरातार्जुनीयम् - 7 - 32 ।।
आरोढुः समवनतस्य पीतशेषे साशङ्कं पयसि समीरिते करेण ।
संमार्जन्नरुणमदस्रुती कपोलौ सस्यन्दे मद इव शीकरः करेणोः ।। किरातार्जुनीयम् - 7 - 33 ।।
आघ्राय क्षणम् अतितृष्यतापि रोषादुत्तीरं निहितविवृत्तलोचनेन ।
सम्पृक्तं वनकरिनां मदाम्बुसेकैर्न आचेमे हिमम् अपि वारि वारणेन ।। किरातार्जुनीयम् - 7 - 34 ।।
प्रश्च्योतन्मदसुरभीणि निम्नगायाः क्रीडन्तो गजपतयः पयांसि कृत्वा ।
किञ्जल्कव्यवहितताम्रदानलेखैरुत्तेरुः सरसिजगन्धिभिः कपोलैः ।। किरातार्जुनीयम् - 7 - 35 ।।
आकीर्णं बलरजसा घनारुणेन प्रक्षोभैः सपदि तरङ्गितं तटेषु ।
मातङ्गोन्मथितसरोजरेणुपिङ्गं माञ्जिष्ठं वसनम् इवाम्बु निर्बभासे ।। किरातार्जुनीयम् - 7 - 36 ।।
श्रीमद्भिर्नियमितकन्धरापरान्तैः संसक्तैरगुरुवनेषु साङ्गहारम् ।
सम्प्रापे निसृतमदाम्बुभिर्गजेन्द्रैः प्रस्यन्दिप्रचलितगण्डशैलशोभा ।। किरातार्जुनीयम् - 7 - 37 ।।
निःशेषं प्रशमितरेणु वारणानां स्रोतोभिर्मदजलम् उज्झताम् अजस्रम् ।
आमोदं व्यवहितभूरिपुष्पगन्धो भिन्नैलासुरभिम् उवाह गन्धवाहः ।। किरातार्जुनीयम् - 7 - 38 ।।
सादृश्यं दधति गभीरमेघघोषैरुन्निद्रक्षुभितमृगाधिपश्रुतानि ।
आतेनुश्चकितचकोरनीलकण्ठान्कच्छान्तानमरमहेभबृंहितानि ।। किरातार्जुनीयम् - 7 - 39 ।।
सास्रावसक्तकमनियपरिच्छदानाम् अध्वश्रमातुरवधूजनसेवितानाम् ।
जज्ञे निवेशनविभागपरिष्कृतानां लक्ष्मीः पुरोपवनजा वनपादपानाम् ।। किरातार्जुनीयम् - 7 - 40 ।।


।। इति किरातार्जुनीयमहाकाव्ये सप्तमसर्गः ।।

अष्टमसर्गः

अथ स्वमायाकृतमन्दिरोज्ज्वलं ज्वलन्मणि व्योमसदां सनातनम्।
सुराङ्गना गोपतिचापगोपुरं पुरं वनानां विजिहीर्षया जहुः ।। किरातार्जुनीयम् - 8 - 1 ।।
यथायथं ताः सहिता नभश्चरैः प्रभाभिरुद्भासितशैलवीरुधः ।
वनं विशन्त्यो वनजायतेक्षणाः क्षणद्युतीनां दधुः एकरूपताम् ।। किरातार्जुनीयम् - 8 - 2 ।।
निवृत्तवृत्तोरुपयोधरक्लमः प्रवृत्तैनिर्ह्रादिविभूषणारवः ।
नितम्बिनीनां भृशम् आदधे धृतिं नभःप्रयाणादवनौ परिक्रमः ।। किरातार्जुनीयम् - 8 - 3 ।।
घनानि कामं कुसुमानि बिभ्रतः करप्रचेयान्यपहाय शाखिनः ।
पुरः अभिसस्रे सुरसुन्दरीजनैर्यथोत्तरेच्छा हि गुणेषु कामिनः ।। किरातार्जुनीयम् - 8 - 4 ।।
तनूरलक्तारुणपाणिपल्लवाः स्फुरन्नखांशूत्करमञ्जरीभृतः ।
विलासिनीबाहुलता वनालयो विलेपनामोदहृताः सिषेविरे ।। किरातार्जुनीयम् - 8 - 5 ।।
निपीयमानस्तबका शिलीमुखैरशोकयष्टिश्चलबालपल्लवा ।
विडम्बयन्ती ददृशे वधूजनैरमन्ददष्टौष्ठकरावधूननम् ।। किरातार्जुनीयम् - 8 - 6 ।।
करौ धुनाना नवपल्लवाकृती वृथा कृथा मानिनि मा परिश्रमम् ।
उपेयुषी कल्पलताभिशङ्कया कथं न्वितः त्रस्यति षट्पदावलिः ।। किरातार्जुनीयम् - 8 - 7 ।।
जहीहि कोपं दयितोऽनुगम्यतां पुरानुशेते तव चञ्चलं मनः ।
इति प्रियं कांचिदुपैतुम् इच्छतीं पुरोऽनुनिन्ये निपुणः सखीजनः ।। किरातार्जुनीयम् - 8 - 8 ।।
समुन्नतैः काशदुकूलशालिभिः परिक्वणत्सारसपङ्क्तिमेखलैः ।
प्रतीरदेशैः स्वकलत्रचारुभिर्विभूषिताः कुञ्जसमुद्रयोषितः ।। किरातार्जुनीयम् - 8 - 9 ।।
विदूरपातेन भिदाम् उपेयुषश्च्युताः प्रवाहादभितः प्रसारिणः ।
प्रियाङ्कशीताः शुचिमौक्तिकत्विषो वनप्रहासा इव वारिबिन्दवः ।। किरातार्जुनीयम् - 8 - 10 ।।
सखीजनं प्रेम गुरूकृतादरं निरीक्षमाणा इव नम्रमूर्तयः ।
स्थिरद्विरेफाञ्जनशरितोदरैर्विसारिभिः पुष्पविलोचनैर्लताः ।। किरातार्जुनीयम् - 8 - 11 ।।
उपेयुषीणां बृहतीरधित्यका मनांसि जह्रुः सुरराजयोषिताम् ।
कपोलकाषैः करिणां मदारुणैरुपाहितश्यामरुचश्च चन्दनाः ।। किरातार्जुनीयम् - 8 - 12 ।।
स्वगोचरे सत्यपि वित्तहारिणा विलोभ्यमानाः प्रसवेन शाखिनाम् ।
नभश्चराणाम् उपकर्तुम् इच्छतां प्रियाणि चक्रुः प्रणयेन योषितः ।। किरातार्जुनीयम् - 8 - 13 ।।
प्रयच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता ।
न किंचिद् ऊचे चरणेन केवलं लिलेख बाष्पाकुललोचना भुवम् ।। किरातार्जुनीयम् - 8 - 14 ।।
प्रियेऽपरा यच्छति वाचम् उन्मुखी निबद्धदृष्टिः शिथिलाकुलोच्चया ।
समादधे नांशुकम् आहितं वृथा विवेद पुष्पेषु न पाणिपल्लवम् ।। किरातार्जुनीयम् - 8 - 15 ।।
सलीलम् आसक्तलतान्तभूषणं समासजन्त्या कुसुमावतंसकम् ।
स्तनोपपीडं नुनुदे नितम्बिना घनेन कश्चिज्जघनेन कान्तया ।। किरातार्जुनीयम् - 8 - 16 ।।
कलत्रभारेण विलोलनीविना गलद्दुकूलस्तनशालिनोरसा ।
वलिव्यपायस्फुटरोमराजिना निरायतत्वादुदरेण ताम्यता ।। किरातार्जुनीयम् - 8 - 17 ।।
विलम्बमानाकुलकेशपाशया कयाचिदाविष्कृतबाहुमूलया ।
तरुप्रसूनान्यपदिश्य सादरं मनोधिनाथस्य मनः समाददे ।। किरातार्जुनीयम् - 8 - 18 ।।
व्यपोहितुं लोचनतो मुखानिलैरपारयन्तं किल पुष्पजं रजः ।
पयोधरेणोरसि काचिदुन्मनाः प्रियं जघानोन्नतपीवरस्तनी ।। किरातार्जुनीयम् - 8 - 19 ।।
इमान्यमूनीत्यपवर्जिते शनैर्यथाभिरामं कुसुमाग्रपल्लवे ।
विहाय निःसारतयेव भूरुहान्पदं वनश्रीर्वनितासु सन्दधे ।। किरातार्जुनीयम् - 8 - 20 ।।
प्रवालभङ्गारुणपाणिपल्लवः परागपाण्डूकृतपीवरस्तनः ।
महीरुहः पुष्पसुगन्धिः आददे वपुर्गुणोच्छ्रायम् इवाङ्गनाजनः ।। किरातार्जुनीयम् - 8 - 21 ।।
वरोरुभिर्वारणहस्तपीवरैश्चिराय खिन्नान्नवपल्लवश्रियः ।
समेऽपि यातुं चरणाननीश्वरान्मदादिव प्रस्खलतः पदे पदे ।। किरातार्जुनीयम् - 8 - 22 ।।
विसारिकाञ्चीमणिरश्मिलब्धया मनोहरोच्छायनितम्बशोभया ।
स्थितानि जित्वा नवसैकतद्युतिं श्रमातिरिक्तैर्जघनानि गौरवैः ।। किरातार्जुनीयम् - 8 - 23 ।।
समुच्छ्वसत्पङ्कजकोशकोमलैरुपाहितश्रीण्युपनीवि नाभिभिः ।
दधन्ति मध्येषु वलीविभङ्गिषु स्तनातिभारादुदराणि नम्रताम् ।। किरातार्जुनीयम् - 8 - 24 ।।
समानकान्तीनि तुषारभूषणैः सरोरुहैरस्फुटपत्त्रपङ्क्तिभिः ।
चितानि घर्माम्बुकणैः समन्ततो मुखान्यनुत्फुल्लविलोचनानि च ।। किरातार्जुनीयम् - 8 - 25 ।।
विनिर्यतीनां गुरुस्वेदमन्थरं सुराङ्गनानाम् अनुसानुवर्त्मनः ।
सविस्मयं रूपयतः नभश्चरान्विवेश तत्पूर्वम् इवेक्षणादरः ।। किरातार्जुनीयम् - 8 - 26 ।।
अथ स्फुरन्मीनविधूतपङ्कजा विपङ्कतीरस्खलितोर्मिसंहतिः ।
पयोऽवगाढुं कलहंसनादिनी समाजुहावेव वधूः सुरापगा ।। किरातार्जुनीयम् - 8 - 27 ।।
प्रशान्तघर्माभिभवः शनैर्विवान्विलासिनीभ्यः परिमृष्टपङ्कजः ।
ददौ भुजालम्बम् इवात्तशीकरस्तरङ्गमालान्तरगोचरोऽनिलः ।। किरातार्जुनीयम् - 8 - 28 ।।
गतैः सहावैः कलहंसविक्रमं कलत्रभारैः पुलिनं नितम्बिभिः ।
मुखैः सरोजानि च दीर्घलोचनैः सुरस्त्रियः साम्यगुणात् निरासिरे ।। किरातार्जुनीयम् - 8 - 29 ।।
विभिन्नपर्यन्तगमीनपङ्क्तयः पुरो विगाढाः सखिभिर्मरुत्वतः ।
कथंचिदापः सुरसुन्दरीजनैः सभीतिभिस्तत्प्रथमं प्रपेदिरे ।। किरातार्जुनीयम् - 8 - 30 ।।
विगाढमात्रे रमणीभिरम्भसि प्रयत्नसंवाहितपीवरोरुभिः ।
विभिद्यमाना विससार सारसानुदस्य तीरेषु तरङ्गसंहतिः ।। किरातार्जुनीयम् - 8 - 31 ।।
शिलाघनैर्नाकसदां उरःस्थलैर्बृहन्निवेशैश्च वधूपयोधरैः ।
तटाभिनीतेन विभिन्नवीचिना रुषेव भेजे कलुषत्वम् अम्भसा ।। किरातार्जुनीयम् - 8 - 32 ।।
विधूतकेशाः परिलोलितस्रजः सुराङ्गनानां प्रविलुप्तचन्दनाः ।
अतिप्रसङ्गाद्विहितागसो मुहुः प्रकम्पम् ईयुः सभया इवोर्मयः ।। किरातार्जुनीयम् - 8 - 33 ।।
विपक्षचित्तोन्मथना नखव्रणास्तिरोहिता विभ्रममण्डनेन ये ।
हृतस्य शेषानिव कुङ्कुमस्य तान्विकत्थनीयान्दधुरन्यथा स्त्रियः ।। किरातार्जुनीयम् - 8 - 34 ।।
सरोजपत्त्रे नु विलीनषट्पदे विलोलदृष्टेः स्विदमू विलोचने ।
शिरोरुहाः स्विन्नतपक्ष्मसन्ततेर्द्विरेफवृन्दं नु निशब्दनिश्चलम् ।। किरातार्जुनीयम् - 8 - 35 ।।
अगूढहासस्फुटदन्तकेसरं मुखं स्विदेतद्विकसन्नु पङ्कजम् ।
इति प्रलीनां नलिनीवने सखीं विदांबभूवुः सुचिरेण योषितः ।। किरातार्जुनीयम् - 8 - 36 ।।
प्रियेण सङ्ग्रथ्य विपक्षसंनिधावुपाहितां वक्षसि पीवरस्तने ।
स्रजं न काचिद्विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि ।। किरातार्जुनीयम् - 8 - 37 ।।
असंशयं न्यस्तम् उपान्तरक्ततां यदेव रोद्धुं रमणीभिरञ्जनम् ।
हृतेऽपि तस्मिन्सलिलेन शुक्लतां निरास रागो नयनेषु न श्रियम् ।। किरातार्जुनीयम् - 8 - 38 ।।
द्युतिं वहन्तो वनितावतंसका हृताः प्रलोभादिव वेगिभिर्जलैः ।
उपप्लुतास्तत्क्षणशोचनीयतां च्युताधिकाराः सचिवा इव आययुः ।। किरातार्जुनीयम् - 8 - 39 ।।
विपत्त्रलेखा निरलक्तकाधरा निरञ्जनाक्षीरपि बिभ्रतीः श्रियम् ।
निरीक्ष्य रामा बुबुधे नभश्चरैरलंकृतं तद्वपुषैव मण्डनम् ।। किरातार्जुनीयम् - 8 - 40 ।।
तथा न पूर्वं कृतभूषणादरः प्रियानुरागेण विलासिनीजनः ।
यथा जलार्द्रो नखमण्डनश्रिया ददाह दृष्टीश्च विपक्षयोषिताम् ।। किरातार्जुनीयम् - 8 - 41 ।।
शुभाननाः साम्बुरुहेषु भीरवो विलोलहाराश्चलफेनपङ्क्तिषु ।
नितान्तगौर्यो हृतकुङ्कुमेष्वलं न लेभिरे ताः परभागम् ऊर्मिषु ।। किरातार्जुनीयम् - 8 - 42 ।।
ह्रदाम्भसि व्यस्तवधूकराहते रवं मृदङ्गध्वनिधीरम् उज्झति
मुहुस्तनैस्तालस्समं समाददे मनोरमं नृत्यम् इव प्रवेपितम् ।। किरातार्जुनीयम् - 8 - 43 ।।
श्रिया हसद्भिः कलमानि सस्मितैरलङ्कृताम्बुः प्रतिमागतैर्मुखैः ।
कृतानुकूल्या सुरराजयोषितां प्रसादसाफल्यम् अवाप जाह्वनी ।। किरातार्जुनीयम् - 8 - 44 ।।
परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः ।
उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम् ।। किरातार्जुनीयम् - 8 - 45 ।।
भयादिवाश्लिष्य झषाहतेऽम्भसि प्रियं मुद् आनन्दयति स्म मानिनी ।
अकृत्रिमप्रेमरसाहितैर्मनो हरन्ति रामाः कृतकैरपीहितैः ।। किरातार्जुनीयम् - 8 - 46 ।।
तिरोहितान्तानि नितान्तम् आकुलैरपां विगाहादलकैः प्रसारिभिः ।
ययुर्वधूनां वदनानि तुल्यतां द्विरेफवृन्दान्तरितैः सरोरुहैः ।। किरातार्जुनीयम् - 8 - 47 ।।
करौ धुनाना नवपल्लवाकृती पयस्यगाधे किल जातसम्भ्रमा ।
सखीषु निर्वाच्यम् अधार्ष्ठ्यदूषितं प्रियाङ्गसंश्लेषम् अवाप मानिनी ।। किरातार्जुनीयम् - 8 - 48 ।।
प्रियैः सलीलं करवारिवारितः प्रवृद्धनिःश्वासविकम्पितस्तनः ।
सविभ्रमाधूतकराग्रपल्लवो यथार्थताम् आप विलासिनीजनः ।। किरातार्जुनीयम् - 8 - 49 ।।
उदस्य धैर्यं दयितेन सादरं प्रसादितायाः करवारिवारितम् ।
मुखं निमीलन्नयनं नतभ्रुवः श्रियं सपत्नीवदनादिव आददे ।। किरातार्जुनीयम् - 8 - 50 ।।
विहस्य पाणौ विधृते धृताम्भसि प्रियेण वध्वा मदनार्द्रचेतसः ।
सखीव काञ्ची पयसा घनीकृता बभार वीतोच्चयबन्धम् अंशुकम् ।। किरातार्जुनीयम् - 8 - 51 ।।
निरञ्जने साचिविलोकितं दृशावयावकं वेपथुरोष्ठपल्लवम् ।
नतभ्रुवो मण्डयदि मण्डयति स्म विग्रहे बलिक्रिया चातिलकं तदास्पदम् ।। किरातार्जुनीयम् - 8 - 52 ।।
निमीलदाकेकरलोचचक्षुषां प्रियोपकण्ठं कृतगात्रवेपथुः ।
निमज्जतीनां श्वसितोद्धतस्तनः श्रमो नु तासां मदनो नु पप्रथे ।। किरातार्जुनीयम् - 8 - 53 ।।
प्रियेण सिक्ता चरमं विपक्षतः चुकोप काचिन्न तुतोष सान्त्वनैः ।
जनस्य रूढप्रणयस्य चेतसः किम् अप्यमर्षोऽनुनये भृशायते ।। किरातार्जुनीयम् - 8 - 54 ।।
इत्थं विहृत्य वनिताभिरुदस्यमानं पीनस्तनोरुजघनस्थलशालिनीभिः ।
उत्सर्पितोर्मिचयलङ्घिततीरदेशम् औत्सुक्यनुन्नम् इव वारि पुरः प्रतस्थे ।। किरातार्जुनीयम् - 8 - 55 ।।
तीरान्तराणि मिथुनानि रथाङ्गनाम्नां नीत्वा विलोलितसरोजवनश्रियस्ताः ।
संरेजिरे सुरसरिज्जलधौतहारास्तारावितानतरला इव यामवत्यः ।। किरातार्जुनीयम् - 8 - 56 ।।
संक्रान्तचन्दनरसाहितवर्णभेदं विच्छिन्नभूषणमणिप्रकरांशुचित्रम् ।
बद्धोर्मि नाकवनितापरिभुक्तमुक्तं सिन्धोः बभार सलिलं शयनीयलक्ष्मीम् ।। किरातार्जुनीयम् - 8 - 57 ।।


।। इति किरातार्जुनीयमहाकाव्ये अष्टमसर्गः ।।

नवमसर्गः

वीक्ष्य रन्तुमनसः सुरनारीरात्तचित्रपरिधानविभूषाः ।
तत्प्रियार्थम् इव यातुम् अथास्तं भानुमानुपपयोधि ललम्बे ।। किरातार्जुनीयम् - 9 - 1 ।।
मध्यमोपलनिभे लसदंशावेकतश्च्युतिम् उपेयुषि भानौ ।
द्यौः उवाह परिवृत्तिविलोलां हारयष्टिम् इव वासरलक्ष्मीम् ।। किरातार्जुनीयम् - 9 - 2 ।।
अंशुपाणिभिरतीव पिपासुः पद्मजं मधु भृशं रसयित्वा ।
क्षीबताम् इव गतः क्षितिं एष्यंल्लोहितं वपुः उवाह पतङ्गः ।। किरातार्जुनीयम् - 9 - 3 ।।
गम्यताम् उपगते नयनानां लोहितायाति सहस्रमरीचौ ।
आससाद विरहय्य धरित्रीं चक्रवाकहृदयान्यभितापः ।। किरातार्जुनीयम् - 9 - 4 ।।
मुक्तमूललघुरुज्झितपूर्वः पश्चिमे नभसि सम्भृतसान्द्रः ।
सामि मज्जति रवौ न विरेजे खिन्नजिह्म इव रश्मिसमूहः ।। किरातार्जुनीयम् - 9 - 5 ।।
कान्तदूत्य इव कुङ्कुमताम्राः सायमण्डलम् अभि त्वरयन्त्यः ।
सादरं ददृशिरे वनिताभिः सौधजालपतिता रविभासः ।। किरातार्जुनीयम् - 9 - 6 ।।
अग्रसानुषु नितान्तपिशङ्गैर्भूरुहान्मृदुकरैरवलम्ब्य ।
अस्तशैलगहनं नु विवस्वान आविवेश जलधिं नु महीं नु ।। किरातार्जुनीयम् - 9 - 7 ।।
आकुलश्चलपतत्रिकुलानाम् आरवैरनुदितौषसरागः ।
आयय आवहरिदश्वविपाण्डुस्तुल्यतां दिनमुखेन दिनान्तः ।। किरातार्जुनीयम् - 9 - 8 ।।
आस्थितः स्थगितवारिदपङ्क्त्या सन्ध्यया गगनपश्चिमभागः ।
सोर्मिविद्रुमविन्तानविभासा रञ्जितस्य जलधेः श्रियम् ऊहे ।। किरातार्जुनीयम् - 9 - 9 ।।
प्राञ्जलावपि जने नतमूर्ध्नि प्रेम तत्प्रवणचेतसि हित्वा ।
सन्ध्यय अनुविदधे विरमन्त्या चापलेन सुजनेतरमैत्री ।। किरातार्जुनीयम् - 9 - 10 ।।
औषसातपभयादपलीनं वासरच्छविविरामपटीयः ।
संनिपत्य शनकैरिव निम्नादन्धकारम् उदवाप समानि ।। किरातार्जुनीयम् - 9 - 11 ।।
एकताम् इव गतस्य विवेकः कस्यचिन्न महतः अप्युपलेभे
भास्वता निदधिरे भुवनानाम् आत्मनीव पतितेन विशेषाः ।। किरातार्जुनीयम् - 9 - 12 ।।
इच्छतां सह वधूभिरभेदं यामिनीविरहिणां विहगानाम् ।
आपुरेव मिथुनानि वियोगं लङ्घ्यते न खलु कालनियोगः ।। किरातार्जुनीयम् - 9 - 13 ।।
यच्छति प्रतिमुखं दयितायै वाचम् अन्तिकगतेऽपि शकुन्तौ ।
नीयते स्म नतिम् उज्झितहर्षं पङ्कजं मुखम् इवाम्बुरुहिण्या ।। किरातार्जुनीयम् - 9 - 14 ।।
रञ्जिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु ।
पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेण ।। किरातार्जुनीयम् - 9 - 15 ।।
रात्रिरागमलिनानि विकासं पङ्कजानि रहयन्ति विहाय ।
स्पष्टतारकम् इयाय नभः श्रीर्वस्तुम् इच्छति निरापदि सर्वः ।। किरातार्जुनीयम् - 9 - 16 ।।
व्यानशे शशधरेण विमुक्तः केतकीकुसुमकेसरपाण्डुः ।
चूर्णमुष्टिरिव लम्भितकान्तिर्वासवस्य दिशम् अंशुसमूहः ।। किरातार्जुनीयम् - 9 - 17 ।।
उज्झती शुचम् इवाशु तमिस्राम् अन्तिकं व्रजति तारकराजे ।
दिक्प्रसादगुणमण्डनम् ऊहे रश्मिहासविशदं मुखम् ऐन्द्री ।। किरातार्जुनीयम् - 9 - 18 ।।
नीलनीरजनिभे हिमगौरं शैलरुद्धवपुषः सितरश्मेः ।
खे रराज निपतत्करजालं वारिधेः पयसि गाङ्गम् इवाम्भः ।। किरातार्जुनीयम् - 9 - 19 ।।
द्यां निरुन्धदतिनीलघनाभं ध्वान्तम् उद्यतकरेण पुरस्ताथ् ।
क्षिप्यमाणम् असितेतरभासा शम्भुनेव करिचर्म चकासे ।। किरातार्जुनीयम् - 9 - 20 ।।
अन्तिकान्तिकगतेन्दुविसृष्टे जिह्मतां जहति दीधितिजाले ।
निःसृतस्तिमिरभारनिरोधादुच्छ्वसन्निव रराज दिगन्तः ।। किरातार्जुनीयम् - 9 - 21 ।।
लेखया विमलविद्रुमभासा सन्ततं तिमिरम् इन्दुरुदासे ।
दंष्ट्रया कनकटङ्कपिशङ्ग्या मण्डलं भुव इवादिवराहः ।। किरातार्जुनीयम् - 9 - 22 ।।
दीपयन्नथ नभः किरणौघैः कुङ्कुमारुणपयोधरगौरः ।
हेमकुम्भ इव पूर्वपयोधेरुन्ममज्ज शनकैस्तुहिनांशुः ।। किरातार्जुनीयम् - 9 - 23 ।।
उद्गतेन्दुम् अविभिन्नतमिस्रां पश्यति स्म रजनीम् अवितृप्तः ।
व्यंशुकस्फुटमुखीम् अतिजिह्मां व्रीडया नववधूम् इव लोकः ।। किरातार्जुनीयम् - 9 - 24 ।।
न प्रसादम् उचितं गमिता द्यैर्नोद्धृतं तिमिरम् अद्रिवनेभ्यः ।
दिङ्मुखेषु न च धाम विकीर्णं भूषितैव रजनी हिमभासा ।। किरातार्जुनीयम् - 9 - 25 ।।
मानिनीजनविलोचनपातानुष्णबाष्पकलुषान्प्रतिगृह्णन् ।
मन्दमन्दम् उदितः प्रययौ खं भीतभीत इव शीतमयूखः ।। किरातार्जुनीयम् - 9 - 26 ।।
श्लिष्यतः प्रियवधूरुपकण्ठं तारकास्ततकरस्य हिमांशोः ।
उद्वमन् अभिरराज समन्तादङ्गराग इव लोहितरागः ।। किरातार्जुनीयम् - 9 - 27 ।।
प्रेरितः शशधरेण करौघः संहतान्यपि नुनोद तमांसि ।
क्षीरसिन्धुरिव मन्दरभिन्नः काननान्यविरलोच्चतरूणि ।। किरातार्जुनीयम् - 9 - 28 ।।
शारतां गमितया शशिपादैश्छायया विटपिनां प्रतिपेदे
न्यस्तशुक्लबलिचित्रतलाभिस्तुल्यता वसति वेश्ममहीभिः ।। किरातार्जुनीयम् - 9 - 29 ।।
आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन ।
सेहिरे न किरणा हिमरश्मेर्दुःखिते मनसि सर्वम् असह्यम् ।। किरातार्जुनीयम् - 9 - 30 ।।
गन्धम् उद्धतरजःकणवाही विक्षिपन्विकसतां कुमुदानाम् ।
आदुधाव परिलीनविहङ्गा यामिनीमरुदपां वनराजीः ।। किरातार्जुनीयम् - 9 - 31 ।।
संविधातुम् अभिषेकम् उदासे मन्मथस्य लसदंशुजलौघः ।
यामिनीवनितया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः ।। किरातार्जुनीयम् - 9 - 32 ।।
ओजसापि खलु नूनम् अनूनं नासहायम् उपयाति जयश्रीः ।
यद्विभुः शशिमयूखसखः सन् आददे विजयि चापम् अनङ्गः ।। किरातार्जुनीयम् - 9 - 33 ।।
सद्मनां विरचनाहितशोभैरागतप्रियकथैरपि दूत्यम् ।
संनिकृष्टरतिभिः सुरदारैर्भूषितैरपि विभूषणम् ईषे ।। किरातार्जुनीयम् - 9 - 34 ।।
न स्रजो रुरुचिरे रमणीभ्यश्चन्दनानि विरहे मदिरा वा ।
साधनेषु हि रतेः उपधत्ते रम्यतां प्रियसमागम एव ।। किरातार्जुनीयम् - 9 - 35 ।।
प्रस्थिताभिरधिनाथनिवासं ध्वंसितप्रियसखीवचनाभिः ।
मानिनीभिरपहस्तितधैर्यः सादयन्निव मदः अवललम्बे ।। किरातार्जुनीयम् - 9 - 36 ।।
कान्तवेश्म बहु संदिशतीभिर्यातम् एव रतये रमणीभिः ।
मन्मथेन परिलुप्तमतीनां प्रायशः स्खलितम् अप्युपकारि ।। किरातार्जुनीयम् - 9 - 37 ।।
आशु कान्तम् अभिसारितवत्या योषितः पुलकरुद्धकपोलम् ।
निर्जिगाय मुखम् इन्दुम् अखण्डं खण्डपत्रतिलकाकृति कान्त्या ।। किरातार्जुनीयम् - 9 - 38 ।।
उच्यतां स वचनीयम् अशेषं नेश्वरे परुषता सखि साध्वी ।
आनयैनम् अनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः ।। किरातार्जुनीयम् - 9 - 39 ।।
किं गतेन न हि युक्तम् उपैतुं कः प्रिये सुभगमानिनि मानः ।
योषिताम् इति कथासु समेतैः कामिभिर्बहुरसा धृतिः ऊहे ।। किरातार्जुनीयम् - 9 - 40 ।।
योषितः पुलकरोधि दधत्या घर्मवारि नवसङ्गमजन्म ।
कान्तवक्षसि बभूव पतन्त्या मण्डनं लुलितमण्डनतैव ।। किरातार्जुनीयम् - 9 - 41 ।।
शीधुपानविधुरासु निगृह्णन्मानम् आशु शिथिलीकृतलज्जः ।
सङ्गतासु दयितैः उपलेभे कामिनीषु मदनो नु मदो नु ।। किरातार्जुनीयम् - 9 - 42 ।।
द्वारि चक्षुरधिपाणि कपोलौ कीवितं त्वयि कुतः कलहोऽस्याः ।
कामिनाम् इति वचः पुनरुक्तं प्रीतये नवनवत्वम् इयाय ।। किरातार्जुनीयम् - 9 - 43 ।।
साचि लोचनयुगं नमयन्ती रुन्धती दयितवक्षसि पातम् ।
सुभ्रुवो जनयति स्म विभूषां सङ्गतावुपरराम च लज्जा ।। किरातार्जुनीयम् - 9 - 44 ।।
सव्यलीकम् अवधीरितखिन्नं प्रस्थितं सपदि कोपपदेन ।
योषितः सुहृदिव स्म रुणद्धि प्राणनाथम् अभिबाष्पनिपातः ।। किरातार्जुनीयम् - 9 - 45 ।।
शङ्किताय कृतबाष्पनिपाताम् ईर्ष्यया विमुखितां दयिताय ।
मानिनिम् अभिमुखाहितचित्तां शंसति स्म घनरोमविभेदः ।। किरातार्जुनीयम् - 9 - 46 ।।
लोलदृष्टि वदनं दयितायाः चुम्बति प्रियतमे रभसेन ।
व्रीडया सह विनीवि नितम्बादंशुकं शिथिलताम् उपपदे ।। किरातार्जुनीयम् - 9 - 47 ।।
ह्रीतय अगलितनीवि निरस्यन्नन्तरीयम् अवलम्बितकाञ्चि ।
मण्डलीकृतपृथुस्तनभारं सस्वजे दयितया हृदयेशः ।। किरातार्जुनीयम् - 9 - 48 ।।
आदृता नखपदैः परिरम्भाश्चुम्बितानि घनदन्तनिपातैः ।
सौकुमार्यगुणसम्भृतकीर्तिर्वाम एव सुरतेष्वपि कामः ।। किरातार्जुनीयम् - 9 - 49 ।।
पाणिपल्लवविधूननम् अन्तः सीत्कृतानि नयनार्धनिमेषाः ।
योषितां रहसि गद्गदवाचाम् अस्त्रताम् उपययुः मदनस्य ।। किरातार्जुनीयम् - 9 - 50 ।।
पातुम् आहितरतीन्यभिलेषुस्तर्षयन्त्यपुनरुक्तरसानि ।
सस्मितानि वदनानि वधूनां सोत्पलानि च मधूनि युवानः ।। किरातार्जुनीयम् - 9 - 51 ।।
कान्तसङ्गमपराजितमन्यौ वारुणीरसनशान्तविवादे ।
मानिनीजन उपाहितसंधौ सन्दधे धनुषि नेषुम् अनङ्गः ।। किरातार्जुनीयम् - 9 - 52 ।।
कुप्यताशु भवतानतचित्ताः कोपितांश्च वरिवस्यत यूनः ।
इत्यनेक उपदेश इव स्म स्वाद्यते युवतिभिर्मधुवारः ।। किरातार्जुनीयम् - 9 - 53 ।।
भर्तृभिः प्रणयसम्भ्रमदत्तां वारुणीम् अतिरसां रसयित्वा ।
ह्रीविमोहविरहाद् उपलेभे पाटवं नु हृदयं नु वधूभिः ।। किरातार्जुनीयम् - 9 - 54 ।।
स्वादितः स्वयम् अथैधितमानं लम्भितः प्रियतमैः सह पीतः ।
आसवः प्रतिपदं प्रमदानां नैकरूपरसताम् इव भेजे ।। किरातार्जुनीयम् - 9 - 55 ।।
भ्रूविलाससुभगाननुकर्तुं विभ्रमानिव वधूनयनानाम् ।
आददे मृदुविलोकपलाशैरुत्पलैश्चषकवीचिषु कम्पः ।। किरातार्जुनीयम् - 9 - 56 ।।
ओष्ठपल्लवविदंशरुचीनां हृद्यताम् उपययौ रमणानाम् ।
फुल्ललोचनविनीलसरोजैरङ्गनास्यचषकैर्मधुवारः ।। किरातार्जुनीयम् - 9 - 57 ।।
प्राप्यते गुणवतापि गुणानां व्यक्तम् आश्रयवशेन विशेषः ।
तत्तथा हि दयिताननदत्तं व्यानशे मधु रसातिशयेन ।। किरातार्जुनीयम् - 9 - 58 ।।
वीक्ष्य रत्नचषकेष्वतिरिक्तां कान्तदन्तपदमण्डनलक्ष्मीम् ।
जज्ञिरे बहुमताः प्रमदानाम् ओष्ठयावकनुदो मधुवाराः ।। किरातार्जुनीयम् - 9 - 59 ।।
लोचनाधरकृताहृतरागा वासिताननविशेषितगन्धा ।
वारुणी परगुणात्मगुणानां व्यत्ययं विनिमयं नु वितेने ।। किरातार्जुनीयम् - 9 - 60 ।।
तुल्यरूपम् असितोत्पलं अक्ष्णोः कर्णगं निरुपकारि विदित्वा ।
योषितः सुहृदिव प्रविभेजे लम्भितेक्षणरुचिर्मदरागः ।। किरातार्जुनीयम् - 9 - 61 ।।
क्षीणयावकरसोऽप्यतिपानैः कान्तदन्तपदसम्भृतशोभः ।
आयय अवतितराम् इव वध्वाः सान्द्रताम् अधरपल्लवरागः ।। किरातार्जुनीयम् - 9 - 62 ।।
रागजान्तनयनेषु नितान्तं विद्रुमारुणकपोलतलेषु ।
सर्वगापि ददृशे वनितानां दर्पणेष्विव मुखेषु मदश्रीः ।। किरातार्जुनीयम् - 9 - 63 ।।
बद्धकोपविकृतीरपि रामाश्चारुताभिमतताम् उपनिन्ये
वश्यतां मधुमदो दयितानाम् आत्मवर्गहितम् इच्छति सर्वः ।। किरातार्जुनीयम् - 9 - 64 ।।
वाससां शिथिलताम् उपनाभि ह्रीनिरासम् अपदे कुपितानि ।
योषितां विदधती गुणपक्षे निर्ममार्ज मदिरा वचनीयम् ।। किरातार्जुनीयम् - 9 - 65 ।।
भर्तृषूपसखि निक्षिपतीनाम् आत्मनो मधुमदोद्यमितानाम् ।
व्रीडया विफलया वनितानां न स्थितं न विगतं हृदयेषु ।। किरातार्जुनीयम् - 9 - 66 ।।
रुन्धती नयनवाक्यविकासं सादितो भयकरा परिरम्भे
व्रीडितस्य ललितं युवतीनां क्षीबता बहुगुणैः अनुजह्रे ।। किरातार्जुनीयम् - 9 - 67 ।।
योषिदुद्धतमनोभवरागा मानवत्यपि ययौ दयिताङ्कम् ।
कारयत्यनिभृता गुणदोषे वारुणी खलु रहस्यविभेदम् ।। किरातार्जुनीयम् - 9 - 68 ।।
आहिते नु मधुना मधुरत्वे चेष्टितस्य गमिते नु विकासम् ।
आबभौ नव इवोद्धतरागः कामिनीष्ववसरः कुसुमेषोः ।। किरातार्जुनीयम् - 9 - 69 ।।
मा गमन्मदविमूढधियो नः प्रोज्झ्य रन्तुम् इति शङ्कितनाथाः ।
योषितो न मदिरां भृशम् ईषुः प्रेम पश्यति भयान्यपदेऽपि ।। किरातार्जुनीयम् - 9 - 70 ।।
चित्तनिर्वृतिविधायि विविक्तं मन्मथो मधुमदः शशिभासः ।
सङ्गमश्च दयितैः स्म नयन्ति प्रेम काम् अपि भुवं प्रमदानाम् ।। किरातार्जुनीयम् - 9 - 71 ।।
धार्ष्ट्यलङ्घितयथोचितभूमौ निर्दयं विलुलितालकमाल्ये ।
मानिनीरतिविधौ कुसुमेषुर्मत्तमत्त इव विभ्रमम् आप ।। किरातार्जुनीयम् - 9 - 72 ।।
शीधुपानविधुरेषु वधूनां विघ्नताम् उपगतेषु वपुःषु ।
ईहितं रतिरसाहितभावं वीतलक्ष्यम् अपि कामिषु रेजे ।। किरातार्जुनीयम् - 9 - 73 ।।
अन्योन्यरक्तमनसाम् अथ बिभ्रतीनां चेतोभुवो हरिसखाप्सरसां निदेशम् ।
वैबोधिकध्वनिविभावितपश्चिमार्धा सा संहृतेव परिवृत्तिम् इयाय रात्रिः ।। किरातार्जुनीयम् - 9 - 74 ।।
निद्राविनोदितनितान्तरतिक्लमानाम् आयामिमङ्गलनिनादविबोधितानाम् ।
रामासु भाविविरहाकुलितासु यूनां तत्पूर्वताम् इव समादधिरे रतानि ।। किरातार्जुनीयम् - 9 - 75 ।।
कान्ताजनं सुरतखेदनिमीलिताक्षं संवाहितुं समुपयानिव मन्दमन्दम् ।
हर्म्येषु माल्यमदिरापरिभोगगन्धानाविः चकार रजनीपरिवृत्तिवायुः ।। किरातार्जुनीयम् - 9 - 76 ।।
आमोदवासितचलाधरपल्लवेषु निद्राकषायितविपाटललोचनेषु ।
व्यामृष्टपत्त्रतिलकेषु विलासिनीनां शोभां बबन्ध वदनेषु मदावशेषः ।। किरातार्जुनीयम् - 9 - 77 ।।
गतवति नखलेखालक्ष्यताम् अङ्गरागे समददयितपीताताम्रबिम्बाधराणाम् ।
विरहविधुरम् इष्टा सत्सखीवङ्गनानां हृदयम् अवललम्बे रात्रिसम्भोगलक्ष्मीः ।। किरातार्जुनीयम् - 9 - 78 ।।


।। इति किरातार्जुनीयमहाकाव्ये नवमसर्गः ।।

दशमसर्गः

अथ परिमलजाम् अवाप्य लक्ष्मीम् अवयवदीपितमण्डनश्रियस्ताः ।
वसतिम् अभिविहाय रम्यहावाः सुरपतिसूनुविलोभनाय जग्मुः ।। किरातार्जुनीयम् - 10 - 1 ।।
द्रुतपदम् अभियातुम् इच्छतीनां गमनपरिक्रमलाघवेन तासाम् ।
अवनिषु चरणैः पृथुस्तनीनाम् अलघुनितम्बतया चिरं निषेदे ।। किरातार्जुनीयम् - 10 - 2 ।।
निहितसरसयावकैः बभासे चरणतलैः कृतपद्धतिर्वधूनाम् ।
अविरलविततेव शक्रगोपैररुणितनीलतृणोलपा धरित्री ।। किरातार्जुनीयम् - 10 - 3 ।।
ध्वनिरगविवरेषु नूपुराणां पृथुरशनागुणशिञ्जितानुयातः ।
प्रतिरवविततो वनानि चक्रे मुखरसम् उत्सुकहंससारसानि ।। किरातार्जुनीयम् - 10 - 4 ।।
अवचयपरिभोगवन्ति हिंस्रैः सहचरितान्यमृगाणि काननानि ।
अभिदधुः अभितो मुनिं वधूभ्यः समुदितसाध्वसविक्लवं च चेतः ।। किरातार्जुनीयम् - 10 - 5 ।।
नृपतिमुनिपरिग्रहेण सा भूः सुरसचिवाप्सरसां जहार चेतः ।
उपहितपरमप्रभावधाम्नां न हि जयिनां तपसाम् अलङ्घ्यम् अस्ति ।। किरातार्जुनीयम् - 10 - 6 ।।
सचकितम् इव विस्मयाकुलाभिः शुचिसिकतास्वतिमानुषाणि ताभिः ।
क्षितिषु ददृशिरे पदानि जिष्णोरुपहितकेतुरथाङ्गलाञ्छनानि ।। किरातार्जुनीयम् - 10 - 7 ।।
अतिशयितवनान्तरद्युतीनां फलकुसुमावचयेऽपि तद्विधानाम् ।
ऋतुरिव तरुवीरुधां समृद्ध्या युवतिजनैः जगृहे मुनिप्रभावः ।। किरातार्जुनीयम् - 10 - 8 ।।
मृदितकिसलयः सुराङ्गनानां ससलिलवल्कलभारभुग्नशाखः ।
बहुमतिम् अधिकां ययौ अशोकः परिजनतापि गुणाय सद्गुणानाम् ।। किरातार्जुनीयम् - 10 - 9 ।।
यमनियमकृशीकृतस्थिराङ्गः परिददृशे विधृतायुधः स ताभिः ।
अनुपमशमदीप्ततागरीयान्कृतपदपङ्क्तिरथर्वणेव वेदः ।। किरातार्जुनीयम् - 10 - 10 ।।
शशधर इव लोचनाभिरामैर्गगनविसारिभिरंशुभिः परीतः ।
शिखरनिचयम् एकसानुसद्मा सकलम् इवापि दधन्महीधरस्य ।। किरातार्जुनीयम् - 10 - 11 ।।
सुरसरिति परं तपोऽधिगच्छन्विधृतपिशङ्गबृहज्जटाकलापः ।
हविरिव विततः शिखासमूहैः समभिलषन्नुपवेदि जातवेदाः ।। किरातार्जुनीयम् - 10 - 12 ।।
सदृशम् अतनुम् आकृतेः प्रयत्नं तदनुगुणाम् अपरैः क्रियाम् अलङ्घ्याम् ।
दधदलघु तपः क्रियानुरूपं विजयवतीं च तपःसमां समृद्धिम् ।। किरातार्जुनीयम् - 10 - 13 ।।
चिरनियमकृशोऽपि शैलसारः शमनिरतोऽपि दुरासदः प्रकृत्या ।
ससचिव इव निर्जनेऽपि तिष्ठन्मुनिरपि तुल्यरुचिस्त्रिलोकभर्तुः ।। किरातार्जुनीयम् - 10 - 14 ।।
तनुम् अवजितलोकसारधाम्नीं त्रिभुवनगुप्तिसहां विलोकयन्त्यः ।
अवययुरमरस्त्रियोऽस्य यत्नं विजयफले विफलं तपोधिकारे ।। किरातार्जुनीयम् - 10 - 15 ।।
मुनिदनुतनयान्विलोभ्य सद्यः प्रतनुबलानि अधितिष्ठतः तपांसि ।
अलघुनि बहु मेनिरे च ताः स्वं कुलिशभृता विहितं पदे नियोगम् ।। किरातार्जुनीयम् - 10 - 16 ।।
अथ कृतकविलोभनं विधित्सौ युवतिजने हरिसूनुदर्शनेन ।
प्रसभम् अवततार चित्तजन्मा हरति मनो मधुरा हि यौवनश्रीः ।। किरातार्जुनीयम् - 10 - 17 ।।
सपदि हरिसखैर्वधूनिदेशाद्ध्वनितमनोरमवल्लकीमृदङ्गैः ।
युगपदृतुगणस्य संनिधानं वियति वने च यथायथं वितेने ।। किरातार्जुनीयम् - 10 - 18 ।।
सजलजलधरं नभो विरेजे विवृतिम् इयाय रुचिस्तडिल्लतानाम् ।
व्यवहितरतिविग्रहैः वितेने जलगुरुभिः स्तनितैर्दिगन्तरेषु ।। किरातार्जुनीयम् - 10 - 19 ।।
परिसुरपतिसूनुधाम सद्यः समुपदधन्मुकुलानि मालतीनाम् ।
विरलम् अपजहार बद्धबिन्दुः सरजसताम् अवनेरपां निपातः ।। किरातार्जुनीयम् - 10 - 20 ।।
प्रतिदिशम् अभिगच्छताभिमृष्टः ककुभविकाससुगन्धिनानिलेन ।
नव इव विबभौ सचित्तजन्मा गतधृतिराकुलितश्च जीवलोकः ।। किरातार्जुनीयम् - 10 - 21 ।।
व्यथितम् अपि भृशं मनो हरन्ती परिणतजम्बुफलोपभोगहृष्टा ।
परभृतयुवतिः स्वनं वितेने नवनवयोजितकण्ठरागरम्यम् ।। किरातार्जुनीयम् - 10 - 22 ।।
अभिभवति मनः कदम्बवायौ मदमधुरे च शिखण्डिनां निनादे ।
जन इव न धृतेश्चचाल जिष्णुर्न हि महतां सुकरः समाधिभङ्गः ।। किरातार्जुनीयम् - 10 - 23 ।।
धृतबिसवलयावलिर्वहन्ती कुमुदवनैकदुकूलम् आत्तबाणा ।
शरदमलतले सरोजपाणौ घनसमयेन वधूरिव आललम्बे ।। किरातार्जुनीयम् - 10 - 24 ।।
समदशिखिरुतानि हंसनादैः कुमुदवनानि कदम्बपुष्पवृष्ट्या ।
श्रियम् अतिशयिनीं समेत्य जग्मुः गुणमहतां महते गुणाय योगः ।। किरातार्जुनीयम् - 10 - 25 ।।
सरजसम् अपहाय केतकीनां प्रसवम् उपान्तिकनीपरेणुकीर्णम् ।
प्रियमधुरसनानि षट्पदाली मलिनयति स्म विनीलबन्धनानि ।। किरातार्जुनीयम् - 10 - 26 ।।
मुकुलितम् अतिशय्य बन्धुजीवं धृतजलबिन्दुषु शाद्वलस्थलीषु ।
अविरलवपुषः सुरेन्द्रगोपा विकचपलाशचयश्रियं समीयुः ।। किरातार्जुनीयम् - 10 - 27 ।।
अविरलफलिनीवनप्रसूनः कुसुमितकुन्दसुगन्धिगन्धवाहः ।
गुणम् असमयजं चिराय लेभे विरलतुषारकणस्तुषारकालः ।। किरातार्जुनीयम् - 10 - 28 ।।
निचयिनि लवलीलताविकासे जनयति लोध्रसमीरणे च हर्षम् ।
विकृतिम् उपययौ न पाण्डुसूनुश्चलति नयान्न जिगीषतां हि चेतः ।। किरातार्जुनीयम् - 10 - 29 ।।
कतिपयसहकारपुष्परम्यस्तनुतुहिनोऽल्पविनिद्रसिन्दुवारः ।
सुरभिमुखहिमागमान्तशंसी समुपययौ शिशिरः स्मरैकबन्धुः ।। किरातार्जुनीयम् - 10 - 30 ।।
कुसुमनगवनान्युपैतुकामा किसलयिनीम् अवलम्ब्य चूतयष्टिम् ।
क्वणदलिकुलनूपुरा निरासे नलिनवनेषु पदं वसन्तलक्ष्मीः ।। किरातार्जुनीयम् - 10 - 31 ।।
विकसितकुसुमाधरं हसन्तीं कुरबकराजिवधूं विलोकयन्तम् ।
ददृशुरिव सुराङ्गना निषण्णं सशरम् अनङ्गम् अशोकपल्लवेषु ।। किरातार्जुनीयम् - 10 - 32 ।।
मुहुरनुपतता विधूयमानं विरचितसंहति दक्षिणानिलेन ।
अलिकुलम् अलकाकृतिं प्रपेदे नलिनमुखान्तविसर्पि पङ्कजिन्याः ।। किरातार्जुनीयम् - 10 - 33 ।।
श्वसनचलितपल्लवाधरोष्ठे नवनिहितेर्ष्यम् इवावधूनयन्ती ।
मधुसुरभिणि षट्पदेन पुष्पे मुख इव शाललतावधूश्चुचुम्बे ।। किरातार्जुनीयम् - 10 - 34 ।।
प्रभवति न तदा परो विजेतुं भवति जितेन्द्रियता यदात्मरक्षा ।
अवजितभुवनस्तथा हि लेभे सिततुरगे विजयं न पुष्पमासः ।। किरातार्जुनीयम् - 10 - 35 ।।
कथम् इव तव संमतिर्भवित्री समम् ऋतुभिर्मुनिनावधीरितस्य ।
इति विरचितमल्लिकाविकासः स्मयत इव स्म मधुं निदाघकालः ।। किरातार्जुनीयम् - 10 - 36 ।।
बलवदपि बलं मिथोविरोधि प्रभवति नैव विपक्षनिर्जयाय ।
भुवनपरिभवी न यत्तदानीं तम् ऋतुगणः क्षणम् उन्मनीचकार ।। किरातार्जुनीयम् - 10 - 37 ।।
श्रुतिसुखम् उपवीणितं सहायैरविरललाञ्छनहारिणश्च कालाः ।
अविहितहरिसूनुविक्रियाणि त्रिदशवधूषु मनोभवं वितेनुः ।। किरातार्जुनीयम् - 10 - 38 ।।
दलति निचये तथोत्पलानां न च विषमच्छदगुच्छयूथिकासु ।
अभिरतुम् उपलेभिरे यथासां हरितनयावयवेषु लोचनानि ।। किरातार्जुनीयम् - 10 - 39 ।।
मुनिम् अभिमुखतां निनीषवो याः समुपययुः कमनीयतागुणेन ।
मदनम् उपदधे स एव तासां दुरधिगमा हि गतिः प्रयोजनानाम् ।। किरातार्जुनीयम् - 10 - 40 ।।
प्रकृतम् अनुससार नाभिनेयं प्रविकसदङ्गुलि पाणिपल्लवं वा ।
प्रथमम् उपहितं विलासि चक्षुः सिततुरगे न चचाल नर्तकीनाम् ।। किरातार्जुनीयम् - 10 - 41 ।।
अभिनयमनसः सुराङ्गनाया निहितम् अलक्तकवर्तनाभिताम्रम् ।
चरणम् अभिपपात षट्पदाली धुतनवलोहितपङ्कजाभिशङ्का ।। किरातार्जुनीयम् - 10 - 42 ।।
अविरलम् अलसेषु नर्तकीनां द्रुतपरिषिक्तम् अलक्तकं पदेषु ।
सवपुषाम् इव चित्तरागम् ऊहुर्नमितशिखानि कदम्बकेसराणि ।। किरातार्जुनीयम् - 10 - 43 ।।
नृपसुतं अभितः समन्मथायाः परिजनगात्रतिरोहिताङ्गयष्टेः ।
स्फुटम् अभिलषितं बभूव वध्वा वदति हि संवृतिरेव कामितानि ।। किरातार्जुनीयम् - 10 - 44 ।।
अभिमुनि सहसा हृते परस्या घनमरुता जघनांशुकैकदेशे ।
चकितम् अवसनोरु सत्रपायाः प्रतियुवतीरपि विस्मयं निनाय ।। किरातार्जुनीयम् - 10 - 45 ।।
धृतबिसवलये निधाय पाणौ मुखम् अधिरूषितपाण्डुगण्डलेखम् ।
नृपसुतम् अपरा स्मराभितापादमधुमदालसलोचनं निदध्यौ ।। किरातार्जुनीयम् - 10 - 46 ।।
सखि दयितम् इहानयेति सा मां प्रहितवती कुसुमेषुणाभितप्ता ।
हृदयम् अहृदया न नाम पूर्वं भवदुपकण्ठम् उपागतं विवेद ।। किरातार्जुनीयम् - 10 - 47 ।।
चिरम् अपि कलितान्यपारयन्त्या परिगदितुं परिशुष्यता मुखेन ।
गतघृण गमितानि सत्सखीनां नयनयुगैः समम् आर्द्रतां मनांसि ।। किरातार्जुनीयम् - 10 - 48 ।।
अचकमत सपल्लवां धरित्रीं मृदुसुरभिं विरहय्य पुष्पशय्याम् ।
भृशम् अरतिम् अवाप्य तत्र चास्यास्तव सुखशीतम् उपैतुम् अङ्कम् इच्छा ।। किरातार्जुनीयम् - 10 - 49 ।।
तदनघ तनुरस्तु सा सकामा व्रजति पुरा हि परासुतां त्वदर्थे ।
पुनरपि सुलभं तपोऽनुरागी युवतिजनः खलु नाप्यतेऽनुरूपः ।। किरातार्जुनीयम् - 10 - 50 ।।
जहिहि कठिनतां प्रयच्छ वाचं ननु करुणामृदु मानसं मुनीनाम् ।
उपगतम् अवधीरयन्त्यभव्याः स निपुणम् एत्य कयाचिदेवम् ऊचे ।। किरातार्जुनीयम् - 10 - 51 ।।
सललितचलितत्रिकाभिरामाः शिरसिजसंयमनाकुलैकपाणिः ।
सुरपतितनयेऽपरा निरासे मनसिजजैत्रशरं विलोचनार्धम् ।। किरातार्जुनीयम् - 10 - 52 ।।
कुसुमितम् अवलम्ब्य चूतम् उच्चैस्तनुरिभकुम्भपृथुस्तनानताङ्गी ।
तदभिमुखम् अनङ्गचापयष्टिर्विसृतगुणेव समुन्ननाम काचिथ् ।। किरातार्जुनीयम् - 10 - 53 ।।
सरभसम् अवलम्ब्य नीलम् अन्या विगलितनीवि विलोलम् अन्तरीयम् ।
अभिपतितुमनाः ससाध्वसेव च्युतरशनागुणसन्दितावतस्थे ।। किरातार्जुनीयम् - 10 - 54 ।।
यदि मनसि शमः किम् अङ्ग चापं शठ विषयास्तव वल्लभा न मुक्तिः ।
भवतु दिशति नान्यकामिनीभ्यस्तव हृदये हृदयेश्वरावकाशम् ।। किरातार्जुनीयम् - 10 - 55 ।।
इति विषमितचक्षुषाभिधाय स्फुरदधरोष्ठम् असूयया कयाचित् ।
अगणितगुरुमानलज्जयासौ स्वयम् उरसि श्रवणोत्पलेन जघ्ने ।। किरातार्जुनीयम् - 10 - 56 ।।
सविनयम् अपराभिसृत्य साचि स्मितसुभगैकलसत्कपोललक्ष्मीः ।
श्रवणनियमितेन तं निदध्य सकलम् इवासकलेन लोचनेन ।। किरातार्जुनीयम् - 10 - 57 ।।
करुणम् अभिहितं त्रपा निरस्ता तदभिमुखं च विमुक्तम् अश्रु ताभिः।
प्रकुपितम् अभिसारणेऽनुनेतुं प्रियम् इयती ह्यबलाजनस्य भूमिः ।। किरातार्जुनीयम् - 10 - 58 ।।
असकलनयनेक्षितानि लज्जा गतम् अलसं परिपाण्डुता विषादः ।
इति विविधम् इयाय तासु भूषां प्रभवति मण्डयितुं वधूरनङ्गः ।। किरातार्जुनीयम् - 10 - 59 ।।
अलसपदमनोरमं प्रकृत्या जितकलहंसवधूगति प्रयातम् ।
स्थितम् उरुजघनस्थलातिभारादुदितपरिश्रमजिह्मितेक्षणं वा ।। किरातार्जुनीयम् - 10 - 60 ।।
भृशकुसुमशरेषुपातमोहादनवसितार्थपदाकुलोऽभिलापः ।
अधिकविततलोचनं वधूनाम् अयुगपदुन्नमितभ्रु वीक्षितं च ।। किरातार्जुनीयम् - 10 - 61 ।।
रुचिकरम् अपि नार्थवत् बभूव स्तिमितसमाधिशुचौ पृथातनूजे ।
ज्वलयति महतां मनांस्यमर्षे न हि लभतेऽवसरं सुखाभिलाषः ।। किरातार्जुनीयम् - 10 - 62 ।।
स्वयं संराध्यैवं शतमखम् अखण्डेन तपसा परोच्छित्त्या लभ्याम् अभिलषति लक्ष्मीं हरिसुते ।
मनोभिः सोद्वेगैः प्रणयविहतैध्वस्तरुचयः सगन्धर्मा धाम त्रिदशवनिताः स्वं प्रतिययुः ।। किरातार्जुनीयम् - 10 - 63 ।।


।। इति किरातार्जुनीयमहाकाव्ये दशमसर्गः ।।

एकादशसर्गः

अथामर्षान्निसर्गाच्च जितेन्द्रियतया तया ।
आगजामाश्रमं जिष्णोः प्रतीतः पाकशासनः ।। किरातार्जुनीयम् - 11 - 1 ।।
मुनिरूपोऽनुरूपेण सूनुना ददृशे पुरः ।
द्राघीयसा वयोतीतः परिक्लान्तः किलाध्वना ।। किरातार्जुनीयम् - 11 - 2 ।।
जटानां कीर्णया केशैः संहत्या परितः सितैः ।
पृक्तयेन्दुकरैरह्नः पर्यन्त इव सन्ध्यया ।। किरातार्जुनीयम् - 11 - 3 ।।
विशदभ्रूयुगच्छन्नवलितापाङ्गलोचनः ।
प्रालेयावततिम्लानपलाशाब्ज इव ह्रदः ।। किरातार्जुनीयम् - 11 - 4 ।।
आसक्तभरनीकाशैरङ्गैः परिकृशैरपि ।
अद्यूनः सद्गृहिण्येव प्रायो यष्ट्यावलम्बितः ।। किरातार्जुनीयम् - 11 - 5 ।।
गूढोऽपि वपुषा राजन्धाम्ना लोकाभिभाविना ।
अंशुमानिव तन्वभ्रपटलच्छन्नविग्रहः ।। किरातार्जुनीयम् - 11 - 6 ।।
जरतीम् अपि बिभ्राणस्तनुम् अप्राकृताकृतिः ।
चकार आक्रान्तलक्ष्मीकः ससाध्वसम् इवाश्रयम् ।। किरातार्जुनीयम् - 11 - 7 ।।
अभितस्तं पृथासूनुः स्नेहेन परितस्तरे ।
अविज्ञातेऽपि बन्धौ हि बलात् प्रह्लादते मनः ।। किरातार्जुनीयम् - 11 - 8 ।।
आतिथेयीम् अथासाद्य सुतादपचितिं हरिः ।
विश्रम्य विष्टरे नाम व्याजहार इति भारतीम् ।। किरातार्जुनीयम् - 11 - 9 ।।
त्वया साधु समारम्भि नवे वयसि यत्तपः ।
ह्रियते विषयैः प्रायो वर्षीयानपि मादृशः ।। किरातार्जुनीयम् - 11 - 10 ।।
श्रेयसीं तव सम्प्राप्ता गुणसम्पदम् आकृतिः ।
सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम् ।। किरातार्जुनीयम् - 11 - 11 ।।
शरदम्बुधरच्छाया गत्वर्यो यौवनश्रियः ।
आपातरम्या विषयाः पर्यन्तपरितापिनः ।। किरातार्जुनीयम् - 11 - 12 ।।
अन्तकः पर्यवस्थाता जन्मिनः सन्ततापदः ।
इति त्याज्ये भवे भव्यो मुक्तौ उत्तिष्ठते मनः ।। किरातार्जुनीयम् - 11 - 13 ।।
चित्तवानसि कल्याणी यत्त्वां मतिरुपस्थिता ।
विरुद्धः केवलं वेषः सन्देहयति मे मनः ।। किरातार्जुनीयम् - 11 - 14 ।।
युयुत्सुनेव कवचं किम् आमुक्तम् इदं त्वया ।
तपस्विनो हि वसते केवलाजिनवल्कले ।। किरातार्जुनीयम् - 11 - 15 ।।
प्रपित्सोः किं च ते मुक्तिं निःस्पृहस्य कलेवरे ।
महेषुधी धनुर्भीमं भूतानाम् अनभिद्रुहः ।। किरातार्जुनीयम् - 11 - 16 ।।
भयङ्करः प्राणभृतां मृत्योः भुज इवापरः ।
असिस्तव तपस्थस्य न समर्थयते शमम् ।। किरातार्जुनीयम् - 11 - 17 ।।
जयम् अत्रभवान्नूनम् अरातिष्वभिलाषुकः ।
क्रोधलक्ष्म क्षमावन्तः क्वायुधं क्व तपोधनाः ।। किरातार्जुनीयम् - 11 - 18 ।।
यः करोति वधोदर्का निःश्रेयसकरीः क्रियाः ।
ग्लानिदोषच्छिदः स्वच्छाः स मूढः पङ्कयत्यपः ।। किरातार्जुनीयम् - 11 - 19 ।।
मूलं दोषस्य हिंसादेरर्थकामौ स्म मा पुषः ।
तौ हि तत्त्वावबोधस्य दुरुच्छेदावुपप्लवौ ।। किरातार्जुनीयम् - 11 - 20 ।।
अभिद्रोहेण भूतानाम् अर्जयन्गत्वरीः श्रियः ।
उदन्वानिव सिन्धूनाम् आपदाम् एति पात्रताम् ।। किरातार्जुनीयम् - 11 - 21 ।।
या गम्याः सत्सहायानां यासु खेदो भयं यतः ।
तासां किं यन्न दुःखाय विपदाम् इव सम्पदाम् ।। किरातार्जुनीयम् - 11 - 22 ।।
दुरासदानरीनुग्रान्धृतेर्विश्वासजन्मनः ।
भोगान्भोगानिवाहेयानध्यास्यापन्न दुर्लभा ।। किरातार्जुनीयम् - 11 - 23 ।।
नान्तरज्ञाः श्रियो जातु प्रियैरासां न भूयते
आसक्तास्तास्वमी मूढा वामशीला हि जन्तवः ।। किरातार्जुनीयम् - 11 - 24 ।।
कोऽपवादः स्तुतिपदे यदशीलेषु चञ्चलाः ।
साधुवृत्तानपि क्षुद्रा विक्षिपन्ति इव सम्पदः ।। किरातार्जुनीयम् - 11 - 25 ।।
कृतवानन्यदेहेषु कर्ता च विधुरं मनः ।
अप्रियैरिव संयोगो विप्रयोगः प्रियैः सह ।। किरातार्जुनीयम् - 11 - 26 ।।
शून्यम् आकीर्णताम् एति तुल्यं व्यसनम् उत्सवैः ।
विप्रलम्भोऽपि लाभाय सति प्रियसमागमे ।। किरातार्जुनीयम् - 11 - 27 ।।
तदा रम्याण्यरम्याणि प्रियाः शल्यं तदासवः ।
तदैकाकी सबन्धुः सन्निष्टेन रहितो यदा ।। किरातार्जुनीयम् - 11 - 28 ।।
युक्तः प्रमाद्यसि हितादपेतः परितप्यसे
यदि नेष्टात्मनः पीडा मा सञ्जि भवता जने ।। किरातार्जुनीयम् - 11 - 29 ।।
जन्मिनोऽस्य स्थितिं विद्वांल्लक्ष्मीम् इव चलाचलाम् ।
भवान्मा स्म वधीन्न्याय्यं न्यायाधारा हि साधवः ।। किरातार्जुनीयम् - 11 - 30 ।।
विजहि इहि रणोत्साहं मा तपः साधि नीनशः ।
उच्छेदं जन्मनः कर्तुम् एधि शान्तस्तपोधन ।। किरातार्जुनीयम् - 11 - 31 ।।
जीयन्तां दुर्जया देहे रिपवश्चक्षुरादयः ।
जितेषु ननु लोकोऽयं तेषु कृत्स्नस्त्वया जितः ।। किरातार्जुनीयम् - 11 - 32 ।।
परवानर्थसंसिद्धौ नीचवृत्तिरपत्रपः ।
अविधेयेन्द्रियः पुंसां गौरिवैति विधेयताम् ।। किरातार्जुनीयम् - 11 - 33 ।।
श्वस्त्वया सुखसंवित्तिः स्मरणीयाधुनातनी ।
इति स्वप्नोपमान्मत्वा कामान्मा गास्तदङ्गताम् ।। किरातार्जुनीयम् - 11 - 34 ।।
श्रद्धेया विप्रलब्धारः प्रिया विप्रियकारिणः ।
सुदुस्त्यजास्त्यजन्तोऽपि कामाः कष्टा हि शत्रवः ।। किरातार्जुनीयम् - 11 - 35 ।।
विविक्तेऽस्मिन्नगे भूयः प्लाविते जह्नुकन्यया ।
प्रत्यासीदति मुक्तिस्त्वां पुरा मा भूरुदायुधः ।। किरातार्जुनीयम् - 11 - 36 ।।
व्याहृत्य मरुतां पत्याविति वाचम् अवस्थिते ।
वचः प्रश्रयगम्भीरम् अथ उवाच कपिध्वजः ।। किरातार्जुनीयम् - 11 - 37 ।।
प्रसादरम्यम् ओजस्वि गरीयो लाघवान्वितम् ।
साकाङ्क्षम् अनुपस्कारं विष्वग्गति निराकुलम् ।। किरातार्जुनीयम् - 11 - 38 ।।
न्यायनिर्णीतसारत्वान्निरपेक्षम् इवागमे ।
अप्रकम्प्यतयान्येषाम् आम्नायवचनोपमम् ।। किरातार्जुनीयम् - 11 - 39 ।।
अलङ्घ्यत्वाज्जनैरन्यैः क्षुभितोदन्वदूर्जितम् ।
औदार्यादर्थसम्पत्तेः शान्तं चित्तम् ऋषेरिव ।। किरातार्जुनीयम् - 11 - 40 ।।
इदम् ईदृग्गुणोपेतं लब्धावसरसाधनम् ।
व्याकुर्यात्कः प्रियं वाक्यं यो वक्ता नेदृगाशयः ।। किरातार्जुनीयम् - 11 - 41 ।।
न ज्ञातं तात यत्नस्य पौर्वापर्यम् अमुष्य ते ।
शासितुं येन मां धर्मं मुनिभिस्तुल्यम् इच्छसि ।। किरातार्जुनीयम् - 11 - 42 ।।
अविज्ञातप्रबन्धस्य वचो वाचस्पतेरिव ।
व्रजति अफलताम् एव नयद्रुह इवेहितम् ।। किरातार्जुनीयम् - 11 - 43 ।।
श्रेयसोऽप्यस्य ते तात वचसो न अस्मि भाजनम् ।
नभसः स्फुटतारस्य रात्रेरिव विपर्ययः ।। किरातार्जुनीयम् - 11 - 44 ।।
क्षत्रियस्तनयः पाण्डोरहं पार्थो धनञ्जयः ।
स्थितः प्रास्तस्य दायादैर्भ्रातुर्ज्येष्ठस्य शासने ।। किरातार्जुनीयम् - 11 - 45 ।।
कृष्णद्वैपायनादेशाद्बिभर्मि व्रतम् ईदृशम् ।
भृशम् आराधने यत्तः स्वाराध्यस्य मरुत्वतः ।। किरातार्जुनीयम् - 11 - 46 ।।
दुरक्षान्दीव्यता राज्ञा राज्यम् आत्मा वयं वधूः ।
नीतानि पणतां नूनम् ईदृशी भवितव्यता ।। किरातार्जुनीयम् - 11 - 47 ।।
तेनानुजसहायेन द्रौपद्या च मया विना ।
भृशम् आयामियामासु यामिनीषु अभितप्यते ।। किरातार्जुनीयम् - 11 - 48 ।।
हृतोत्तरीयां प्रसभं सभायाम् आगतह्रियः ।
मर्मच्छिदा नो वचसा निरतक्षन्नरातयः ।। किरातार्जुनीयम् - 11 - 49 ।।
उपाधत्त सपत्नेषु कृष्णाया गुरुसंनिधौ ।
भावम् आनयने सत्याः सत्यङ्कारम् इवान्तकः ।। किरातार्जुनीयम् - 11 - 50 ।।
ताम् ऐक्षन्त क्षणं सभ्या दुःशासनपुरःसराम् ।
अभिसायार्कम् आवृत्तां छायाम् इव महातरोः ।। किरातार्जुनीयम् - 11 - 51 ।।
अयथार्थक्रियारम्भैः पतिभिः किं तवेक्षितैः ।
अरुध्येताम् इतीवास्या नयने बाष्पवारिणे ।। किरातार्जुनीयम् - 11 - 52 ।।
सोढवान्नो दशाम् अन्त्यां ज्यायानेव गुणप्रियः ।
सुलभो हि द्विषां भङ्गो दुर्लभा सत्स्ववाच्यता ।। किरातार्जुनीयम् - 11 - 53 ।।
स्थित्यतिक्रान्तिभीरूणि स्वच्छान्याकुलितान्यपि ।
तोयानि तोयराशीनां मनांसि च मनस्विनाम् ।। किरातार्जुनीयम् - 11 - 54 ।।
धार्तराष्ट्रैः सह प्रीतिर्वैरम् अस्मासु असूयत
असन्मैत्री हि दोषाय कूलच्छायेव सेविता ।। किरातार्जुनीयम् - 11 - 55 ।।
अपवादादभीतस्य समस्य गुणदोषयोः ।
असद्वृत्तेरहोवृत्तं दुर्विभावं विधेरिव ।। किरातार्जुनीयम् - 11 - 56 ।।
ध्वंसेत हृदयं सद्यः परिभूतस्य मे परैः ।
यद्यमर्षः प्रतीकारं भुजालम्बं न लम्भयेत् ।। किरातार्जुनीयम् - 11 - 57 ।।
अवधूयारिभिर्नीता हरिणैस्तुल्यवृत्तिताम् ।
अन्योन्यस्यापि जिह्रीमः किं पुनः सहवासिनाम् ।। किरातार्जुनीयम् - 11 - 58 ।।
शक्तिवैकल्यनम्रस्य निःसारत्वाल्लघीयसः ।
जन्मिनो मानहिनस्य तृणस्य च समा गतिः ।। किरातार्जुनीयम् - 11 - 59 ।।
अलङ्घ्यं तत्तदुद्वीक्ष्य यद्यदुच्चैर्महीभृताम् ।
प्रियतां ज्यायसीं मा गान्महतां केन तुङ्गता ।। किरातार्जुनीयम् - 11 - 60 ।।
तावद् आश्रीयते लक्ष्म्या तावदस्य स्थिरं यशः ।
पुरुषस्तावदेवासौ यावन्मानान्न हीयते ।। किरातार्जुनीयम् - 11 - 61 ।।
स पुमानर्थवज्जन्मा यस्य नाम्नि पुरःस्थिते ।
नान्याम् अङ्गुलिम् अभ्येति सङ्ख्यायाम् उद्यताङ्गुलिः ।। किरातार्जुनीयम् - 11 - 62 ।।
दुरासदवनज्यायान्गम्यस्तुङ्गोऽपि भूधरः ।
जहाति महौजस्कं मानप्रांशुम् अलङ्घ्यता ।। किरातार्जुनीयम् - 11 - 63 ।।
गुरून कुर्वन्ति ते वंश्यानन्वर्था तैर्वसुन्धरा ।
येषां यशांसि शुभ्राणि ह्रेपयन्तीन्दुमण्डलम् ।। किरातार्जुनीयम् - 11 - 64 ।।
उदाहरणम् आशीःषु प्रथमे ते मनस्विनाम् ।
शुष्केऽशनिरिवामर्षो यैररातिषु पात्यते ।। किरातार्जुनीयम् - 11 - 65 ।।
न सुखं प्रार्थये नार्थम् उदन्वद्वीचिचञ्चलम् ।
नानित्यताशनेस्त्रस्यन्विविक्तं ब्रह्मणः पदम् ।। किरातार्जुनीयम् - 11 - 66 ।।
प्रमार्ष्टुं अयशःपङ्कम् इच्छेयं छद्मना कृतम् ।
वैधव्यतापितारातिवनितालोचनाम्बुभिः ।। किरातार्जुनीयम् - 11 - 67 ।।
अपहस्येऽथवा सद्भिः प्रमादो वास्तु मे धियः ।
अस्थानविहितायासः कामं जिह्रेतु वा भवान् ।। किरातार्जुनीयम् - 11 - 68 ।।
वंशलक्ष्मीम् अनुद्धृत्य समुच्छेदेन विद्विषाम् ।
निर्वाणम् अपि मन्ये अहम् अन्तरायं जयश्रियः ।। किरातार्जुनीयम् - 11 - 69 ।।
अजन्मा पुरुषस्तावद्गतासुस्तृणम् एव वा ।
यावन्नेषुभिः आदत्ते विलुप्तम् अरिभिर्यशः ।। किरातार्जुनीयम् - 11 - 70 ।।
अनिर्जयेन द्विषतां यस्यामर्षः प्रशाम्यति
पुरुषोक्तिः कथं तस्मिन्ब्रूहि त्वं हि तपोधन ।। किरातार्जुनीयम् - 11 - 71 ।।
कृतं पुरुषशब्देन जातिमात्रावलम्बिना ।
योऽङ्गीकृतगुणैः श्लाघ्यः सविस्मयम् उदाहृतः ।। किरातार्जुनीयम् - 11 - 72 ।।
ग्रसमानम् इवौजांसि सदसा गौरवेरितम् ।
नाम यस्य अभिनन्दन्ति द्विषोऽपि स पुमान्पुमान् ।। किरातार्जुनीयम् - 11 - 73 ।।
यथाप्रतिज्ञं द्विषतां युधि प्रतिचिकीर्षया ।
ममैव अध्येति नृपतिस्तृष्यन्निव जलाञ्जलेः ।। किरातार्जुनीयम् - 11 - 74 ।।
स वंशस्यावदातस्य शशाङ्कस्येव लाञ्छनम् ।
कृच्छ्रेषु व्यर्थया यत्र भूयते भर्तुराज्ञया ।। किरातार्जुनीयम् - 11 - 75 ।।
कथं वादीयताम् अर्वाङ्मुनिता धर्मरोधिनी ।
आश्रमानुक्रमः पूर्वैः स्मर्यते न व्यतिक्रमः ।। किरातार्जुनीयम् - 11 - 76 ।।
आसक्ता धूरियं रूढा जननी दूरगा च मे ।
तिरस्करोति स्वातन्त्र्यं ज्यायांश्चाचारवान्नृपः ।। किरातार्जुनीयम् - 11 - 77 ।।
स्वधर्मम् अनुरुन्धन्ते नातिक्रमम् अरातिभिः ।
पलायन्ते कृतध्वंसा नाहवान्मानशालिनः ।। किरातार्जुनीयम् - 11 - 78 ।।
विच्छिन्नाभ्रविलायं वा विलीये नगमूर्धनि ।
आराध्य वा सहस्राक्षम् अयशःशल्यम् उद्धरे ।। किरातार्जुनीयम् - 11 - 79 ।।
इत्युक्तवन्तं परिरभ्य दोर्भ्यां तनूजम् आविष्कृतदिव्यमूर्तिः ।
अघोपघातं मघवा विभूत्यै भवोद्भवाराधनम् आदिदेश ।। किरातार्जुनीयम् - 11 - 80 ।।
प्रीते पिनाकिनि मया सह लोकपालैर्लोकत्रयेऽपि विहिताप्रतिवार्यवीर्यः ।
लक्ष्मीं समुत्सुकयितासि भृशं परेषाम् उच्चार्य वाचम् इति तेन तिरोबभूवे ।। किरातार्जुनीयम् - 11 - 81 ।।


।। इति किरातार्जुनीयमहाकाव्ये एकादशसर्गः ।।

द्वादशसर्गः

अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम् ।
क्लान्तिरहितम् अभिराधयितुं विधिवत्तपांसि विदधे धनञ्जयः ।। किरातार्जुनीयम् - 12 - 1 ।।
अभिरश्मिमालि विमलस्य धृतजयधृतेरनाशुषः ।
तस्य भुवि बहुतिथास्तिथयः प्रतिजग्मुः एकचरणं निषीदतः ।। किरातार्जुनीयम् - 12 - 2 ।।
वपुरिन्द्रियोपतपनेषु सततम् असुखेषु पाण्डवः ।
व्याप नगपतिरिव स्थिरतां महतां हि धैर्यम् अविभाव्यवैभवम् ।। किरातार्जुनीयम् - 12 - 3 ।।
पपात संनिहितपक्तिसुरभिषु फलेषु मानसम् ।
तस्य शुचिनि शिशिरे च पयस्यमृतायते हि सुतपः सुकर्मणाम् ।। किरातार्जुनीयम् - 12 - 4 ।।
न विसिस्मिये न विषसाद मुहुरलसतां नु च आददे
सत्त्वम् उरुधृति रजस्तमसी न हतः स्म तस्य हतशक्तिपेलवे ।। किरातार्जुनीयम् - 12 - 5 ।।
तपसा कृशं वपुरुवाह स विजितजगत्त्रयोदयम् ।
त्रासजननम् अपि तत्त्वविदां किम् इव अस्ति यन्न सुकरं मनस्विभिः ।। किरातार्जुनीयम् - 12 - 6 ।।
ज्वलतोऽनलादनुनिशीथम् अधिकरुचिरम्भसां निधेः ।
धैर्यगुणम् अवजयन्विजयी ददृशे समुन्नततरः स शैलतः ।। किरातार्जुनीयम् - 12 - 7 ।।
जपतः सदा जपम् उपांशु वदनम् अभितो विसारिभिः ।
तस्य दशनकिरणैः शुशुभे परिवेषभीषणम् इवार्कमण्डलम् ।। किरातार्जुनीयम् - 12 - 8 ।।
कवचं स बिभ्रदुपवीतपदनिहितसज्यकार्मुकः ।
शैलपतिरिव महेन्द्रधनुःपरिवीतभीमगहनो विदिद्युते ।। किरातार्जुनीयम् - 12 - 9 ।।
प्रविवेश गाम् इव कृशस्य नियमसवनाय गच्छतः
तस्य पदविनमितो हिमवान्गुरुतां नयन्ति हि गुणा न संहतिः ।। किरातार्जुनीयम् - 12 - 10 ।।
परिकीर्णम् उद्यतभुजस्य भुवनविवरे दुरासदम् ।
ज्योतिरुपरि शिरसो विततं जगृहे निजान्मुनिदिवौकसां पथः ।। किरातार्जुनीयम् - 12 - 11 ।।
रजनीषु राजतनयस्य बहुलसमयेऽपि धामभिः ।
भिन्नतिमिरनिकरं न जहे शशिरश्मिसङ्गमयुजा नभः श्रिया ।। किरातार्जुनीयम् - 12 - 12 ।।
महता मयूखनिचयेन शमितरुचि जिष्णुजन्मना ।
ह्रीतम् इव नभसि वीतमले न विराजते स्म वपुरंशुमालिनः ।। किरातार्जुनीयम् - 12 - 13 ।।
तं उदीरितारुणजटांशुम् अधिगुणशरासनं जनाः ।
रुद्रम् अनुदितललाटदृशं ददृशुर्मिमन्थिषुम् इवासुरीः पुरीः ।। किरातार्जुनीयम् - 12 - 14 ।।
मरुतां पतिः स्विदहिमांशुरुत पृथुशिखः शिखी तपः ।
तप्तुम् असुकरम् उपक्रमते न जनोऽयम् इत्यवयये स तापसैः ।। किरातार्जुनीयम् - 12 - 15 ।।
ददाह भूरुहवनानि हरितनयधाम दूरगम् ।
न स्म नयति परिशोषम् अपः सुसहं बभूव न च सिद्धतापसैः ।। किरातार्जुनीयम् - 12 - 16 ।।
विनयं गुणा इव विवेकम् अपनयभिदं नया इव ।
न्यायम् अवधय इवाशरणाः शरणं ययुः शिवम् अथो महर्षयः ।। किरातार्जुनीयम् - 12 - 17 ।।
परिवीतम् अंशुभिरुदस्तदिनकरमयूखमण्डलैः ।
शम्भुम् उपहतदृशः सहसा न च ते निचायितुम् अभिप्रसेहिरे ।। किरातार्जुनीयम् - 12 - 18 ।।
अथ भूतभव्यभवदीशम् अभिमुखयितुं कृतस्तवाः ।
तत्र महसि ददृशुः पुरुषं कमनीयविग्रहम् अयुग्मलोचनम् ।। किरातार्जुनीयम् - 12 - 19 ।।
ककुदे वृषस्य कृतबाहुम् अकृशपरिणाहशालिनि ।
स्पर्शसुखम् अनुभवन्तम् उमाकुचयुग्ममण्डल इवार्द्रचन्दने ।। किरातार्जुनीयम् - 12 - 20 ।।
स्थितम् उन्नते तुहिनशैलशिरसि भुवनातिवर्तिना ।
साद्रिजलधिजलवाहपथं सदिगश्नुवानम् इव विश्वम् ओजसा ।। किरातार्जुनीयम् - 12 - 21 ।।
अनुजानुमध्यमवसक्तविततवपुषा महाहिना ।
लोकम् अखिलम् इव भूमिभृता रवितेजसाम् अवधिनाधिवेष्टितम् ।। किरातार्जुनीयम् - 12 - 22 ।।
परिणाहिना तुहिनराशिविशदम् उपवीतसूत्रताम् ।
नीतम् उरगम् अनुरञ्जयता शितिना गलेन विलसन्मरीचिना ।। किरातार्जुनीयम् - 12 - 23 ।।
प्लुतमालतीसितकपालकमुदम् उपरुद्धमूर्धजम् ।
शेषम् इव सुरसरित्पयसां शिरसा विसारि शशिधाम बिभ्रतम् ।। किरातार्जुनीयम् - 12 - 24 ।।
मुनयस्ततोऽभिमुखम् एत्य नयनविनिमेषनोदिताः ।
पाण्डुतनयतपसा जनितं जगताम् अशर्म भृशम् आचचक्षिरे ।। किरातार्जुनीयम् - 12 - 25 ।।
तरसैव कोऽपि भुवनैकपुरुष पुरुषस्तपस्यति ।
ज्योतिरमलवपुषोऽपि रवेरभिभूय वृत्र इव भीमविग्रहः ।। किरातार्जुनीयम् - 12 - 26 ।।
स धनुर्महेषुधि निभर्ति कवचम् असितम् उत्तमं जटाः ।
वल्कम् अजिनम् इति चित्रम् इदं मुनिताविरोधि न च नास्य राजते ।। किरातार्जुनीयम् - 12 - 27 ।।
चलने अवनिश्चलति तस्य करणनियमे सदिङ्मुखम् ।
स्तम्भम् अनुभवति शान्तमरुद्ग्रहतारकागणयुतं नभस्तलम् ।। किरातार्जुनीयम् - 12 - 28 ।।
स तदोजसा विजितसारम् अमरदितिजोपसंहितम् ।
विश्वम् इदम् अपिदधाति पुरा किम् इवास्ति यन्न तपसाम् अदुष्करम् ।। किरातार्जुनीयम् - 12 - 29 ।।
विजिगीषते यदि जगन्ति युगपदथ सञ्जिहीर्षति ।
प्राप्तुम् अभवम् अभिवाञ्छति वा वयम् अस्य नो विषहितुं क्षमा रुचः ।। किरातार्जुनीयम् - 12 - 30 ।।
किं उपेक्षसे कथय नाथ न तव विदितं न किञ्चन ।
त्रातुम् अलम् अभयद अर्हसि नस्त्वयि मा स्म शासति भवत्पराभवः ।। किरातार्जुनीयम् - 12 - 31 ।।
इति गां विधाय विरतेषु मुनिषु वचनं समाददे
भिन्नजलधिजलनादगुरु ध्वनयन्दिशां विवरम् अन्धकान्तकः ।। किरातार्जुनीयम् - 12 - 32 ।।
बदरीतपोवननिवासनिरतम् अवगात मान्यथा ।
धातुरुदयनिधने जगतां नरम् अंशम् आदिपुरुषस्य गां गतम् ।। किरातार्जुनीयम् - 12 - 33 ।।
द्विषतः परासिसिषुरेष सकलभुवनाभितापिनः ।
क्रान्तकुलिशकरवीर्यबलान्मदुपासनं विहितवान्महत्तपः ।। किरातार्जुनीयम् - 12 - 34 ।।
अयम् अच्युतश्च वचनेन सरसिरुहजन्मनः प्रजाः ।
पातुम् असुरनिधनेन विभू भुवम् अभ्युपेत्य मनुजेषु तिष्ठतः ।। किरातार्जुनीयम् - 12 - 35 ।।
सुरकृत्यम् एतदवगम्य निपुणम् इति मूकदानवः ।
हन्तुम् अभिपतति पाण्डुसुतं त्वरया तदत्र सह गम्यतां मया ।। किरातार्जुनीयम् - 12 - 36 ।।
विवरे अपि नैनम् अनिगूढम् अभिभवितुम् एष पारयन् ।
पापनिरतिरविशङ्कितया विजयं व्यवस्यति वराहमायया ।। किरातार्जुनीयम् - 12 - 37 ।।
निहते विडम्बितकिरातनृपतिवपुषा रिपौ मया ।
मुक्तनिशितविशिखः प्रसभं मृगयाविवादम् अयम् आचरिष्यति ।। किरातार्जुनीयम् - 12 - 38 ।।
तपसा निपीडितकृशस्य विरहितसहायसम्पदः ।
सत्त्वविहितम् अतुलं भुजयोर्बलम् अस्य पश्यत मृधे अधिकुप्यतः ।। किरातार्जुनीयम् - 12 - 39 ।।
इति तानुदारम् अनुनीय विषमहरिचन्दनालिना ।
घर्मजनितपुलकेन लसद्गजमौक्तिकावलिगुणेन वक्षसा ।। किरातार्जुनीयम् - 12 - 40 ।।
वदनेन पुष्पितलतान्तनियमितविलम्बितमौलिना ।
बिभ्रदरुणनयनेन रुचं शिखिपिच्छलाञ्छितकपोलभित्तिना ।। किरातार्जुनीयम् - 12 - 41 ।।
बृहदुद्वहञ्जलदनादि धनुरुपहितैकमार्गणम् ।
मेघनिचय इव संववृते रुचिरः किरातपृतनापतिः शिवः ।। किरातार्जुनीयम् - 12 - 42 ।।
अनुकूलम् अस्य च विचिन्त्य गणपतिभिरात्तविग्रहैः ।
शूलपरशुशरचापभृतैर्महती वनेचरचमूः विनिर्ममे ।। किरातार्जुनीयम् - 12 - 43 ।।
विरचय्य काननविभागम् अनुगिरम् अथेश्वराज्ञया ।
भीमनिनदपिहितोरुभुवः परितोऽपदिश्य मृगयां प्रतस्थिरे ।। किरातार्जुनीयम् - 12 - 44 ।।
क्षुभिताभिनिःसृतविभिन्नशकुनिमृगयूथनिःस्वनैः ।
पूर्णपृथुवनगुहाविवरः सहसा भयादिव ररास भूधरः ।। किरातार्जुनीयम् - 12 - 45 ।।
न विरोधिनी रुषम् इयाय पथि मृगविहङ्गसंहतिः ।
घ्नन्ति सहजम् अपि भूरिभियः समम् आगताः सपदि वैरम् आपदः ।। किरातार्जुनीयम् - 12 - 46 ।।
चमरीगणैर्गणबलस्य बलवति भयेऽप्युपस्थिते ।
वंशविततिषु विषक्तपृथुप्रियबालवालधिभिः आददे धृतिः ।। किरातार्जुनीयम् - 12 - 47 ।।
हरसैनिकाः प्रतिभयेऽपि गजमदसुगन्धिकेसरैः ।
स्वस्थम् अभिददृशिरे सहसा प्रतिबोधजृम्भमुखैर्मृगाधिपैः ।। किरातार्जुनीयम् - 12 - 48 ।।
बिभराम् बभूवुः अपवृत्तजठरशफरीकुलाकुलाः ।
पङ्कविषमिततटाः सरितः करिरुग्णचन्दनरसारुणं पयः ।। किरातार्जुनीयम् - 12 - 49 ।।
महिषक्षतागुरुतमालनलदसुरभिः सदागतिः ।
व्यस्तशुकनिभशिलाकुसुमः प्रणुदन्ववौ वनसदां परिश्रमम् ।। किरातार्जुनीयम् - 12 - 50 ।।
मथिताम्भसो रयविकीर्णमृदितकदलीगवेधुकाः ।
क्लान्तजलरुहलताः सरसीः विदधे निदाघ इव सत्त्वसम्प्लवः ।। किरातार्जुनीयम् - 12 - 51 ।।
इति चालयन्नचलसानुवनगहनजानुमापतिः ।
प्राप मुदितहरिणीदशनक्षतवीरुधं वसतिम् ऐन्द्रसूनवीम् ।। किरातार्जुनीयम् - 12 - 52 ।।
स तम् आससाद घननीलम् अभिमुखम् उपस्थितं मुनेः ।
पित्रनिकषणविभिन्नभुवं दनुजं दधानम् अथ सौकरं वपुः ।। किरातार्जुनीयम् - 12 - 53 ।।
कच्छान्ते सुरसरितो निधाय सेनाम् अन्वतिः सकतिपयैः किरातवर्यैः ।
प्रच्छन्नस्तरुगहनैः सगुल्मजालैर्लक्ष्मीवाननुपदम् अस्य सम्प्रतस्थे ।। किरातार्जुनीयम् - 12 - 54 ।।


।। इति किरातार्जुनीयमहाकाव्ये द्वादशसर्गः ।।

त्रयोदशसर्गः

वपुषां परमेण भूधराणाम् अथ सम्भाव्यपराक्रमं विभेदे ।
मृगम् आशु विलोकयांचकार स्थिरदंष्ट्रोग्रमुखं महेन्द्रसूनुः ।। किरातार्जुनीयम् - 13 - 1 ।।
स्फुटबद्धसटोन्नतिः स दूरादभिधावन्नवधीरितान्यकृत्यः ।
जयम् इच्छति तस्य जातशङ्के मनसीमं मुहुः आददे वितर्कम् ।। किरातार्जुनीयम् - 13 - 2 ।।
घनपोत्रविदीर्णशालमूलो निबिडस्कन्धनिकाषरुग्णवप्रः ।
अयं एकचरः अभिवर्तते मां समरायेव समाजुहूषमाणः ।। किरातार्जुनीयम् - 13 - 3 ।।
इह वीतभयास्तपोनुभावात् जहति व्यालमृगाः परेषु वृत्तिम् ।
मयि तां सुतराम् अयं विधत्ते विकृतिः किं नु भवेदियं नु माया ।। किरातार्जुनीयम् - 13 - 4 ।।
अथवैष कृतज्ञयेव पूर्वं भृशम् आसेवितया रुषा न मुक्तः ।
अवधूय विरोधिनीः किम् आरान्मृगजाति अभियाति मां जवेन ।। किरातार्जुनीयम् - 13 - 5 ।।
न मृगः खलु कोऽप्ययं जिघांसुः स्खलति ह्यत्र तथा भृशं मनो मे ।
विमलं कलुषीभवच्च चेतः कथयति एव हितैषिणं रिपुं वा ।। किरातार्जुनीयम् - 13 - 6 ।।
मुनिः अस्मि निरागसः कुतो मे भयम् इत्येष न भूतयेऽभिमानः ।
परवृद्धिषु बद्धमत्सराणां किम् इव हि अस्ति दुरात्मनाम् अलङ्घ्यम् ।। किरातार्जुनीयम् - 13 - 7 ।।
दनुजः स्विदयं क्षपाचरो वा वनजे नेति बलं बत् अस्ति सत्त्वे ।
अभिभूय तथा हि मेघनीलः सकलं कम्पयति इव शैलराजम् ।। किरातार्जुनीयम् - 13 - 8 ।।
अयं एव मृगव्यसत्त्रकामः प्रहरिष्यन्मयि मायया शमस्थे ।
पृथुभिर्ध्वजिनीस्रवैः अकार्षीत् चकितोद्भ्रान्तमृगाणि काननानि ।। किरातार्जुनीयम् - 13 - 9 ।।
बहुशः कृतसत्कृतेर्विधातुं प्रियम् इच्छन्नथवा सुयोधनस्य ।
क्षुभितं वनगोचराभियोगाद्गणम् आशिश्रियदाकुलं तिरश्चाम् ।। किरातार्जुनीयम् - 13 - 10 ।।
अवलीढसनाभिरश्वसेनः प्रसभं खाण्डवजातवेदसा वा ।
प्रतिकर्तुम् उपागतः समन्युः कृतमन्युर्यदि वा वृकोदरेण ।। किरातार्जुनीयम् - 13 - 11 ।।
बलशालितया यथा तथा वा धियम् उच्छेदपरामयं दधानः ।
नियमेन मया निबर्हणीयः परमं लाभम् अरातिभङ्गम् आहुः ।। किरातार्जुनीयम् - 13 - 12 ।।
कुरु तात तपांस्यमार्गदायी विजयायेत्यलम् अन्वशान्मुनिर्माम् ।
बलिनश्च वधादृतेऽस्य शक्यं व्रसंरक्षणम् अन्यथा न कर्तुम् ।। किरातार्जुनीयम् - 13 - 13 ।।
इति तेन विचिन्त्य चापनाम प्रथमं पौरुषचिह्नम् आललम्बे
उपलब्धगुणः परस्य भेदे सचिवः शुद्ध इव आददे च बाणः ।। किरातार्जुनीयम् - 13 - 14 ।।
अनुभाववता गुरु स्थिरत्वादविसंवादि धनुर्धनञ्जयेन ।
स्वबलव्यसनेऽपि पीड्यमानं गुणवन्मित्रम् इवानतिं प्रपेदे ।। किरातार्जुनीयम् - 13 - 15 ।।
प्रविकर्षनिनादभिन्नरन्ध्रः पदविष्टम्भनिपीडितस्तदानीम् ।
अधिरोहति गाण्डिवं महेषौ सकलः संशयम् आरुरोह शैलः ।। किरातार्जुनीयम् - 13 - 16 ।।
ददृशे अथ सविस्मयं शिवेन स्थिरपूर्णायतचापमण्डलस्थः ।
रचितस्तिसृणां पुरां विधातुं वधम् आत्मेव भयानकः परेषाम् ।। किरातार्जुनीयम् - 13 - 17 ।।
विचकर्ष च संहितेषुरुच्चैश्चरणास्कन्दननामिताचलेन्द्रः ।
धनुरायतभोगवासुकिज्यावदनग्रन्थिविमुक्तवह्नि शम्भुः ।। किरातार्जुनीयम् - 13 - 18 ।।
स भवस्य भवक्षयैकहेतोः सितसप्तेश्च विधास्यतोः सहार्थम् ।
रिपुः आप पराभवाय मध्यं प्रकृतिप्रत्यययोरिवानुबन्धः ।। किरातार्जुनीयम् - 13 - 19 ।।
अथ दीपितवारिवाहवर्त्मा रववित्रासितवारणादवार्यः ।
निपपात जवादिषु पिनाकान्महतोऽभ्रादिव वैद्युतः कृशानुः ।। किरातार्जुनीयम् - 13 - 20 ।।
व्रजतोऽस्य बृहत्पतत्त्रजन्मा कृततार्क्ष्योपनिपातवेगशङ्कः ।
प्रतिनादमहान्महोरगाणां हृदयश्रोत्रभित् उत्पपात नादः ।। किरातार्जुनीयम् - 13 - 21 ।।
नयनादिव शूलिनः प्रवृत्तैर्मनसोऽप्याशुतरं यतः पिशङ्गैः ।
विदधे विलसत्तडिल्लताभैः किरणैर्व्योमनि मार्गणस्य मार्गः ।। किरातार्जुनीयम् - 13 - 22 ।।
अपयन्धनुषः शिवान्तिकस्थैर्विवरेसद्भिरभिख्यया जिहानः ।
युगपत् ददृशे विशन्वराहं तदुपोढैश्च नभश्चरैः पृषत्कः ।। किरातार्जुनीयम् - 13 - 23 ।।
स तमालनिभे रिपौ सुराणां घननीहार इवाविषक्तवेगः ।
भयविप्लुतम् ईक्षितो नभःस्थैर्जगतीं ग्राह इवापगां जगाहे ।। किरातार्जुनीयम् - 13 - 24 ।।
सपदि प्रियरूपपर्वरेखः सितलोहाग्रनखः खम् आससाद
कुपितान्तकतर्जनाङ्गुलिश्रीर्व्यथयन्प्राणभृतः कपिध्वजेषु ।। किरातार्जुनीयम् - 13 - 25 ।।
परमास्त्रपरिग्रहोरुतेजः स्फुरदुल्काकृति विक्षिपन्वनेषु ।
स जवेन पतन्परःशतानां पततां व्रात इवारवं वितेने ।। किरातार्जुनीयम् - 13 - 26 ।।
अविभावितनिष्क्रमप्रयाणः शमितायाम इवातिरंहसा सः ।
सह पूर्वतरं नु चित्तवृत्तेरपतित्वा नु चकार लक्ष्यभेदम् ।। किरातार्जुनीयम् - 13 - 27 ।।
स वृषध्वजसायकावभिन्नं जयहेतुः प्रतिकायम् एषणीयम् ।
लघु साधयितुं शरः प्रसेहे विधिनेवार्थम् उदीरितं प्रयत्नः ।। किरातार्जुनीयम् - 13 - 28 ।।
अविवेकवृथाश्रमाविवार्थं क्षयलोभाविव संश्रितानुरागम् ।
विजिगीषुमिवानयप्रमादाववसादं विशिखौ विनिन्यतुस्तम् ।। किरातार्जुनीयम् - 13 - 29 ।।
अथ दीर्घतमं तमः प्रवेक्ष्यन्सहसा रुग्ण्रयः स सम्भ्रमेण ।
निपतन्तम् इवोष्णरश्मिम् उर्व्यां वलयीभूततरुं धरां च मेने ।। किरातार्जुनीयम् - 13 - 30 ।।
स गतः क्षितिं उष्णशोणितार्द्रः खुरदंष्ट्राग्रनिपातदारिताश्मा ।
असुभिः क्षणम् ईक्षितेन्द्रसूनिर्विहितामर्षगुरुध्वनिर्निरासे ।। किरातार्जुनीयम् - 13 - 31 ।।
स्फुटपौरुषम् आपपात पार्थस्तम् अथ प्राज्यशरः शरं जिघृक्षुः ।
न तथा कृतवेदिनां करिष्यन्प्रियताम् एति यथा कृतावदानः ।। किरातार्जुनीयम् - 13 - 32 ।।
उपकार इव असति प्रयुक्तः स्थितिम् अप्राप्य मृगे गतः प्रणाशम् ।
कृतशक्तिरवाङ्मुखो गुरुत्वाज्जनितव्रीड इवात्मपौरुषेण ।। किरातार्जुनीयम् - 13 - 33 ।।
स समुद्धरता विचिन्त्य तेन स्वरुचं कीर्तिम् इवोत्तमां दधानः ।
अनुयुक्त इव स्ववार्तं उच्चैः परिरेभे नु भृशं विलोचनाभ्याम् ।। किरातार्जुनीयम् - 13 - 34 ।।
तत्र कार्मुकभृतं महाभुजः पश्यति स्म सहसा वनेचरम् ।
संनिकाशयितुम् अग्रतः स्थितं शासनं कुसुमचापविद्विषः ।। किरातार्जुनीयम् - 13 - 35 ।।
स प्रयुज्य तनये महीपतेरात्मजातिसदृशीं किलानतिम् ।
सान्त्वपूर्वम् अभिनीतिहेतुकं वक्तुम् इत्थम् उपचक्रमे वचः ।। किरातार्जुनीयम् - 13 - 36 ।।
शान्तता विनययोगि मानसं भूरिधाम विमलं तपः श्रुतम् ।
प्राह ते नु सदृशी दिवौकसाम् अन्ववायम् अवदातम् आकृतिः ।। किरातार्जुनीयम् - 13 - 37 ।।
दीपितस्त्वम् अनुभावसम्पदा गौरवेण लघयन्महीभृतः ।
राजसे मुनिरपीह कारयन्नाधिपत्यम् इव शातमन्यवम् ।। किरातार्जुनीयम् - 13 - 38 ।।
तापसोऽपि विभुताम् उपेयिवानास्पदं त्वम् असि सर्वसम्पदाम् ।
दृश्यते हि भवतो विना जनैरन्वितस्य सचिवैरिव द्युतिः ।। किरातार्जुनीयम् - 13 - 39 ।।
विस्मयः क इव वा जयश्रिया नैव मुक्तिरपि ते दवीयसी ।
ईप्सितस्य न भवेदुपाश्रयः कस्य निर्जितरजस्तमोगुणः ।। किरातार्जुनीयम् - 13 - 40 ।।
ह्रेपयन्नहिमतेजसं त्विषा स त्वम् इत्थम् उपपन्नपौरुषः ।
हर्तुम् अर्हसि वराहभेदिनं नैनम् अस्मदधिपस्य सायकम् ।। किरातार्जुनीयम् - 13 - 41 ।।
स्मर्यते तनुभृतां सनातनं न्याय्यम् आचरितम् उत्तमैर्नृभिः ।
ध्वंसते यदि भवादृशस्ततः कः प्रयातु वद तेन वर्त्मना ।। किरातार्जुनीयम् - 13 - 42 ।।
आकुमारम् उपदेष्टुम् इच्छवः संनिवृत्तिम् अपथान्महापदः ।
योगशक्तिजितजन्ममृत्यवः शीलयन्ति यतयः सुशीलताम् ।। किरातार्जुनीयम् - 13 - 43 ।।
तिष्ठतां तपसि पुण्यम् आसजन्सम्पदोऽनुगुणयन्सुखैषिणाम् ।
योगिनां परिणमन्विमुक्तये केन नास्तु विनयः सतां प्रियः ।। किरातार्जुनीयम् - 13 - 44 ।।
नूनम् अत्रभवतः शराकृतिं सर्वथायम् अनुयाति सायकः ।
सोऽयम् इत्यनुपपन्नसंशयः कारितस्त्वम् अपथे पदं यया ।। किरातार्जुनीयम् - 13 - 45 ।।
अन्यदीयविशिखे न केवलं निःस्पृहस्य भवितव्यम् आहृते ।
निघ्नतः परनिबर्हितं मृगं व्रीडितव्यम् अपि ते सचेतसः ।। किरातार्जुनीयम् - 13 - 46 ।।
संततं निशमयन्त उत्सुका यैः प्रयान्ति मुदम् अस्य सूरयः ।
कीर्तितानि हसितेऽपि तानि यं व्रीडयन्ति चरितानि मानिनम् ।। किरातार्जुनीयम् - 13 - 47 ।।
अन्यदोषम् इव सः स्वकं गुणं ख्यापयेत्कथम् अधृष्टताजडः ।
उच्यते स खलु कार्यवत्तया धिग्विभिन्नबुधसेतुम् अर्थिताम् ।। किरातार्जुनीयम् - 13 - 48 ।।
दुर्वचं तदथ मा स्म भूत् मृगस्त्वावसौ यदकरिष्यदोजसा ।
नैनम् आशु यदि वाहिनीपतिः प्रत्यपत्स्यत शितेन पत्त्रिणा ।। किरातार्जुनीयम् - 13 - 49 ।।
को न्विमं हरितुरङ्गम् आयुधस्थेयसीं दधतम् अङ्गसंहतिम् ।
वेगवत्तरमृते चमूपतेर्हन्तुम् अर्हति शरेण दंष्ट्रिणम् ।। किरातार्जुनीयम् - 13 - 50 ।।
मित्रम् इष्टम् उपकारि संशये मेदिनीपतिरयं तथा च ते ।
तं विरोध्य भवता निरासि मा सज्जनैकवसतिः कृतज्ञता ।। किरातार्जुनीयम् - 13 - 51 ।।
लभ्यम् एकसुकृतेन दुर्लभा रक्षितारम् असुरक्ष्यभूतयः ।
स्वन्तम् अन्तविरसा जिगीषतां मित्रलाभम् अनु लाभसम्पदः ।। किरातार्जुनीयम् - 13 - 52 ।।
चञ्चलं वसु नितान्तम् उन्नता मेदिनीम् अपि हरन्ति अरातयः ।
भूधरस्थिरम् उपेयम् आगतं मावमंस्त सुहृदं महीपतिम् ।। किरातार्जुनीयम् - 13 - 53 ।।
जेतुम् एव भवता तपस्यते नायुधानि दधते मुमुक्षवः ।
प्राप्स्यते च सकलं महीभृता सङ्गतेन तपसः फलं त्वया ।। किरातार्जुनीयम् - 13 - 54 ।।
वाजिभूमिरिभराजकाननं सन्ति रत्ननिचयाश्च भूरिशः ।
काञ्चनेन किम् इवास्य पत्त्रिणा केवलं न सहते विलङ्घनम् ।। किरातार्जुनीयम् - 13 - 55 ।।
सावलेपम् उपलिप्सते परैरभ्युपैति विकृतिं रजस्यपि ।
अर्थितस्तु न महान् समीहते जीवितं किमु धनं धनायितुम् ।। किरातार्जुनीयम् - 13 - 56 ।।
तत्तदीयविशिखातिसर्जनादस्तु वां गुरु यदृच्छयागतम् ।
राघवप्लवगराजयोरिव प्रेम युक्तम् इतरेतराश्रयम् ।। किरातार्जुनीयम् - 13 - 57 ।।
नाभियोक्तुम् अनृतं त्वम् इष्यते कस्तपस्विविशिखेषु चादरः ।
सन्ति भूभृति शरा हि नः परे ये पराक्रमवसूनि वज्रिणः ।। किरातार्जुनीयम् - 13 - 58 ।।
मार्गणैरथ तव प्रयोजनं नाथसे किमु पतिं न भूभृतः ।
त्वद्विधं सुहृदम् एत्य स अर्थिनं किं न यच्छति विजित्य मेदिनीम् ।। किरातार्जुनीयम् - 13 - 59 ।।
तेन सूरिरुपकारिताधनः कर्तुम् इच्छति न याचितं वृथा ।
सीदताम् अनुभवन्निवार्थिनां वेद यत्प्रणयभङ्गवेदनाम् ।। किरातार्जुनीयम् - 13 - 60 ।।
शक्तिरर्थपतिषु स्वयङ्ग्रहं प्रेम कारयति वा निरत्ययम् ।
कारणद्वयम् इदं निरस्यतः प्रार्थनाधिकबले विपत्फला ।। किरातार्जुनीयम् - 13 - 61 ।।
अस्त्रवेदम् अधिगम्य तत्त्वतः कस्य चेह भुजवीर्यशालिनः ।
जामदग्न्यम् अपहाय गीयते तापसेषु चरितार्थम् आयुधम् ।। किरातार्जुनीयम् - 13 - 62 ।।
अभ्यघानि मुनिचापलात्त्वया यन्मृगः क्षितिपतेः परिग्रहः ।
अक्षमिष्ट तदयं प्रमाद्यतां संवृणोति खलु दोषम् अज्ञता ।। किरातार्जुनीयम् - 13 - 63 ।।
जन्मवेषतपसां विरोधिनीं मा कृथाः पुनरमूम् अपक्रियाम् ।
आपदेत्युभयलोकदूषणी वर्तमानम् अपथे हि दुर्मतिम् ।। किरातार्जुनीयम् - 13 - 64 ।।
यष्टुम् इच्छसि पित्रून्न साम्प्रतं संवृतोऽर्चिचयिषुर्दिवौकसः ।
दातुम् एव पदवीम् अपि क्षमः किं मृगेऽङ्ग विशिखं न्यवीविशः ।। किरातार्जुनीयम् - 13 - 65 ।।
सज्जनोऽसि विजहि इहि चापलं सर्वदा क इव वा सहिष्यते
वारिधीनिव युगान्तवायवः क्षोभयन्ति अनिभृता गुरूनपि ।। किरातार्जुनीयम् - 13 - 66 ।।
अस्त्रवेदविदयं महीपतिः पर्वतीय इति मावजीगणः ।
गोपितुं भुवम् इमां मरुत्वता शैलवासम् अनुनीय लम्भितः ।। किरातार्जुनीयम् - 13 - 67 ।।
तत्तितिक्षितम् इदं मया मुनेरिति अवोचत वचश्चमूपतिः ।
बाणम् अत्रभवते निजं दिशन्नाप्नुहि त्वम् अपि सर्वसम्पदः ।। किरातार्जुनीयम् - 13 - 68 ।।
आत्मनीनम् उपतिष्ठते गुणाः सम्भवन्ति विरमन्ति चापदः ।
इत्यनेकफलभाजि मा स्म भूत् अर्थिता कथम् इवार्यसङ्गमे ।। किरातार्जुनीयम् - 13 - 69 ।।
दृश्यताम् अयम् अनोकहान्तरे तिग्महेतिपृतनाभिरन्वितः ।
साहिवीचिरिव सिन्धुरुद्धतो भूपतिः समयसेतुवारितः ।। किरातार्जुनीयम् - 13 - 70 ।।
सज्यं धनुः वहति योऽहिपतिस्थवीयः स्थेयाञ्जयन्हरितुरङ्गमकेतुलक्ष्मीम् ।
अस्यानुकूलय मतिं मतिमन्ननेन सख्या सुखं समभियास्यसि चिन्तितानि ।। किरातार्जुनीयम् - 13 - 71 ।।


।। इति किरातार्जुनीयमहाकाव्ये त्रयोदशसर्गः ।।

चतुर्दशसर्गः

ततः किरातस्य वचोभिरुद्धतैः पराहतः शैल इवार्णवाम्बुभिः ।
जहौ न धैर्यं कुपितोऽपि पाण्डवः सुदुर्ग्रहान्तःकरणा हि साधवः ।। किरातार्जुनीयम् - 14 - 1 ।।
सलेशम् उल्लिङ्गितशात्रवेङ्गितः कृती गिरां विस्तरतत्त्वसङ्ग्रहे ।
अयं प्रमाणीकृतकालसाधनः प्रशान्तसंरम्भ इव आददे वचः ।। किरातार्जुनीयम् - 14 - 2 ।।
विविक्तवर्णाभरणा सुखश्रुतिः प्रसादयन्ती हृदयान्यपि द्विषाम् ।
प्रवर्तते नाकृतपुण्यकर्मणां प्रसन्नगम्भीरपदा सरस्वती ।। किरातार्जुनीयम् - 14 - 3 ।।
भवन्ति ते सभ्यतमा विपश्चितां मनोगतं वाचि निवेशयन्ति ये ।
नयन्ति तेष्वप्युपपन्ननैपुणा गम्भीरम् अर्थं कतिचित्प्रकाशताम् ।। किरातार्जुनीयम् - 14 - 4 ।।
स्तुवन्ति गुर्वीम् अभिधेयसम्पदं विशुद्धिमुक्तेरपरे विपश्चितः ।
इति स्थितायां प्रतिपूरुषं रुचौ सुदुर्लभाः सर्वमनोरमा गिरः ।। किरातार्जुनीयम् - 14 - 5 ।।
समस्य सम्पादयता गुणैरिमां त्वया समारोपितभार भारतीम् ।
प्रगल्भम् आत्मा धुरि धुर्य वाग्मिनां वनचरेणापि सताधिरोपितः ।। किरातार्जुनीयम् - 14 - 6 ।।
प्रयुज्य सामाचरितं विलोभनं भयं विभेदाय धियः प्रदर्शितम् ।
तथाभियुक्तं च शिलीमुखार्थिना यथेतरन्न्याय्यम् इव अवभासते ।। किरातार्जुनीयम् - 14 - 7 ।।
विरोधि सिद्धेरिति कर्तुम् उद्यतः स वारितः किं भवता न भूपतिः ।
हिते नियोज्यः खलु भूतिम् इच्छता सहार्थनाशेन नृपोऽनुजीविना ।। किरातार्जुनीयम् - 14 - 8 ।।
ध्रुवं प्रणाशः प्रहितस्य पत्त्रिणः शिलोच्चये तस्य विमार्गणं नयः ।
न युक्तम् अत्रार्यजनातिलङ्घनं दिशत्यपायं हि सताम् अतिक्रमः ।। किरातार्जुनीयम् - 14 - 9 ।।
अतीतसङ्ख्या विहिता ममाग्निना शिलामुखाः खाण्डवम् अत्तुम् इच्छता ।
अनादृतस्यामरसायकेष्वपि स्थिता कथं शैलजनाशुगे धृतिः ।। किरातार्जुनीयम् - 14 - 10 ।।
यदि प्रमाणीकृतम् आर्यचेष्टितं किम् इत्यदोषेण तिरस्कृता वयम् ।
अयातपूर्वा परिवादगोचरं सतां हि वाणी गुणम् एव भाषते ।। किरातार्जुनीयम् - 14 - 11 ।।
गुणापवादेन तदन्यरोपणाद्भृशाधिरूढस्य समञ्जसं जनम् ।
द्विधेव कृत्वा हृदयं निगूहतः स्फुरदसाधोः विवृणोति वागसिः ।। किरातार्जुनीयम् - 14 - 12 ।।
वनाश्रयाः कस्य मृगाः परिग्रहाः शृणाति यस्तान्प्रसभेन तस्य ते ।
प्रहीयताम् अत्र नृपेण मानिता न मानिता च अस्ति भवन्ति च श्रियः ।। किरातार्जुनीयम् - 14 - 13 ।।
न वर्त्म कस्मैचिदपि प्रदीयताम् इति व्रतं मे विहितं महर्षिणा ।
जिघांसुरस्मान्निहतो मया मृगो व्रताभिरक्षा हि सताम् अलङ्क्रिया ।। किरातार्जुनीयम् - 14 - 14 ।।
मृगान्विनिघ्नन्मृगयुः स्वहेतुना कृतोपकारः कथम् इच्छतां तपः ।
कृपेति चेदस्तु मृगः क्षतः क्षणादनेन पूर्वं न मयेति का गतिः ।। किरातार्जुनीयम् - 14 - 15 ।।
अनायुधे सत्त्वजिघांसिते मुनौ कृपेति वृत्तिर्महताम् अकृत्रिमा ।
शरासनं बिभ्रति सज्यसायकं कृतानुकम्पः स कथं प्रतीयते ।। किरातार्जुनीयम् - 14 - 16 ।।
अथो शरस्तेन मदर्थम् उज्झितः फलं च तस्य प्रतिकायसाधनम् ।
अविक्षते तत्र मयात्मसात्कृते कृतार्थता नन्वधिका चमूपतेः ।। किरातार्जुनीयम् - 14 - 17 ।।
यदात्थ कामं भवता स याच्यताम् इति क्षमं नैतदनल्पचेतसाम् ।
कथं प्रसह्याहरणैषिणां प्रियः परावनत्या मलिनीकृताः श्रियः ।। किरातार्जुनीयम् - 14 - 18 ।।
अभूतम् आसज्य विरुद्धम् ईहितं बलादलभ्यं तव लिप्सते नृपः ।
विजानतोऽपि ह्यनयस्य रौद्रतां भवत्यपाये परिमोहिनी मतिः ।। किरातार्जुनीयम् - 14 - 19 ।।
असिः शरा वर्म धनुश्च नोच्चकैर्विविच्य किं प्रार्थितम् ईश्वरेण ते ।
अथ अस्ति शक्तिः कृतम् एव याच्ञया न दूषितः शक्तिमतां स्वयङ्ग्रहः ।। किरातार्जुनीयम् - 14 - 20 ।।
सखा स युक्तः कथितः कथं त्वया यदृच्छयासूयति यस्तपस्यते ।
गुणार्जनोच्छ्रायविरुद्धबुद्धयः प्रकृत्यमित्रा हि सताम् असाधवः ।। किरातार्जुनीयम् - 14 - 21 ।।
वयं क्व वर्णाश्रमरक्षणोचिताः क्व जातिहीना मृगजीवितच्छिदः ।
सहापकृष्टैर्महतां न सङ्गतं भवन्ति गोमायुसखा न दन्तिनः ।। किरातार्जुनीयम् - 14 - 22 ।।
परो अवजानाति यदज्ञताजडस्तदुन्नतानां न विहन्ति धीरताम् ।
समानवीर्यान्वयपौरुषेषु यः करोति अतिक्रान्तिम् असौ तिरस्क्रिया ।। किरातार्जुनीयम् - 14 - 23 ।।
यदा विगृह्णाति हतं तदा यशः करोति मैत्रीम् अथ दूषिता गुणाः ।
स्थितिं समीक्ष्योभयथा परीक्षकः करोति अवज्ञोपहतं पृथग्जनम् ।। किरातार्जुनीयम् - 14 - 24 ।।
मया मृगान्हन्तुरनेन हेतुना विरुद्धम् आक्षेपवचस्तितिक्षितम् ।
शरार्थम् एष्यत्यथ लप्स्यते गतिं शिरोमणिं दृष्टिविषाज्जिघृक्षतः ।। किरातार्जुनीयम् - 14 - 25 ।।
इतीरिताकूतम् अनीलवाजिनं जयाय दूतः प्रतितर्ज्य तेजसा ।
ययौ समीपं ध्वजिनीम् उपेयुषः प्रसन्नरूपस्य विरूपचक्षुषः ।। किरातार्जुनीयम् - 14 - 26 ।।
ततोऽपवादेन पताकिनीपतेश्चचाल निर्ह्रादवती महाचमूः ।
युगान्तवाताभिहतेव कुर्वती निनादम् अम्भोनिधिवीचिसंहतिः ।। किरातार्जुनीयम् - 14 - 27 ।।
रणाय जैत्रः प्रदिशन्निव त्वरां तरङ्गितालम्बितकेतुसन्ततिः ।
पुरो बलानां सघनाम्बुशीकरः शनैः प्रतस्थे सुरभिः समीरणः ।। किरातार्जुनीयम् - 14 - 28 ।।
जयारवक्ष्वेडितनादमूर्छितः शरासनज्यातलवारणध्वनिः ।
असम्भवन्भूधरराजकुक्षिषु प्रकम्पयन्गाम् अवतस्तरे दिशः ।। किरातार्जुनीयम् - 14 - 29 ।।
निशातरौद्रेषु विकासतां गतैः प्रदीपयद्भिः ककुभाम् इवान्तरम् ।
वनेसदां हेतिषु भिन्नविग्रहैः विपुस्फुरे रश्मिमतो मरीचिभिः ।। किरातार्जुनीयम् - 14 - 30 ।।
उदूढवक्षःस्थगितैकदिङ्मुखो विकृष्टविस्फारितचापमण्डलः ।
वितत्य पक्षद्वयम् आयतं बभौ विभुर्गुणानाम् उपरीव मध्यगः ।। किरातार्जुनीयम् - 14 - 31 ।।
सुगेषु दुर्गेषु च तुल्यविक्रमैर्जवादहंपूर्विकया यियासुभिः ।
गणैरविच्छेदनिरुद्धम् आबभौ वनं निरुच्छ्वासम् इवाकुलाकुलम् ।। किरातार्जुनीयम् - 14 - 32 ।।
तिरोहितश्वभ्रनिकुञ्चरोधसः समश्नुवानाः सहसातिरिक्तताम् ।
किरातसैन्यैरपिधाय रेचिता भुवः क्षणं निम्नतयेव भेजिरे ।। किरातार्जुनीयम् - 14 - 33 ।।
पृथूरुपर्यस्तबृहल्लताततिर्जवानिलाघूर्णितशालचन्दना ।
गणाधिपानां परितः प्रसारिणी वनान्यवाञ्चीव चकार संहतिः ।। किरातार्जुनीयम् - 14 - 34 ।।
ततः सदर्पं प्रतनुं तपस्यया मदस्रुतिक्षामम् इवैकवारणम् ।
परिज्वलन्तं निधनाय भूभृतां दहन्तम् आशा इव जातवेदसम् ।। किरातार्जुनीयम् - 14 - 35 ।।
अनादरोपात्तधृतैकसायकं जयेऽनुकूले सुहृदीव सस्पृहम् ।
शनैरपूर्णप्रतिकारपेलवे निवेशयन्तं नयने बलोदधौ ।। किरातार्जुनीयम् - 14 - 36 ।।
निषण्णम् आपत्प्रतिकारकारणे शरासने धैर्य इवानपायिनि ।
अलङ्घनीयं प्रकृतावपि स्थितं निवातनिष्कम्पम् इवापगापतिम् ।। किरातार्जुनीयम् - 14 - 37 ।।
उपेयुषीं बिभ्रतम् अन्तकद्युतिं वधाददूरे पतितस्य दंष्ट्रिणः ।
पुरः समावेशितसत्पशुं द्विजैः पतिं पशूनाम् इव हूतम् अध्वरे ।। किरातार्जुनीयम् - 14 - 38 ।।
निजेन नीतं विजितान्यगौरवं गभीरतां धैर्यगुणेन भूयसा ।
वनोदयेनेव घनोरुवीरुधा समन्धकारीकृतम् उत्तमाचलम् ।। किरातार्जुनीयम् - 14 - 39 ।।
महर्षभस्कन्धम् अनूनकन्धरं बृहच्छिलावप्रघनेन वक्षसा ।
समुज्जिहीर्षुं जगतीं महाभरां महावराहं महतोऽर्णवादिव ।। किरातार्जुनीयम् - 14 - 40 ।।
हरिन्मणिश्यामम् उदग्रविग्रहं प्रकाशमानं परिभूय देहिनः ।
मनुष्यभावे पुरुषं पुरातनं स्थितं जलादर्श इवांशुमालिनम् ।। किरातार्जुनीयम् - 14 - 41 ।।
गुरुक्रियारम्भफलैरलङ्कृतं गतिं प्रतापस्य जगत्प्रमाथिनः ।
गणाः समासेदुरनीलवाजिनं तपात्यये तोयघना घना इव ।। किरातार्जुनीयम् - 14 - 42 ।।
यथास्वम् आशंसितविक्रमाः पुरा मुनिप्रभावक्षततेजसः परे ।
ययुः क्षणादप्रतिपत्तिमूढतां महानुभावः प्रतिहन्ति पौरुषम् ।। किरातार्जुनीयम् - 14 - 43 ।।
ततः प्रजह्रे समम् एव तत्र तैरपेक्षितान्योन्यबलोपपत्तिभिः ।
महोदयानाम् अपि सङ्घवृत्तितां सहायसाध्याः प्रदिशन्ति सिद्धयः ।। किरातार्जुनीयम् - 14 - 44 ।।
किरातसैन्यादुरुचापनोदिताः समं समुत्पेतुरुपात्तरंहसः ।
महावनादुन्मनसः खगा इव प्रवृत्तपत्त्रध्वनयः शिलीमुखाः ।। किरातार्जुनीयम् - 14 - 45 ।।
गभीररन्ध्रेषु भृशं महीभृतः प्रतिस्वनैरुन्नमितेन सानुषु ।
धनुर्निनादेन जवादुपेयुषा विभिद्यमाना इव दध्वनुर्दिशः ।। किरातार्जुनीयम् - 14 - 46 ।।
विधूनयन्ती गहनानि भूरुहां तिरोहितोपान्तनभोदिगन्तरा ।
महीयसी वृष्टिरिवानिलेरिता रवं वितेने गणमार्गणावलिः ।। किरातार्जुनीयम् - 14 - 47 ।।
त्रयीं ऋतूनाम् अनिलाशिनः सतः प्रयाति पोषं वपुषि प्रहृष्यतः ।
रणाय जिष्णोर्विदुषेव सत्वरं घनत्वम् ईये शिथिलेन वर्मणा ।। किरातार्जुनीयम् - 14 - 48 ।।
पतत्सु शस्त्रेषु वितत्य रोदसी समन्ततस्तस्य धनुर्दुधूषतः ।
सरोषम् उल्केव पपात भीषणा बलेषु दृष्टिर्विनिपातशंसिनी ।। किरातार्जुनीयम् - 14 - 49 ।।
दिशः समूहन्निव विक्षिपन्निव प्रभां रवेराकुलयन्निवानिलम् ।
मुनिश्चचाल क्षयकालदारुणः क्षितिं सशैलां चलयन्निवेषुभिः ।। किरातार्जुनीयम् - 14 - 50 ।।
विमुक्तम् आशंसितशत्रुनिर्जयैरनेकम् एकावसरं वनेचरैः ।
स निर्जघानायुधम् अन्तरा शरैः क्रियाफलं काल इवातिपातितः ।। किरातार्जुनीयम् - 14 - 51 ।।
गतैः परेषाम् अविभावनीयतां निवारयद्भिर्विपदं विदूरगैः ।
भृशं बभूव उपचितो बृहत्फलैः शरैरुपायैरिव पाण्डुनन्दनः ।। किरातार्जुनीयम् - 14 - 52 ।।
दिवः पृथिव्याः ककुभां नु मण्डलात् पतन्ति बिम्बादुत तिग्मतेजसः ।
सकृद्विकृष्टादथ कार्मुकान्मुनेः शराः शरीरादिति ते अभिमेनिरे ।। किरातार्जुनीयम् - 14 - 53 ।।
गणाधिपानाम् अविधाय निर्गतैः परासुतां मर्मविदारणैरपि ।
जवादतीये हिमवानधोमुखैः कृतापराधैरिव तस्य पत्रिभिः ।। किरातार्जुनीयम् - 14 - 54 ।।
द्विषां क्षतीर्याः प्रथमे शिलामुखा विभिद्य देहावरणानि चक्रिरे
न तासु पेते विशिखैः पुनर्मुनेररुन्तुदत्वं महतां ह्यगोचरः ।। किरातार्जुनीयम् - 14 - 55 ।।
समुज्झिता यावदराति निर्यती सहैव चापान्मुनिबाणसंहतिः ।
प्रभा हिमांशोरिव पङ्कजावलिं निनाय सङ्कोचम् उमापतेश्चमूम् ।। किरातार्जुनीयम् - 14 - 56 ।।
अजिह्मम् ओजिष्ठम् अमोघम् अक्लमं क्रियासु बह्वीषु पृथङ्नियोजितम् ।
प्रसेहिरे सादयितुं न सादिताः शरौघम् उत्साहम् इवास्य विद्विषः ।। किरातार्जुनीयम् - 14 - 57 ।।
शिवध्वजिन्यः प्रतियोधम् अग्रतः स्फुरन्तम् उगेषुमयूखमालिनम् ।
तम् एकदेशस्थम् अनेकदेशगा निदध्युरर्कं युगपत्प्रजा इव ।। किरातार्जुनीयम् - 14 - 58 ।।
मुनेः शरौघेण तदुग्ररंहसा बलं प्रकोपादिव विष्वगायता ।
विधूनितं भ्रान्तिम् इयाय सङ्गिनीं महानिलेनेव निदाघजं रजः ।। किरातार्जुनीयम् - 14 - 59 ।।
तपोबलेनैष विधाय भूयसीस्तनूरदृश्याः स्विदिषून् निरस्यति
अमुष्य मायाविहतं निहन्ति नः प्रतीपमागत्य किमु स्वमायुधम् ।। किरातार्जुनीयम् - 14 - 60 ।।
हृता गुणैरस्य भयेन वा मुनेस्तिरोहिताः स्वित्प्रहरन्ति देवताः ।
कथं न्वमी सन्ततम् अस्य सायका भवन्ति अनेके जलधेरिवोर्मयः ।। किरातार्जुनीयम् - 14 - 61 ।।
जयेन कच्चिद्विरमेदयं रणाद्भवेदपि स्वस्ति चराचराय वा ।
तताप कीर्णा नृपसूनुमार्गणैरिति प्रतर्काकुलिता पताकिनी ।। किरातार्जुनीयम् - 14 - 62 ।।
अमर्षिणा कृत्यम् इव क्षमाश्रयं मदोद्धतेनेव हितं प्रियं वचः ।
बलीयसा तद्विधिनेव पौरुषं बलं निरस्तं न रराज जिष्णुना ।। किरातार्जुनीयम् - 14 - 63 ।।
प्रतिदिशं प्लवगाधिपलक्ष्मणा विशिखसंहतितापितमूर्तिभिः ।
रविकरग्लपितैरिव वारिभिः शिवबलैः परिमण्डलता दधे ।। किरातार्जुनीयम् - 14 - 64 ।।
प्रविततशरजालच्छन्नविश्वान्तराले विधुवति धनुराविर्मण्डलं पाण्डुसूनौ ।
कथम् अपि जयलक्ष्मीर्भूतभूता विहातुं विषमनयनसेनापक्षपातं विषेहे ।। किरातार्जुनीयम् - 14 - 65 ।।


।। इति किरातार्जुनीयमहाकाव्ये चतुर्दशसर्गः ।।

पञ्चदशसर्गः

अथ भूतानि वार्त्रघ्नशरेभ्यस्तत्र तत्रसुः ।
भेजे दिशः परित्यक्तमहेष्वासा च सा चमूः ।। किरातार्जुनीयम् - 15 - 1 ।।
अपश्यद्भिरिवेशानं रणान् निववृते गणैः ।
मुह्यति इव हि कृच्छ्रेषु सम्भ्रमज्वलितं मनः ।। किरातार्जुनीयम् - 15 - 2 ।।
खण्डिताशंसया तेषां पराङ्मुखतया तया ।
आविवेश कृपा केतौ कृतोच्चैर्वानरं नरम् ।। किरातार्जुनीयम् - 15 - 3 ।।
आस्थाम् आलम्ब्य नीतेषु वशं क्षुद्रेष्वरातिषु ।
व्यक्तिम् आयाति महतां माहात्म्यम् अनुकम्पया ।। किरातार्जुनीयम् - 15 - 4 ।।
स सासिः सासुसूः सासो य इयाय इयाययाययः ।
ललौ लीलां ललोऽलोलः शशीशशिशुशीः शशन् ।। किरातार्जुनीयम् - 15 - 5 ।।
त्रासजिह्मं यतश्चैतान्मन्दम् एव अन्वियाय सः ।
नातिपीडयितुं भग्नान् इच्छन्ति हि महौजसः ।। किरातार्जुनीयम् - 15 - 6 ।।
अथाग्रे हसता साचिस्थितेन स्थिरकीर्तिना ।
सेनान्या ते जगदिरे किंचिदायस्तचेतसा ।। किरातार्जुनीयम् - 15 - 7 ।।
मा विहासिष्ट समरं समरन्तव्यसंयतः ।
क्षतं क्षुण्णासुरगणैरगणैरिव किं यशः ।। किरातार्जुनीयम् - 15 - 8 ।।
विवस्वदंशुसंश्लेषद्विगुणीकृततेजसः ।
अमी वो मोघम् उद्गूर्णा हसन्ति इव महासयः ।। किरातार्जुनीयम् - 15 - 9 ।।
वनेऽवने वनसदां मार्गं मार्गम् उपेयुषाम् ।
वाणैर्बाणैः समासक्तं शङ्केऽशं केन शाम्यति ।। किरातार्जुनीयम् - 15 - 10 ।।
पातितोत्तुङ्गमाहात्म्यैः संहृतायतकीर्तिभिः ।
गुर्वीं काम् आपदं हन्तुं कृतम् आवृत्तिसाहसम् ।। किरातार्जुनीयम् - 15 - 11 ।।
नासुरोऽयं न वा नागो धरसंस्थो न राक्षसः ।
ना सुखोऽयं नवाभोगो धरणिस्थो हि राजसः ।। किरातार्जुनीयम् - 15 - 12 ।।
मन्दम् अस्यन्निषुलतां घृणया मुनिरेष वः ।
प्रणुदत्यागतावज्ञं जघनेषु पशूनिव ।। किरातार्जुनीयम् - 15 - 13 ।।
न नोननुन्नोऽनुन्नेनो न ना नानानना ननु ।
नुन्नोऽनुन्नो न नुन्नेनो नानेनानुन्ननुन्न नुत् ।। किरातार्जुनीयम् - 15 - 14 ।।
वरं कृतध्वस्तगुणादत्यन्तम् अगुणः पुमान् ।
प्रकृत्या ह्यमणिः श्रेयान्नालङ्कारश्च्युतोपलः ।। किरातार्जुनीयम् - 15 - 15 ।।
स्यन्दना नो चतुरगाः सुरेभा वाविपत्तयः ।
स्यन्दना नो च तुरगाः सुरेभावा विपत्तयः ।। किरातार्जुनीयम् - 15 - 16 ।।
भवद्भिरधुनारातिपरिहापितपौरुषैः ।
ह्रदैरिवार्कनिष्पीतैः प्राप्तः पङ्को दुरुत्सहः ।। किरातार्जुनीयम् - 15 - 17 ।।
वेत्रशाककुजे शैलेऽलेशैजेऽकुकशात्रवे ।
यात किं विदिशो जेतुं तुञ्जेशो दिवि किंतया ।। किरातार्जुनीयम् - 15 - 18 ।।
अयं वः क्लैब्यं आपन्नान्दृष्टपृष्ठानरातिना ।
इच्छति ईशश्च्युताचारान्दारानिव निगोपितुम् ।। किरातार्जुनीयम् - 15 - 19 ।।
ननु हो मथना राघो घोरा नाथमहो नु न ।
तयदातवदा भीमा माभीदा बत दायत ।। किरातार्जुनीयम् - 15 - 20 ।।
किं त्यक्तापास्तदेवत्वमानुष्यकपरिग्रहैः ।
ज्वलितान्यगुणैर्गुर्वी स्थिता तेजसि मान्यता ।। किरातार्जुनीयम् - 15 - 21 ।।
निशितासिरतोऽभीको न्येजते अमरणा रुचा ।
सारतो न विरोधी नः स्वाभासो भरवानुत ।। किरातार्जुनीयम् - 15 - 22 ।।
तनुवारभसो भास्वानधीरोऽविनतोरसा ।
चारुणा रमते जन्ये कोऽभीतो रसिताशिनि ।। किरातार्जुनीयम् - 15 - 23 ।।
निर्भिन्नपातिताश्वीयनिरुद्धरथवर्त्मनि ।
हतद्विपनगष्ठ्यूतरुधिराम्बुनदाकुले ।। किरातार्जुनीयम् - 15 - 24 ।।
देवाकानिनि कावादे वाहिकास्वस्वकाहि वा ।
काकारेभभरे काका निस्वभव्यव्यभस्वनि ।। किरातार्जुनीयम् - 15 - 25 ।।
प्रनृत्तशववित्रस्ततुरगाक्षिप्तसारथौ ।
मारुतापूर्णतूणीरविक्रुष्टहतसादिनि ।। किरातार्जुनीयम् - 15 - 26 ।।
ससत्त्वरतिदे नित्यं सदरामर्षनाशिनि ।
त्वराधिककसन्नादे रमकत्वम् अ कर्षति ।। किरातार्जुनीयम् - 15 - 27 ।।
आसुरे लोकवित्रासविधायिनि महाहवे ।
युष्माभिरुन्नतिं नीतं निरस्तम् इह पौरुषम् ।। किरातार्जुनीयम् - 15 - 28 ।।
इति शासति सेनान्यां गच्छतः तननेकधा ।
निषिध्य हसता किञ्चित्तत्र तस्थेऽन्धकारिणा ।। किरातार्जुनीयम् - 15 - 29 ।।
मुनीषुदहनातप्तांल्लज्जया निविवृत्सतः ।
शिवः प्रह्लादयामास तान्निषेधहिमाम्बुना ।। किरातार्जुनीयम् - 15 - 30 ।।
दूनास्तेऽरिबलादूना निरेभा बहु मेनिरे
भीताः शितशराभीताः शङ्करं तत्र शङ्करम् ।। किरातार्जुनीयम् - 15 - 31 ।।
महेषुजलधौ शत्रोर्वर्तमाना दुरुत्तरे ।
प्राप्य पारम् इवेशानम् आशश्वास पताकिनी ।। किरातार्जुनीयम् - 15 - 32 ।।
बभार रणापेतां चमूं पश्चादवस्थिताम् ।
पुरः सूर्यादुपावृत्तां छायाम् इव महातरुः ।। किरातार्जुनीयम् - 15 - 33 ।।
मुञ्चतीशे शराञ्जिष्णौ पिनाकस्वनपूरितः ।
दध्वान ध्वनयन्नाशाः स्फुटन्निव धराधरः ।। किरातार्जुनीयम् - 15 - 34 ।।
तद्गणा ददृशुर्भीमं चित्रसंस्था इवाचलाः ।
विस्मयेन तयोर्युद्धं चित्रसंस्था इवाचलाः ।। किरातार्जुनीयम् - 15 - 35 ।।
परिमोहयमाणेन शिक्षालाघवलीलया ।
जैष्णवी विशिखश्रेणी परिजह्रे पिनाकिना ।। किरातार्जुनीयम् - 15 - 36 ।।
अवद्यन्पत्रिणः शम्भोः सायकैरवसायकैः ।
पाण्डवः परिचक्राम शिक्षया रणशिक्षया ।। किरातार्जुनीयम् - 15 - 37 ।।
चारचुञ्चुश्चिरारेची चञ्चच्चीररुचा रुचः ।
चचार रुचिरश्चारु चारैराचारचञ्चुरः ।। किरातार्जुनीयम् - 15 - 38 ।।
स्फुरत्पिशङ्गमौर्वीकं धुनानः स बृहद्धनुः ।
धृतोल्कानलयोगेन तुल्यम् अंशुमता बभौ ।। किरातार्जुनीयम् - 15 - 39 ।।
पार्थबाणाः पशुपतेः आवव्रुः विशिखावलिम् ।
पयोमुच इवारन्ध्राः सावित्रीम् अंशुसंहतिम् ।। किरातार्जुनीयम् - 15 - 40 ।।
शरवृष्टिं विधूयोर्वीम् उदस्तां सव्यसाचिना ।
रुरोध मार्गणैर्मार्गं तपनस्य त्रिलोचनः ।। किरातार्जुनीयम् - 15 - 41 ।।
तेन व्यातेनिरे भीमा भीमार्जनफलाननाः ।
न नानुकम्प्य विशिखाः शिखाधरजवाससः ।। किरातार्जुनीयम् - 15 - 42 ।।
द्युवियद्गामिनी तारसंरावविहतश्रुतिः ।
हैमीषुमाला शुशुभे विद्युताम् इव संहतिः ।। किरातार्जुनीयम् - 15 - 43 ।।
विलङ्घ्य पत्त्रिणां पङ्क्तिं भिन्नः शिवशिलीमुखैः ।
ज्यायो वीर्यं समाश्रित्य न चकम्पे कपिध्वजः ।। किरातार्जुनीयम् - 15 - 44 ।।
जगतीशरणे युक्तो हरिकान्तः सुधासितः ।
दानवर्षीकृताशंसो नागराज इव आबभौ ।। किरातार्जुनीयम् - 15 - 45 ।।
विफलीकृतयत्नस्य क्षतबाणस्य शम्भुना ।
गाण्डीवधन्वनः खेभ्यो निश्चचार हुताशनः ।। किरातार्जुनीयम् - 15 - 46 ।।
स पिशङ्गजटावलिः किरन्नुरुतेजः परमेण मन्युना ।
ज्वलितौषधिजातवेदसा हिमशैलेन समं विदिद्युते ।। किरातार्जुनीयम् - 15 - 47 ।।
शतशो विशिखानवद्यते भृशम् अस्मै रणवेगशालिने ।
प्रथयन्ननिवार्यवीर्यतां प्रजिगायेषुम् अघातुकं शिवः ।। किरातार्जुनीयम् - 15 - 48 ।।
शम्भो धनुर्मण्डलतः प्रवृत्तं तं मण्डलादंशुम् इवांशुभर्तुः ।
निवारयिष्यन् विदधे सिताश्वः शिलीमुखच्छायवृतां धरित्रीम् ।। किरातार्जुनीयम् - 15 - 49 ।।
घनं विदार्यार्जुनबाणपूगं ससार बाणोऽयुगलोचनस्य ।
घनं विदार्यार्जुनबाणपूगं ससार बाणोऽयुगलोचनस्य ।। किरातार्जुनीयम् - 15 - 50 ।।
रुजन्परेषून्बहुधाशुपातिनो मुहुः शरौघैरपवारयन्दिशः ।
चलाचलोऽनेक इव क्रियावशान्महर्षिसङ्घैः बुबुधे धनञ्जयः ।। किरातार्जुनीयम् - 15 - 51 ।।
विकाशम् ईयुः जगतीशमार्गणा विकाशम् ईयुः जगतीशमार्गणाः ।
विकाशम् ईयुः जगतीशमार्गणा विकाशम् ईयुः जगतीशमार्गणाः ।। किरातार्जुनीयम् - 15 - 52 ।।
सम्पश्यताम् इति शिवेन वितायमानं लक्ष्मीवतः क्षितिपतेस्तनयस्य वीर्यम् ।
अङ्गान्यभिन्नम् अपि तत्त्वविदां मुनीनां रोमाञ्चम् अञ्चिततरं बिभराम्बभूवुः ।। किरातार्जुनीयम् - 15 - 53 ।।


।। इति किरातार्जुनीयमहाकाव्ये पञ्चदशसर्गः ।।

षोडशसर्गः

ततः किराताधिपतेरलघ्वीम् आजिक्रियां वीक्ष्य विवृद्धमन्युः ।
तर्कयामास विविक्ततर्कश्चिरं विचिन्वन्निति कारणानि ।। किरातार्जुनीयम् - 16 - 1 ।।
मदस्रुतिश्यामितगण्डलेखाः क्रामन्ति विक्रान्तनराधिरूढाः ।
सहिष्णवो नेह युधाम् अभिज्ञा नागा नगोच्छ्रायम् इवाक्षिपन्तः ।। किरातार्जुनीयम् - 16 - 2 ।।
विचित्रया चित्रयतेव भिन्नां रुचं रवेः केतनरत्नभासा ।
महारथौघेन न संनिरुद्धाः पयोदमन्द्रध्वनिना धरित्री ।। किरातार्जुनीयम् - 16 - 3 ।।
समुल्लसत्प्रासमहोर्मिमालं परिस्फुरच्चामरफेनपङ्क्ति ।
विभिन्नमर्यादम् इह आतनोति नाश्वीयम् आशा जलधेरिवाम्भः ।। किरातार्जुनीयम् - 16 - 4 ।।
हताहतेत्युद्धतभीष्मघोषैः समुज्झिता योद्धृभिरभ्यमित्रम् ।
न हेतयः प्राप्ततडित्त्विषः खे विवस्वदंशुज्वलिताः पतन्ति ।। किरातार्जुनीयम् - 16 - 5 ।।
अभ्यायतः सन्ततधूमधूम्रं व्यापि प्रभाजालम् इवान्तकस्य ।
रजः प्रतूर्णाश्वरथाङ्गनुन्नं तनोति न व्योमनि मातरिश्वा ।। किरातार्जुनीयम् - 16 - 6 ।।
भूरेणुना रासभधूसरेण तिरोहिते वर्त्मनि लोचनानाम् ।
नास्त्यत्र तेजस्विभिरुत्सुकानाम् अह्नि प्रदोषः सुरसुन्दरीणाम् ।। किरातार्जुनीयम् - 16 - 7 ।।
रथाङ्गसङ्क्रीडितम् अश्वहेषा बृहन्ति मत्तद्विपबृंहितानि ।
सङ्घर्षयोगादिव मूर्छितानि ह्रादं निगृह्णन्ति न दुन्दुभीनाम् ।। किरातार्जुनीयम् - 16 - 8 ।।
अस्मिन्यशःपौरुषलोलुपानाम् अरातिभिः प्रत्युरसं क्षतानाम् ।
मूर्छान्तरायं मुहुरुत् छिनत्ति नासारशीतं करिशीकराम्भः ।। किरातार्जुनीयम् - 16 - 9 ।।
असृङ्नदीनाम् उपचीयमानैर्विदारयद्भिः पदवीं ध्वजिन्याः ।
उच्छ्रायम् आयान्ति न शोणितौघैः पङ्कैरिवाश्यानघनैस्तटानि ।। किरातार्जुनीयम् - 16 - 10 ।।
परिक्षते वक्षसि दन्तिदन्तैः प्रियाङ्कशीता नभसः पतन्ती ।
नेह प्रमोहं प्रियसाहसानां मन्दारमाला विरलीकरोति ।। किरातार्जुनीयम् - 16 - 11 ।।
निषादिसंनाहमणिप्रभौघे परीयमाणे करिशीकरेण ।
अर्कत्विषोन्मीलितम् अभ्युदेति न खण्डम् आखण्डलकार्मुकस्य ।। किरातार्जुनीयम् - 16 - 12 ।।
महीभृता पक्षवतेव भिन्ना विगाह्य मध्यं परवारणेन ।
नावर्तमाना निनदन्ति भीमम् अपां निधेराप इव ध्वजिन्यः ।। किरातार्जुनीयम् - 16 - 13 ।।
महारथानां प्रतिदन्त्यनीकम् अधिस्यदस्यन्दनम् उत्थितानाम् ।
आमूललूनैरतिमन्युनेव मातङ्गहस्तैर्व्रियते न पन्थाः ।। किरातार्जुनीयम् - 16 - 14 ।।
धृतोत्पलापीड इव प्रियायाः शिरोरुहाणां शिथिलः कलापः ।
न बर्हभारः पतितस्य शङ्कोर्निषादिवक्षःस्थलम् आतनोति ।। किरातार्जुनीयम् - 16 - 15 ।।
उज्झत्सु संहार इवास्तसङ्ख्यम् अह्नाय तेजस्विषु जीवितानि ।
लोकत्रयास्वादनलोलजिह्वं न व्याददात्याननम् अत्र मृत्युः ।। किरातार्जुनीयम् - 16 - 16 ।।
इयं च दुर्वारमहारथानाम् आक्षिप्य वीर्यं महतां बलानाम् ।
शक्तिर्मम आवस्यति हीनयुद्धे सौरीव ताराधिपधाम्नि दीप्तिः ।। किरातार्जुनीयम् - 16 - 17 ।।
माया स्विदेषा मतिविभ्रमो वा ध्वस्तं नु मे वीर्यम् उताहम् अन्यः ।
गाण्डीवमुक्ता हि यथा पुरा मे पराक्रमन्ते न शराः किराते ।। किरातार्जुनीयम् - 16 - 18 ।।
पुंसः पदं मध्यमम् उत्तमस्य द्विधेव कुर्वन्धनुषः प्रणादैः ।
नूनं तथा नैषा यथास्य वेषः प्रच्छन्नम् अप्यूहयते हि चेष्टा ।। किरातार्जुनीयम् - 16 - 19 ।।
धनुः प्रबन्धध्वनितं रुषेव सकृद्विकृष्टा विततेव मौर्वी ।
सन्धानम् उत्कर्षम् इव व्युदस्य मुष्टेरसम्भेद इवापवर्गे ।। किरातार्जुनीयम् - 16 - 20 ।।
अंसाववष्टब्धनतौ समाधिः शिरोधराया रहितप्रयासः ।
धृता विकारांस्त्यजता मुखेन प्रसादलक्ष्मीः शशलाञ्छनस्य ।। किरातार्जुनीयम् - 16 - 21 ।।
प्रहीयते कार्यवशागतेषु स्थानेषु विष्टब्धतया न देहः ।
स्थितप्रयातेषु ससौष्ठवश्च लक्ष्येषु पातः सदृशः शराणाम् ।। किरातार्जुनीयम् - 16 - 22 ।।
परस्य भूयान्विवरेऽभियोगः प्रसह्य संरक्षणम् आत्मरन्ध्रे ।
भीष्मेऽप्यसम्भाव्यम् इदं गुरौ वा न सम्भवत्येव वनेचरेषु ।। किरातार्जुनीयम् - 16 - 23 ।।
अप्राकृतस्याहवदुर्मदस्य निवार्यम् अस्यास्त्रबलेन वीर्यम् ।
अल्पीयसोऽप्यामयतुल्यवृत्तेर्महापकाराय रिपोर्विवृद्धिः ।। किरातार्जुनीयम् - 16 - 24 ।।
स सम्प्रधार्यैवम् अहार्यसारः सारं विनेष्यन्सगणस्य शत्रोः ।
प्रस्वापनास्त्रं द्रुतम् आजहार ध्वान्तं घनानद्ध इवार्धरात्रः ।। किरातार्जुनीयम् - 16 - 25 ।।
प्रसक्तदावानलधूमधूम्रा निरुन्धती धाम सहस्ररश्मेः ।
महावनानीव महातमिस्रा छाया ततान इशबलानि काली ।। किरातार्जुनीयम् - 16 - 26 ।।
आसादिता तत्प्रथमं प्रसह्य प्रगल्भतायाः पदवीं हरन्ती ।
सभेव भीमा विदधे गणानां निद्रा निरासं प्रतिभागुणस्य ।। किरातार्जुनीयम् - 16 - 27 ।।
गुरुस्थिराण्युत्तमवंशजत्वाद्विज्ञातसाराण्यनुशीलनेन ।
केचित्समाश्रित्य गुणान्वितानि सुहृत्कुलानीव धनूंषि तस्थुः ।। किरातार्जुनीयम् - 16 - 28 ।।
कृतान्तदुर्वृत्त इवापरेषां पुरः प्रतिद्वन्द्विनि पाण्डवास्त्रे ।
अतर्कितं पाणितलान्निपेतुः क्रियाफलानीव तदायुधानि ।। किरातार्जुनीयम् - 16 - 29 ।।
अंसस्थलैः केचिदभिन्नधैर्याः स्कन्धेषु संश्लेषवतां तरूणाम् ।
मदेन मीलन्नयनाः सलीलं नागा इव स्रस्तकरा निषेदुः ।। किरातार्जुनीयम् - 16 - 30 ।।
तिरोहितेन्दोरथ शम्भुमूर्ध्नः प्रणम्यमानं तपसां निवासैः ।
सुमेरुशृङ्गादिव बिम्बम् आर्कं पिशङ्गम् उच्चैरुत् इयाय तेजः ।। किरातार्जुनीयम् - 16 - 31 ।।
छायां विनिर्धूय तमोमयीं तां तत्त्वस्य संवित्तिरिवापविद्याम् ।
ययौ विकासं द्युतिरिन्दुमौलेरालोकम् अभ्यादिशती गणेभ्यः ।। किरातार्जुनीयम् - 16 - 32 ।।
त्विषां ततिः पाटलिताम्बुवाहा सा सर्वतः पूर्वसरीव सन्ध्या ।
निनाय तेषां द्रुतम् उल्लसन्ती विनिद्रतां लोचनपङ्कजानि ।। किरातार्जुनीयम् - 16 - 33 ।।
पृथग्विधान्यस्त्रविरामबुद्धाः शस्त्राणि भूयः प्रतिपेदिरे ते ।
मुक्ता वितानेन बलाहकानां ज्योतींषि रम्या इव दिग्विभागाः ।। किरातार्जुनीयम् - 16 - 34 ।।
द्यौरुन्ननामेव दिशः प्रसेदुः स्फुटं विसस्रे सवितुर्मयूखैः ।
क्षयं गतायाम् इव यामवत्यां पुनः समीयाय दिनं दिनश्रीः ।। किरातार्जुनीयम् - 16 - 35 ।।
महास्त्रदुर्गे शिथिलप्रयत्नं दिग्वारणेनेव परेण रुग्णे ।
भुजङ्गपाशान्भुजवीर्यशाली प्रबन्धनाय प्रजिघाय जिष्णुः ।। किरातार्जुनीयम् - 16 - 36 ।।
जिह्वाशतान्युल्लसयन्त्यजस्रं लसत्तडिल्लोलविषानलानि ।
त्रासान्निरस्तां भुजगेन्द्रसेना नभश्चरैस्तत्पदवीं विवव्रे ।। किरातार्जुनीयम् - 16 - 37 ।।
दिङ्नागहस्ताकृतिम् उद्वहद्भिर्भोगैः प्रशस्तासितरत्ननीलैः ।
रराज सर्पावलिरुल्लसन्ती तरङ्गमालेव नभोर्णवस्य ।। किरातार्जुनीयम् - 16 - 38 ।।
निःश्वासधूमैः स्थगितांशुजालं फणावताम् उत्फणमण्डलानाम् ।
गच्छन्निवास्तं वपुरभ्युवाह विलोचनानां सुखम् उष्णरश्मिः ।। किरातार्जुनीयम् - 16 - 39 ।।
प्रतप्तचामीकरभासुरेण दिशः प्रकाशेन पिशङ्गयन्त्यः ।
निश्चक्रमुः प्राणहरेक्षणानां ज्वाला महोल्का इव लोचनेभ्यः ।। किरातार्जुनीयम् - 16 - 40 ।।
आक्षिप्तसम्पातम् अपेतशोभम् उद्वह्नि धूमाक्कुलदिग्विभागम् ।
वृतं नभो भोगिकुलैरवस्थां परोपरुद्धस्य पुरस्य भेजे ।। किरातार्जुनीयम् - 16 - 41 ।।
तम् आशु चक्षुःश्रवसां समूहं मन्त्रेण तार्क्ष्योदयकारणेन ।
नेता नयेनेव परोपजापं निवारयामास पतिः पशूनाम् ।। किरातार्जुनीयम् - 16 - 42 ।।
प्रतिघ्नतीभिः कृतमीलितानि द्युलोकभाजाम् अपि लोचनानि ।
गरुत्मता संहतिभिर्विहायः क्षणप्रकाशाभिरिव अवतेने ।। किरातार्जुनीयम् - 16 - 43 ।।
ततः सुपर्णव्रजपक्षजन्मा नानागतिर्मण्डलयञ्जवेन ।
जरत्तृणानीव वियत् निनाय वनस्पतीनां गहनानि वायुः ।। किरातार्जुनीयम् - 16 - 44 ।।
मनःशिलाभङ्गनिभेन पश्चान्निरुध्यमानं निकरेण भासाम् ।
व्यूढैरुरोभिश्च विनुद्यमानं नभः ससर्प इव पुरः खगानाम् ।। किरातार्जुनीयम् - 16 - 45 ।।
दरीमुखैरासवरागताम्रं विकासि रुक्मच्छदधाम पीत्वा ।
जवानिलाघूर्णितसानुजालो हिमाचलः क्षीब इव आचकम्पे ।। किरातार्जुनीयम् - 16 - 46 ।।
प्रवृत्तनक्तन्दिवसन्धिदीप्तैर्नभस्तलं गां च पिशङ्गयष्टिः ।
अन्तर्हितार्कैः परितः पतद्भिश्छायाः समाचिक्षिपिरे वनानाम् ।। किरातार्जुनीयम् - 16 - 47 ।।
स भोगसङ्घः शमम् उग्रधाम्नां सैन्येन निन्ये विनतासुतानाम् ।
महाध्वरे विध्यपचारदोषः कर्मान्तरेणेव महोदयेन ।। किरातार्जुनीयम् - 16 - 48 ।।
साफल्यम् अस्त्रे रिपुपौरुषस्य कृत्वा गते भाग्य इवापवर्गम् ।
अनिन्धनस्य प्रसभं समन्युः समाददे अस्त्रं ज्वलनस्य जिष्णुः ।। किरातार्जुनीयम् - 16 - 49 ।।
ऊर्ध्वं तिरश्चीनम् अधश्च कीर्णैर्ज्वालासटैर्लङ्घितमेघपङ्क्तिः ।
आयस्तसिंहाकृतिः उत्पपात प्राण्यन्तम् इच्छन्निव जातवेदाः ।। किरातार्जुनीयम् - 16 - 50 ।।
भित्त्वेव भाभिः सवितुर्मयूखाञ्जज्वाल विष्वग्विसृतस्फुलिङ्गः ।
विदीर्यमाणाश्मनिनादधीरं ध्वनिं वितन्वन्नकृशः कृशानुः ।। किरातार्जुनीयम् - 16 - 51 ।।
चयानिवाद्रीनिव तुङ्गशृङ्गान्क्वचित्पुराणीव हिरण्मयानि ।
महावनानीव च किंशुकानाम् अत्तान वह्निः पवनानुवृत्त्या ।। किरातार्जुनीयम् - 16 - 52 ।।
मुहुश्चलत्पल्लवलोहिनीभिरुच्चैः शिखाभिः शिखिनोऽवलीढाः ।
तलेषु मुक्ताविशदा बभूवुः सान्द्राञ्ज्जनश्यामरुचः पयोदाः ।। किरातार्जुनीयम् - 16 - 53 ।।
लिलिक्षति इव क्षयकालरौद्रे लोकं विलोलार्चिषि रोहिताश्वे ।
पिनाकिना हूतमहाम्बुवाहम् अस्त्रं पुनः पाशभृतः प्रणिन्ये ।। किरातार्जुनीयम् - 16 - 54 ।।
ततो धरित्रीधरतुल्यरोधसस्तडिल्लतालिङ्गितनीलमूर्तयः ।
अधोमुखाकाशसरिन्निपातिनीरपः प्रसक्तं मुमुचुः पयोमुचः ।। किरातार्जुनीयम् - 16 - 55 ।।
पराहतध्वस्तशिखे शिखावतो वपुष्यधिक्षिप्तसमिद्धतेजसि ।
कृतास्पदास्तप्त इवायसि ध्वनिं पयोनिपाताः प्रथमे वितेनिरे ।। किरातार्जुनीयम् - 16 - 56 ।।
महानले भिन्नसिताभ्रपातिभिः समेत्य सद्यः कथनेन फेनताम् ।
व्रजद्भिरार्द्रेन्धनवत्परिक्षयं जलैः वितेने दिवि धूमसन्ततिः ।। किरातार्जुनीयम् - 16 - 57 ।।
स्वकेतुभिः पाण्डुरनीलपाटलैः समागताः शक्रधनुःप्रभाभिदः ।
असंस्थिताम् आदधिरे विभावसोर्विचित्रचीनांशुकचारुतां त्विषः ।। किरातार्जुनीयम् - 16 - 58 ।।
जलौघसंमूर्छनमूर्छितस्वनः प्रसक्तविद्युल्लसितैधितद्युतिः ।
प्रशान्तिम् एष्यन्धृतधूममण्डलो बभूव भूयानिव तत्र पावकः ।। किरातार्जुनीयम् - 16 - 59 ।।
प्रवृद्धसिन्धूर्मिचयस्थवीयसां चयैर्विभिन्नाः पयसां प्रपेदिरे
उपात्तसन्ध्यारुचिभिः सरूपतां पयोदविच्छेदलवैः कृशानवः ।। किरातार्जुनीयम् - 16 - 60 ।।
उपैति अनन्तद्युतिरप्यसंशयं विभिन्नमूलोऽनुदयाय संक्षयम् ।
तथा हि तोयौघविभिन्नसंहतिः स हव्यवाहः प्रययौ पराभवम् ।। किरातार्जुनीयम् - 16 - 61 ।।
अथ विहितविधेयैराशु मुक्ता वितानैरसितनगनितम्बश्यामभासां घनानाम् ।
विकसदमलधाम्नां प्राप नीलोत्पलानां श्रियम् अधिकविशुद्धां वह्निदाहादिव द्यौः ।। किरातार्जुनीयम् - 16 - 62 ।।
इति विविधम् उदासे सव्यसाची यदस्त्रं बहुसमरनयज्ञः सादयिष्यन्नरातिम् ।
विधिरिव विपरीतः पौरुषं न्यायवृत्तेः सपदि तद उपनिन्ये रिक्ततां नीलकण्ठः ।। किरातार्जुनीयम् - 16 - 63 ।।
वीतप्रभावतनुरप्यतनुप्रभावः प्रत्याचकाङ्क्ष जयिनीं भुजवीर्यलक्ष्मीम् ।
अस्त्रेषु भूतपतिनापहृतेषु जिष्णुर्वर्षिष्यता दिनकृतेव जलेषु लोकः ।। किरातार्जुनीयम् - 16 - 64 ।।


।। इति किरातार्जुनीयमहाकाव्ये षोडशसर्गः ।।

सप्तदशसर्गः

अथापदाम् उद्धरणक्षमेषु मित्रेष्विवास्त्रेषु तिरोहितेषु ।
धृतिं गुरुश्रीर्गुरुणाभिपुष्यन्स्वपौरुषेणेव शरासनेन ।। किरातार्जुनीयम् - 17 - 1 ।।
भूरिप्रभावेण रणाभियोगात्प्रीतो विजिह्मश्च तदीयवृद्ध्या ।
स्पष्टोऽप्यविस्पष्टवपुःप्रकाशः सर्पन्महाधूम इवाद्रिवह्निः ।। किरातार्जुनीयम् - 17 - 2 ।।
तेजः समाश्रित्य परैरहार्यं निजं महन्मित्रम् इवोरुधैर्यम् ।
आसादयन्नस्खलितस्वभावं भीमे भुजालम्बम् इवारिदुर्गे ।। किरातार्जुनीयम् - 17 - 3 ।।
वंशोचितत्वादभिमानवत्या सम्प्राप्तया सम्प्रियताम् असुभ्यः ।
समक्षम् आदित्सितया परेण वध्वेव कीर्त्या परितप्यमानः ।। किरातार्जुनीयम् - 17 - 4 ।।
पतिं नगानाम् इव बद्धमूलम् उन्मूलयिष्यंस्तरसा विपक्षम् ।
लघुप्रयत्नं निगृहीतवीर्यस्त्रिमार्गगावेग इवेश्वरेण ।। किरातार्जुनीयम् - 17 - 5 ।।
संस्कारवत्त्वाद्रमयत्सु चेतः प्रयोगशिक्षागुणभूषणेषु ।
जयं यथार्थेषु शरेषु पार्थः शब्देषु भावार्थम् इव आशशंसे ।। किरातार्जुनीयम् - 17 - 6 ।।
भूयः समाधानविवृद्धतेजा नैवं पुरा युद्धम् इति व्यथावान् ।
स निर्ववामास्रम् अमर्षनुन्नं विषं महानाग इवेक्षणाभ्याम् ।। किरातार्जुनीयम् - 17 - 7 ।।
तस्याहवायासविलोलमौलेः संरम्भताम्रायतलोचनस्य ।
निर्वापयिष्यन्निव रोषतप्तं प्रस्नापयामास मुखं निदाघः ।। किरातार्जुनीयम् - 17 - 8 ।।
क्रोधान्धकारान्तरितो रणाय भ्रूभेदरेखाः स बभार तिस्रः ।
घनोपरुद्धः प्रभवाय वृष्टेरूर्ध्वांशुराजीरिव तिग्मरश्मिः ।। किरातार्जुनीयम् - 17 - 9 ।।
स प्रध्वनय्याम्बुदनादि चापं हस्तेन दिङ्नाग इवाद्रिशृङ्गम् ।
बलानि शम्भोरिषुभिः तताप चेतांसि चिन्ताभिरिवाशरीरः ।। किरातार्जुनीयम् - 17 - 10 ।।
सद्वादितेवाभिनिविष्टबुद्धौ गुणाभ्यसूयेव विपक्षपाते ।
अगोचरे वागिव च उपरेमे शक्तिः शराणां शितिकण्ठकाये ।। किरातार्जुनीयम् - 17 - 11 ।।
उमापतिं पाण्डुसुतप्रणुन्नाः शिलीमुखा न व्यथयांबभूवुः
अभ्युत्थितस्याद्रिपतेर्नितम्बम् अर्कस्य पादा इव हैमनस्य ।। किरातार्जुनीयम् - 17 - 12 ।।
सम्प्रीयमाणः अनुबभूव तीव्रं पराक्रमं तस्य पतिर्गणानाम् ।
विषाणभेदं हिमवानसह्यं वप्रानतस्येव सुरद्विपस्य ।। किरातार्जुनीयम् - 17 - 13 ।।
तस्मै हि भारोद्धरणे समर्थं प्रदास्यता बाहुम् इव प्रतापम् ।
चिरं विषेहे अभिभवस्तदानीं स कारणानाम् अपि कारणेन ।। किरातार्जुनीयम् - 17 - 14 ।।
प्रत्याहतौजाः कृतसत्त्ववेगः पराक्रमं ज्यायसि यः तनोति
तेजांसि भानोरिव निष्पतन्ति यशांसि वीर्यज्वलितानि तस्य ।। किरातार्जुनीयम् - 17 - 15 ।।
दृष्टावदानाद् व्यथते अरिलोकः प्रध्वंसम् एति व्यथिताच्च तेजः ।
तेजोविहीनं विजहाति दर्पः शान्तार्चिषं दीपम् इव प्रकाशः ।। किरातार्जुनीयम् - 17 - 16 ।।
ततः प्रयात्यस्तमदावलेपः स जय्यतायाः पदवीं जिगीषोः ।
गन्धेन जेतुः प्रमुखागतस्य प्रतिद्विपस्येव मतङ्गजौघः ।। किरातार्जुनीयम् - 17 - 17 ।।
एवं प्रतिद्वन्द्विषु तस्य कीर्तिं मौलीन्दुलेखाविशदां विधास्यन् ।
इयेष पर्यायजयावसादां रणक्रियां शम्भुरनुक्रमेण ।। किरातार्जुनीयम् - 17 - 18 ।।
मुनेर्विचित्रैरिषुभिः स भूयान् निन्ये वशं भूतपतेर्बलौघः ।
सहात्मलाभेन समुत्पतद्भिर्जातिस्वभावैरिव जीवलोकः ।। किरातार्जुनीयम् - 17 - 19 ।।
वितन्वतस्तस्य शरान्धकारं त्रस्तानि सैन्यानि रवं निशेमुः ।
प्रवर्षतः संततवेपथूनि क्षपाघनस्येव गवां कुलानि ।। किरातार्जुनीयम् - 17 - 20 ।।
स सायकान्साध्वसविप्लुतानां क्षिपन्परेषाम् अतिसौष्ठवेन ।
शशीव दोषावृतलोचनानां विभिद्यमानः पृथग् आबभासे ।। किरातार्जुनीयम् - 17 - 21 ।।
क्षोभेण तेनाथ गणाधिपानां भेदं ययवाकृतिरीश्वरस्य ।
तरङ्गकम्पेन महाह्रदानां छायामयस्येव दिनस्य कर्तुः ।। किरातार्जुनीयम् - 17 - 22 ।।
प्रसेदिवांसं न तम् आप कोपः कुतः परस्मिन्पुरुषे विकारः ।
आकारवैषम्यम् इदं च भेजे दुर्लक्ष्यचिह्ना महतां हि वृत्तिः ।। किरातार्जुनीयम् - 17 - 23 ।।
विस्फार्यमाणस्य ततो भुजाभ्यां भूतानि भर्त्रा धनुरन्तकस्य ।
भिन्नाकृतिं ज्यां ददृशुः स्फुरन्तीं क्रुद्धस्य जिह्वाम् इव तक्षकस्य ।। किरातार्जुनीयम् - 17 - 24 ।।
स्व्यापसव्यध्वनितोग्रचापं पार्थः किराताधिपम् आशशङ्के
पर्यायसम्पादितकर्णतालं यन्ता गजं व्यालम् इवापराद्धः ।। किरातार्जुनीयम् - 17 - 25 ।।
निजघ्निरे तस्य हरेषुजालैः पतन्ति वृन्दानि शिलीमुखानाम् ।
ऊर्जस्विभिः सिन्धुमुखागतानि यादांसि यादोभिरिवाम्बुराशेः ।। किरातार्जुनीयम् - 17 - 26 ।।
विभेदम् अन्तः पदवीनिरोधं विध्वंसनं चाविदितप्रयोगः ।
नेतारिलोकेषु करोति यद्यत्तत्तच्चकारास्य शरेषु शम्भुः ।। किरातार्जुनीयम् - 17 - 27 ।।
सोढावगीतप्रथमायुधस्य क्रोधोज्झितैर्वेगितया पतद्भिः ।
छिन्नैरपि त्रासितवाहिनीकैः पेते कृतार्थैरिव तस्य बाणैः ।। किरातार्जुनीयम् - 17 - 28 ।।
अलङ्कृतानाम् ऋजुतागुणेन गुरूपदिष्टां गतिम् आस्थितानाम् ।
सताम् इवापर्वणि मार्गणानां भङ्गः स जिष्णोर्धृतिम् उन्ममाथ ।। किरातार्जुनीयम् - 17 - 29 ।।
बाणच्छिदस्ते विशिखाः स्मरारेरवाङ्मुखीभूतफलाः पतन्तः ।
अखण्डितं पाण्डवसायकेभ्यः कृतस्य सद्यः प्रतिकारम् आपुः ।। किरातार्जुनीयम् - 17 - 30 ।।
चित्रीयमाणानतिलाघवेन प्रमाथिनस्तान्भवमार्गणानाम् ।
समाकुलाया निचखान दूरं बाणान्ध्वजिन्या हृदयेष्वरातिः ।। किरातार्जुनीयम् - 17 - 31 ।।
तस्यातियत्नादतिरिच्यमाने पराक्रमेऽन्योन्यविशेषणेन ।
हन्ता पुरां भूरि पृषत्कवर्षं निरास नैदाघ इवाम्बु मेघः ।। किरातार्जुनीयम् - 17 - 32 ।।
अनामृशन्तः क्वचिदेव मर्म प्रियैषिणानुप्रहिताः शिवेन ।
सुहृत्प्रयुक्ता इव नर्मवादाः शरा मुनेः प्रीतिकरा बभूवुः ।। किरातार्जुनीयम् - 17 - 33 ।।
अस्त्रैः समानाम् अतिरेकिणीं वा पश्यनीषूणाम् अपि तस्य शक्तिम् ।
विषादवक्तव्यबलः प्रमाथी स्वम् आललम्बे बलम् इन्दुमौलिः ।। किरातार्जुनीयम् - 17 - 34 ।।
तपस्तपोवीर्यसमुद्धतस्य पारं यियासोः समरार्णवस्य ।
महेषुजालान्यखिलानि जिष्णोरर्कः पयांसीव समाचचाम ।। किरातार्जुनीयम् - 17 - 35 ।।
रिक्ते सविस्रम्भम् अथार्जुनस्य निषङ्गवक्त्रे निपतात पाणिः ।
अन्यद्विपापीतजले सतर्षं मतङ्गजस्येव नगाश्मरन्ध्रे ।। किरातार्जुनीयम् - 17 - 36 ।।
च्युते स तस्मिन्निषुधौ शरार्थाद्ध्वस्तार्थसारे सहसेव बन्धौ ।
तत्कालमोघप्रणयः प्रपेदे निर्वाच्यताकाम इवाभिमुख्यम् ।। किरातार्जुनीयम् - 17 - 37 ।।
आघट्टयामास गतागताभ्यां सावेगम् अग्राङ्गुलिरस्य तूणौ ।
विधेयमार्गे मतिरुत्सुकस्य नयप्रयोगाविव गां जिगीषोः ।। किरातार्जुनीयम् - 17 - 38 ।।
बभार शून्याकृतिरर्जुनस्तौ महेषुधी वीतमहेषुजालौ ।
युगान्तसंशुष्कजलौ विजिह्मः पूर्वापरौ लोक इवाम्बुराशी ।। किरातार्जुनीयम् - 17 - 39 ।।
तेनातिमित्तेन तथा न पार्थस्तयोर्यथा रिक्ततयानुतेपे ।
स्वाम् आपदं प्रोज्झ्य विपत्तिमग्नं शोचन्ति सन्तो ह्युपकारिपक्षम् ।। किरातार्जुनीयम् - 17 - 40 ।।
प्रतिक्रियायै विधुरः स तस्मात्कृच्छ्रेण विश्लेषम् इयाय हस्तः ।
पराङ्मुखत्वेऽपि कृतोपकारात्तूणीमुखान्मित्रकुलादिवार्यः ।। किरातार्जुनीयम् - 17 - 41 ।।
पश्चात्क्रिया तूणयुगस्य भर्तुर्जज्ञे तदानीम् उपकारिणीव ।
सम्भावनायाम् अधरीकृतायां पत्युः पुरः साहसम् आसितव्यम् ।। किरातार्जुनीयम् - 17 - 42 ।।
तं शम्भुराक्षिप्तमहेषुजालं लोहैः शरैर्मर्मसु निस्तुतोद
हृत्तोत्तरं तत्त्वविचारमध्ये वक्तेव दोषैर्गुरुभिर्विपक्षम् ।। किरातार्जुनीयम् - 17 - 43 ।।
जहार चास्मादचिरेण वर्म ज्वलन्मणिद्योतितहैमलेखम् ।
चण्डः पतङ्गान्मरुदेकनीलं तडित्वतः खण्डम् इवाम्बुदस्य ।। किरातार्जुनीयम् - 17 - 44 ।।
विकोशनिर्धौततनोर्महासेः फणावतश्च त्वचि विच्युतायाम् ।
प्रतिद्विपाबद्धरुषः समक्षं नागस्य चाक्षिप्तमुखच्छदस्य ।। किरातार्जुनीयम् - 17 - 45 ।।
विबोधितस्य ध्वनिना घनानां हरेरपेतस्य च शैलरन्ध्रात् ।
निरस्तधूमस्य च रात्रिवह्नेर्विना तनुत्रेण रुचिं स भेजे ।। किरातार्जुनीयम् - 17 - 46 ।।
अचित्ततायाम् अपि नाम युक्ताम् अनूर्ध्वतां प्राप्य तदीयकृच्छ्रे ।
महीं गतौ ताविषुधी तदानीं विवव्रतुः चेतनयेव योगम् ।। किरातार्जुनीयम् - 17 - 47 ।।
स्थितं विशुद्धे नभसीव सत्त्वे धाम्ना तपोवीर्यमयेन युक्तम् ।
शस्त्राभिघातैस्तम् अजस्रम् ईशस्त्वष्टा विवस्वन्तम् इव उल्लिलेख ।। किरातार्जुनीयम् - 17 - 48 ।।
संरम्भवेगोज्झितवेदनेषु गात्रेषु बाहिर्यम् उपागतेषु ।
मुनेः बभूव अगणितेषुराशेर्लौहस्तिरस्कार इवात्ममन्युः ।। किरातार्जुनीयम् - 17 - 49 ।।
ततोऽनुपूर्वायतवृत्तबाहुः श्रीमान्क्षरल्लोहितदिग्धदेहः ।
आस्कन्द्य वेगेन विमुक्तनादः क्षितिं विधुन्वन्निव पार्ष्णिघातैः ।। किरातार्जुनीयम् - 17 - 50 ।।
साम्यं गतेनाशनिना मघोनः शशाङ्कखण्डाकृतिपाण्डुरेण ।
शम्भुं बिभित्सुर्धनुषा जघान स्तम्बं विषाणेन महानिवेभः ।। किरातार्जुनीयम् - 17 - 51 ।।
रयेण सा संनिदधे पतन्ती भवोद्भवेनात्मनि चापयष्टिः ।
समुद्धता सिन्धुरनेकमार्गा परे स्थितेनौजसि जह्नुनेव ।। किरातार्जुनीयम् - 17 - 52 ।।
विकार्मुकः कर्मसु शोचनीयः परिच्युतौदार्य इवोपचारः ।
विचिक्षिपे शूलभृता सलीलं स पत्रिभिर्दूरम् अदूरपातैः ।। किरातार्जुनीयम् - 17 - 53 ।।
उपोढकल्याणफलोऽभिरक्षन्वीरव्रतं पुण्यरणाश्रमस्थः ।
जपोपवासैरिव संयतात्मा तेपे मुनिस्तैरिषुभिः शिवस्य ।। किरातार्जुनीयम् - 17 - 54 ।।
ततोऽग्रभूमिं व्यवसायसिद्धेः सीमानम् अन्यैरतिदुस्तरं सः ।
तेजःश्रियाम् आश्रयम् उत्तमासिं साक्षादहङ्कारम् इव आललम्बे ।। किरातार्जुनीयम् - 17 - 55 ।।
शरानवद्यन्ननवद्यकर्मा चचार चित्रं प्रविचारमार्गैः ।
हस्तेन निस्त्रिंशभृता स दीप्तः सार्कांशुना वारिधिरूर्मिणेव ।। किरातार्जुनीयम् - 17 - 56 ।।
यथा निजे वर्त्मनि भाति भाभिश्च्यायामयश्चाप्सु सहस्ररश्मिः ।
तथा नभस्याशु रणस्थलीषु स्पष्टद्विमूर्तिः ददृशे स भूतैः ।। किरातार्जुनीयम् - 17 - 57 ।।
शिवप्रणुन्नेन शिलीमुखेन त्सरुप्रदेशादपवर्जिताङ्गः ।
ज्वलन्नसिस्तस्य पपात पाणेर्घनस्य वप्रादिव वैद्युतोऽग्निः ।। किरातार्जुनीयम् - 17 - 58 ।।
आक्षिप्तचापावरणेषुजालश्छिन्नोत्तमासिः स मृधेऽवधूतः ।
रिक्तः प्रकाशश्च बभूव भूमेरुत्सादितोद्यान इव प्रदेशः ।। किरातार्जुनीयम् - 17 - 59 ।।
स खण्डनं प्राप्य परादमर्षवान्भुजद्वितीयोऽपि विजेतुम् इच्छया ।
ससर्ज वृष्टिं परिरुग्णपादपां द्रवेतरेषां पयसाम् इवाश्मनाम् ।। किरातार्जुनीयम् - 17 - 60 ।।
नीरन्ध्रं परिगमिते क्षयं पृषत्कैर्भूतानाम् अधिपतिना शिलाविताने ।
उच्छ्रायस्थगितनभोदिगन्तरालं चिक्षेप क्षितिरुहजालम् इन्द्रसूनुः ।। किरातार्जुनीयम् - 17 - 61 ।।
निःशेषं शकलितवल्कलाङ्गसारैः कुर्वद्भिर्भुवम् अभितः कषायचित्राम् ।
ईशानः सकुसुमपल्लवैर्नगैस्तैः आतेने बलिम् इव रङ्गदेवताभ्यः ।। किरातार्जुनीयम् - 17 - 62 ।।
उन्मज्जन्मकर इवामारापगाया वेगेन प्रतिमुखम् एत्य बाणनद्याः ।
गाण्डीवी कनकशिलानिभं भुजाभ्याम् आजघ्ने विषम् अविलोचनस्य वक्षः ।। किरातार्जुनीयम् - 17 - 63 ।।
अभिलषतः उपायं विक्रमं कीर्तिलक्ष्म्योरसुगमम् अरिसैन्यैरङ्कम् अभ्यागतस्य ।
जनक इव शिशुत्वे सुप्रियस्यैकसूनोरविनयम् अपि सेहे पाण्डवस्य स्मरारिः ।। किरातार्जुनीयम् - 17 - 64 ।।


।। इति किरातार्जुनीयमहाकाव्ये सप्तदशसर्गः ।।

अष्टादशसर्गः

तत उदग्र इव द्विरदे मुनौ रणम् उपेयुषि भीमभुजायुधे ।
धनुरपास्य सबाणधि शङ्करः प्रतिजघान घनैरिव मुष्टिभिः ।। किरातार्जुनीयम् - 18 - 1 ।।
हरपृथासुतयोर्ध्वनिरुत्पतन्नमृदुसंवलिताङ्गुलिपाणिजः ।
स्फुटदनल्पशिलारवदारुणः प्रतिननाद दरीषु दरीभृतः ।। किरातार्जुनीयम् - 18 - 2 ।।
शिवभुजाहतिभिन्नपृथुक्षतीः सुखम् इव अनुबभूव कपिध्वजः ।
क इव नाम बृहन्मनसां भवेत् अनुकृतेरपि सत्त्ववतां क्षमः ।। किरातार्जुनीयम् - 18 - 3 ।।
व्रणमुखच्युतशोणितशीकरस्थगितशैलतटाभभुजान्तरः ।
अभिनवौषसरागभृता बभौ जलधरेण समानम् उमापतिः ।। किरातार्जुनीयम् - 18 - 4 ।।
उरसि शूलभृतः प्रहिता मुहुः प्रतिहतिं ययुः अर्जुनमुष्टयः ।
भृशरया इव सह्यमहीभृतः पृथुनि रोधसि सिन्धुमहोर्मयः ।। किरातार्जुनीयम् - 18 - 5 ।।
निपतितेऽधिशिरोधरम् आयते समम् अरत्नियुगेऽयुगचक्षुषः ।
त्रिचतुरेषु पदेषु किरीटिना लुलितदृष्टि मदादिव चस्खले ।। किरातार्जुनीयम् - 18 - 6 ।।
अभिभवोदितमन्युविदीपितः समभिसृत्य भृशं जवम् ओजसा ।
भुजयुगेन विभज्य समाददे शशिकलाभरणस्य भुजद्वयम् ।। किरातार्जुनीयम् - 18 - 7 ।।
प्रववृते अथ महाहवमल्लयोरचलसञ्चलनाहरणो रणः ।
करणशृङ्खलसङ्कलनागुरुर्गुरुभुजायुधगर्वितयोस्तयोः ।। किरातार्जुनीयम् - 18 - 8 ।।
अयम् असौ भगवानुत पाण्डवः स्थितम् अवाङ्मुनिना शशिमौलिना ।
समधिरूढम् अजेन नु जिष्णुना स्विदिति वेगवशान्मुमुहे गणैः ।। किरातार्जुनीयम् - 18 - 9 ।।
प्रचलिते चलितं स्थितम् आस्थिते विनमिते नतम् उन्नतम् उन्नतौ ।
वृषकपिध्वजयोरसहिष्णुना मुहुरभावभयादिव भूभृता ।। किरातार्जुनीयम् - 18 - 10 ।।
करणशृङ्खलनिःसृतयोस्तयोः कृतभुजध्वनि वल्गु विवल्गतोः ।
चरणपातनिपातितरोधरसः प्रससृपुः सरितः परितः स्थलीः ।। किरातार्जुनीयम् - 18 - 11 ।।
वियति वेगपरिप्लुतम् अन्तरा समभिसृत्य रयेण कपिध्वजः ।
चरणयोश्चरणानमितक्षितिः निजगृहे तिसृणां जयिनं पुराम् ।। किरातार्जुनीयम् - 18 - 12 ।।
विस्मितः सपदि तेन कर्मणा कर्मणां क्षयकरः परः पुमान् ।
क्षेप्तुकामम् अवनौ तम् अक्लमं निष्पिपेष परिरभ्य वक्षसा ।। किरातार्जुनीयम् - 18 - 13 ।।
तपसा तथा न मुदम् अस्य ययौ भगवान्यथा विपुलसत्त्वतया ।
गुणसंहतेः समतिरिक्तम् अहो निजम् एव सत्त्वम् उपकारि सताम् ।। किरातार्जुनीयम् - 18 - 14 ।।
अथ हिमशुचिभस्मभूषितं शिरसि विराजितम् इन्दुलेखया ।
स्ववपुरतिमनोहरं हरं दधतम् उदीक्ष्य ननाम पाण्डवः ।। किरातार्जुनीयम् - 18 - 15 ।।
सहशरधि निजं तथा कार्मुकं वपुरतनु तथैव संवर्मितम् ।
निहितम् अपि तथैव पश्यन्नसिं वृषभगतिः उपाययौ विस्मयम् ।। किरातार्जुनीयम् - 18 - 16 ।।
सिषिचुरवनिम् अम्बुवाहाः शनैः सुरकुसुमम् इयाय चित्रं दिवः ।
विमलरुचि भृशं नभो दुन्दुभेर्ध्वनिरखिलम् अनाहतस्यानशे ।। किरातार्जुनीयम् - 18 - 17 ।।
आसेदुषां गोत्रभिदोऽनुवृत्त्या गोपायकानां भुवनत्रयस्य ।
रोचिष्णुरत्नावलिभिर्विमानैर्द्यौराचिता तारकितेव रेजे ।। किरातार्जुनीयम् - 18 - 18 ।।
हंसा बृहन्तः सुरसद्मवाहाः संह्रादिकण्ठाभरणाः पतन्तः ।
चक्रुः प्रयत्नेन विकीर्यमाणैर्व्योम्नः परिष्वङ्गम् इवाग्रपक्षैः ।। किरातार्जुनीयम् - 18 - 19 ।।
मुदितमधुलिहो वितानीकृताः स्रज उपरि वितत्य सातानिकीः ।
जलद इव निषेदिवांसं वृषे मरुदुपसुखयांबभूवेश्वरम् ।। किरातार्जुनीयम् - 18 - 20 ।।
कृतधृति परिवन्दितेनोच्चकैर्गणपतिभिरभिन्नरोमोद्गमैः ।
तपसि कृतफले फलज्यायसी स्तुतिरिति जगदे हरेः सूनुना ।। किरातार्जुनीयम् - 18 - 21 ।।
शरणं भवन्तम् अतिकारुणिकं भव भक्तिगम्यम् अधिगम्य जनाः ।
जितमृत्यवोऽजित भवन्ति भये ससुरासुरस्य जगतः शरणम् ।। किरातार्जुनीयम् - 18 - 22 ।।
विपदेति तावदवसादकरी न च कामसम्पदभिकामयते ।
नमन्ति चैकपुरुषं पुरुषास्तव यावदीश न नतिः क्रियते ।। किरातार्जुनीयम् - 18 - 23 ।।
संसेवन्ते दानशीला विमुक्त्य सम्पश्यन्तो जन्मदुःखं पुमांसः ।
यन्निःसङ्गस्त्वं फलस्यानतेभ्यस्तत्कारुण्यं केवलं न स्वकार्यम् ।। किरातार्जुनीयम् - 18 - 24 ।।
प्राप्यते यदिह दूरम् अगत्वा यत्फलत्यपरलोकगताय ।
तीर्थम् अस्ति न भवार्णवबाह्यं सार्वकामिकम् ऋते भवतः तत् ।। किरातार्जुनीयम् - 18 - 25 ।।
व्रजति शुचि पदं त्वति प्रीतिमान्प्रतिहतम् अतिरेति घोरां गतिम् ।
इयम् अनघ निमित्तशक्तिः परा तव वरद न चित्तभेदः क्वचित् ।। किरातार्जुनीयम् - 18 - 26 ।।
दक्षिणां प्रणतदक्षिण मूर्तिं तत्त्वतः शिवकरीम् अविदित्वा ।
रागिणापि विहिता तव भक्त्या संस्मृतिर्भव भवति अभवाय ।। किरातार्जुनीयम् - 18 - 27 ।।
दृष्ट्वा दृश्यान्याचरणीयानि विधाय प्रेक्षाकारी याति पदं मुक्तम् अपायैः ।
सम्यग्दृष्टिस्तस्य परं पश्यति यस्त्वां यश्चोपास्ति साधु विधेयं स विधत्ते ।। किरातार्जुनीयम् - 18 - 28 ।।
युक्ताः स्वशक्त्या मुनयः प्रजानां हितोपदेशैरुपकारवन्तः ।
समुच्छिनत्सि त्वम् अचिन्त्यधामा कर्माण्युपेतस्य दुरुत्तराणि ।। किरातार्जुनीयम् - 18 - 29 ।।
संनिबद्धम् अपहर्तुम् अहार्यं भूरि दुर्गतिभयं भुवनानाम् ।
अद्भुताकृतिम् इमाम् अतिमायस्त्वं बिभर्षि करुणामय मायाम् ।। किरातार्जुनीयम् - 18 - 30 ।।
न रागि चेतः परमा विलासिता वधूः शरीरे अस्ति न च अस्ति मन्मथः ।
नमस्क्रिया चोषसि दातुरित्यहो निसर्गदुर्बोधम् इदं तवेहितम् ।। किरातार्जुनीयम् - 18 - 31 ।।
तवोत्तरीयं करिचर्म साङ्गजं ज्वलन्मणिः सारशनं महानहिः ।
स्रगास्यपङ्क्तिः शवभस्म चन्दनं कला हिमांशोश्च समं चकासति ।। किरातार्जुनीयम् - 18 - 32 ।।
अविग्रहस्याप्यतुलेन हेतुना समेतभिन्नद्वयमूर्ति तिष्ठतः
तवैव नान्यस्य जगत्सु दृश्यते विरुद्धवेषाभरणस्य कान्तता ।। किरातार्जुनीयम् - 18 - 33 ।।
आत्मलाभपरिणामनिरोधैर्भूतसङ्घ इव न त्वम् उपेतः
तेन सर्वभुवनातिग लोके नोपमानम् असि नाप्युपेमयः ।। किरातार्जुनीयम् - 18 - 34 ।।
त्वम् अन्तकः स्थावरजङ्गमानां त्वया जगत्प्राणिति देव विश्वम् ।
त्वं योगिनां हेतुफले रुणत्सि त्वं कारणं कारणकारणानाम् ।। किरातार्जुनीयम् - 18 - 35 ।।
रक्षोभिः सुरमनुजैर्दितेः सुतैर्वा यल्लोकेष्वविकलम् आप्तम् आधिपत्यम् ।
पाविन्याः शरणगतार्तिहारिणे तन्माहात्म्यं भव भवते नमस्क्रियायाः ।। किरातार्जुनीयम् - 18 - 36 ।।
तरसा भुवनानि यो बिभर्ति ध्वनति ब्रह्म यतः परं पवित्रम् ।
परितो दुरितानि यः पुनीते शिव तस्मै पवनातने नमस्ते ।। किरातार्जुनीयम् - 18 - 37 ।।
भवतः स्मरतां सदासने जयिनि ब्रह्ममये निषेदुषाम् ।
दहते भवबीजसन्ततिं शिखिनेऽनेकशिखाय ते नमः ।। किरातार्जुनीयम् - 18 - 38 ।।
आबाधामरणभयार्चिषा चिराय प्लुष्टेभ्यो भव महता भवानलेन ।
निर्वाणं समुपगमेन यच्छते ते बीजानां प्रभव नमोऽस्तु जीवनाय ।। किरातार्जुनीयम् - 18 - 39 ।।
यः सर्वेषाम् आवरीता वरीयान्सर्वैर्भावैर्नावृतोऽनादिनिष्ठः ।
मार्गातीतायेन्द्रियाणां नमस्तेऽविज्ञेयाय व्योमरूपाय तस्मै ।। किरातार्जुनीयम् - 18 - 40 ।।
अणीयसे विश्वविधारिणे नमो नमोऽन्तिकस्थाय नमो दवीयसे ।
अतीत्य वाचां मनसां च गोचरं स्थिताय ते तत्पतये नमो नमः ।। किरातार्जुनीयम् - 18 - 41 ।।
असंविदानस्य ममेश संविदां तितिक्षितुं दुश्चरितं त्वम् अर्हसि
विरोध्य मोहात्पुनरभ्युपेयुषां गतिर्भवानेव दुरात्मनापि ।। किरातार्जुनीयम् - 18 - 42 ।।
आस्तिक्यशुद्धम् अवतः प्रियधर्म धर्मं धर्मात्मजस्य विहितागसि शत्रुवर्गे ।
सम्प्राप्नुयां विजयम् ईश यया समृद्ध्या तां भूतनाथ विभुतां वितराहवेषु ।। किरातार्जुनीयम् - 18 - 43 ।।
इति निगदितवन्तं सूनुम् उच्चैर्मघोनः प्रणतशिरसम् ईशः सादरं सान्त्वयित्वा ।
ज्वलदनलपरीतं रौद्रम् अस्त्रं दधानं धनुरुपपदम् अस्मै वेदम् अभ्यादिदेश ।। किरातार्जुनीयम् - 18 - 44 ।।
स पिङ्गाक्षः श्रीमान्भुवनमहनीयेन महसा तनुं भीमां बिभ्रत्त्रिगुणपरिवारप्रहरणः ।
परीत्येशानं त्रिः स्तुतिभिरुपगीतः सुरगणैः सुतं पाण्डोर्वीरं जलदम् इव भास्वान् अभिययौ ।। किरातार्जुनीयम् - 18 - 45 ।।
अथ शशधरमौलेरभ्यनुज्ञाम् अवाप्य त्रिदशपतिपुरोगाः पूर्णकामाय तस्मै ।
अवितथफलम् आशिर्वादम् आरोपयन्तो विजयि विविधम् अस्त्रं लोकपाला वितेरुः ।। किरातार्जुनीयम् - 18 - 46 ।।
असंहार्योत्साहं जयिनम् उदयं प्राप्य तरसा धुरं गुर्वीं वोढुं स्थितम् अनवसादाय जगतः ।
स्वधाम्ना लोकानां तम् उपरि कृतस्थानम् अमरास्तपोलक्ष्म्या दीप्तं दिनकृतम् इवोच्चैः उपजगुः ।। किरातार्जुनीयम् - 18 - 47 ।।
व्रज जय रिपुलोकं पादपद्मानतः सन्गदित इति शिवेन श्लाघितो देवसङ्घैः ।
निजगृहम् अथ गत्वा सादरं पाण्डुपुत्रो धृतगुरुजयलक्ष्मीर्धर्मसूनुं ननाम ।। किरातार्जुनीयम् - 18 - 48 ।।


।। इति किरातार्जुनीयमहाकाव्ये अष्टादशसर्गः ।।