प्रथमसर्गः
निपीय यस्य क्षितिरक्षिणः कथां तथा
आद्रियन्ते न बुधाः सुधामपि ।
नलः सितच्छत्त्रितकीर्तिमण्डलः स राशिः
आसीत् महसां महोज्ज्वलः ॥ नैषधीयचरितम् - 1 - 1 ॥
रसैः कथा यस्य सुधावधीरणी नलः स भूजा
निरभूत् गुणाद्भूतः।
सुवर्णदण्डैकसितातपत्रितज्वलत्प्रतापावलिकीर्तिमण्डलः ॥ नैषधीयचरितम् - 1 - 2 ॥
पवित्रमत्र
आतनुते जगद्युगे स्मृता रसक्षालनयेव यत्कथा ।
कथं न सा मद्गिरमाविलामपि स्वसेविनीमेव पवित्रयिष्यति ॥ नैषधीयचरितम् - 1 - 3 ॥
अधीतिबोधाचरणप्रचारणैर्दशाश्चतस्रः प्रणयन्नुपाधिभिः ।
चतुर्दशत्वं कृतवान्कुतः स्वयं न
वेद्मि विद्यासु चतुर्दशस्वयम् ॥ नैषधीयचरितम् - 1 - 4 ॥
अमुष्य विद्या रसनाग्रनर्तकी त्रयीव नीताङ्गगुणेन विस्तरम् ।
अगाहत अष्टादशतां जिगीषया नवद्वयद्वीपपृथग्जयश्रियाम् ॥ नैषधीयचरितम् - 1 - 5 ॥
दिगीशवृन्दांशविभूतिरीशिता दिशां स कामप्रसरावरोधिनीम् ।
बभार शास्त्राणि दृशं द्वयाधिकां निजत्रिनेत्रावतरत्वबोधिकाम् ॥ नैषधीयचरितम् - 1 - 6 ॥
पदैश्चतुर्भिः सुकृते स्थिरीकृते कृतेऽमुना के न तपः
प्रपेदिरे ।
भुवं यदेकाङ्घ्रिकनिष्ठया स्पृशन्
दधौ अधर्मोऽपि कृशस्तपस्विताम् ॥ नैषधीयचरितम् - 1 - 7 ॥
यदस्य यात्रासु बलोद्धतं रजः स्फुरत्प्रतापानलधूममञ्जिम ।
तदेव गत्वा पतितं सुधाम्बुधौ
दधाति पङ्कीभवदङ्कतां विधौ ॥ नैषधीयचरितम् - 1 - 8 ॥
स्फुरद्धनुर्निस्वनतद्धनाशौगप्रगल्भवृष्टिव्ययितस्य सङ्गरे ।
निजस्य तेजःशिखिनः परश्शता
वितेनुः इङ्गालमिवायशः परे ॥ नैषधीयचरितम् - 1 - 9 ॥
अनल्पदग्धारिपुरानलोज्ज्वलैर्निजप्रतापैर्वलयज्ज्वलद्भुवः ।
प्रदक्षिणीकृत्य जयाय सृष्टया
रराज नीराजनया स राजघः ॥ नैषधीयचरितम् - 1 - 10 ॥
निवारिताष्तेन महीतलेऽखिले निरीतिभावं गमितेऽतिवृष्टयः ।
न
तत्यजुः नूनमनन्यविश्रमाः प्रतीपभूपालमृगीदृशां दृशः ॥ नैषधीयचरितम् - 1 - 11 ॥
सितांशुवर्णैः
वयति स्म तद्गुणैर्महासिवेम्नः सहकृत्वरी बहुम् ।
दिगङ्गनाङ्गावरणं रणाङ्गणे यशःपटं तद्भटचातुरीतुरी ॥ नैषधीयचरितम् - 1 - 12 ॥
प्रतीपभूपैरिव किं ततो मिया विरुद्धधर्मैरपि भेत्तृतोज्झिता ।
अमित्रजिन्मित्रजिदोजसा स यद्विचारदृकारदृगपि
अवर्तत ॥ नैषधीयचरितम् - 1 - 13 ॥
तदोजसस्तद्यशसः स्थिताविमौ वृथेति चित्ते कुरुते यदा यदा ।
तनोति भानोः परिवेषकैतवात्तदा विधिः कुण्डलनां विधोरपि ॥ नैषधीयचरितम् - 1 - 14 ॥
अये दरिद्रो
भविता इति वैधसीं लिपिं ललाटेऽर्थिजनस्य जाग्रतीम् ।
मृषां न
चक्रे अल्पितकल्पपादपः प्रणीय दारिद्र्यदरिद्रतां नृपः ॥ नैषधीयचरितम् - 1 - 15 ॥
विभज्य मेरुर्न यदर्थिसात्कृतो न सिन्धुरुत्सर्गजलव्ययैर्मरुः ।
अमानि तत्तेन निजायशोयुगं द्विफालबद्धाश्चिकुराः शिरः स्थितम् ॥ नैषधीयचरितम् - 1 - 16 ॥
अजस्रमभ्यासमुपेयुषा समं मुदैव देवः कविना बुधेन च ।
दधौ पटीयान्समयं नयन्नयं दिनेश्वरश्रीरुदयं दिने दिने ॥ नैषधीयचरितम् - 1 - 17 ॥
अधोविधानात्कमलप्रवालयोः शिरुःसु दानादखिलक्षमाभुजाम् ।
पुरेदमूर्ध्वं
भवति इति वेधसा पदं किमस्याङ्कितमूर्ध्वरेखया ॥ नैषधीयचरितम् - 1 - 18 ॥
जगज्जयं तेन च कोशमक्षयं प्रणीतवान् शैशवशेषवानयम् ।
सखा रतीशस्य क्रतुर्यथा वनं वपुस्तथा
आलिङ्गद् अथास्य यौवनम् ॥ नैषधीयचरितम् - 1 - 19 ॥
अधारि पद्मेषु तदङ्घ्रिणा घृणा क्व तच्छयच्छायलवोऽपि पल्लवे ।
तदास्यदास्येऽपि गतोऽघिकारितां न शारदः पार्विकशर्वरीश्वरः ॥ नैषधीयचरितम् - 1 - 20 ॥
किमस्य लोम्नां कपटेन कोटिभिर्विधिर्न लेखाभिः
अजीगणद् गुणान् ।
न रोमकूपौघमिषाज्जगत्कृता कृताश्च किं दूषणशून्यबिन्दवः ॥ नैषधीयचरितम् - 1 - 21 ॥
अमुष्य दोर्भ्यामरिदुर्गलुण्ठने ध्रुवं गृहीतार्गलदीर्घपीनता ।
उरःश्रिया तत्र च गोपुरस्फुरत्कपाटदुर्धर्षतिरःप्रसारिता ॥ नैषधीयचरितम् - 1 - 22 ॥
स्वकेलिलेशस्मितनिन्दितेन्दुनो निजांशदृक्तर्जितपद्मसम्पदः ।
अतद्बयीजित्वरसुन्दरान्तरे न तन्मुखस्य प्रतिमा चराचरे ॥ नैषधीयचरितम् - 1 - 23 ॥
सरोरुहं तस्य दृशैव निर्जितं जिताः स्मितेनैव विधोरपि श्रियः ।
कुतः परं भव्यमहो महीयसी तदाननस्योपमितौ दरिद्रता ॥ नैषधीयचरितम् - 1 - 24 ॥
स्ववालभारस्य तदुत्तमाङ्गजैः समं चमर्येव तुलाभिलाषिणः ।
अनागसे
शंसति बालचापलं पुनः पुनः पुच्छविलोलनच्छलात् ॥ नैषधीयचरितम् - 1 - 25 ॥
महीभ्र्तस्तस्य च मन्मथश्रिया निजस्य चित्तस्य च तं प्रतीच्छया ।
द्विधा नृपे तत्र जगत्त्रयीभुवां नतभ्रुवां मन्मथविभ्रमः
अभवत् ॥ नैषधीयचरितम् - 1 - 26 ॥
निमीलनभ्रंशजुषा दृशा भृशं निपीय तं यस्त्रिदशीभिरर्जितः ।
अमूस्तमभ्यासभरं
विवृण्वते निमेषनिःस्वैरधुनापि लोचनैः ॥ नैषधीयचरितम् - 1 - 27 ॥
अदस्तदाकर्णि फलाढ्यजीवितं दृशोर्द्वयं नस्तदवीक्षि चाफलम् ।
इति स्म चक्षुःश्रवसां प्रिया नले
स्तुवन्ति निन्दन्ति हृदा तदात्मनः ॥ नैषधीयचरितम् - 1 - 28 ॥
विलोकयन्तीभिरजस्रभावना बलादमुं नेत्रनिमीलनेष्वपि ।
अलम्भि मर्त्याभिरमुष्य दर्शने न विघ्नलेशोऽपि निमेषनिर्मितः ॥ नैषधीयचरितम् - 1 - 29 ॥
न का निशि स्वप्नगतं
ददर्श तं
जगाद गोत्रस्खलिते च का न तम् ।
तदात्मताध्यातधवा रते च का
चकार वा न स्वमनोभवोद्भवम् ॥ नैषधीयचरितम् - 1 - 30 ॥
श्रियास्य योग्याहमिति स्वमीक्षितुं करे तमालोक्य सुरूपया धृतः ।
विहाय भैमीमप्दर्पया कया न दर्पणः श्वासमलीमसः कृतः ॥ नैषधीयचरितम् - 1 - 31 ॥
यथोह्यमानः खलु भोगभोजिना प्रसह्य वैरोचनिजस्य पत्तनम् ।
विदर्भजाया मदनस्तथा मनो नलावरुद्धं वयसैव वेशितः ॥ नैषधीयचरितम् - 1 - 32 ॥
नृपेऽनुरूपे निजरूपसंपदां
दिदेश तस्मिन्बहुशः श्रुतिं गते ।
विशिष्य सा भीमनरेन्द्रनन्दना मनोभवाज्ञैकवशंवदं मनः ॥ नैषधीयचरितम् - 1 - 33 ॥
उपासनामेत्य पितुः स्म
रज्यते दिने दिने सावसरेषु बन्दिनाम् ।
पठत्सु तेषु प्रतिभूपतीनलं विनिद्ररोमाजनि शृण्वती नलम् ॥ नैषधीयचरितम् - 1 - 34 ॥
कथाप्रसङ्गेषु मिथः सखीमुखात्तृणेऽपि तन्व्या नलनामनि श्रुते ।
द्रुतं विधूयान्यद्
अभूयत अनया मुदा तदाकर्णनसज्जकर्णया ॥ नैषधीयचरितम् - 1 - 35 ॥
स्मरात्परासोरनिमेषलोचनाद्
बिभेमि तद्भिन्नमुदाहरेति सा ।
जनेन यूनः स्तुवता तदास्पदे निदर्शनं नैषाधमभ्यषेचयत् ॥ नैषधीयचरितम् - 1 - 36 ॥
नलस्य पृष्टा निषधागता गुणान्मिषेण दूतद्विजबन्दिचारणाः ।
निपीय तत्कीर्तिकथामथानया चिराय तस्थे विमनायमानया ॥ नैषधीयचरितम् - 1 - 37 ॥
प्रियं प्रिया च त्रिजगज्जयिश्रियौ लिखाधिलीलागृहमित्तिकावपि ।
इति स्म सा कारुवरेण लेखितं नलस्य च स्वस्य च सख्यम्
ईक्षते ॥ नैषधीयचरितम् - 1 - 38 ॥
मनोरथेन स्वपतीकृतं नलं निशि क्व सा न स्वपती स्म
पश्यति ।
अदृष्टमप्यर्थमदृष्टवैभवात्
करोति सुप्तिर्जनदर्शनातिथिम् ॥ नैषधीयचरितम् - 1 - 39 ॥
निमीलितादक्षियुगाच्च निद्रया हृदोऽपि बाह्येन्द्रियमौनमुद्रितात् ।
अदर्शि सङ्गोप्य कदाप्यवीक्षितो रहस्यमस्याः स महन्महीपतिः ॥ नैषधीयचरितम् - 1 - 40 ॥
अहो अहोभिर्महिमा हिमागमेऽपि
अभिप्रपेदे प्रति तां स्मरार्दिताम् ।
तपर्तुपूर्तावपि मेदसां भरा विभावरीभिर्बिभराम्बभूविरे ॥ नैषधीयचरितम् - 1 - 41 ॥
स्वकान्तिकीर्तिव्रजमौक्तिकस्रजः श्रयन्तमन्तर्घटनागुणश्रियम् ।
कदाचिदस्या युवधैर्यलोपिनं नलोऽपि लोकाद
अशृणोद् गुणोत्करम् ॥ नैषधीयचरितम् - 1 - 42 ॥
तमेव लब्ध्वावसरं ततः स्मरः शरीरशोभाजयजातमत्सरः ।
अमोघशक्त्या निजयेव मूर्तया तया विनिर्जेतुम्
इयेष नैषधम् ॥ नैषधीयचरितम् - 1 - 43 ॥
अकारि तेन श्रवणातिथिर्गुणः क्षमाभुजा भीमनृपात्मजालयः ।
तदुच्चधैर्यव्ययसंहितेषुणा स्मरेण च स्वात्मशरासनाश्रयः ॥ नैषधीयचरितम् - 1 - 44 ॥
अमुष्य धीरस्य जयाय साहसी तदा खलु ज्यां विशिखैः सनाथयन् ।
निमज्जयामास यशांसि संशये स्मरस्त्रिलोकीविजयार्जितान्यपि ॥ नैषधीयचरितम् - 1 - 45 ॥
अनेन भैमीं घटयिष्यतस्तथा विधेरवन्ध्येच्छतया
व्यलासि तत् ।
अभेदि तत्तादृगनङ्गमार्गणैर्यदस्य पौष्पैरपि धैर्यकञ्चुकम् ॥ नैषधीयचरितम् - 1 - 46 ॥
किमन्यदद्यापि यदस्त्रतापितः पितामहो वारिजम्
आश्रयति अहो ।
स्मरं तनुच्छायतया तमात्मनः
शशाक शङ्के स न लङ्घितुं नलः ॥ नैषधीयचरितम् - 1 - 47 ॥
उरोभुवा कुम्भयुगेन जृम्भितं नवोपहारेण वयस्कृतेन किम् ।
त्रपासरिद्दुर्गमपि प्रतीर्य सा नलस्य तन्वी हृदयं
विवेश यत् ॥ नैषधीयचरितम् - 1 - 48 ॥
अपह्नुवानस्य जनाय यन्निजामधीरतामस्य कृतं मनोभुवा ।
अबोधि तज्जागरदुःखसाक्षिणी निशा च शय्या च शशाङ्ककोमला ॥ नैषधीयचरितम् - 1 - 49 ॥
स्मरोपतप्तोऽपि भृशं न स प्रभुर्विदर्भराजं तनयाम्
अयाचत ।
त्यजन्ति अमूञ्शर्म च मानिनो वरं
त्यजन्ति त्यजन्ति न त्वेकमयाचितव्रतम् ॥ नैषधीयचरितम् - 1 - 50 ॥
मृषाविषादाभिनयादयं क्वचिद्
जुगोप निःश्वासततिं वियोगजाम् ।
विलेपनस्याधिकचन्द्रभागताविभावनाच्च
अपललाप पाण्डुताम् ॥ नैषधीयचरितम् - 1 - 51 ॥
शशाक निह्नोतुमयेन तत्प्रियामयं
बभाषे यदलीकवीक्षिताम् ।
समाज एवालपितासु वैणिकैः
मुमूर्च्छ यत्पञ्चममूर्च्छनासु च ॥ नैषधीयचरितम् - 1 - 52 ॥
अवाप सापत्रपतां स भूपतिर्जितेन्द्रियाणां धुरि कीर्तितस्थितिः ।
असंवरे शम्बरवैरिविक्रमे क्रमेण तत्र स्फुटतामुपेयुषि ॥ नैषधीयचरितम् - 1 - 53 ॥
अलं नलं रोद्धुममी किलाभवन्गुणा विवेकप्रमुखा न चापलम् ।
स्मरः स रत्यामनिरुद्धमेव यत्
सृजति अयं सर्गनिसर्ग ईदृशः ॥ नैषधीयचरितम् - 1 - 54 ॥
अनङ्गचिह्नं स विना
शशाक शशाक नो यदासितुं संसदि यत्नवानपि ।
क्षणं तदारामनिहारकैतवान्निषेवितुं देशम्
इयेष इयेष निर्जनम् ॥ नैषधीयचरितम् - 1 - 55 ॥
अथ श्रिया भर्त्सितमत्स्यलाञ्छनः समं वयस्यैः स्वरहस्यवेदिभिः ।
पुरोपकण्ठोपवनं किलेक्षिता
दिदेश दिदेश यानाय निदेशकारिणः ॥ नैषधीयचरितम् - 1 - 56 ॥
अमी ततस्तस्य विभूषितं सितं जवेऽपि मानेऽपि च पौरुषाधिकम् ।
उपाहरन् अश्वमजस्रचञ्चलैः खुराञ्चलैः क्षोदितमन्दुरोदरम् ॥ नैषधीयचरितम् - 1 - 57 ॥
अथान्तरेणावटुगामिनाध्वना निशीथिनीनाथमहःसहोदरैः ।
निगालगाद्देवमणेरिवोत्थितैर्विराजितं केसरकेशरश्मिभिः ॥ नैषधीयचरितम् - 1 - 58 ॥
अजस्रभूमीतटकुट्टनोत्थितैरुपास्यमानं चरणेषु रेणुभिः ।
रयप्रकर्षाध्ययनार्थमागतैर्जनस्य चेतोभिरिवाणिमाङ्कितैः ॥ नैषधीयचरितम् - 1 - 59 ॥
चलाचलप्रोथतया महीभृते स्ववेगदर्पानिव वक्तुमुत्सुकम् ।
अलं गिरा
वेद किलायमाशयं स्वयं हयस्येति च मौनमास्थितम् ॥ नैषधीयचरितम् - 1 - 60 ॥
महारथस्याध्वनि चक्रवर्तिनः परानपेक्षोद्वहनाद्यशः सितम् ।
रदावदातांशुमिषादनीदृशां हसन्तमन्तर्बलमर्वतां रवेः ॥ नैषधीयचरितम् - 1 - 61 ॥
सितत्विषश्चञ्चलतामुपेयुषो मिषेण पुच्छस्य च केसरस्य च ।
स्फुटं चलच्चामरयुग्मचिह्ननैरनिह्नुवानं निजवाजिराजताम् ॥ नैषधीयचरितम् - 1 - 62 ॥
अपि द्विजिह्वाभ्यवहारपौरुषे मुखानुषक्तायतवल्गुवल्गया ।
उपेयिवांसं प्रतिमल्लतां रयस्मये जितस्य प्रसभं गरुत्मतः ॥ नैषधीयचरितम् - 1 - 63 ॥
स सिन्धुजं शीतमहःसहोदरं हरन्तमुच्चैःश्रवसः श्रियं हयम् ।
जिताखिलक्ष्माभृदनल्पलोचनस्तम्
आरुरोह क्षितिपाकशासनः ॥ नैषधीयचरितम् - 1 - 64 ॥
निजा मयूखा इव तीक्ष्णदीधितिं स्फुटारविन्दाङ्कितपाणिपङ्कजम् ।
तमश्ववारा जवनाश्वयायिनं प्रकाशरूपा मनुजेशम्
अन्वयुः ॥ नैषधीयचरितम् - 1 - 65 ॥
चलन्नलङ्कृत्य महारयं हयं स्ववाहवाहोचितवेषपेशलः ।
प्रमोदनिःस्पन्दतराक्षिपक्ष्मभिः
व्यलोकि लोकैर्नगरालयैर्नलः ॥ नैषधीयचरितम् - 1 - 66 ॥
क्षणादथैष क्षणदापतिप्रभः प्रभञ्जनाध्येयजवेन वाजिना ।
सहैव ताभिर्जनदृष्टिवृष्टिभिर्बहिः पुरः
अभूत् पुरुहूतपौरुषाः ॥ नैषधीयचरितम् - 1 - 67 ॥
ततः
प्रतीच्छ प्रहर इति भाषिणी परस्परोल्लासितशल्यपल्लवे ।
मृषा मृधं सादिबले कुतूहलान्नलस्य नासीरगते
वितेनतुः ॥ नैषधीयचरितम् - 1 - 68 ॥
प्रयातुमस्माकमियं कियत्पदं धरा तदम्भोधिरपि स्थलायताम् ।
इतीव वाहैर्निजवेगदर्पितैः पयोधिरोधक्षममुद्धतं रजः ॥ नैषधीयचरितम् - 1 - 69 ॥
हरेर्यदक्रामि पदैकक्रेन खं पदैश्चतुर्भिः क्रमणेऽपि तस्य नः ।
त्रपा हरीणामिति नम्रिताननैः
न्यवर्ति तैरर्धनभःकृतक्रमैः ॥ नैषधीयचरितम् - 1 - 70 ॥
चमूचरास्तस्य नृपस्य सादिनो जिनोक्तिषु श्राद्धतयैव सैन्धवाः ।
विहारदेशं तमवाप्य मण्डलीम्
अकारयन् भूरितुरङ्गमानपि ॥ नैषधीयचरितम् - 1 - 71 ॥
द्विषद्भिरेवास्य विलङ्घिता दिशो यशोभिरेवाब्धिः
अकारि गोष्पदम् ।
इतीव धारामवधीर्य मण्डलीक्रियाश्रियामण्डि तुरङ्गमैः स्थली ॥ नैषधीयचरितम् - 1 - 72 ॥
अचीकरत् चारु हयेन या भ्रमीर्निजातपत्रस्य तलस्थले नलः ।
मरुकिमद्यापि न तासु
शिक्षते वितत्य वात्यामयचक्रचङ्क्रमान् ॥ नैषधीयचरितम् - 1 - 73 ॥
विवेश गत्वा स विलासकाननं ततः क्षणात्क्षोणिपतिर्धृतीच्छया ।
प्रवालरागच्छुरितं सुषुप्सया हरिर्धनच्छायमिवार्णसां निधिम् ॥ नैषधीयचरितम् - 1 - 74 ॥
वनान्तपर्यन्तमुपेत्य सस्पृहं क्रमेण तस्मिन्नवतीर्णदृक्पथे ।
व्यवर्ति दृष्टिप्रकरैः पुरौकसामनुव्रजद्बन्धुसमाजबन्धुभिः ॥ नैषधीयचरितम् - 1 - 75 ॥
ततः प्रसूने च फले च मञ्जुले स संमुखस्थाङ्गुलिना जनाधिपः ।
निवेद्यमानं वनपालपाणिना
व्यलोकयत् काननकामनीयकम् ॥ नैषधीयचरितम् - 1 - 76 ॥
फलानि पुष्पाणि च पल्लवे करे वयोतिपातोद्गतवातवेपिते ।
स्थितैः समादाय महर्षिवाऋधकाद्वने तदातिथ्यम्
अशिक्षि शाखिभिः ॥ नैषधीयचरितम् - 1 - 77 ॥
विनिद्रपत्त्रालिगतालिकैतवान्मृगाङ्कचूडामणिवर्जनार्जितम् ।
दधानमाशासु चरिष्णु दुर्यशः स कौतुकी तत्र
ददर्श केतकम् ॥ नैषधीयचरितम् - 1 - 78 ॥
वियोगभाजां हृदि कण्टकैः कटुः
निधीयसे कर्णिशरः स्मरेण यत् ।
ततो दुराकर्षतया तदन्तकृद्
विगीयसे मन्मथदेहदाहिना ॥ नैषधीयचरितम् - 1 - 79 ॥
त्वदग्रसूच्या सचिवेन कामिनोर्मनोभवः
सीव्यति दुर्यशः पटौ ।
स्फुटं स पत्त्रैः करपत्त्रमूर्तिभिर्वियोगिहृद्दारुणि दारुणायते ॥ नैषधीयचरितम् - 1 - 80 ॥
धनुर्मधुस्विन्नकरोऽपि भीमजापरं परागैस्तव धूलिहस्तयन् ।
प्रसूनधन्वा शरसात्करोति मामिति क्रुधा
अक्रुश्यत तेन केतकम् ॥ नैषधीयचरितम् - 1 - 81 ॥
विदर्भसुभ्रूस्तनतुङ्गताप्तये घटानिवापश्यदलं तपस्यतः ।
फलानि धूमस्य धयानधोमुखान्स दाडिमे दोहदधूपिनि द्रुमे ॥ नैषधीयचरितम् - 1 - 82 ॥
वियोगिनीम्
ऐक्षत दाडिमीमसौ प्रियस्मृतेः स्पष्टमुदीतकण्टकाम् ।
फलस्तनस्थानविदीर्णरागिहृद्विशच्छ्रुकास्यस्मरकिंशुकाशुगाम् ॥ नैषधीयचरितम् - 1 - 83 ॥
स्मरार्धचन्द्रेषुनिभे क्रशीयसां स्फुटं पलाशेऽध्वजुषां पलाशनात् ।
स वृन्तमालोकत खण्डमन्वितं वियोगिहृत्खण्डिनि कालखण्डजम् ॥ नैषधीयचरितम् - 1 - 84 ॥
नवा लता गन्धवहेन चुम्बिता करम्बिताङ्गी मकरन्दशीकरैः ।
दृशा नृपेण स्मितशोभिकुङ्मला दरादराभ्यां दरकम्पिनी
पपे ॥ नैषधीयचरितम् - 1 - 85 ॥
विचिन्वतीः पान्थपतङ्गहिंसनैरपुण्यकर्माण्यलिकज्जलच्छलात् ।
व्यलोकयत् चम्पककोरकावलीः स शम्बरारेर्बलिदीपिका इव ॥ नैषधीयचरितम् - 1 - 86 ॥
अमन्यतासौ कुसुमेषु गर्भगं परागमन्धङ्करणं वियोगिनाम् ।
स्मरेण मुक्तेषु पुरा पुरारये तदङ्गभस्मेव शरेषु सङ्गतम् ॥ नैषधीयचरितम् - 1 - 87 ॥
पिकाद्वने शृण्वति भृङ्गहुङ्कृतैर्दशामुदञ्चत्करुणे वियोगिनाम् ।
अनास्थया सूनकरप्रसारिणीं
ददर्श दूनः स्थलपद्मिनीं नलः ॥ नैषधीयचरितम् - 1 - 88 ॥
रसालसालः समदृश्यतामुना स्फुरद्द्विरेफारवरोषहुंकृतिः ।
समीरलोलैर्मुकुलैर्वियोगिने जनाय दित्सन्निव तर्जनाभियम् ॥ नैषधीयचरितम् - 1 - 89 ॥
दिनेदिने त्वं तनुः
एधि रेऽधिकं पुनः पुनः
मूर्च्छ च तापं
ऋच्छ च ।
इतीव पान्थां शपतः पिकान्द्विजान्सखेदम्
ऐक्षिष्ट स लोहितेक्षणान् अलिस्रजा ॥ नैषधीयचरितम् - 1 - 90 ॥
कुड्मलमुच्चशेखरं निपीय चाम्पेयमधीरया धिया ।
स धूमकेतुं विपदे वियोगिना मुदीतमातङ्कितवान्
अशङ्कत ॥ नैषधीयचरितम् - 1 - 91 ॥
गलत्परागं भ्रमिभङ्गिभिः पतत्प्रसक्तभृङ्गावलि नागक्रेसरम् ।
स मारनाराचनिघर्षणस्खलज्ज्वलत्कणं शाणमिव
व्यलोकयत् ॥ नैषधीयचरितम् - 1 - 92 ॥
तदङ्गमुद्दिश्य सुगिन्ध पातुकाः शिलीमुखालीः कुसुमाद्गुणस्पृशः ।
स्वचापदुर्निर्गतमार्गणभ्रमात्स्मरः स्वनन्तीरवलोक्य लज्जितः ॥ नैषधीयचरितम् - 1 - 93 ॥
मरुल्ललत्पल्लवकण्टकैः क्षतं समुच्छलच्चन्दनसारसौरभम् ।
स वारनारीकुचसञ्चितोपमं
ददर्श मालूरफलं पचेलिमम् ॥ नैषधीयचरितम् - 1 - 94 ॥
युवद्वयीचित्तनिमज्जनोचितप्रसूनशून्येतरगर्भगह्वरम् ।
स्मरेषुधीकृत्य धिया भयान्धया स पाटलायाः स्तबकं प्रकम्पितः ॥ नैषधीयचरितम् - 1 - 95 ॥
मुनिद्रुमः कोरकितः शितिद्युतिर्वनेऽमुना
अमन्यत सिंहिकासुतः ।
तमिस्रपक्षत्रुटिकूटभक्षितं कलाकलापं किल वैधवं वमन् ॥ नैषधीयचरितम् - 1 - 96 ॥
पुरा हठाक्षिप्ततुषारपाण्डुरच्छदा वृतेर्वीरुधि बद्धविभ्रमाः ।
मिलन्निमीलं
ससृजुः विलोकिता नभस्वतस्तं कुसुमेषु केलयः ॥ नैषधीयचरितम् - 1 - 97 ॥
गता यदुत्सङ्गतले विशालतां द्रुमाः शिरोभिः फलगौरवेण ताम् ।
कथं न धात्रीमतिमात्रनामितैः स वन्दमानान्
अभिनन्दति स्म तान् ॥ नैषधीयचरितम् - 1 - 98 ॥
नृपाय तस्मै हिमितं वनानिलैः सुघीकृतं पुष्परसैरहर्महः ।
विनिर्मितं केतकरेणुभिः सितं वियोगिने
अधत्त न कौमुदीमुदः ॥ नैषधीयचरितम् - 1 - 99 ॥
अयोगभाजोऽपि नृपस्य पश्यता तदेव साक्षादमृतांशुमाननम् ।
पिकेन रोषारुणचक्षुषा मुहुः कुहूरुता
आहूयत चन्द्रवैरिणी ॥ नैषधीयचरितम् - 1 - 100 ॥
अशोकमर्थान्वितनामताशया गताञ्शरण्यं गृहशोचिनोऽध्वगान् ।
अमन्यत अवन्तमिवैष पल्लवैः प्रतीष्टकामज्वलदस्त्रजालकम् ॥ नैषधीयचरितम् - 1 - 101 ॥
विलासवापीतटवीचिवादनात्पिकालिगीतेः शिखिलास्यलाघवात् ।
वनेऽपि तौर्यत्रिकम
आरराध तं क्व भोगम्
आप्नोति न भाग्यभाग्जनः ॥ नैषधीयचरितम् - 1 - 102 ॥
तदर्थमध्याप्य जनेन तद्वने शुका विमुक्ताः पटवस्तम्
अस्तुवन् ।
स्वरामृतेन
उपजगुः च सारिकास्तथैव तत्पौरुषगायनीकृताः ॥ नैषधीयचरितम् - 1 - 103 ॥
इतीष्टगन्धाढ्यमटन्नसौ वनं पिकोपगीतोऽपि शुकस्तुतोऽपि च ।
अविन्दत आमोदभरं बहिश्चरं विदर्भसुभ्रूविरहेण नान्तरम् ॥ नैषधीयचरितम् - 1 - 104 ॥
करेण मीनं निजकेतनं दधद्द्रुमालवालाम्बुनिवेशशङ्कया ।
व्यतर्कि सर्वर्तुघने वने मधुं स मित्त्रमत्रानुसरन्निव स्मरः ॥ नैषधीयचरितम् - 1 - 105 ॥
लताबलालास्यकलागुरुस्तरुप्रसूनगन्धोत्करपश्यतोहरः ।
असेवत अमुं मधुगन्धवारिणि प्रणीतलीलाप्लवनो वनानिलः ॥ नैषधीयचरितम् - 1 - 106 ॥
अथ स्वमादाय ह्बयेन मन्थनाच्चिरत्नरत्नाधिकमुच्चितं चिरात् ।
निलीय तस्मिन्निव सन्नपांनिधिर्वने तडाको
ददृशे अवनीभुजा ॥ नैषधीयचरितम् - 1 - 107 ॥
पयोनिलीनाभ्रमुकामुकावलीरदाननन्तोरगपुच्छसुच्छवीन् ।
जलार्धरुद्धस्य तटान्तभूभिदो मृणालजालस्य मिषाद्
बभार यः ॥ नैषधीयचरितम् - 1 - 108 ॥
तटान्तविश्रान्ततुरङ्गमच्छटास्फुटानुबिम्बोदयचुम्बनेन यः ।
बभौ चलद्वीचिकशान्तशातनैः सहस्रमुच्चैः श्रवसामिवाश्रयम् ॥ नैषधीयचरितम् - 1 - 109 ॥
सिताम्बुजानां निवहस्य यश्छलाद्
बभौ अलिश्यामलितोदरश्रियाम् ।
तमःसमच्छायकलङ्कसङ्कुलं कुलं सुधांशोर्बहलं वहन्बहु ॥ नैषधीयचरितम् - 1 - 110 ॥
रथाङ्गभाजा कमलानुषङ्गिणा शिलीमुखस्तोमसखेन शार्ङ्गिणा ।
सरोजिनीस्तम्बकदम्बकैतवान्मृणालशेषाहिभुवा
अन्वयायि यः ॥ नैषधीयचरितम् - 1 - 111 ॥
तरङ्गिणीरङ्कजुषः स्ववल्लभास्तरङ्गरेखा बिभरांबभूव यः ।
दरोद्गतैः कोकनदौघकोरकैर्धृतप्रवालाङ्कुरसञ्चयश्च यः ॥ नैषधीयचरितम् - 1 - 112 ॥
महीयसः पङ्कजमण्डलस्य यश्छलेन गौरस्य च मेचकस्य च ।
नलेन
मेने सलिले निलीनयोस्त्विषं विमुञ्चन्विधुकालकूटयोः ॥ नैषधीयचरितम् - 1 - 113 ॥
चलीकृता यत्र तरङ्गरिङ्गणैरबालशैवाललतापरम्पराः ।
ध्रुवं
दधुः वाडवहव्यवाडवस्थितिप्ररोहत्तमभूमधूमताम् ॥ नैषधीयचरितम् - 1 - 114 ॥
प्रकाममादित्यमवाप्य कण्टकैः करम्बितामोदभरं विवृण्वती ।
धृतस्फुटश्रीगृहविग्रहा दिवा सरोजिनी यत्प्रभवा अप्सरायिता ॥ नैषधीयचरितम् - 1 - 115 ॥
यदम्बुपूरप्रतिबिम्बितायतिर्मरुत्तरङ्गैस्तरलस्तटद्रुमः ।
निमज्ज्य मैनाकमहीभृतः सतः
ततान पक्षान्धुवतः सपक्षताम् ॥ नैषधीयचरितम् - 1 - 116 ॥
पयोधिलक्ष्मीमुषि केलिपल्वले रिरंसुहंसीकलनादसादरम् ।
स तत्र चित्रं विचरन्तमन्तिके हिरण्मयं हंसम
अबोधि नैषधः ॥ नैषधीयचरितम् - 1 - 117 ॥
प्रियासु बालासु रतक्षमासु च द्विपत्त्रितं पल्लवितं च बिभ्रतम् ।
स्मरार्जितं रागमहीरुहाङ्कुरं मिषेण चञ्च्वोश्चरणद्वयस्य च ॥ नैषधीयचरितम् - 1 - 118 ॥
महीमहेन्द्रस्तमवेक्ष्य स क्षणं शकुन्तमेकान्तमनोविनोदिनम् ।
प्रियावियोगाद्विधुरोऽपि निर्भरं कुतूहलाक्रान्तमना मनाग्
अभूत् ॥ नैषधीयचरितम् - 1 - 119 ॥
अवश्यभव्येष्वनवग्रहग्रहा यया दिशा
धावति वेधसः स्पृहा ।
तृणेन वात्येव तया
अनुगम्यते जनस्य चित्तेन भृशावशात्मना ॥ नैषधीयचरितम् - 1 - 120 ॥
अथावलम्ब्य क्षणमेकपादिकां तदा
निदद्रौ अवुपपल्वलं खगः ।
स तिर्यगावर्जितकन्धरः शिरः पिधाय पक्षेण रतिक्लमालसः ॥ नैषधीयचरितम् - 1 - 121 ॥
सनालमात्मानननिर्जितप्रभं ह्रिया नतं काञ्चनमम्बुजन्म किम् ।
अबुद्ध तं विद्रुमदण्डमण्डितं स पीतमम्भःप्रभुचामरं नु किम् ॥ नैषधीयचरितम् - 1 - 122 ॥
कृतावरोहस्य हयादुपानहौ ततः पदे
रेजतुः अस्य बिभ्रती ।
तयोः प्रवालैर्वनयोस्तथाम्बुजैर्नियोद्धुकामे किमु बद्धवर्मणी ॥ नैषधीयचरितम् - 1 - 123 ॥
विधाय मूर्तिं कपटेन वामनीं स्वयं बलिध्वंसिविडाम्बिनीमयम् ।
उपेतपार्श्वश्चरणेन मौनिना नृपः पतङ्गं
समधत्त पाणिना ॥ नैषधीयचरितम् - 1 - 124 ॥
तदात्तमात्मानमवेत्य सम्भ्रमात्पुनःपुनः प्रायसदुत्प्लवाय सः ।
गतो विरुत्योड्डयने निराशतां करौ निरोद्धुः
दशति स्म केवलम् ॥ नैषधीयचरितम् - 1 - 125 ॥
ससम्भ्रमोत्पातिपतत्कुलाकुलं सरः प्रपद्योत्कतयानुकम्प्रताम् ।
तमूर्मिलोलैः पतगग्रहान्नृपं
न्यवारयत् वारिरुहैः करैरिव ॥ नैषधीयचरितम् - 1 - 126 ॥
पतत्रिणा तद्रुचिरेण वञ्चितं श्रियः प्रयान्त्याः प्रविहाय पल्वलम् ।
चलत्पदाम्भोरुहनूपुरोपमा
चुकूज कूले कलहंसमण्डली ॥ नैषधीयचरितम् - 1 - 127 ॥
न वासयोग्या वसुधेयमीदृशस्त्वमङ्ग यस्याः पतिरुज्झितस्थितिः ।
इति प्रहाय क्षितिमाश्रिता नभः खगास्तमा
आचुक्रुशुः आरवैः खलु ॥ नैषधीयचरितम् - 1 - 128 ॥
न जातरूपच्छदजातरूपताद्विजस्य दृष्टेयमिति स्तुवन्मुहुः ।
अवादि तेनाथ स मानसौकसा जनाधिनाथः करपञ्जरस्पृशा ॥ नैषधीयचरितम् - 1 - 129 ॥
धिग्
अस्तु तृष्णातरलं भवन्मनः समीक्ष्य पक्षान्मम हेमजन्मनः ।
तवार्णवस्येव तुषारसीकरैः
भवेद् अमीभिः कमलोदयः कियान् ॥ नैषधीयचरितम् - 1 - 130 ॥
न केवलं प्राणिवधो वधो मम त्वदीक्षणाद्विश्वसितान्तरात्मनः ।
विगर्हितं धर्मधनैर्निबर्हणं विशिष्य विश्वासजुषां द्विषामपि ॥ नैषधीयचरितम् - 1 - 131 ॥
पदेपदे
सन्ति भटा रणोद्भटा नतेषु हिंसारस एष
पूर्यते ।
धिगीदृशं ते नृपते कुविक्रमं कृपाश्रये यः कृपणे पतत्रिणि ॥ नैषधीयचरितम् - 1 - 132 ॥
फलेन मूलेन च वारिभूरुहां मुनेरिवेत्थं मम यस्य वृत्तयः ।
त्वयाद्य त्वस्मिन्नपि दण्डधारिणा कथं न पत्या धरणी हृणीयते ॥ नैषधीयचरितम् - 1 - 133 ॥
इतीदृशैस्तं विरचय्य वाङ्मयैः सचित्रवैलक्ष्यकृपं नृपं खगः ।
दयासमुद्रे स तदाशये अतिथीचकार कारुण्यरसापगा गिरः ॥ नैषधीयचरितम् - 1 - 134 ॥
मदेकपुत्राजननी जरातुरा नवप्रसूतिर्वरटा तपस्विनी ।
गतिस्तयोरेष जनस्तमर्दयन्नहो विधे त्वां करुणा
रुणद्धि न ॥ नैषधीयचरितम् - 1 - 135 ॥
मुहूर्तमात्रं भवनिन्दया दयासखाः सखायः स्रवदश्रवो मम ।
निवृत्तिम्
एष्यन्ति परं दुरुत्तरस्त्वयैव मातः सुतशोकसागरः ॥ नैषधीयचरितम् - 1 - 136 ॥
मदर्थसंदेशमृणालमन्थरः प्रियः कियद्दूर इति त्वयोदिते ।
विलोकयन्त्या रुदतोऽथ पक्षिणः प्रिये स कीदृग्
भविता तव क्षणः ॥ नैषधीयचरितम् - 1 - 137 ॥
कथं विधातर्मयि पाणिपङ्कजात्तव प्रियाशैत्यमृदुत्वशिल्पिनः ।
वियोक्ष्यते वल्लभयेति निर्गता लिपिर्ललाटन्तपनिष्ठुराक्षरा ॥ नैषधीयचरितम् - 1 - 138 ॥
अयि स्वयूथ्यैरशनिक्षतोपमं ममाद्य वृत्तान्तमिमं बतोदिता ।
मुखानि लोलाक्षि दिशामसंशयं दशापि शून्यानि
विलोकयिष्यसि ॥ नैषधीयचरितम् - 1 - 139 ॥
ममैव शोकेन विदीर्णवक्षसा त्वया विचित्राङ्गि
विपद्यते यदि ।
तदा
अस्मि दैवेन हतोऽपि हा हतः स्फुटं यतस्ते शिशवः परासवः ॥ नैषधीयचरितम् - 1 - 140 ॥
तवापि हाहा विरहात्क्षुधाकुलाः कुलायकूलेषु विलुठ्य तेषु ते ।
चिरेण लब्धा बहुभिर्मनोरथैर्गताः क्षणेनास्फुटीतेक्षणा मम ॥ नैषधीयचरितम् - 1 - 141 ॥
सुताः कमाहूय चिराय चुंकृतैर्विधाय कम्प्राणि मुखानि कं प्रति ।
कथासु
शिष्यध्वम् इति प्रमील्य स स्नुतस्य सेकाद्
बुबुधे नृपाश्रुणः ॥ नैषधीयचरितम् - 1 - 142 ॥
इत्थममुं विलपन्तम्
अमुञ्चद् दीनदयालुतयावनिपालः ।
रूपम्
अदर्शि धृतो
असि यदर्थं गच्छ यथेच्छमथेत्यभिधाय ॥ नैषधीयचरितम् - 1 - 143 ॥
आनन्दजाश्रुभिरनुस्रियमाणमार्गान्प्राक्शोकनिर्गमितनेत्रपयःप्रवाहान् ।
चक्रे स चक्रनिभचङ्क्रमणच्छलेन नीराजनां जनयतां निजबान्धवानाम् ॥ नैषधीयचरितम् - 1 - 144 ॥
श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः
सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
तच्चिन्तामणिमन्त्रचिन्तनफले शृङ्गारभङ्ग्या महाकाव्ये चारुणि नैषधीयचरिते सर्गोऽयमादिर्गतः ॥ नैषधीयचरितम् - 1 - 145 ॥
।। इति नैषधीयचरितमहाकाव्ये प्रथमसर्गः ।।
द्वितीयसर्गः
अधिगत्य जगत्यधीश्वरादथ मुक्तिं पुरुषोत्तमात्ततः ।
वचसामपि गोचरो न यः स तमानन्दम
अविन्दत द्विजः ॥ नैषधीयचरितम् - 2 - 1 ॥
अधुनीत खगः स नैकधा तनुमुत्फुल्लतनूरुहीकृताम् ।
करयन्त्रणदन्तुरान्तरे
व्यलिखत् चञ्चुपुटेन पक्षती ॥ नैषधीयचरितम् - 2 - 2 ॥
अयमेकतमेन पक्षतेरधिमध्योर्ध्वगजङ्घमङ्घ्रिणा ।
स्खलनक्षण एव
शिश्रिये द्रुतकण्डूयितमौलिरालयम् ॥ नैषधीयचरितम् - 2 - 3 ॥
स गरुद्वनदुर्गदुर्ग्रहान्कटु कीटान्दशतः सतः क्वचित् ।
नुनुदे तनुकण्डु पण्डितः पटुचञ्चूपुटकोटिकुट्टनैः ॥ नैषधीयचरितम् - 2 - 4 ॥
अयमेत्य तडाकनीडजैर्लघु
पर्यव्रियत अथ शाङ्कितैः ।
उदडीयत वैकृतात्करग्रहजादस्य विकस्वरस्वरैः ॥ नैषधीयचरितम् - 2 - 5 ॥
वहतो बहुशैवलक्ष्मता धृतरुद्राक्षमधुव्रतं खगः ।
स नलस्य
ययौ करं पुनः सरसः कोकनदभ्रमादिव ॥ नैषधीयचरितम् - 2 - 6 ॥
पतगश्चिरकाललालनादतिविश्रम्भमवापितो नु सः ।
अतुलं
विदधे कुतूहलं भुजमेतस्य भजन्महीभुजः ॥ नैषधीयचरितम् - 2 - 7 ॥
नृपमानसमिष्टमानसः स निमज्जत्कुतुकामृतोर्मिषु ।
अवलम्बितकर्णशष्कुलीकलसीकं रचयन्
अवोचत ॥ नैषधीयचरितम् - 2 - 8 ॥
मृगया न
विगीयते नृपैरपि धर्मागममर्मपारगैः ।
स्मरसुन्दर मां यदत्यजस्तव धर्मः सदयोदयोज्ज्वलः ॥ नैषधीयचरितम् - 2 - 9 ॥
अबलस्वकुलाशिनो झषान्निजनीडद्रुमपीडिनः खगान् ।
अनवद्यतृणार्दिनो मृगान्मृगयाघाय न भूभुजां घ्नताम् ॥ नैषधीयचरितम् - 2 - 10 ॥
यद
अवादिषम् अप्रियं तव प्रियमाधाय नुनुत्सुः
अस्मि तत् ।
कृतमातपसंज्वरं तरोरभिवृष्यामृतमंशुमानिव ॥ नैषधीयचरितम् - 2 - 11 ॥
उपनम्रमयाचितं हितं प्रतिहर्तुं न तवापि सांप्रतम् ।
करकल्पजनान्तराद्विधेः शुचितः
प्रापि स हि प्रतिग्रहः ॥ नैषधीयचरितम् - 2 - 12 ॥
पतगेन मया जगत्पतेरुपकृत्यै तव किं प्रभूयते ।
इति
वेद्मि न तु
त्यजन्ति मां तदपि प्रत्युपकर्तुमर्तयः ॥ नैषधीयचरितम् - 2 - 13 ॥
अचिरादुपकर्तुः
आचरेत् अथवात्मौपयिकीमुपक्रियाम् ।
पृथुरित्थमथाणुः
अस्तु सा न विशेषे विदुषामिह ग्रहः ॥ नैषधीयचरितम् - 2 - 14 ॥
भविता न विचारचारु चेत्तदपि श्रव्यमिदं मदीरितम् ।
खगवागियमित्यतोऽपि किं न मुदं
दास्यति कीरगीरिव ॥ नैषधीयचरितम् - 2 - 15 ॥
स
जयति अरिसार्थसार्थकीकृतनामा किल भीमभूपतिः ।
यमवाप्य विदर्भभूः प्रभुं
हसति द्यामपि शक्रभर्तृकाम् ॥ नैषधीयचरितम् - 2 - 16 ॥
दमनादमनाक्प्रसेदुषास्तनयां तथ्यगिरस्तपोधनात् ।
वरम्
आप स दिष्टविष्टपत्रितयानन्यसदृग्गुणोदयाम् ॥ नैषधीयचरितम् - 2 - 17 ॥
भुवनत्रयसुभ्रुवामसौ दमयन्ती कमनीयतामदम् ।
उदियाय यतस्तनुश्रिया दमयन्तीति ततोऽभिधां
दधौ ॥ नैषधीयचरितम् - 2 - 18 ॥
श्रियमेव परं धराधिपाद्गुणसिन्धोरुदिताम्
अवेहि ताम् ।
व्यवधावपि वा विधोः कलां मृडचूडानिलयां न
वेद कः ॥ नैषधीयचरितम् - 2 - 19 ॥
चिकुरप्रकरा
जयन्ति ते विदुषी मूर्धनि सा
बिभर्ति यान् ।
पशुनाप्यपुरस्कृतेन तत्तुलनाम्
इच्छतु चामरेण कः ॥ नैषधीयचरितम् - 2 - 20 ॥
स्वदृशोः
जनयन्ति सान्त्वनां खुरकण्डूयनकैतवान्मृगाः ।
जितयोरुदयत्प्रमीलयोस्तदखर्वेक्षणशोभया भया ॥ नैषधीयचरितम् - 2 - 21 ॥
अपि लोकयुगं दृशावपि श्रुतदृष्टा रमणीगुणा अपि ।
श्रुतिगामितया दमस्वसुः
व्यतिभाते सुतरां धरापते ॥ नैषधीयचरितम् - 2 - 22 ॥
नलिनं मलिनं विवृण्वती पृषतीमस्पृशती तदीक्षणे ।
अपि खञ्जनमज्ञनाञ्चिते
विदधाते रुचिगर्वदुर्विधम् ॥ नैषधीयचरितम् - 2 - 23 ॥
अधरं किल बिम्बनामकं फलमस्मादिति भव्यमन्वयम् ।
लभते अधरबिम्बमित्यदः पदमस्या रदनच्छदं वदत् ॥ नैषधीयचरितम् - 2 - 24 ॥
हतसारमिवेन्दुमण्डलं दमयन्तीवदनाय वेधसा ।
कृतमध्यबिलं
विलोक्यते धृतगम्भीरखनीखनीलिम ॥ नैषधीयचरितम् - 2 - 25 ॥
धृतलाञ्छनगोमयाञ्चनं विधुमालेपनपाण्डुरं विधिः ।
भ्रमयति उचितं विदर्भजानननीराजनवर्धमानकम् ॥ नैषधीयचरितम् - 2 - 26 ॥
सुषमाविषये परीक्षणे निखिलं पद्मम्
अभाजि तन्मुखात् ।
अधुनापि न भङ्गलक्षणं सलिलोन्मज्जनम्
उज्झति स्फुटम् ॥ नैषधीयचरितम् - 2 - 27 ॥
धनुषी रतिपञ्चबाणयोरुदिते विश्वजयाय तद्भ्रुवौ ।
नैलिकेन तदुच्चनासिके त्वयि नालीकविमुक्तिकामयोः ॥ नैषधीयचरितम् - 2 - 28 ॥
सदृशी तव शूर सा परं जलदुर्गस्थमृणालजिद्भुजा ।
अपि मित्त्रजुषां सरोरुहां गृहयालुः करलीलया श्रियः ॥ नैषधीयचरितम् - 2 - 29 ॥
वयसी शिशुतातदुत्तरे सुदृशि स्वाभिविधिं विधित्सुनी ।
विधिनापि न रोमरेखया कृतसीम्नी प्रविभज्य
रज्यतः ॥ नैषधीयचरितम् - 2 - 30 ॥
अयि तद्वपुषि प्रसर्पतोर्गमिते कान्तिझरैरगाधताम् ।
स्मरयौवनयोः खलु द्वयोः प्लवकुम्भौ
भवतः कुचावुभौ ॥ नैषधीयचरितम् - 2 - 31 ॥
कलसे निजहेतुदण्डजः किमु चक्रभ्रमकारितागुणः ।
स तदुञ्चकुचौ भवन्प्रभाझरचक्रभ्रमम्
आतनोति यत् ॥ नैषधीयचरितम् - 2 - 32 ॥
भजते खलु षण्मुखं शिखी चिकुरैर्निर्मितबर्हगर्हणः ।
अपि जम्भरिपुं दमस्वसुर्जितकुम्भः कुचशोभयेभराट् ॥ नैषधीयचरितम् - 2 - 33 ॥
उदरं नतमध्यपृष्टतास्फुटदङ्गुष्ठपदेन मुष्टिना ।
चतुरङ्गुलमध्यनिर्गतत्रिवलिभ्राजि कृतं दमस्वसुः ॥ नैषधीयचरितम् - 2 - 34 ॥
उदरं
परिमाति मुष्ट्षिना कुतुकी कोऽपि दमस्वसुः किमु ।
धृततच्चतुरङ्गुलीव यद्वलिभिः
भाति सहेमकाञ्चिभिः ॥ नैषधीयचरितम् - 2 - 35 ॥
पृथुवर्तुलतन्नितम्बकृन्मिहिरस्यन्दनशिल्पशिक्षया ।
विधिरेककचक्रचारिणं किमु निर्मित्सति मान्मथं रथम् ॥ नैषधीयचरितम् - 2 - 36 ॥
तरुमूरुयुगेन सुन्दरी किमु रम्भां परिणाहिना परम् ।
तरुणीमपि जुष्णुरेव तां धनदापत्यतपः फलस्तनीम् ॥ नैषधीयचरितम् - 2 - 37 ॥
जलजे रविसेवयेव ये पदमेतत्पदताम्
अवापतुः ।
ध्रुवमेत्य रुतः सहंसकीकुरुतस्ते विधिपत्त्रदम्पती ॥ नैषधीयचरितम् - 2 - 38 ॥
श्रितपुण्यसरः सरित्कथं न समाधिक्षपिताखिलक्षपम् ।
जलजं गतिम्
एतु मञ्जुलां दमयन्तीपदनाम्नि जन्मनि ॥ नैषधीयचरितम् - 2 - 39 ॥
सरसीः परिशीलितुं मया गमिकर्मीकृतनैकनीवृता ।
अतिथित्वम्
अनायि सा दृशोः सदसत्संशयगोचरोदरी ॥ नैषधीयचरितम् - 2 - 40 ॥
अवधृत्य दिवोऽपि यौवतैर्न सहाधीतवतीमिमामहम् ।
कतमस्तु विधातुराशये पतिरस्या
वसति इति
अचिन्तयम् ॥ नैषधीयचरितम् - 2 - 41 ॥
अनुरूपमिमं निरूपयन्नथ सर्वेष्वपि पूर्वपक्षताम् ।
युवसु व्यपनेतुमक्षमस्त्वयि सिद्धान्तधियं
न्यवेशयम् ॥ नैषधीयचरितम् - 2 - 42 ॥
अनया तव रूपसीमया कृतसंस्कारविबोधनस्य मे ।
चिरमप्यवलोकिताद्य सा स्मृतिमारूढवती शुचिस्मिता ॥ नैषधीयचरितम् - 2 - 43 ॥
त्वयि वीर
विराजते परं दमयन्तीकिलकिञ्चितं किल ।
तरुणीस्तन एव
दीप्यते मणिहारावलिरामणीयकम् ॥ नैषधीयचरितम् - 2 - 44 ॥
तव रूपमिदं तया विना विफलं पुष्पमिवावकेशिनः ।
इयमृद्धधना वृथावनी स्ववनी संप्रवदत्पिकापि ॥ नैषधीयचरितम् - 2 - 45 ॥
अनया सुरकाम्यमानया सह योगः सुलभस्तु न त्वया ।
घनसंवृतयाम्बुदागमे कुमुदेनेव निशाकरत्विषा ॥ नैषधीयचरितम् - 2 - 46 ॥
तदहं
विदधे तथातथा दमयन्त्याः सविधे तव स्तवम् ।
हृदये निहितस्तया भवानपि नेन्द्रेण यथा
अपनीयते ॥ नैषधीयचरितम् - 2 - 47 ॥
तव संमितिमेव केवलामिधगन्तुं धिगिदं निवेदितम् ।
ब्रुवते हि फलेन साधवो न तु कण्ठेन निजोपयोगिताम् ॥ नैषधीयचरितम् - 2 - 48 ॥
तदिदं विशदं वचोमृतं परिपीयाभ्युदितं द्विजाधिपात् ।
अतितृप्ततया
विनिर्ममे स तदुद्गारमिव स्मितं सितम् ॥ नैषधीयचरितम् - 2 - 49 ॥
परिमृज्य भुजाग्रजन्मना पतगं कोकनदेन नैषधः ।
मृदु तस्य मुदे
अगिरत् गिरः प्रियवादामृतकूपकण्ठजाः ॥ नैषधीयचरितम् - 2 - 50 ॥
न तुलाविषये तवाकृतिर्न वचोवर्त्मनि ते सुशीलता ।
त्वदुदाहरणाकृतौ गुणा इति सामुद्रकसारमुद्रणा ॥ नैषधीयचरितम् - 2 - 51 ॥
न सुवर्णमयी तनुः परं ननु किं वागपि तावकी तथा ।
न परं पथि पक्षपातितानवलम्बे किमु मादृशेऽपि सा ॥ नैषधीयचरितम् - 2 - 52 ॥
भृशतापभृता मया भवान्मरुत्
आसादि तुषारसारवान् ।
धनिनामितरः सतां पुनर्गुणवत्संनिधिरेव सन्निधिः ॥ नैषधीयचरितम् - 2 - 53 ॥
शतशः श्रुतिमागतैव सा त्रिजगन्मोहमहौषधिर्मम ।
अमुना तव शंसितेन तु स्वदृशैवाधिगताम्
अवैमि ताम् ॥ नैषधीयचरितम् - 2 - 54 ॥
अखिलं विदुषामनाविलं सुहृदा च स्वहृदा च
पश्यताम् ।
सविधेऽपि नसूक्ष्मसाक्षिणीवदनालंकृतिमात्रमक्षिणी ॥ नैषधीयचरितम् - 2 - 55 ॥
अमितं मधु तत्कथा मम श्रवणप्राघुणकीकृता जनैः ।
मदनानलबोधने
अभवत् खग धाय्या धिगधैर्यधारिणः ॥ नैषधीयचरितम् - 2 - 56 ॥
विषमो मलयाहिमण्डलीविषफूत्कारमयो मयोहितः ।
खग कालकलत्रदिग्भवः पवनस्तद्विरहानलैधसा ॥ नैषधीयचरितम् - 2 - 57 ॥
प्रतिमासमसौ निशापतिः खग
सङ्गच्छति यद्दिनाधिपम् ।
किमु तीव्रतरैस्ततः करैर्मम दाहाय स धैर्यतस्करैः ॥ नैषधीयचरितम् - 2 - 58 ॥
कुसुमानि यदि स्मरेषवो न तु वज्रं विषवल्लिजानि तत् ।
हृदयं यद्
अमूमुहत् अमूर्मम यच्चातितराम्
अतीतपन् ॥ नैषधीयचरितम् - 2 - 59 ॥
तदिहानवधौ निमज्जतो मम कन्दर्पशराधिनीरधौ ।
भव पोत इवावलम्बनं विधिनाकस्मिकसृष्टसंनिधिः ॥ नैषधीयचरितम् - 2 - 60 ॥
अथवा भवतः प्रवर्तना न कथं पिष्टमियं
पिनष्टि नः ।
स्वत एव सतां परार्थता ग्रहणानां हि यथा यथार्थता ॥ नैषधीयचरितम् - 2 - 61 ॥
तव वर्त्मनि
वर्ततां शिवं पुनः
अस्तु त्वरितं समागमः ।
अयि
साधय साधय ईप्सितं स्मरणीयाः समये वयं वयः ॥ नैषधीयचरितम् - 2 - 62 ॥
इति तं स विसृज्य धैर्यवान्नृपतिः सूनृतवाग्बृहस्पतिः ।
अविशत् वनवेश्म विस्मितः स्मृतिलग्नैः कलहंसशंसितैः ॥ नैषधीयचरितम् - 2 - 63 ॥
अथ भीमसुतावलोकनैः सफलं कर्तुमहस्तदेव सः ।
क्षितिमण्डलमण्डनायितं नगरं कुण्डिनमण्डजो
ययौ ॥ नैषधीयचरितम् - 2 - 64 ॥
प्रथमं पथि लोचनातिर्थि पथिकाप्रार्थितसिद्धिशंसिनम् ।
कलसं जलसम्भृतं पुरः कलहंसः कलयांबभूव सः ॥ नैषधीयचरितम् - 2 - 65 ॥
अवलम्ब्य दिदृक्षयाम्बरे क्षणमाश्चर्यरसालसं गतम् ।
स विलासवनेऽवनीभृतः फलम्
ऐक्षिष्ट रसालसङ्गतम् ॥ नैषधीयचरितम् - 2 - 66 ॥
नभसः कलभैरुपासितं जलदैर्भूरितरक्षुपं नगम् ।
स
ददर्श पतङ्गपुङ्गवो विटपच्छन्नतरक्षुपन्नगम् ॥ नैषधीयचरितम् - 2 - 67 ॥
स
ययौ धुतपक्षतिः क्षणं क्षणमूर्ध्वायनदुर्विभावनः ।
विततीकृतनिश्चलच्छदः क्षणमालोककदत्तकौतुकः ॥ नैषधीयचरितम् - 2 - 68 ॥
तदूदीधितिधारया रयाद्गतया लोकविलोकनामसौ ।
छदहेम कषन्निव
अलसत् कषपाषाणनिभे नभस्तले ॥ नैषधीयचरितम् - 2 - 69 ॥
विनमद्भिरधः स्थितैः खगैर्झटिति श्येननिपातशङ्किभिः ।
स
निरैक्षि दृशैकयोपरि स्यदझाङ्कारितपत्रपद्धतिः ॥ नैषधीयचरितम् - 2 - 70 ॥
ददृशे न जनेन यन्नसौ भुवि तच्छायमवेक्ष्य तत्क्षणात् ।
दिवि दिक्षु वितीर्णचक्षुषा पृथुवेगद्रुतमुक्तदृक्पथः ॥ नैषधीयचरितम् - 2 - 71 ॥
न वनं पथि
शिश्रिये अमुना क्वचिदप्युच्चतरद्रुचा रुतम् ।
न सगोत्रजम्
अन्ववादि वा गतिवेगप्रसरद्रुचा रुतम् ॥ नैषधीयचरितम् - 2 - 72 ॥
अथ भीमभुजेन पालिता नगरी मञ्चुरसौ धराजिता ।
पतगस्य
जगाम दृक्पथं हरशैलोपमसौधराजिता ॥ नैषधीयचरितम् - 2 - 73 ॥
दयितं प्रति यत्र सन्तता रतिहासा इव
रेजिरे भुवः ।
स्फटिकोपलविग्रहा गृहाः शशभृद्भित्तनिरङ्कभित्तयः ॥ नैषधीयचरितम् - 2 - 74 ॥
नृपनीलमणीगृहत्विषामुपधेर्यत्र भयेन भास्वतः ।
शरणार्थम्
उवास वासरेऽप्यसदावृत्त्युदयत्तमं तमः ॥ नैषधीयचरितम् - 2 - 75 ॥
सितदीप्रमणिप्रकल्पिते यद्गारे हसदङ्करोदसि ।
निखिलान्निशि पूर्णिमा तिथीन्
उपतस्थे अतिथिरेकिका तिथिः ॥ नैषधीयचरितम् - 2 - 76 ॥
सुदतीजनमज्जनार्पितैर्घुसृणैर्यत्र कषायिताशया ।
न निशाखिलयापि वापिका
प्रससाद ग्रहिलेव मानिनी ॥ नैषधीयचरितम् - 2 - 77 ॥
क्षणनीरवया यया निशि श्रितवप्रावलियोगपट्टया ।
मणिवेश्ममयं स्म निर्मलं किमपि ज्योतिरबाह्यम्
ईक्ष्यते ॥ नैषधीयचरितम् - 2 - 78 ॥
विललास जलाशयोदरे क्वचन द्यौरनुविम्बितेव या ।
परिखाकपटस्फुटस्फुरत्प्रतिबिम्बानवलम्बिताम्बुनि ॥ नैषधीयचरितम् - 2 - 79 ॥
व्रजते दिवि यद्गृहावलीचलचेलाञ्चलदण्डताडनाः ।
व्यतरन् अरुणाय विश्रमं सृजते हेलिहयालिकालनाम् ॥ नैषधीयचरितम् - 2 - 80 ॥
क्षितिगर्भधराम्बरालयैस्तलमध्योपरिपूरिणां पृथक् ।
जगतां किल याखिलाद्भुता
अजनि सारैर्निजचिह्नधारिभिः ॥ नैषधीयचरितम् - 2 - 81 ॥
दधदम्बुदनीलकण्ठतां वहदत्यच्छसुधोज्ज्वलं वपुः ।
कथम्
ऋच्छतु यत्र नाम न क्षितिभृन्मन्दिरमिन्दुमौलिताम् ॥ नैषधीयचरितम् - 2 - 82 ॥
बहुरूपकशालभञ्जिकामुखचन्द्रेषु कलङ्करङ्कवः ।
यदनेककसौधकन्धराहरिभिः कुक्षिगतीकृता इव ॥ नैषधीयचरितम् - 2 - 83 ॥
बलिसद्मदिवं स तथ्यवागुपरि स्म
आह दिवोऽपि नारदः ।
अधराथ कृता ययेव सा विपरीता
अजनि भूविभूषया ॥ नैषधीयचरितम् - 2 - 84 ॥
प्रतिहट्टपथे घरट्टजात्पथिकाह्वानदसक्तुसौरभैः ।
कलहान्न घनान्यदुत्थितादधुनापि
उज्झति घर्घरस्वरः ॥ नैषधीयचरितम् - 2 - 85 ॥
वरणः कनकस्य मानिनीं दिवमङ्कादमराद्रिरागताम् ।
घनरत्नकपाटपक्षतिः परिरभ्यानुनयन्
उवास याम् ॥ नैषधीयचरितम् - 2 - 86 ॥
अनलैः परिवेषमेत्य या ज्वलदर्कोपलवप्रजन्मभिः ।
उदयं लयमन्तरा रवेः
अवहत् बाणपुरीपरार्ध्यताम् ॥ नैषधीयचरितम् - 2 - 87 ॥
बहुकम्बुमणिर्वराटिकागणनाटत्करकर्कटोत्करः ।
हिमवालुकयाच्छवालुकः पटु
दध्वान यदापणार्णवः ॥ नैषधीयचरितम् - 2 - 88 ॥
यदगारघटाट्टकुट्टिमस्रवदिन्दूपलतुन्दिलापया ।
मुमुचे न पतिव्रतौचिती प्रतिचन्द्रोदयमभ्रगङ्गया ॥ नैषधीयचरितम् - 2 - 89 ॥
रुचयोस्तमितस्य भास्वतः स्खलिता यत्र निरालयाः किल ।
अनुसायमभुर्विलेपना पणकश्मीरजपण्यवीथयः ॥ नैषधीयचरितम् - 2 - 90 ॥
विततं वणिजापणेऽखिलं पणितुं यत्र जनेन
वीक्ष्यते ।
मुनिनेव मृकण्डुसूनुना जगतीवस्तु पुरोदरे हरेः ॥ नैषधीयचरितम् - 2 - 91 ॥
सममेणमदैर्यदापणे तुलयन्सौरभलोभनिश्चलम् ।
पणिता न जनारवैः
अवैत् अपि गुञ्जन्तमलिं मलीमसम् ॥ नैषधीयचरितम् - 2 - 92 ॥
रविकान्तमयेन सेतुना सकलाहं ज्वलनाहितोष्मणा ।
शिशिरे निशिगच्छतां पुरा चरणौ यत्र
दुनोति नो हिमम् ॥ नैषधीयचरितम् - 2 - 93 ॥
विधुदीधितिजेन यत्पथं पयसा नैषधशीलशीतलम् ।
शशिकान्तमयं तपागमे कलितीव्रः
तपति स्म नातपः ॥ नैषधीयचरितम् - 2 - 94 ॥
परिखावलयच्छलेन या न परेषां ग्रहणस्य गोचरः ।
फणिभाषितभाष्यफक्किकाविषमा कुण्डलनामवापिता ॥ नैषधीयचरितम् - 2 - 95 ॥
मुखपाणिपदाक्ष्णी पङ्कजै रचिताङ्गेष्वपरेषु चम्पकैः ।
स्वयम्
आदित यत्र भीमजा स्मरपूजाकुसुमस्रजः श्रियम् ॥ नैषधीयचरितम् - 2 - 96 ॥
जघनस्तनभारगौरवाद्वियदालम्ब्य विहर्तुमक्षमाः ।
ध्रुवमप्सरसोऽवतीर्य यां शतम्
अध्यासत तत्सखीजनः ॥ नैषधीयचरितम् - 2 - 97 ॥
स्थितिशालिसमस्तवर्णतां न कथं चित्रमयी बिभर्तु या ।
स्वरभेदम्
उपैतु या कथं कलितानल्पमुखारवा न वा ॥ नैषधीयचरितम् - 2 - 98 ॥
स्वरुचारुणया पताकया दिनमर्केण समीयुषोत्तृषः ।
लिलिहुः बहुधा सुधाकरं निशि माणिक्यमया यदालयाः ॥ नैषधीयचरितम् - 2 - 99 ॥
लिलिहे स्वरुचा पताकया निशि जिह्वानिभया सुधाकरम् ।
श्रितमर्ककरैः पितासु यन्नृपसद्मामलपद्मरागजम् ॥ नैषधीयचरितम् - 2 - 100 ॥
अमृतद्युतिलक्ष्म पीतया मिलितं यद्वलभीपताकया ।
वलयायितशेषशायिनः सखिताम्
आदित पीतवाससः ॥ नैषधीयचरितम् - 2 - 101 ॥
अश्रान्तश्रुतिपाठपूतरसनाविर्भूतभूरिस्तवाजिह्मब्रह्ममुखौघविघ्नितनवस्वर्गक्रियाकेलिना ।
पूर्वं गाधिसुतेन सामिघटिता मुक्ता नु मन्दाकिनी यत्प्रासाददुकूलवल्लिरनिलान्दोलैः
अखेलद् दिवि ॥ नैषधीयचरितम् - 2 - 102 ॥
यदतिविमलनीलवेश्मरश्मिभ्रमरितभाः शुचिसौधवस्त्रवल्लिः ।
अलभत शमन्स्वसुः शिशुत्वं दिवसकराङ्कतले चला लुठन्ति ॥ नैषधीयचरितम् - 2 - 103 ॥
स्वप्राणेश्वरनर्महर्म्यकटकातिथ्यग्रहायोत्सुकं पाथोदं निजकेलिसौधशिखरादारुह्य यत्कामिनी ।
साक्षादप्सरसो विमानकलितव्योमान एव
अभवद् यन्न
प्राप निमेषमभ्रतरसा यान्ती रसादध्वनि ॥ नैषधीयचरितम् - 2 - 104 ॥
वैदर्भीकेलिशैले मरकतशिखरादुत्थितैरंशुदर्भैर्ब्रह्माण्डाघातभग्नस्यदजमदतया ह्रीधृतावाङ्मुखत्वैः ।
कस्या नोत्तानगाया दिवि सुरसुरभेरास्यदेशं गताग्रैर्यद्गोग्रासप्रदानव्रतसुकृतमविश्रान्तम्
उज्जृम्भते स्म ॥ नैषधीयचरितम् - 2 - 105 ॥
विधुकरपरिरम्भादात्मनिष्यन्दपूर्णैः शशिदृषदुपक्ḷप्तैरालवालैस्तरूणाम् ।
विफलितजलसेकप्रक्रियागौरवेण
व्यरचि स हृतचित्तस्तत्र भैमीवनेन ॥ नैषधीयचरितम् - 2 - 106 ॥
अथ कनकपतत्त्रस्तत्र तां राजपुत्रीं सदसि सदृशभासां विस्फुरन्तीं सखीनाम् ।
उडुपरिषादि मध्यस्थायिशीतांशुलेखानुकरणपटुलक्ष्मीम् अक्षिलक्षीचकार ॥ नैषधीयचरितम् - 2 - 107 ॥
भ्रमणरयविकीर्णस्वर्णभासा खगेन क्वचन पतनयोग्यं देशमन्विष्यताधः ।
मुखविधुमदसीयं सेवितुं लम्बमानः शशिपरिधिरिवोर्ध्वं मण्डलस्तेन
तेने ॥ नैषधीयचरितम् - 2 - 108 ॥
अनुभवति शचीत्थं सा घृताचीमुखाभिर्न सह सहचरीभिर्नन्दनानन्दमुच्चैः ।
इति मतिः
उदयासीत् पक्षिणः प्रेक्ष्य भैमीं विपिनभुवि सखीभिः सार्धमाबद्धकेलिम् ॥ नैषधीयचरितम् - 2 - 109 ॥
श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः
सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
द्वैतीयीकतया मितोऽयम्
अगमत् तस्य प्रबन्धे महाकाव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥ नैषधीयचरितम् - 2 - 110 ॥
।। इति नैषधीयचरितमहाकाव्ये द्वितीयसर्गः ।।
तृतीयसर्गः
आकुञ्चिताभ्यामथ पक्षतिभ्यां नभोविभागात्तरसावतीर्य ।
निवेशदेशाततधूतपक्षः
पपात भूमावुपभैमि हंसः ॥ नैषधीयचरितम् - 3 - 1 ॥
आकस्मिकः पक्षपुटाहतायाः क्षितेस्तदा यः स्वन
उच्चचार ।
द्रागन्यविन्यस्तदृशः स तस्याः सम्भ्रान्तमन्तः करणं
चकार ॥ नैषधीयचरितम् - 3 - 2 ॥
नेत्राणि वैदर्भसुतासखीनां विमुक्ततत्तद्विषायग्रहाणि ।
प्रापुः तमेकं निरुपाख्यरूपं ब्रह्मेव चेतांसि यतव्रतानाम् ॥ नैषधीयचरितम् - 3 - 3 ॥
हंसं तनौ सन्निहितं चरन्तं मुनेर्मनोवृत्तिरिव स्विकायाम् ।
ग्रहीतुकामादरिणा शयेन यत्नादसौ निश्चलतां
जगाहे ॥ नैषधीयचरितम् - 3 - 4 ॥
तामिङ्गितैरप्यनुमाय मायामयं न भैम्या वियद्
उत्पपात ।
तत्पाणिमात्मोपरिपातुकं तु मोघं
वितेने प्लुतिलाघवेन ॥ नैषधीयचरितम् - 3 - 5 ॥
व्यर्थीकृतं पत्ररथेन तेन तथाऽवसाय व्यवसायमस्याः ।
परस्परामर्पितहस्ततालं तत्कालमालीभिः
अहस्यत अलम् ॥ नैषधीयचरितम् - 3 - 6 ॥
उच्चाटनीयः करतालिकानां दानादिदानीं भवतीभिरेषः ।
या
अन्वेति मां
द्रुह्यति मह्यमेव सात्रेति
उपालम्भि तयालिवर्गः ॥ नैषधीयचरितम् - 3 - 7 ॥
धृताल्पकोपा हसिते सखीनां छायेव भास्वन्तमभिप्रयातुः ।
श्यामाथ हंसस्य करानवाप्तेर्मन्दाक्षलक्स्या
लगति स्म पश्चात् ॥ नैषधीयचरितम् - 3 - 8 ॥
शस्ता न हंसाभिमुखी पुनस्ते यात्रेति ताभिश्छलहस्यमाना ।
सा
आह स्म नैव अशकुनीभवेत् मे भाविप्रियावेदक एष हंसः ॥ नैषधीयचरितम् - 3 - 9 ॥
हंसोऽप्यसौ हंसगतेः सुदत्याः पुरः पुरश्चारु चलन्
बभासे ।
वैलक्ष्यहेतोर्गतिमेतदीयामग्रेऽनुकृत्योपहसन्निवोच्चैः ॥ नैषधीयचरितम् - 3 - 10 ॥
पदे पदे भाविनि भाविनी तं यथा करप्राप्यम्
अवैति नूनम् ।
तथा सखेलं चलता लतासु प्रतार्य तेन
आचकृषे कृशाङ्गी ॥ नैषधीयचरितम् - 3 - 11 ॥
रुषा निषिद्धालिजनां यदैनां छायाद्वितीयां कलयांचकार ।
तदा श्रमाम्भः कणभूषिताङ्गीं स कीरवन्मानुषवाग्
अवादीत् ॥ नैषधीयचरितम् - 3 - 12 ॥
अये कियद्यावद्
उपैषि दूरं व्यर्थं
परिश्राम्यसि वा किमित्थम् ।
उदेति ते भीरपि किं नु बाले विलोकयन्त्या न घना वनालीः ॥ नैषधीयचरितम् - 3 - 13 ॥
वृथार्पयन्तीमपथे पदं त्वां मरुल्ललत्पल्लवपाणिकम्पैः ।
आलीव
पश्य प्रतिषेधति इयं कपोतहुङ्कारगिरा वनाली ॥ नैषधीयचरितम् - 3 - 14 ॥
धार्यः कथङ्कारमहं भवत्या वियद्विहारी वसुधैकगत्या ।
अहो शिशुत्वं तव खण्डितं न स्मरस्य सख्या वयसाप्यनेन ॥ नैषधीयचरितम् - 3 - 15 ॥
सहस्रपत्त्रासनपत्त्रहंस वंशस्य पत्त्राणि पतत्रिणः
स्मः ।
अस्मादृशां चाटुरसामृतानि स्वर्लोकलोकेतरदुर्लभानि ॥ नैषधीयचरितम् - 3 - 16 ॥
स्वर्गापगाहेममृणालिनीनां नालामृणालाग्रभुजो
भजामः ।
अन्नानुरूपां तनुरूपर्द्धिं कार्यं निदानाद्धि गुणान्
अधीते ॥ नैषधीयचरितम् - 3 - 17 ॥
धातुर्नियोगादिह नैषघीयं लीलासरः सेवितुमागतेषु ।
हैमेषु हंसेष्वहमेक एव
भ्रमामि भूलोकविलोकनोत्कः ॥ नैषधीयचरितम् - 3 - 18 ॥
विधेः कदाचिद्भ्रमणीविलासे श्रमातुरेभ्यः स्वमहत्तरेभ्यः ।
स्कन्धस्य विश्रान्तिम्
अदां तदादि
श्राम्यामि नाविश्रमविश्वगोऽपि ॥ नैषधीयचरितम् - 3 - 19 ॥
बन्धाय दिव्ये न तिरश्चि कश्चित्पाशादिरासादितपौरुषः
स्यात् ।
एकं विना मादृशि तन्नरस्य स्वर्भोगभाग्यं विरलोदयस्य ॥ नैषधीयचरितम् - 3 - 20 ॥
इष्टेन पूर्तेन नलस्य वश्याः स्वर्भोगमत्रापि
सृजन्ति अमर्त्याः ।
महीरुहा दोहदसेकशक्तेराकालिकं कोरकम्
उद्गिरन्ति ॥ नैषधीयचरितम् - 3 - 21 ॥
सुवर्णशैलादवतीर्य तूर्णं स्वर्वाहिनीवारिकणावकीर्णैः ।
तं
वीजयामः स्मरकेलिकाले पक्षैर्नृपं चामरबद्धसख्यः ॥ नैषधीयचरितम् - 3 - 22 ॥
क्रियेत चेत्साधुविभक्तिचिन्ता व्यक्तिस्तदा सा प्रथमाभिधेया ।
या स्वौजसां साधयितुं विलासैस्तावत्क्षमानामपदं बहु
स्यात् ॥ नैषधीयचरितम् - 3 - 23 ॥
राजा स यज्वा विबुधव्रजत्रा कृत्वाध्वराज्योपमयैव राज्यम् ।
भुङ्क्ते श्रितशोत्रियसात्कृतश्रीः पूर्वं त्वहो शेषमशेषमन्त्यम् ॥ नैषधीयचरितम् - 3 - 24 ॥
दारिद्र्यदारिद्रविणौघवर्षैरमोघमेघव्रतमर्थिसार्थे ।
सन्तुष्टमिष्टानि तमिष्टदेवं
नाथन्ति के नाम न लोकनाथम् ॥ नैषधीयचरितम् - 3 - 25 ॥
अस्मत्किल श्रोत्रसुधां विधाय रम्भा चिरं भामतुलां नलस्य ।
तत्रानुरक्ता तमनाप्य
भेजे तन्नामगन्धान्नलकूबरं सा ॥ नैषधीयचरितम् - 3 - 26 ॥
स्वर्लोकमस्माभिरितः प्रयातैः केलीषु तद्गानगुणान्निपीय ।
हा हेति गायन्यद्
अशोचि तेन नाम्नैव हाहा हरिगायनः
अभूत् ॥ नैषधीयचरितम् - 3 - 27 ॥
शृण्वन्सदारस्तदुदारभावं हृष्यन्मुहुर्लोम पुलोमजायाः ।
पुण्येन न
आलोकत लोकपालः प्रमोदबाष्पावृतनेत्रमालः ॥ नैषधीयचरितम् - 3 - 28 ॥
सापीश्वरे शृण्वति तद्गुणौघान्प्रसह्य चेतो हरतोऽर्धशम्भुः ।
अभूत् अपर्णाङ्गुलिरुद्धकर्णा कदा न कण्डूयनकैतवेन ॥ नैषधीयचरितम् - 3 - 29 ॥
अलं सजन्धर्मविधौ विधाता
रुणद्धि मौनस्य मिषेण वाणीम् ।
तत्कण्ठमालिङ्ग्य रसस्य तृप्तां न
वेद तां वेदजडः स वक्राम् ॥ नैषधीयचरितम् - 3 - 30 ॥
श्रियस्तदालिङ्गनभूर्न भूता व्रतक्षतिः कापि पतिव्रतायाः ।
समस्तभूतात्मतया न भूतं तद्भर्तुरीर्ष्याकलुषाणुनापि ॥ नैषधीयचरितम् - 3 - 31 ॥
धिक् तं विधेः पाणिमजातलज्जं
निर्माति यः पर्वणि पूर्णमिन्दुम् ।
मन्ये स विशः स्मृततन्मुखश्रीः कृत्वार्धमौ
औज्झत् भवमूर्ध्नि यस्तम् ॥ नैषधीयचरितम् - 3 - 32 ॥
निलीयते ह्रीविधुरः स्वजैत्रं श्रुत्वा विधुस्तस्य मुखं मुखान्नः ।
सूरे समुद्रस्य कदापि पूरे कदाचिदभ्रभ्रमदभ्रगर्भे ॥ नैषधीयचरितम् - 3 - 33 ॥
संज्ञाप्य नः स्वध्वजभृत्यवर्गान्दैत्यारिरत्यब्जुनलास्यनुत्यै ।
तत्सङ्कुचन्नाभिसरोजपीताद्धातुर्विलज्जं
रमते रमायाम् ॥ नैषधीयचरितम् - 3 - 34 ॥
रेखाभिरास्ये गणनादिवास्य द्वात्रिंशता दन्तमयीभिरन्तः ।
चतुर्दशाष्टादश चात्र विद्या द्वेधापि
सन्ति इति
शशंस वेधाः ॥ नैषधीयचरितम् - 3 - 35 ॥
श्रियौ नरेन्द्रस्य निरीक्ष्य तस्य स्मरामरेन्द्रावपि न
स्मरामः ।
वासेन तस्मिन्क्षमयोश्च सम्यग्बुद्धौ न
दध्मः खलु शेषबुद्धौ ॥ नैषधीयचरितम् - 3 - 36 ॥
विना पतत्रं विनतातनूजैः समीरणैरीक्षणलक्षणीयैः ।
मनोभिः
आसीत् अनणुप्रमाणैर्न लङ्घिता दिक्कतमा तदश्वैः ॥ नैषधीयचरितम् - 3 - 37 ॥
सङ्ग्रामभूमीषु
भवति अरीणामस्रैर्नदीमातृकतां गतासु ।
तद्बाणधारापवनाशनानां राजव्रजीयैरसुभिः सुभिक्षम् ॥ नैषधीयचरितम् - 3 - 38 ॥
यशो यद्स्य
अजनि संयुगेषु कण्डूलभावं भजता भुजेन ।
हेतोर्गुणादेव दिगापगालीकूलङ्कषत्वव्यसनं तदीयम् ॥ नैषधीयचरितम् - 3 - 39 ॥
यदि त्रिलोकी गणनापरा
स्यात् तस्याः समाप्तिर्यदि नायुषः
स्यात् ।
पारेपरार्धं गणितं यदि
स्यात् गणेयनिः शेषगुणोऽपि स
स्यात् ॥ नैषधीयचरितम् - 3 - 40 ॥
अवारितद्वारतया तिरश्चामन्तः पुरे तस्य निविश्य राज्ञः ।
गतेषु रम्येष्वधिकं विशेषम्
अध्यापयामः परमाणुमध्याः ॥ नैषधीयचरितम् - 3 - 41 ॥
पीयूषधारानधराभिरन्तस्तासां रसोदन्वति
मज्जयामः ।
रम्भादिसौभाग्यरहः कथाभिः काव्येन काव्यं सृजतादृताभिः ॥ नैषधीयचरितम् - 3 - 42 ॥
काभिर्न तत्राभिनवस्मराज्ञा विश्वासनिक्षेपवणिक्
क्रिये अहम् ।
जिह्रेति यन्नैव कुतोऽपि तिर्यक्कश्चित्तिरश्चः
त्रपते न तेन ॥ नैषधीयचरितम् - 3 - 43 ॥
वार्तापि नासत्यपि सान्यम्
एति योगादरन्ध्रे हृदि यं
निरुन्धे ।
विरञ्चिनानाननवादधौतसमाधिशास्त्रश्रुतिपूर्णकर्णः ॥ नैषधीयचरितम् - 3 - 44 ॥
नलाश्रयेण त्रिदिवोपभोगं तवानवाप्यं
लभते बतान्या ।
कुमुद्वतीवेन्दुपरिग्रहेण ज्योत्स्नोत्सवं दुर्लभमम्बुजिन्या ॥ नैषधीयचरितम् - 3 - 45 ॥
तन्नैषधानूढतया दुरापं शर्म त्वयास्मत्कृतचाटुजन्म ।
रसालवन्या मधुपानुविद्धं सौभाग्यमप्राप्तवसन्तयेव ॥ नैषधीयचरितम् - 3 - 46 ॥
तस्यैव वा
यास्यसि किं न हस्तं दृष्टं मनः केन विधेः प्रविश्य ।
अजातपाणिग्रहणा
असि तावद्रूपस्वरूपातिशयाश्रयश्च ॥ नैषधीयचरितम् - 3 - 47 ॥
निशा शशाङ्कं शिवया गिरीशं श्रिया हरिं योजयतः प्रतीतः ।
विधेरपि स्वारसिकः प्रयासः परस्परं योग्यसमागमाय ॥ नैषधीयचरितम् - 3 - 48 ॥
वेलातिगस्त्रैणगुणाब्धिवेणिर्न योगयोग्या
असि नलेतरेण ।
सन्दर्भ्यते दर्भगुणेन मल्लीमाला न मृद्वी भृशकर्कशेन ॥ नैषधीयचरितम् - 3 - 49 ॥
विधिं वधूसृष्टिम्
अपृच्छम् एव तद्यानयुग्यो नलकेलियोग्याम् ।
त्वन्नामवर्णा इव कर्णपीता मयास्य
सङ्क्रीडति चक्रिचक्रे ॥ नैषधीयचरितम् - 3 - 50 ॥
अन्येन पत्या त्वयि योजितायां विज्ञत्वकीर्त्या गतजन्मनो वा ।
जनापवादार्णवमुत्तरीतुं विधा विधातुः कतमा तरीः
स्यात् ॥ नैषधीयचरितम् - 3 - 51 ॥
आस्तां तदप्रस्तुतचिन्तयालं मया
असि तन्वि श्रमितातिवेलम् ।
सोऽहं तदागः परिमार्ष्टुकामः किमीप्सितं ते
विदधे अभिधेहि ॥ नैषधीयचरितम् - 3 - 52 ॥
इतीरयित्वा
विरराम पत्त्री स राजपुत्रीहृदयं बुभुत्सुः ।
ह्रदे गभीरे हृदि चावगाढे
शंसन्ति कार्यावतरं हि सन्तः ॥ नैषधीयचरितम् - 3 - 53 ॥
किंचित्तिरश्चीनविलोलमौलिर्विचिन्त्य वाच्यं मनसा मुहूर्तम् ।
पतत्रिणं सा पृथिवीन्द्रपुत्री
जगाद वक्त्रेण तृणीकृतेन्दुः ॥ नैषधीयचरितम् - 3 - 54 ॥
धिक्चापले वत्सिमवत्सलत्वं यत्प्रेरणादुत्तरलीभवन्त्या ।
समीरसङ्गादिव नीरभङ्ग्या मया तटस्यस्त्वमुपद्रुतः
असि ॥ नैषधीयचरितम् - 3 - 55 ॥
आदर्शतां स्वच्छतया प्रयासि सतां स तावत्खलु दर्शनीयः ।
आगः पुरस्कुर्वति सागसं मां यस्यात्मनीदं प्रतिबिम्बितं ते ॥ नैषधीयचरितम् - 3 - 56 ॥
अनार्यमप्याचरितं कुमार्या भवान्मम
क्षाम्यतु सौम्य तावत् ।
हंसोऽपि देवांशतया
असि वन्द्यः श्रीवत्सलक्ष्मेव हि मत्स्यमूर्तिः ॥ नैषधीयचरितम् - 3 - 57 ॥
मत्प्रीतिमाधित्ससि कां त्वदीक्षा मुदं मदक्ष्णोरपि या
अतिशेताम् ।
निजामृतैर्लोचनसेचनाद्वा पृथक्किमिन्दुः
सृजति प्रजानाम् ॥ नैषधीयचरितम् - 3 - 58 ॥
मनस्तु यं न
उज्झति जातु
यातु मनोरथः कण्ठपथं कथं सः ।
का नाम बाला द्विजराजपाणिग्रहाभिलाषं
कथयेद् अलज्जा ॥ नैषधीयचरितम् - 3 - 59 ॥
वाचं तदीयां परिपीय मृद्वीं मृद्वीकया तुल्यरसां स हंसः ।
तत्याज तोषं परपुष्टघुष्टे घृणां च वीणाक्वणिते
वितेने ॥ नैषधीयचरितम् - 3 - 60 ॥
मन्दाक्षमन्दाक्षरमुद्रमुक्त्वा तस्यां समाकुञ्चितवाचि हंसः ।
तच्छंसिते किंचन संशयालुर्गिरा मुखाम्भोजमयं
युयोज ॥ नैषधीयचरितम् - 3 - 61 ॥
करेण वाञ्छेव विधुं विधर्तुं यमित्थम्
आत्थ आदरिणी तमर्थम् ।
पातुं श्रुतिभ्यामपि न
अधिकुर्वे वर्णं श्रुतेर्वर्ण इवान्तिमः किम् ॥ नैषधीयचरितम् - 3 - 62 ॥
अर्थाप्यते वा किमियद्भवत्या चितैकपद्यामपि
वर्तते ।
यत्रान्धकारः किल चेतसोऽपि जिह्मेतरैर्ब्रह्म तदप्यवाप्यम् ॥ नैषधीयचरितम् - 3 - 63 ॥
ईशाणिमैश्वर्य विवर्तमध्ये लोकेशलोकेशयलोकमध्ये ।
तिर्यञ्चमपि
अञ्च मृषानभिज्ञरसञ्जतोपञ्जसमज्ञमज्ञम् ॥ नैषधीयचरितम् - 3 - 64 ॥
मध्ये श्रुतीनां प्रतिवेशिनीनां सरस्वती वासवती मुखे नः ।
ह्रियेव ताभ्यः
चलति इयमद्धा पथान्न सत्सङ्गगुणेन नद्धा ॥ नैषधीयचरितम् - 3 - 65 ॥
पर्यङ्कतापन्नसरस्वदङ्कां लङ्कां पुरीमप्यभिलाषि चित्तम् ।
कुत्रापि चेद्वस्तुनि ते
प्रयाति तदपि
अवेहि स्वशये शयालु ॥ नैषधीयचरितम् - 3 - 66 ॥
इतीरिता पत्त्ररथेन तेन ह्रीणा च हृष्टा च
बभाण भैमी ।
चेतो नलम्
कामयते मदीयं नान्यत्र कुत्रापि च साभिलाषम् ॥ नैषधीयचरितम् - 3 - 67 ॥
विचिन्त्य बालाजनशीलशैलं लज्जानदीमज्जदनङ्गनागम् ।
आचष्ट विस्पष्टमभाषमाणामेनां स चक्राङ्गपतङ्गशक्रः ॥ नैषधीयचरितम् - 3 - 68 ॥
नृपेण पाणिग्रहणस्पृहेति नलं मनः
कामयते ममेति ।
आश्लेषि न श्लेषकवेर्भवत्याः श्लोकद्वयार्थः सुधिया मया किम् ॥ नैषधीयचरितम् - 3 - 69 ॥
त्वच्चेतसः स्थैर्यविपर्ययं तु सम्भाव्य भावी
अस्मि तमज्ञ एव ।
लक्ष्ये हि बालाहृदि लोलशीले परापराद्धेषुरपि स्मरः
स्यात् ॥ नैषधीयचरितम् - 3 - 70 ॥
महीमहेन्द्रः खलु नैषधेन्दुस्तद्बोधनीयः कथमित्थमेव ।
प्रयोजनं सांशयिकं प्रतीदृक्पृथग्जनेनेव स मद्विधेन ॥ नैषधीयचरितम् - 3 - 71 ॥
पितर्नियोगेन निजेच्छया वा युवानमन्यं यदि वा
वृणीषे ।
त्वदर्थमर्थित्वकृति प्रतीतिः कीदृङ्मयि
स्यात् निषधेश्क्रस्य ॥ नैषधीयचरितम् - 3 - 72 ॥
त्वयापि किं शङ्कितविक्रियेऽस्मिन्
अधिक्रिये वा विषये निधातुम् ।
इतः पृथक्
प्रार्थयसे तु यद्यत्
कुर्वे तदुर्वीपतिपुत्रि सर्वम् ॥ नैषधीयचरितम् - 3 - 73 ॥
श्रवः प्रविष्टा इव तद्गिरस्ता विधूय वैमत्यधुतेन मूर्ध्ना ।
ऊचे ह्रियोऽपि श्लथितानुरोधा पुनर्धरित्रीपुरुहूतपुत्री ॥ नैषधीयचरितम् - 3 - 74 ॥
मदन्यदानं प्रति कल्पना या वेदस्त्वदीये हृदि तावदेषा ।
निशोऽपि सोमेतरकान्तशङ्कामोङ्कारमग्रेसरमस्य
कुर्याः ॥ नैषधीयचरितम् - 3 - 75 ॥
सरोजिनीमानसरागवृत्तेरनर्कसम्पर्कमतर्कयित्वा ।
मदन्यपाणिग्रहशङ्कितेयमहो महीयस्तव साहसिक्यम् ॥ नैषधीयचरितम् - 3 - 76 ॥
साधु त्वया तिर्कतमेतदेव स्वेनानलं यत्किल
संश्रयिष्ये ।
विनामुना स्वात्मनि तु प्रहर्तुं मृषागिरं त्वां नृपतौ न कर्तुम् ॥ नैषधीयचरितम् - 3 - 77 ॥
मद्विप्रलभ्यं पुनः
आह यस्त्वां तर्कः स किं तत्फलवाचि मूकः ।
अशक्यशङ्काव्यभिचारहेतुर्वाणी न वेदा यदि
सन्तु के तु ॥ नैषधीयचरितम् - 3 - 78 ॥
अनैषधायैव
जुहोति तातः किं मां कृशानौ न शरीरशेषाम् ।
ईष्टे तनूजन्मतनोः स नूनं मत्प्राणनाथस्तु नलस्तथापि ॥ नैषधीयचरितम् - 3 - 79 ॥
तदेकदासीत्वपदादुदग्रे मदीप्सिते साधु विधित्सुता ते ।
अहेलिना किं नलिनी
विधत्ते सुधाकरेणापि सुधाकरेण ॥ नैषधीयचरितम् - 3 - 80 ॥
तदेकलुब्धे हृदि मे
अस्ति लब्धुं चिन्ता न चिन्तामणिमप्यनर्घ्यम् ।
चित्ते समैकः सकलत्रिलोकीसारो निधिः पद्ममुखं स एव ॥ नैषधीयचरितम् - 3 - 81 ॥
श्रुतः स दृष्टश्च हरित्सु मोहाद्ध्यातः स नीरन्ध्रितबुद्धिधारम् ।
ममाद्य तत्प्राप्तिरसुव्ययो वा हस्ते तव
आस्ते द्वयमेकशेषः ॥ नैषधीयचरितम् - 3 - 82 ॥
सञ्चीयताम् आश्रुतपालनोत्थं मत्प्राणविश्राणनजं च पुण्यम् ।
निवार्यताम् आर्य वृथा विशङ्का भद्रेऽपि मुद्रेयमये भृशं का ॥ नैषधीयचरितम् - 3 - 83 ॥
अलं विलङ्घ्य प्रिय विज्ञ याच्ञां कृत्वापि वाम्यं विविधं विधेये ।
यशः पथादाश्रवतापदोत्थात्खलु स्खलित्वास्तखलोक्तिखेलात् ॥ नैषधीयचरितम् - 3 - 84 ॥
स्वजीवमप्यार्तमुदे ददद्भ्यस्तव त्रपा नेदृशबद्धमुष्टेः ।
मह्यं मदीयान्यदसूनदित्सोर्धर्मः कराद्
भ्रश्यति कीर्तिधौतः ॥ नैषधीयचरितम् - 3 - 85 ॥
दत्वात्मजीवं त्वयि जीवदेऽपि
शुध्यामि जीवाधिकदे तु केन ।
विधेहि तन्मां त्वदृणान्यशोद्धुममुद्रदारिद्र्यसमुद्रमग्नाम् ॥ नैषधीयचरितम् - 3 - 86 ॥
क्रीणीष्व मज्जीवितमेव पण्यमन्यन्नचेद्वस्तु तद्
अस्तु पुण्यम् ।
जीवेशदातर्यदि ते न दातुं यशोऽपि तावत्
प्रभवामि गातुम् ॥ नैषधीयचरितम् - 3 - 87 ॥
वराटिकोपक्रिययापि लभ्यान्नेभ्याः कृतज्ञानथवा
आद्रियन्ते ।
प्राणैः पणैः स्वं निपुणं भणन्तः
क्रीणन्ति तानेव तु हन्त सन्तः ॥ नैषधीयचरितम् - 3 - 88 ॥
स भूभृदष्टावपि लोकपालास्तैर्मे तदेकाग्रधियः
प्रसेदे ।
न हीतरस्माद्
घटते यदेत्य स्वयं तदाप्तिप्रतिभूर्मम
अभूः ॥ नैषधीयचरितम् - 3 - 89 ॥
अकाण्डमेवात्मभुवार्जितस्य भूत्वा पि मूलं मयि वीरणस्य ।
भवान्न मे किं नलदत्वमेत्य कर्ता हृदश्चन्दनलेपकृत्यम् ॥ नैषधीयचरितम् - 3 - 90 ॥
अलं विलम्ब्य त्वरितुं हि वेला कार्ये किल स्थैर्यसहे विचारः ।
गुरूपदेशं ग्रतिभेव तीक्ष्णा
प्रतीक्षते जातु न कालमर्तिः ॥ नैषधीयचरितम् - 3 - 91 ॥
अभ्यर्थनीयः स गतेन राजा त्वया न शुद्धान्तगतो मदर्थम् ।
प्रियास्यदाक्षिण्यबलात्कृतो हि तदा
उदयेत अन्यवधूनिषेधः ॥ नैषधीयचरितम् - 3 - 92 ॥
शुद्धान्तसम्भोगनितान्ततुष्टे न नैषधे कार्यमिदं निगाद्यम् ।
अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः
स्वदते तुषारा ॥ नैषधीयचरितम् - 3 - 93 ॥
त्वया निधेया न गिरो मदर्थाः कुधा कदुष्णे हृदि नैषधस्य ।
पित्तेन दूने रसने सितापि तिक्तायते हंसकुलावतंस ॥ नैषधीयचरितम् - 3 - 94 ॥
धरातुराषाहि मदर्थयाब्जा कार्या न कार्यान्तरचुम्बिचित्ते ।
तदार्थितस्यानवबोधनिद्रा
बिभर्ति अवज्ञाचरणस्य मुद्राम् ॥ नैषधीयचरितम् - 3 - 95 ॥
विज्ञेन विज्ञाप्यमिदं नरेन्द्रे तस्मात्त्वयास्मिन्समयं समीक्ष्य ।
आत्यन्तिकासिद्धिविलम्बिसिद्ध्योः कार्यस्य कार्यस्य शुभा
विभाति ॥ नैषधीयचरितम् - 3 - 96 ॥
इत्युक्तवत्या यद्
अलोपि लज्जा सानौचिती चेतसि नः
चकास्तु ।
स्मरस्तु साक्षी तददोषतायामुन्माद्य यस्तत्तद्
अवीवदत् ताम् ॥ नैषधीयचरितम् - 3 - 97 ॥
उन्मत्तमासाद्य हरः स्मरश्च द्वावप्यसीमां मुदम्
उद्वहेते ।
पूर्वः परस्पर्धितया प्रसूनं नूनं द्वितीयो विरहाधिदूनम् ॥ नैषधीयचरितम् - 3 - 98 ॥
तथाभिधात्रीमथ राजपुत्रीं निर्णीय तां नैषधबद्धरागाम् ।
अमोचि चञ्चूपुट मौनमुद्रा विहायसा तेन विहस्य भूयः ॥ नैषधीयचरितम् - 3 - 99 ॥
इदं यदि क्ष्मापतिपुत्रि तत्त्वं
पश्यामि तन्न स्वविधेयमस्मिन् ।
त्वामुच्चकैस्तापयता नृपं च पञ्चेषुणैव
अजनि योजनेयम् ॥ नैषधीयचरितम् - 3 - 100 ॥
त्वदबद्धबुद्धेर्बहिरिन्द्रियाणां तस्योपवासव्रतिनां तपोभिः ।
त्वामद्य लब्ध्वामृततृप्तिभाजां स्वदेवभूयञ्चरितार्थम्
अस्तु ॥ नैषधीयचरितम् - 3 - 101 ॥
तुल्यावयोर्मूर्तिः
अभूत् मदीया दग्धा परं सास्य न
ताप्यते अपि ।
इत्यभ्यसूयन्निव देहतापं तस्यातनुस्त्वद्विरहाद्
विधत्ते ॥ नैषधीयचरितम् - 3 - 102 ॥
लिपिं दृशा भित्तिविभूषणं त्वां नृपः पिबन्नादरनिर्निमेषः ।
चक्षुर्झरैरर्पितमात्मचक्षू रागं स
धत्ते रचितं त्वया नु ॥ नैषधीयचरितम् - 3 - 103 ॥
पातुर्दृशालेख्यमयीं नृपस्य त्वामादरादस्तनिमीलया
अस्ति ।
ममेदमित्यश्रुणि नेत्रवृत्तेः प्रीतेर्निमेषच्छिदया विवादः ॥ नैषधीयचरितम् - 3 - 104 ॥
त्वं हृद्गता भैमि बहिर्गतापि प्राणायिता नासिकयास्यगत्या ।
न चित्रम्
आक्रामति तत्र चित्रमेतन्मनो यद्भवदेकवृत्ति ॥ नैषधीयचरितम् - 3 - 105 ॥
अजस्रम्
आरोहसि दूरदीर्घां सङ्कल्पसोपानततिं तदीयाम् ।
श्वासान्स
वर्षति अधिकं पुनर्यद्ध्यानात्तव त्वन्मयतां तदाप्य ॥ नैषधीयचरितम् - 3 - 106 ॥
हृतस्य यां
मन्त्रयते रहस्त्वां तद्व्यक्तम्
आमन्त्रयते मुखं यत् ।
तद्वैरिपुष्पायुधमित्रचन्द्र सत्यौचिती सा खलु तन्मुखस्य ॥ नैषधीयचरितम् - 3 - 107 ॥
स्थितस्य रात्रावधिशय्य शय्यां मोहे मनस्तस्य निमज्जयन्ती ।
आलिङ्ग्य या
चुम्बति लोचने सा निद्राधुना न त्वदृतेऽङ्गना वा ॥ नैषधीयचरितम् - 3 - 108 ॥
स्मरेण निस्तक्ष्य वृथैव बाणैर्लावण्यशेषां कृशताम्
अनायि ।
अनङ्गतामप्ययमाप्यमानः स्पर्धां न सार्धं
विजहाति तेन ॥ नैषधीयचरितम् - 3 - 109 ॥
त्वत्प्रापकात्
त्रस्यति नैनसोऽपि त्वय्येष दास्येऽपि न
लज्जते यत् ।
स्मरेण बाणैरतितक्ष्य तीक्ष्णैर्लूनः स्वभावोऽपि कियान्कमस्य ॥ नैषधीयचरितम् - 3 - 110 ॥
स्मारं ज्वरं घोरमपत्रपिष्णोः सिद्धागदङ्कारचये चिकित्सौ ।
निदानमौनाद्
अविशद् विशाला साङ्क्रामिकी तस्य रुजेव लज्जा ॥ नैषधीयचरितम् - 3 - 111 ॥
बिभेति रुष्टा
असि किलेत्यकस्मात्स त्वां किलापेति
हसति अकाण्डे ।
यान्तीमिव त्वामनु यात्यहेतोरुक्तस्त्वयेव
प्रतिवक्ति मोधम् ॥ नैषधीयचरितम् - 3 - 112 ॥
भवद्वियोगाच्छिदुरार्तिधारा यमस्वसुः
मज्जति निःशरण्यः ।
मूर्च्छामयद्वीपमहान्ध्यपङ्के हा हा महीभृद्भटकुञ्जरोऽयम् ॥ नैषधीयचरितम् - 3 - 113 ॥
सव्यापसव्यत्यजनाद्द्विरुक्तैः पञ्चेषुबाणैः पृथगर्जितासु ।
दशासु शेषा खलु तद्दशा या तया नभः
पुष्प्यतु कोरकेण ॥ नैषधीयचरितम् - 3 - 114 ॥
त्वयि स्मराधेः सततास्मितेन प्रस्थापितो भूमिभृता
अस्मि तेन ।
आगत्य भूतः सफलो भवत्या भावप्रतीत्या गुणलोभवत्याः ॥ नैषधीयचरितम् - 3 - 115 ॥
धन्या
असि वैदर्भि गुणैरुदारैर्यया
समाकृष्यत नैषधोऽपि ।
इतः स्तुतिः का खलु चन्द्रिकाया यदब्धिमपि उत्तरलीकरोति ॥ नैषधीयचरितम् - 3 - 116 ॥
नलेन
भायाः शशिना निशेव त्वया स
भायात् निशया शशीव ।
पुनःपुनस्तद्युगयुग्विधाता स्वभ्यासम्
आस्ते नु युवां युयुक्षुः ॥ नैषधीयचरितम् - 3 - 117 ॥
स्तनद्वये तन्वि परं तवैव पृथौ यदि
प्राप्स्यति नैषधस्य ।
अनल्पवैदग्ध्यविवर्धिनीनां पत्त्रावलीनां वलना समाप्तिम् ॥ नैषधीयचरितम् - 3 - 118 ॥
एकः सुधांशुर्न कथञ्चन
स्यात् तृप्तिक्षमस्त्वन्नयनद्वयस्य ।
त्वल्लोचनासेचनकस्तत्
अस्तु नलास्यशीतद्युतिसद्वितीयः ॥ नैषधीयचरितम् - 3 - 119 ॥
अहो तपः कल्पतरुर्नलीयस्त्वत्पाणिजाग्रस्फुरदङ्कुरश्रीः ।
त्वद्भ्रूयुगं यस्य खलु द्विपत्री तवाधरो
रज्यति यत्कलम्बः ॥ नैषधीयचरितम् - 3 - 120 ॥
यस्ते नवः पल्लवितः कराभ्यां स्मितेन यः कोरकितस्तव
आस्ते ।
अङ्गम्रदिम्ना तव पुष्पितो यः स्तनश्रिया यः फलितस्तवैव ॥ नैषधीयचरितम् - 3 - 121 ॥
कांसीकृता
आसीत् खलु मण्डलीन्दोः संसक्तरश्मिप्रकरा स्मरेण ।
तुला च नाराचलता निजैव मिथोनुरागस्य समीकृतौ वाम् ॥ नैषधीयचरितम् - 3 - 122 ॥
सत्त्वस्रुतस्वेदमधूत्थसान्द्रे तत्पाणिपद्मे मदनोत्सवेषु ।
लग्नोत्थितास्त्वत्कुचपत्त्रलेखास्तन्निर्गतास्तं
प्रविशन्तु भूयः ॥ नैषधीयचरितम् - 3 - 123 ॥
बन्धाढ्यनानारतमल्लयुद्धप्रमोदितैः केलिवने मरुद्भिः ।
प्रसूनवृष्टिं पुनरुक्तमुक्तां
प्रतीच्छतं भैमि युवां युवानौ ॥ नैषधीयचरितम् - 3 - 124 ॥
अन्योन्यसङ्गमवशादधुना
विभातां तस्यापि तेऽपि मनसी विकसद्विलासे ।
स्रष्टुं पुनर्मनसिजस्य तनुं प्रवृत्तमादाविव द्व्यणुककृत्परमाणुयुग्मम् ॥ नैषधीयचरितम् - 3 - 125 ॥
कामः कौसुमचापदुर्जयममुं जेतुं नृपं त्वां धनुर्वल्लीमव्रणवंशजामधिगुणामासाद्य
माद्यति असौ ।
ग्रीवालङ्कृतिपट्टसूत्रलतया पृष्टे कियल्लम्बया भ्राजिष्णुं कषरेखयेव निवसत्सिन्दूरसौन्दर्यया ॥ नैषधीयचरितम् - 3 - 126 ॥
त्वद्गुच्छावलिमौक्तिकानि गुलिकास्तं राजहंसं विभोर्वेध्यं
विद्धि मनोभुवः स्वमपि तां मञ्जुं धनुर्मञ्जरीम् ।
यन्नित्याङ्कनिवासलालिततमज्याभज्यमानं लसन्नाभीमध्यबिला विलासमखिलं रोमालिः
आलम्बते ॥ नैषधीयचरितम् - 3 - 127 ॥
पुष्पेषुश्चिकुरेषु ते शरचयं त्वद्भालमूले धनू रौद्रे चक्षुषि तज्जितस्तनुमनुभ्राष्ट्रं च यः
चिक्षिपे ।
निर्विद्या
आश्रयेद् आश्रयं स वितनुस्त्वां तज्जयायाधुना पत्रालीस्त्वदुरोजशैलनिलया तत्पर्णशालायते ॥ नैषधीयचरितम् - 3 - 128 ॥
इति
आलपति अथ पतत्त्रिणि तत्र भैमीं सख्यश्चिरात्तदनुसन्धिपराः परीयुः ।
शर्मा
अस्तु ते
विसृज मामिति सोऽप्युदीर्य वेगात्
जगाम निषधाधिपराजधानीम् ॥ नैषधीयचरितम् - 3 - 129 ॥
चेतोजन्मशरप्रसूनमधुभिर्व्यामिश्रताम्
आश्रयत् प्रेयोदूतपतङ्गपुङ्गवगवीहैयङ्गवीनं रसात् ।
स्वादंस्वादमसीममिष्टसुरभि प्राप्तापि तृप्तिं न सा तापं
प्राप नितान्तमन्तरतुलाम्
आनर्च्छ मूर्च्छामपि ॥ नैषधीयचरितम् - 3 - 130 ॥
तस्या दृशो नृपतिबन्धुमनुव्रजन्त्यास्तं वाष्पवारि नचिरादवधिः
बभूव ।
पार्श्वेऽपि
विप्रचकृषे यदनेन दृष्टेरारादपि
व्यवदधे न तु चित्तवृत्तेः ॥ नैषधीयचरितम् - 3 - 131 ॥
अस्तित्वं कार्यसिद्धेः स्फुटमथ कथयन्पक्षतेः कम्पभेदैराख्यातुं वृत्तमेतन्निषधनरपतौ सर्वमेकः
प्रतस्थे ।
कान्तारे निर्गतासि प्रियसखि पदवी विस्मृता किं नु मुग्धे मा
रोदीः एहि याम इत्युपहृतवचसो
निन्युः अन्यां वंयस्याः ॥ नैषधीयचरितम् - 3 - 132 ॥
सरसि नृपम्
अपश्यद् यत्र तत्तीरभाजः स्मरतरलमशोकानोकहस्योपमूलम् ।
किसलयदलतल्पम्लायिनं
प्राप तं स ज्वलदसमशरेषुस्पर्धिपुष्पर्द्धिमौलेः ॥ नैषधीयचरितम् - 3 - 133 ॥
परवति दमयन्ति त्वां न किंचिद्
वदामि द्रुतम्
उपनम किं माम्
आह सा
शंस हंस ।
इति
वदति नलेऽसौ तच्छशंसोपनम्रः प्रियमनु सुकृतां हि स्वस्पृहाया विलम्बः ॥ नैषधीयचरितम् - 3 - 134 ॥
कथितमपि नरेन्द्रः
शंसयामास हंसं किमिति किमिति पृच्छन्भाषितं स प्रियायाः ।
अधिगतमथ सान्द्रानन्दमाध्वीकमत्तः स्वयमपि शतकृत्वस्तत्तथ
अन्वाचचक्षे ॥ नैषधीयचरितम् - 3 - 135 ॥
श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः
सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
तार्तीयीकतया मितोऽयम्
अगमत् तस्य प्रबन्धे महाकाव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥ नैषधीयचरितम् - 3 - 136 ॥
।। इति नैषधीयचरितमहाकाव्ये तृतीयसर्गः ।।
चतुर्थसर्गः
अथ नलस्य गुणं गुणमात्मभूः सुरभि तस्य यशःकुसुमं धनुः ।
श्रुतिपथोपरतं सुमनस्तया तमिषुमाशु विधाय
जिगाय तान् ॥ नैषधीयचरितम् - 4 - 1 ॥
यदतनुज्वरभाक्
तनुते स्म सा प्रियकथासरसीरसमञ्जनम् ।
सपदि तस्य चिरान्तरतापिनी परिणतिर्विषमा
समपद्यत ॥ नैषधीयचरितम् - 4 - 2 ॥
ध्रुवमधीतवतीयमधीरतां दयितदूतपतद्गतवेगतः ।
स्थितिविरोधकरीं द्व्यणुकोदरी तदुदितः स हि यो यदनन्तरः ॥ नैषधीयचरितम् - 4 - 3 ॥
अतितमां
समपादि जडाशयं स्मितलवस्मरणेऽपि तदाननम् ।
अजनि पङ्गुरपाङ्गनिजाङ्गणभ्रमिकणेऽपि तदीक्षणखञ्जनः ॥ नैषधीयचरितम् - 4 - 4 ॥
किमु तदन्तरुभौ भिषजौ दिवः स्मरनलौ
विशतः स्म विगाहितुम् ।
तदभिकेन चिकित्सतुमाशु तां मखभुजामधिपेन नियोजितौ ॥ नैषधीयचरितम् - 4 - 5 ॥
कुसुमचापजतापसमाकुलं कमलकोमलम्
ऐक्ष्यत तन्मुखम् ।
अहरहर्वहदभ्यधिकाधिका रविरुचिग्लपितस्य विधोर्विधाम् ॥ नैषधीयचरितम् - 4 - 6 ॥
तरुणतातरणिद्युतिनिर्मितद्रढिम तत्कुचकुम्भयुगं तदा ।
अनलसङ्गतितापम्
उपैतु नो कुसुमचापकुलालविलासजम् ॥ नैषधीयचरितम् - 4 - 7 ॥
अधृत थद्विरहोष्मणि मज्जितं मनसिजेन तदूरुयुगं तदा ।
स्पृशति तत्कदं कदलीतरुर्यदि मरुज्वलदूषरदूषितः ॥ नैषधीयचरितम् - 4 - 8 ॥
स्मरशराहतिनिर्मितसंज्वरं करयुगं
हसति स्म दमस्वसुः ।
अनपिधानपतत्तपनातपं तपनिपीतसरः सरसीरुहम् ॥ नैषधीयचरितम् - 4 - 9 ॥
मदनतापभरेण विदीर्य नो यद्
उदपादि हृदा दमनस्वसुः ।
निबिडपीनकुचद्वययन्त्रणा तमपराधम्
अधात् प्रतिबध्नती ॥ नैषधीयचरितम् - 4 - 10 ॥
निविशते यदि शूकशिखा पदे
सृजति सा कियतीमिव न व्यथाम् ।
मृदुतनोः
वितनोतु कथं न तामवनिभृत्तु निविश्य हृदि स्थितः ॥ नैषधीयचरितम् - 4 - 11 ॥
मनसि सन्तमिव प्रियमीक्षितुं नयनयोः स्पृहयान्तरुपेतयोः ।
ग्रहणशक्तिः
अभूद् इदमीययोरपि न संमुखवास्तुनि वस्तुनि ॥ नैषधीयचरितम् - 4 - 12 ॥
हृदि दमस्वसुरश्रुझरप्लुते प्रतिफलद्विरहात्तमुखानतेः ।
हृदयभाजम्
अराजत चुम्बितुं नलमुपेत्य किलागमितं मुखम् ॥ नैषधीयचरितम् - 4 - 13 ॥
सुहृदमग्निमुदञ्चयितुं स्मरं मनसि गन्धवहेन मृगीदृशः ।
अकलि निःश्वसितेन विनिर्गमानुमितनिह्नुतवेशनमायिता ॥ नैषधीयचरितम् - 4 - 14 ॥
विरहपाण्डिमरागतमोमषीशितिमतन्निजपीतिमवर्णकैः ।
दश दिशः खलु तदृग्
अकल्पयत् लिपिकरी नलरूपकचित्रिताः ॥ नैषधीयचरितम् - 4 - 15 ॥
स्मरकृतां हृदयस्य मुहुर्दशां बहु वयन्निव निःश्वसितानिलः ।
व्यधित वाससि कम्पमदः श्रिते
त्रसति कः सति नाश्रयबाधने ॥ नैषधीयचरितम् - 4 - 16 ॥
करपदाननलोचननामभिः शतदलैः सुतनोर्विरहज्वरे ।
रविमहो बहुपीतचरं चिरादनिशतापमिषाद्
उदसृज्यत ॥ नैषधीयचरितम् - 4 - 17 ॥
उदयति स्म तदद्भुतमालिभिर्धरणिभृद्भुवि तत्र विमृश्य यत् ।
अनुमितोऽपि च बाष्पनिरीक्षणाद्
व्यभिचचार न तापकरो नलः ॥ नैषधीयचरितम् - 4 - 18 ॥
हृदि विदर्भभुवः प्रहरञ्शरै रतिपतिर्निषधाधिपतेः कृते ।
कृततदन्तरगस्वदृढव्यधः फलदनोतिः
अमूर्छद् अलं खलु ॥ नैषधीयचरितम् - 4 - 19 ॥
विधुः
अमानि तया यदि भानुमान्कथमहो स तु तद्धृदयं तथा ।
अपि वियोगभरास्फुटनस्फुटीकृतदृषत्त्वम्
अजिज्वलत् अंशुभिः ॥ नैषधीयचरितम् - 4 - 20 ॥
हृदयदत्तसरोरुहया तया क्व सदृग्
अस्तु वियोगनिमग्नया ।
प्रियधनुः परिरभ्य हृदा रतिः किमनुमर्तुम्
अशेत चितार्चिषि ॥ नैषधीयचरितम् - 4 - 21 ॥
अनलभावमियं स्वनिवासिनो न विरहस्य रहस्यम्
अबुध्यत ।
प्रशमनाय विधाय तृणान्यसून्
ज्वलति तत्र यदुज्झितुम्
ऐहत ॥ नैषधीयचरितम् - 4 - 22 ॥
प्रकृतिः
एतु गुणः स न योषितां कथमिमां हृदयं मृदु नाम यत् ।
तदिषुभिः कुसुमैरपि दुन्वता सुविवृतं विबुधेन मनोभुवा ॥ नैषधीयचरितम् - 4 - 23 ॥
रिपुतरा भवनादविनिर्यतीं विधुरुचिर्गृहजालबिलैर्नुताम् ।
इतरथात्मनिवारणशङ्कया ज्वरयितुं बिसवेशधरा
अविशत् ॥ नैषधीयचरितम् - 4 - 24 ॥
हृदि विदर्भभुवोऽश्रुभृति स्फुटं विनमदास्यतया प्रतिबिम्बितम् ।
मुखदृगोष्ठम्
अरोपि मनोभुवा तदुपमाकुसुमान्यखिलाः शराः ॥ नैषधीयचरितम् - 4 - 25 ॥
विरहपाण्डुकपोलतले विधुः
व्यधित भीमभुवः प्रतिबिम्बितः ।
अनुपलक्ष्यसितांशुतया मुखं निजसखं सुखमङ्कमृगार्पणात् ॥ नैषधीयचरितम् - 4 - 26 ॥
विरहतापिनि चन्दनपांशुभिर्वपुषि सार्पितपाण्डिममण्डना ।
विषधराभबिसाभरणा
दधे रतिपतिं प्रति शम्भुविभीषिकाम् ॥ नैषधीयचरितम् - 4 - 27 ॥
विनिहितं परितापिनि चन्दनं हृदि तया धृतबुद्बुदम्
आबभौ ।
उपनमन्सुहृदं हृदयेशयं विधुरिवाङ्कगतोडुपरिग्रहः ॥ नैषधीयचरितम् - 4 - 28 ॥
स्मरहुताशनदीपितया तया बहु मुहुः सरसं सरसीरुहम् ।
श्रयितुमर्धपथे कृतमन्तरा श्वसितनिर्मितमर्मरमुज्झितम् ॥ नैषधीयचरितम् - 4 - 29 ॥
प्रियकरग्रहमेवम्
अवाप्स्यति स्तनयुगं तव ताम्यति किं न्विति ।
जगदतुर्निहिते हृदि नीरजे दवथुकुड्मलनेन पृथुस्तनीम् ॥ नैषधीयचरितम् - 4 - 30 ॥
त्वदितरोऽपि हृदा न मया धृतः पतिरितीव नलं हृदयेशयम् ।
स्मरहविर्भुजि
बोधयति स्म सा विरहपाण्डुतया निजशुद्धताम् ॥ नैषधीयचरितम् - 4 - 31 ॥
विरहतप्ततदङ्गनिवेशिता कमलिनी निमिषद्दलमुष्टिभिः ।
किमपनेतुम्
अचेष्टत किं पराभवितुम्
ऐहत तद्दवथुं पृथुम् ॥ नैषधीयचरितम् - 4 - 32 ॥
इयमनङ्गशरावलिपन्नगक्षतविसारिवियोगविषावशा ।
शशिकलेव खरांशुकरार्दिता करुणनीरनिधौ
निदधौ न कम् ॥ नैषधीयचरितम् - 4 - 33 ॥
ज्वलति मन्मथवेदनया निजे हृदि तयार्द्रमृणाललतार्पिता ।
स्वजयिनोस्त्रपया सविधस्थयोर्मलिनताम्
अभजद् भुजयोर्भृशम् ॥ नैषधीयचरितम् - 4 - 34 ॥
पिकरुतिश्रुतिकम्पिनि शैवलं हृदि तया निहितं विचलद्
बभौ ।
सततद्गतहृच्छयकेतुना हृतमिव स्वतनूधनघर्षिणा ॥ नैषधीयचरितम् - 4 - 35 ॥
न खलु मोहबशेन तदाननं नलमनः शशिकान्तम्
अबोधि तत् ।
इतरथा शशिनोभ्युदये ततः कथम्
असुस्रुवद् अस्रुमयं पयः ॥ नैषधीयचरितम् - 4 - 36 ॥
रतिपतेर्विजयास्त्रमिषुर्यथा
जयति भीमसुतापि तथैव सा ।
स्वविशिखानिव पञ्चतया ततो नियतम्
ऐहत योजयितुं स ताम् ॥ नैषधीयचरितम् - 4 - 37 ॥
शशिमयं दहनास्रमुदित्वरं मनसिजस्य विमृश्य वियोगिनी ।
झटिति वारुणमश्रुमिषादसौ तदुचितं प्रतिशस्त्रम्
उपाददे ॥ नैषधीयचरितम् - 4 - 38 ॥
अतनुना नवमम्बुदमाम्बुदं सुतनुरस्त्रमुदस्तमवेक्ष्य सा ।
उचितमायतनिःश्वसितच्छलाच्छ्वसनशस्त्रम्
अमुञ्चद् अमुं प्रति ॥ नैषधीयचरितम् - 4 - 39 ॥
रतिपतिप्रहितानिलहेतितां प्रतियती सुदती मलयानिले ।
तदुरुतापभयात्तमृणालिकामयमियं भुजगास्त्रमिव
अदित ॥ नैषधीयचरितम् - 4 - 40 ॥
न्यधित तद्धृदि शल्यमिव द्वयं विरहितां च तथापि च जीवितम् ।
किमथ तत्र निहत्य निखातवान्रतिपतिः स्तनबिल्वयुगेनं तत् ॥ नैषधीयचरितम् - 4 - 41 ॥
अतिशरव्ययता मदनेन तां निखिलपुष्पमयस्वशरव्ययात् ।
स्फुटम्
अकारि फलान्यपि मुञ्चता तदुरसि स्तनतालयुगार्पणम् ॥ नैषधीयचरितम् - 4 - 42 ॥
अथ मुहुर्बहुनिन्दितचन्द्रया स्तुतविधुं तुदया च तया मुहुः ।
पतितया स्मरतापमये गदे
निजगदे अश्रुविमिश्रमुखी सखी ॥ नैषधीयचरितम् - 4 - 43 ॥
नरसुराब्जभुवामिव यावता
भवति यस्य युगं यदनेहसा ।
विरहिणामपि तद्रतवद्युवक्षणमितं न कथं गणितागमे ॥ नैषधीयचरितम् - 4 - 44 ॥
जनुः
अधत्त सती स्मरतापिता हिमवतो न तु तन्महिमादृता ।
ज्वलति भालतले लिखितः सतीविरह एव हरस्य न लोचनम् ॥ नैषधीयचरितम् - 4 - 45 ॥
दहनजा न पृथुर्दवथुव्यथा विरहजैव पृथुर्यदि नेदृशम् ।
दहनमाशु
विशन्ति कथं स्त्रियः प्रियमपासुमुपासितुमुद्धुराः ॥ नैषधीयचरितम् - 4 - 46 ॥
हृदि
लुठन्ति कला नितराममूर्विरहिणीवधपङ्ककलङ्किता ।
कुमुदसख्यकृतस्तु बहिष्कृताः सखि विलोकय दुर्विनयं विधोः ॥ नैषधीयचरितम् - 4 - 47 ॥
अयि विधुं
परिपृच्छ गुरोः कुतः स्फुटम्
अशिक्ष्यत दाहवदान्यता ।
ग्लपितशम्भुगलाद्गरलात्त्वया किमुदधौ जड वा वडवानलात् ॥ नैषधीयचरितम् - 4 - 48 ॥
अयमयोगिवधूवधपातबैर्भ्रमिमवाप्य दिवः खलु
पात्यते ।
शितिनिशादृषदि स्फुटदुत्पतत्कणगणाधिकतारकिताम्बरः ॥ नैषधीयचरितम् - 4 - 49 ॥
त्वम्
अभिधेहि विधुं सखि मद्गिरा किमिदमीदृग्
अधिक्रियते त्वया ।
न गणितं यदि जन्म पयोनिधौ हरशिरः स्थितिभूरपि विस्मृता ॥ नैषधीयचरितम् - 4 - 50 ॥
निपततापि न मन्दरभूभृता त्वमुदधौ शशलाञ्छन चूर्णितः ।
अपि मुनेर्जठरार्चिषि जीर्णतां बत गतः
असि न पीतपयोनिधेः ॥ नैषधीयचरितम् - 4 - 51 ॥
किमसुभिर्ग्लपितैर्जड
मन्यसे मयि
निमज्जतु भीमसुतामनः ।
मम किल श्रुतिम्
आह तदर्थिकां नलमुखेन्दुपरां विबुधः स्मरः ॥ नैषधीयचरितम् - 4 - 52 ॥
मुखरय स्वयशोनवडिण्डिमं जलनिधेः कुलमुज्ज्वलयाधुना ।
अपि
गृहाण वधूवधपौरुषं हरिणलाञ्छन
मुञ्च कदर्थनाम् ॥ नैषधीयचरितम् - 4 - 53 ॥
निशि शशिन्
भज कैतवभानुतामसति भास्वति
तापय पाप माम् ।
महमहनि
अवलोकयितास्मि ते पुनरहर्पतिनिह्नुतदर्पताम् ॥ नैषधीयचरितम् - 4 - 54 ॥
शशकलङ्क भयङ्कर मादृशां
ज्वलसि यन्निशि भूतपतिं श्रितः ।
तदमृतस्य तवेदृशभूतताद्भुतकरी परमूर्धविधूननी ॥ नैषधीयचरितम् - 4 - 55 ॥
श्रवणपूरतमालदलाङ्कुरं शशिकुरङ्गमुखे सखि
निक्षिप ।
किमपि तुन्दिलितः
स्थगयति अमुं सपदि तेन तद्
उच्छ्वसिमि क्षणम् ॥ नैषधीयचरितम् - 4 - 56 ॥
असमये मतिः
उन्मिषति ध्रुवं करगतैव गता यदियं कुहूः ।
पुनः
उपैति निरुध्य
निवास्यते सखि मुखं न विधोः पुनः
ईक्ष्यते ॥ नैषधीयचरितम् - 4 - 57 ॥
अयि ममैष चकोरशिशुर्मुनेः
व्रजति सिन्धुपिबस्य न
शिष्यताम् ।
अशितुमब्धिमधीतवतोऽस्य च शशिकराः पिबतः कति शीकराः ॥ नैषधीयचरितम् - 4 - 58 ॥
कुरु करे गुरुमेकमयोघनं बहिरतो मुकुरं च
कुरुष्व मे ।
विशति तत्र यदैव विधुस्तदा सखि सुखादहितं
जहि तं द्रुतम् ॥ नैषधीयचरितम् - 4 - 59 ॥
उदर एव धृतः किमुदन्वता न विषमो वडवानलवद्विधुः ।
विषवदुज्झितमप्यमुना न स स्मरहरः किममुं
बुभुजे विभुः ॥ नैषधीयचरितम् - 4 - 60 ॥
असितमेकसुराशितमपि
अभूत् न पुनरेष विधुर्विशदं विषम् ।
अपि निपीय सुरैर्जनितक्षयं स्वयम्
उदेति पुनर्नवमार्णवम् ॥ नैषधीयचरितम् - 4 - 61 ॥
विरहिवर्गवधव्यसनाकुलं
कलय पापमशेषकलं विधुम् ।
सुरनिपीतसुधाकमपापकं ग्रहविदो विपरीतकथाः कथम् ॥ नैषधीयचरितम् - 4 - 62 ॥
विरहिभिर्बहु मानम्
अवापि यः स बहुलः खलु पक्ष इह
अजनि ।
तदमितिः सकलैरपि यत्र तैः
व्यरचि सा च तिथिः किममीकृता ॥ नैषधीयचरितम् - 4 - 63 ॥
स्वरिपुतीक्ष्णसुदर्शनविभ्रमात्किमु विधुं
ग्रसते स विधुन्तुदः ।
निपतितं वदने कथमन्यथा बलिकरम्भनिभं निजम्
उज्झति ॥ नैषधीयचरितम् - 4 - 64 ॥
वदनगर्भगतं न निजेच्छया शशिनम्
उज्झति राहुरसंशयम् ।
अशित एव
गलति अयमत्ययं सखि विना गलनालबिलाध्वना ॥ नैषधीयचरितम् - 4 - 65 ॥
ऋजुदृशः
कथयन्ति पुराविदो मधुभिदं खलु राहुशिरश्छिदम् ।
विरहिमूर्धभिदं
निगदन्ति न क्व न शशी यदि तज्जठरानलः ॥ नैषधीयचरितम् - 4 - 66 ॥
स्मरसखौ रुचिभिः स्मरवैरिणा मखमृगस्य यथा दलितं शिरः ।
सपदि
सन्दधतुः भिषजौ दिवः सखि तथा तमसोऽपि
करोतु कः ॥ नैषधीयचरितम् - 4 - 67 ॥
नलविमस्तकितस्य रणे रिपुः
मिलति किं न कबन्धगलेन वा ।
मृतिभिया भृशमुत्पततस्तमोग्रहशिरस्तदसृग्दृढबन्धनम् ॥ नैषधीयचरितम् - 4 - 68 ॥
सखि जरां
परिपृच्छ तमः शिरः सममसौ दधतापि कबन्धताम् ।
मगधराजवपुर्दलयुग्मवत्किमिति न
प्रतिसीव्यति केतुना ॥ नैषधीयचरितम् - 4 - 69 ॥
वद विधुन्तुदमालि मदीरितैस्त्यजसि किं द्विजराजधिया रिपुम् ।
किमु दिवं पुनः
एति यदीदृशः पतित एष निषेव्य हि वारुणीम् ॥ नैषधीयचरितम् - 4 - 70 ॥
दहति कण्ठमयं खलु तेन किं गरुडवद्द्विजवासनयोज्झितः ।
प्रकृतिरस्य विधुन्तुद दाहिका मयि निरागसि का
वद विप्रता ॥ नैषधीयचरितम् - 4 - 71 ॥
सकलया कलया किल दंष्ट्रया समवधाय यमाय विनिर्मितः ।
विरहिणीगणचर्वणसाधनं विधुरतो द्विजराज इति श्रुतिः ॥ नैषधीयचरितम् - 4 - 72 ॥
स्मरमुखं हरनेत्रहुताशनाज्ज्वलदिदं
चकृषे विधिना विधुः ।
बहुविधेन वियोगिवधैनसा शशमिषादथ कालिकयाङ्कितः ॥ नैषधीयचरितम् - 4 - 73 ॥
द्विजपतिग्रसनाहितपातकप्रभवकुष्ठसितीकृतविग्रहः ।
विरहिणीवदनेन्दुजिघत्सया
स्फुरति राहुरयं न निशाकरः ॥ नैषधीयचरितम् - 4 – 73.1 ॥
इति विधोर्विविधोक्तिविगर्हणं व्यवहितस्य वृथेति विमृश्य सा ।
अतितरां दधती विरहज्वरं हृदयभाजम्
उपालभत स्मरम् ॥ नैषधीयचरितम् - 4 - 74 ॥
हृदयम्
आश्रयसे यदि मामकं ज्वलयसीत्थमनङ्ग तदैव किम् ।
स्वयमपि क्षणदग्धनिजेन्धनः क्व
भवितासि हताश हुताशवत् ॥ नैषधीयचरितम् - 4 - 75 ॥
पुरभिदा गमितस्त्वमदृश्यतां त्रिनयनत्वपरिप्लुतिशङ्कया ।
स्मर निरैक्ष्यत कस्यचनापि न त्वयि किमक्षिगते नयनैस्त्रिभिः ॥ नैषधीयचरितम् - 4 - 76 ॥
सहचरः
असि रते रिति विश्रुतिस्त्वयि
वसति अपि मे न रतिः कुतः ।
अथ न सम्प्रति सङ्गतिः
अस्ति वामनुमृता न भवन्तमियं किल ॥ नैषधीयचरितम् - 4 – 77 ॥
रतिवियुक्तमनात्मपरज्ञ किं स्वमिव मामपि तापितवान्
असि ।
कथमतापभृतस्तव सङ्गमादितरथा हृदयं मम
दह्यते ॥ नैषधीयचरितम् - 4 - 78 ॥
अनुममार न मार कथं नु सा रतिरतिप्रथितापि पतिव्रता ।
इयदनाथवधूवधपातकी दयितयापि तया
असि किमुज्झितः ॥ नैषधीयचरितम् - 4 - 79 ॥
सुगत एव विजित्य जितेन्द्रियस्त्वदुरुकीर्तितनुं यद्
अनाशयत् ।
तव तनूमवशिष्टवतीं ततः समिति भूतमयीम्
अहरद् धरः ॥ नैषधीयचरितम् - 4 - 80 ॥
फलम्
अलभ्यत यत्कुसुमैस्त्वया विषमनेत्रमनङ्ग विगृह्णता ।
अहह नीतिरवाप्तभया ततो न कुसुमैरपि विग्रहम्
इच्छति ॥ नैषधीयचरितम् - 4 - 81 ॥
अपि धयन्नितरामरवत्सुधां त्रिनयनात्कथम्
आपिथ तां दशाम् ।
भण रतेरधरस्य रसादरादमृतमाप्तघृणः खलु न
अपिबः ॥ नैषधीयचरितम् - 4 - 82 ॥
भुवनमोहनजेन किमेनसा तव
बभूव परेत पिशाचता ।
यदधुना विरहाधिमलीमसामभिभवन्
भ्रमसि स्मर मद्विधाम् ॥ नैषधीयचरितम् - 4 - 83 ॥
वत
ददासि न मृत्युमपि स्मर
स्खलति ते कृपया न धनुः करात् ।
अथ मृतः
असि मृतेन च
मुच्यते न खलु मुष्टिरुरीकृतबन्धनः ॥ नैषधीयचरितम् - 4 - 84 ॥
दृगुपहत्यपमृत्युविरूपताः
शमयते अपरनिर्जरसेविता ।
अतिशयान्ध्यवपुः क्षतिपाण्डुताः स्मर
भवन्ति भवन्तमुपासितुः ॥ नैषधीयचरितम् - 4 - 85 ॥
स्मर नृशंसतमस्त्वमतो विधिः सुमनसः कृतवान्भवदायुधम् ।
यदि धनुर्दृढमाशुगमायसं तव
सृजेत् त्रिजगत्प्रलयं
व्रजेत् ॥ नैषधीयचरितम् - 4 - 86 ॥
स्मररिपोरिव रोपशिखी पुरां
दहतु ते जगतामपि मा त्रयम् ।
इति विधिस्त्वदिषून्कुसुमानि किं मधुभिरन्तः
असिञ्चद् अनिर्वृतः ॥ नैषधीयचरितम् - 4 - 87 ॥
निधिरनंशमभेद्यमवेक्ष्य ते जनमनः खलु लक्षम्
अकल्पयत् ।
अपि स वज्रम्
अदास्यत चेत्तदा त्वदिषुभिर्व्य
व्यदलिष्यद् असावपि ॥ नैषधीयचरितम् - 4 - 88 ॥
अपि विधिः कुसुमानि तवाशुगान् स्मर विधाय न निर्वृतिमाप्तवान् ।
अदित पञ्च हि ते स नियम्य तांस्तदपि तैर्बत जर्जरितं जगत् ॥ नैषधीयचरितम् - 4 - 89 ॥
उपहरन्ति न कस्य सुपर्वणः सुनमसः कति पञ्च सुरद्रुमाः ।
तव तु हीनतया पृथगेकिकां धिगियतापि न तेऽङ्ग विगर्हणा ॥ नैषधीयचरितम् - 4 - 90 ॥
कुसुममप्यतिदुर्णयकारि ते किमु वितीर्य धनुर्विधिः
अग्रहीत् ।
किम्
अकृत एष तवैकतदास्पदे द्वयम्
अभूद् अधुना हि नलभुवौ ॥ नैषधीयचरितम् - 4 - 91 ॥
षड्टतवः कृपया स्वकमेककं कुसुममक्रमनन्दितनन्दनाः ।
ददति यद्भवते
कुरुते भवान्धनुरिवैकमिषूनिव पञ्च तैः ॥ नैषधीयचरितम् - 4 - 92 ॥
यदतनुस्त्वमिदं जगते हितं क्व स मुनिस्तव यः
सहते हतीः ।
विशिखमाश्रवणं परिपूर्य चेदविचलद्भुजमुज्झितुम्
ईशिषे ॥ नैषधीयचरितम् - 4 - 93 ॥
सह तया स्मर भस्म झटिति
अभूः पशुपतिं प्रति यामिषुमग्रहीः ।
ध्रुवम्
अभूत् अधुना वितनोः शरस्तव पिकस्वर एव स पञ्चमः ॥ नैषधीयचरितम् - 4 - 94 ॥
स्मर स मद्दुरितैरफलीकृतो भगवतोऽपि भवद्दहनश्रमः ।
सुरहिताय हुतात्मतनुः पुनर्ननु जनुर्दिवि तत्क्षणम्
आपिथ ॥ नैषधीयचरितम् - 4 - 95 ॥
विरहिणो विमुखस्य विधूदये शमनदिक्पवनः स न दक्षिणः ।
सुमनसो नमयन्नटनौ धनुस्तव तु बाहुरसौ यदि दक्षिणः ॥ नैषधीयचरितम् - 4 - 96 ॥
किमु भवन्तमुमापतिरेककं मदमुदान्धमयोगिजनान्तकम् ।
यद्
अजयत् तत एव न
गीयते स भगवान्मदनान्धकमृत्युजित् ॥ नैषधीयचरितम् - 4 - 97 ॥
त्वमिव कोऽपि परापकृतौ कृती न
ददृशे न च मन्मथ
शुश्रुवे ।
स्वम्
अदहत् दहनाज्ज्वलतात्मना ज्वलयितुं परिरभ्य जगन्ति यः ॥ नैषधीयचरितम् - 4 - 98 ॥
त्वमुचितं नयनार्चिषि शम्भुना भुवनशान्तिकहोमहविः कृतः ।
तव वयस्यमपास्य मधुं मधुं हतवता हरिणा बत किं कृतम् ॥ नैषधीयचरितम् - 4 - 99 ॥
इति कियद्वचसैव भृशं प्रियाधरपिपासु तदाननमाशु तत् ।
अजनि पांशुलमप्रियवाग्ज्वलन्मदनशोषणबाणहतेरिव ॥ नैषधीयचरितम् - 4 - 100 ॥
प्रियसखीनिवहेन सहाथ सा
व्यरचयत् गिरमर्धसमस्यया ।
हृदयमर्मणि मन्मथसायकैः क्षततमा बहु भाषितुमक्षमा ॥ नैषधीयचरितम् - 4 - 101 ॥
अकरुणाद्
अव सूनशरादसून्सहजयापदि धीरतयात्मनः ।
असव एव ममाद्य विरोधिनः कथमरीन्सखि रक्षितुम्
आत्थ माम् ॥ नैषधीयचरितम् - 4 - 102 ॥
हितगिरं न
शृणोषि किमाश्रवे प्रसभमपि
अव जीवितमात्मनः ।
सखि हिता यदि मे
भवसि ईदृशी मदरिम्
इच्छसि या मम जीवितम् ॥ नैषधीयचरितम् - 4 - 103 ॥
अमृतदीधितिरेष विदर्भजे
भजसि तापममुष्य किमंशुभिः ।
यदि
भवन्ति मृताः सखि चन्द्रिकाः शशभृतः क्व तदा
परितप्यते ॥ नैषधीयचरितम् - 4 - 104 ॥
व्रज धृतिं
त्यज भीतिमहेतुकामयमचण्डमरीचिः
उदञ्चति ।
ज्वलयति स्फुटमातपमुर्मुरैरनुभवं वचसा सखि
लुम्पसि ॥ नैषधीयचरितम् - 4 - 105 ॥
अयि
शपे हृदयाय तवैव तद्यदि विधोर्न रुचेः
असि गोचरः ।
रुचिफलं सखि
दृश्यते एव तत् ज्वलयति त्वचमुल्ललयत्यसून् ॥ नैषधीयचरितम् - 4 - 106 ॥
विधुविरोधितिथेरभिधायिनीं ननु न किं पुनः
इच्छसि कोकिलाम् ।
सखि किमर्थगवेषणया गिरं
किरति सेयमनर्थमयीं मयि ॥ नैषधीयचरितम् - 4 - 107 ॥
हृदय एव तव
अस्मि स वल्लभस्तदपि किं दमयन्ति
विषीदसि ।
हृदि परं न बहिः खलु
वर्तते सखि यतस्तत एव
विषद्यते ॥ नैषधीयचरितम् - 4 - 108 ॥
स्फुटति हारमणौ मदनोष्मणा हृदयमप्यनलङ्कृतमद्य ते ।
सखि हता
अस्मि तदा यदि हृद्यपि प्रियतमः स मम व्यवधापितः ॥ नैषधीयचरितम् - 4 - 109 ॥
इदमुदीर्य तदैव
मुमूर्छ सा मनसि मूर्च्छितमन्मथपावका ।
क्व
सहताम् अवलम्बलवच्छिदामनुपपत्तिमतीमतिदुःखिता ॥ नैषधीयचरितम् - 4 - 110 ॥
अधित कापि मुखे सलिलं सखी
प्यधित कापि सरोजदलैः स्तनौ ।
व्यधित कापि हृदि व्यजनानिलं
न्यधित कापि हिमं सुतनोस्तनौ ॥ नैषधीयचरितम् - 4 - 111 ॥
उपचचार चिरं मृदुशीतलैर्जलजनालमृणालजलादिभिः ।
प्रियसखीनिवहः स तथा क्रमादियम्
अवाप यथा लघु चेतनम् ॥ नैषधीयचरितम् - 4 - 112 ॥
अथ कले कलय
श्वसिति स्फुटं
चलति पक्ष्म चले
परिभावय ।
अधरकम्पनम् उन्नय मेनके किमयि
जल्पति कल्पलते
शृणु ॥ नैषधीयचरितम् - 4 - 113 ॥
रचय चारुमते स्तनयोर्वृतिं
गणय केशिनि कैश्यमसंयतम् ।
अवगृहाण तरङ्गिणि नेत्रयोर्जलझराविति
शुश्रुविरे गिरः ॥ नैषधीयचरितम् - 4 - 114 ॥
कलकलः स तदालिजनाननादुदलसद्विपुलस्त्वरितेरितैः ।
यमधिगम्य सुतालयमीय्वान्धृतदरः स विदर्भपुरन्दरः ॥ नैषधीयचरितम् - 4 - 115 ॥
कन्यान्तः पुरबाधनाय यदधीकारान्न दोषा नृपं द्वौ मन्त्रिप्रवरश्च तुल्यमगदङ्कारश्च तौ
ऊचतुः ।
देवाकर्णय सुश्रुतेन चरकस्योक्तेन
जाने अखिलं स्यादस्या नलदं विना न दलने तापस्य कोऽपि क्षमः ॥ नैषधीयचरितम् - 4 - 116 ॥
ताभ्याम्
अभूद् युगपदप्यभिधीयमानं भेदव्यपाकृति मिथः प्रतिघातमेव ।
श्रोत्रे तु तस्य
पपतुः नृपतेर्न किंचिद्भैम्यामनिष्टशतशङ्कितयाकुलस्य ॥ नैषधीयचरितम् - 4 - 117 ॥
द्रुतविगमितविप्रयोगचिह्नामपि तनयां नृपतिः पदप्रणम्राम् ।
अकलयद् असमाशुगाधिमग्नां झटिति पराशयवेदिनो हि विज्ञाः ॥ नैषधीयचरितम् - 4 - 118 ॥
व्यतरत् अथ पिताशिषं सुतायै नतशिरसे सहसोन्नमय्य मौलिम् ।
दयितमभिमतं स्वयंवरे त्वं गुणमयम्
आप्नुहि वासरैः कियद्भिः ॥ नैषधीयचरितम् - 4 - 119 ॥
तदनु स तनुजासखीः
अवादीत् तुहिनर्तौ गत एव हीदृशीनाम् ।
कुसुममपि शरायते शरीरे तदुचितम्
आचरत उपचारमस्याः ॥ नैषधीयचरितम् - 4 - 120 ॥
कतिपयदिवसैर्वयस्यया वः स्वयमभिलष्य
वरिष्यते वरीयान् ।
ऋशिमशमनयानया तदाप्तुं रुचिरुचिताथ भविद्विधाविधाभिः ॥ नैषधीयचरितम् - 4 - 121 ॥
एवं यद्वदता नृपेण तनया न
अपृच्छि लज्जास्पदं यन्मोहः स्मरभूः
अकल्पि वपुषः पाण्डुत्वतापादिभिः ।
यच्चाशीः कपटाद्
अवादि सदृशी
स्यात् तत्र या सान्त्वना तन्मत्वालिजनो मनोब्धिम्
अतनोद् आनन्दमन्दाक्षयोः ॥ नैषधीयचरितम् - 4 - 122 ॥
श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः
सुषुबे जितेन्द्रियचयं मामल्लदेवी च यम् ।
तुर्यः स्थैर्यविचारणप्रकरणभ्रातर्ययं तन्महाकाव्येऽत्र
व्यगलत् नलस्य चरिते सर्गो निसर्गोज्ज्वलः ॥ नैषधीयचरितम् - 4 - 123 ॥
।। इति नैषधीयचरितमहाकाव्ये चतुर्थसर्गः ।।
पञ्चमसर्गः
यावद्
आगमयते अथ नरेन्द्रान्स स्वयंवरमहाय महीन्द्रः ।
तावदेव ऋषिरिन्द्रदिदृक्षुर्नारदस्त्रिदशधाम
जगाम ॥ नैषधीयचरितम् - 5 - 1 ॥
नात्र चित्रमनु तं
प्रययौ यत्पर्वतः स खलु तस्य सपक्षः ।
नारदस्तु जगतो गुरुरुच्चैर्विस्मयाय गगनं
विललङ्घे ॥ नैषधीयचरितम् - 5 - 2 ॥
गच्छता पथि विनैव विमानं व्योम तेन मुनिना
विजगाहे ।
साधने हि नियमोऽन्यजनानां योगिनां तु तपसाखिलसिद्धिः ॥ नैषधीयचरितम् - 5 - 3 ॥
खण्डितेन्द्रभवनाद्यभिमानात्
लङ्घते स्म मुनिरेष विमानान् ।
अर्थितोऽप्यतिथिताम्
अनुमेने नैव तत्पतिभिरङ्घ्रिविनम्रैः ॥ नैषधीयचरितम् - 5 - 4 ॥
तस्य तापनभिया तपनः स्वं तावदेव
समकोचयत् अर्चिः ।
यावदेव दिवसेन शशीव द्राग्
अतप्यत न तन्महसैव ॥ नैषधीयचरितम् - 5 - 5 ॥
पर्यभूद् दिनमणिर्द्विजराजं यत्करैरहह तेन तदा तम् ।
पर्यभूत् खलु करैर्द्विजराजः कर्म कः स्वकृतमत्र न
भुङ्क्ते ॥ नैषधीयचरितम् - 5 - 6 ॥
विष्टरं तटकुशालिभिरद्भिः पाद्यमर्ध्यमथ कच्छरुहाभिः ।
पद्मवृन्दमधुभिर्मधुपर्कं स्वर्गसिन्धुः
अदित अतिथयेऽस्मै ॥ नैषधीयचरितम् - 5 - 7 ॥
स व्यतीत्य वियदन्तरगाधं नाकनायकनिकेतनम्
आप ।
संप्रतीर्य भवसिन्धुमनादिं ब्रह्म शर्मभरचारु यतीव ॥ नैषधीयचरितम् - 5 - 8 ॥
अर्चनाभिरुचितोच्चतराभिश्चारु तं सद्
अकृत अतिथिमिन्द्रः ।
यावदर्हकरणं किल साधोः प्रत्यवायधुतये न गुणाय ॥ नैषधीयचरितम् - 5 - 9 ॥
नामधेयसमतासखमद्रेरद्रिभिन्मुनिमथ
आद्रियत द्राक् ।
पर्वतोऽपि
लभतां कथमर्चां न द्विजः सविबुधप्रभुलम्भी ॥ नैषधीयचरितम् - 5 - 10 ॥
तद्भुजादतिवितीर्णसपर्याद्द्युद्रुमानपि
विवेद मुनीन्द्रः ।
स्वःसहस्थितिसुशिक्षितया तान्दानपारमितयैव वदान्यात् ॥ नैषधीयचरितम् - 5 - 11 ॥
मुद्रितान्यजनसङ्कथनः सन्नारदं बलरिपुः
समवादीत् ।
आकरः स्वपरभूरिकथानां प्रायशो हि सुहृदोः सहवासः ॥ नैषधीयचरितम् - 5 - 12 ॥
तं कथानुकथनप्रसृतायां दूरमालपनकौतुकितायाम् ।
भूभृतां चिरमनागतिहेतुं ज्ञातुमिच्छुः
अवदत् शतमन्युः ॥ नैषधीयचरितम् - 5 - 13 ॥
प्रागिव
प्रसुवते नृपवंशाः किं नु सम्प्रति न वीरकरीरान् ।
ये परप्रहरणैः परिणामे विक्षताः क्षितितले
निपतन्ति ॥ नैषधीयचरितम् - 5 - 14 ॥
पार्थिवं हि निजमाजिषु वीरा दूरमूर्ध्वगमनस्य विरोधि ।
गौरवाद्वपुरपास्य
भजन्ते मत्कृतामतिथिगौरवर्द्धिम् ॥ नैषधीयचरितम् - 5 - 15 ॥
साऽभिशापमिव नाऽतिथयस्ते मां यदद्य भगवन्
उपयान्ति ।
तेन न श्रियमिमां बहु
मन्ये स्वोदरैकभृतिकार्यकदर्याम् ॥ नैषधीयचरितम् - 5 - 16 ॥
पूर्वपुण्यविभवव्ययलब्धाः श्रीभरा विपद एव विमृष्टाः ।
पात्रपाणिकमलार्पणमासां तासु शान्तिकविधिर्विधिदृष्टः ॥ नैषधीयचरितम् - 5 - 17 ॥
तद्विमृज्य मम संशयशिल्पि स्फीतमत्र विषाये सहसाऽघम् ।
भूयतां भगवतः श्रुतिसारैरद्य वाग्भिरघमर्षणर्ग्भिः ॥ नैषधीयचरितम् - 5 - 18 ॥
इत्युदीर्य मघवा विनयर्धिं वर्धयन्नवहितत्वभरेण ।
चक्षुषां दशशतीमनिमेषां तस्थिवान्मुनिमुखे प्रणिधाय ॥ नैषधीयचरितम् - 5 - 19 ॥
वीक्ष्य तस्य विनये परिपाकं पाकशासनपदं स्पृशतोऽपि ।
नारदः प्रमदगद्गदयोक्त्या विस्मितः स्मितपुरःसरम्
आख्यत् ॥ नैषधीयचरितम् - 5 - 20 ॥
भिक्षिता शतमखी सुकृतं यत्तत्परिश्रमविदः स्वविभूतौ ।
तत्फले यदि परं तव हेला क्लेशलब्धमधिकादरदं तु ॥ नैषधीयचरितम् - 5 - 21 ॥
सम्पदस्तवगिरामपि दूरा यन्न नाम विनयं
विनयन्ते ।
श्रद्
दधाति क इवेह न साक्षाद्
आह चेदनुभवः परमाप्तः ॥ नैषधीयचरितम् - 5 - 22 ॥
श्रीभरानतिथिसात्
करवाणि स्वोपभोगपरता न हितेति ।
पश्यतो बहिरिवान्तरपीयं दृष्टिसृष्टिरधिका तव कापि ॥ नैषधीयचरितम् - 5 - 23 ॥
आः स्वभावमधुरैरनुभावैस्तावकैरतितरां तरलाः स्मः ।
द्यां
प्रशाधि गलिताऽवधिकालं साधु साधु
विजयस्व बिडौजः ॥ नैषधीयचरितम् - 5 - 24 ॥
सङ्ख्यविक्षततनुस्रवदस्रुक्षालिताखिलनिजाघलघूनाम् ।
यत्त्विहानुपगमः
शृणु राज्ञां तज्जगद्युवमुदं तमुदन्तम् ॥ नैषधीयचरितम् - 5 - 25 ॥
सा भुवः किमपि रत्नमनर्घं भूषणं
जयति तत्र कुमारी ।
भीमभूपतनया दमयन्ती नाम या मदनशस्त्रममोघम् ॥ नैषधीयचरितम् - 5 - 26 ॥
सम्प्रति प्रतिमुहूर्तमपूर्वा कापि यौवनजवेन भवन्ती ।
आशिखं सुकृतसारभृते सा क्वापि यूनि
भजते किल भावम् ॥ नैषधीयचरितम् - 5 - 27 ॥
कथ्यते न कतमः स इति त्वं मां विवक्षुरसि किं चलदोष्ठः ।
अर्धवर्त्मनि
रुणत्सि न पृच्छां निर्गमेण न
परिश्रमय एनाम् ॥ नैषधीयचरितम् - 5 - 28 ॥
यत्पथावधिरणुः परमः सा योगिधीरपि न
पश्यति यस्मात् ।
बालया निजमनःपरमाणौ ह्रीदरीशयहरीकृतमेनम् ॥ नैषधीयचरितम् - 5 - 29 ॥
सा शरस्य कुसुमस्य शरव्यं सूचिता विरहवाचिभिरङ्गैः ।
तातचित्तमपि धातुः
अधत्त स्वस्वयंवरमहाय सहायम् ॥ नैषधीयचरितम् - 5 - 30 ॥
मन्मथाय यदथ
अदित राज्ञां हूतिदूत्यविधये विधिराज्ञाम् ।
तेन तत्परवशाः पृथिवीशः सङ्गरं गरमिव
आकलयन्ति ॥ नैषधीयचरितम् - 5 - 31 ॥
येषु येषु सरसा दमयन्ती भूषणेषु यदिवापि गुणेषु ।
तत्र तत्र कलयापि विशेषो यः स हि क्षितिभृतां पुरुषार्थः ॥ नैषधीयचरितम् - 5 - 32 ॥
शैशवव्ययदिनावधि तस्या यौवनोदयिनि राजसमाजे ।
आदरादहरहः कुसुमेषोः
उल्ललास मृगयाभिनिवेशः ॥ नैषधीयचरितम् - 5 - 33 ॥
इत्यमी वसुमतीं कमितारः सादरस्त्वदतिथीभवितुं न ।
भीमभूसुरभुवोरभिलाषे दूरमन्तरमहो नृपतीनाम् ॥ नैषधीयचरितम् - 5 - 34 ॥
तेन जाग्रदधृतिर्दिवम्
आगां सङ्ख्यसौख्यमनुसर्तुमनु त्वाम् ।
यन्मृधं क्षितिभृतां न
विलोके तन्निमग्नमनसां भुवि लोके ॥ नैषधीयचरितम् - 5 - 35 ॥
वेद यद्यपि न कोऽपि भवन्तं हन्त हन्त्रकरुणं
विरुणद्धि ।
पृच्छ्यसे तदपि येन विवेकप्रोञ्छनाय विषये रससेकः ॥ नैषधीयचरितम् - 5 - 36 ॥
एवमुक्तवति देवर्षीन्द्रे द्राग्
अभेदि मघवाननमुद्रा ।
उत्तरोत्तरशुभो हि विभूनां कोऽपि मञ्जुलतमः क्रमवादः ॥ नैषधीयचरितम् - 5 - 37 ॥
कानुजे मम निजे दनुजारौ
जाग्रति स्वशरणे रणचर्चा ।
यद्भुजाङ्कमुपधाय जयाङ्कं शर्मणा
स्वपिमि वीतविशङ्कः ॥ नैषधीयचरितम् - 5 - 38 ॥
विश्वरूपकलनादुपपन्नं तस्य जैमिनिमुनित्वम्
उदियाय ।
विग्रहं मखभुजामसहिष्णुर्व्यर्थतां मदशनिं स
निनाय ॥ नैषधीयचरितम् - 5 - 39 ॥
ईदृशानि मुनये विनयाब्धिस्तस्थिवान्स वचनान्युपहृत्य ।
प्रांशुनिःश्वसितपृष्ठचरी वाग्नारदस्य
निरियाय निरोजाः ॥ नैषधीयचरितम् - 5 - 40 ॥
स्वारसातलभवाहवशङ्की
निर्वृणोमि न वसन्वसुमत्याम् ।
द्यां गतस्य हृदि मे दुरुदर्कः क्ष्मातलद्वयभटाजिवितर्कः ॥ नैषधीयचरितम् - 5 - 41 ॥
वीक्षितस्त्वम्
असि मामथ गन्तुं तन्मनुष्यजगते
अनुमनुष्व ।
किं भुवः परिवृढा न विवोढुं तत्र तामुपगता
विवदन्ते ॥ नैषधीयचरितम् - 5 - 42 ॥
इत्युदीर्य स
ययौ मुनिरुर्वीं स्वर्पतिं प्रतिनिवर्त्य बलेन ।
वारितोऽपि
अनुजगाम सयत्नं तं कियन्त्यपि पदान्यपराणि ॥ नैषधीयचरितम् - 5 - 43 ॥
पर्वतेन परिपीय गभीरं नारदीयमुदितं
प्रतिनेदे ।
स्वस्य कश्चिदपि पर्वतपक्षच्छेदिनि स्वयम्
अदर्शि न पक्षः ॥ नैषधीयचरितम् - 5 - 44 ॥
पाणये बलरिपोरथ भैमीशीतकोमलकरग्रहमर्हम् ।
भेषजं चिरचिताशनिवासव्यापदाम्
उपदिदेश रतीशः ॥ नैषधीयचरितम् - 5 - 45 ॥
नाकलोकभिषाजोः सुषमा या पुष्पचापमपि
चुम्बति सैव ।
वेद्मि तादृग् अभिषज्यद् असौ तद्द्वारसङ्क्रमितवैद्यकविद्यः ॥ नैषधीयचरितम् - 5 - 46 ॥
मानुषीम्
अनुसरति अथ पत्यौ खर्वभावमवलम्ब्य मघोनी ।
खण्डितं निजम्
असूचयत् उच्चैर्मानमाननसरोरुहनत्या ॥ नैषधीयचरितम् - 5 - 47 ॥
यो मघोनि दिवमुच्चरमाणे रम्भया मलिनिमालम्
अलम्भि ।
वर्ण एव स खलूज्ज्वलमस्याः शान्तमान्तरम्
अभाषत भङ्ग्या ॥ नैषधीयचरितम् - 5 - 48 ॥
जीवितेन कृतमप्सरसां तत्प्राणमुक्तिरिह युक्तिमती नः ।
इत्यनक्षरम्
अवाचि घृताच्या दीर्घनिःश्वसितनिर्गमितेन ॥ नैषधीयचरितम् - 5 - 49 ॥
साधु नः पतनमेवमितः
स्यात् इति
अभण्यत तिलोत्तमयापि ।
चामरस्य पतनेन कराग्जात्तद्विलोलनचलद्भुजनालात् ॥ नैषधीयचरितम् - 5 - 50 ॥
मेनका मनसि तापमुदीतं यत्पिधित्सुः
अकरोद् अवहित्थाम् ।
तत्स्फुटं निजहृदः पुटपाके पङ्कलिप्तिम्
असृजद् बहिरुत्थाम् ॥ नैषधीयचरितम् - 5 - 51 ॥
उर्वशी गुणवशीकृतविश्वा तत्क्षणस्तिमितभावनिभेन ।
शक्रसौहृदसमापनसीमस्तम्भकार्यम्
अपुषद् वपुषैव ॥ नैषधीयचरितम् - 5 - 52 ॥
कापि कामपि
बभाण बुभुत्सुं शृण्वति त्रिदशभर्तरि किंचित् ।
एष कश्यपसुताम्
अभिगन्ता पश्य कश्यपसुतः शतमन्युः ॥ नैषधीयचरितम् - 5 - 53 ॥
आलिमात्मसुभगत्वसगर्वा काऽपि शृण्वति मघोनि
बभाषे ।
वीक्षणेऽपि सघृणा
असि नृणां किं
यासि न त्वमपि सार्थगुणेन ॥ नैषधीयचरितम् - 5 - 54 ॥
अन्वयुः द्युतिपयः पितृनाथास्तं मुदाथ हरितां कमितारः ।
वर्त्म
कर्षतु पुरः परमेकस्तद्गतानुगतिको न महार्घः ॥ नैषधीयचरितम् - 5 - 55 ॥
प्रेषिताः पृथगथो दमयन्त्यै चित्तचौर्यचतुरा निजदूत्यः ।
तद्गुरुं प्रति च तैरुपहाराः सङ्ख्यसौख्यकपटेन निगूढाः ॥ नैषधीयचरितम् - 5 - 56 ॥
चित्रमत्र विबुधैरपि यत्तैः स्वर्विहाय बत भूः
अनुसस्रे ।
द्यौर्न काचिदथवास्ति निरूढा सैव सा
चरति यत्र हि चित्तम् ॥ नैषधीयचरितम् - 5 - 57 ॥
शीघ्रलङ्घितपथैरथ वाहैर्लम्भिता भुवममी सुरसाराः ।
वक्रितोन्नमितकन्धरबन्धाः
शुश्रुवुः ध्वनितमध्वनि दूरम् ॥ नैषधीयचरितम् - 5 - 58 ॥
किं घनस्य जलधेरथवैवं नैव संशयितुमपि
अलभन्त ।
स्यन्दनं परमदूरम्
अपश्यन् निःस्वनश्रुतिसहोपनतं ते ॥ नैषधीयचरितम् - 5 - 59 ॥
सूतविश्रमदकौतुकिभावं भावबोधचतुरं तुरगाणाम् ।
तत्र नेत्रजनुषः फलमेते नैषधं
बुबुधिरे विबुधेन्द्राः ॥ नैषधीयचरितम् - 5 - 60 ॥
वीक्ष्य तस्य वरुणस्तरुणत्वं यद्
बभार निबिडं जडभूयम् ।
नौचिती जलपतेः किमु सास्य प्राज्यविस्मयरसस्तिमितस्य ॥ नैषधीयचरितम् - 5 - 61 ॥
रूपमस्य विनिरूप्य तथातिम्लानिम्
आप रविवंशवतंसः ।
कीर्त्यते यदधुनापि स देवः काल एव सकलेन जनेन ॥ नैषधीयचरितम् - 5 - 62 ॥
यं
बभार दहनः खलु तापं रूपधेयभरमस्य विमृश्य ।
तत्र भूदनलता जनिकर्त्री मा तदप्यनलतैव तु हेतुः ॥ नैषधीयचरितम् - 5 - 63 ॥
कामनीयकमधः कृतकामं काममक्षिभिरवेक्ष्य तदीयम् ।
कौशिकः स्वमखिलं परिपश्यन्
मन्यते स्म खलु कौशिकमेव ॥ नैषधीयचरितम् - 5 - 64 ॥
रामणीयकगुणाद्वयवादं मूर्तमुत्थितममुं परिभाव्य ।
विस्मयाय हृदयानि
वितेरुः तेन तेषु न सुराः
प्रबभूवुः ॥ नैषधीयचरितम् - 5 - 65 ॥
प्रैयरूपकविशेषनिवेशैः संवदद्भिरमराः श्रुतपूर्वैः ।
एष एव स नलः किमितीदं मन्दमन्दमितरेतरम्
ऊचुः ॥ नैषधीयचरितम् - 5 - 66 ॥
तेषु तद्विधवधूवरणार्हं भूषणं स समयः स रथाध्वा ।
तस्य कुण्डिनपुरं प्रतिसर्पन्भूपतेर्व्यवसितानि
शशंसुः ॥ नैषधीयचरितम् - 5 - 67 ॥
धर्मराजसलिलेशहुताशैः प्राणतां श्रितममुं जगतस्तैः ।
प्राप्य हृष्टचलविस्तृततापैश्चेतसा निभृतमेतद्
अचिन्ति ॥ नैषधीयचरितम् - 5 - 68 ॥
नैव नः प्रियतमोभयथासौ यद्यमुं न
वृणुते वृणुते वा ।
एकतो हि धिगमूमगुणज्ञामन्यतः कथमदःप्रतिलम्भः ॥ नैषधीयचरितम् - 5 - 69 ॥
माम्
उपैष्यति तदा यदि मत्तो
वेद नेयमियदस्य महत्त्वम् ।
ईदृशी च कथमाकलयित्री मद्विशेषमपरान्नृपपुत्री ॥ नैषधीयचरितम् - 5 - 70 ॥
नैषधे बत वृते दमयन्त्या व्रीडितो नहि बहिः
भवितास्मि ।
स्वां गृहेऽपि वनितां कथमास्यं ह्रीनिमीलि खलु
दर्शयिताहे ॥ नैषधीयचरितम् - 5 - 71 ॥
इत्यवेत्य मनसात्मविधेयं किंचन त्रिविबुधी
बुबुधे न ।
नाकनायकमपास्य तमेकं सा स्म
पश्यति परस्परमास्यम् ॥ नैषधीयचरितम् - 5 - 72 ॥
किं विधेयमधुनेति विमुग्धं स्वानुगाननमवेक्ष्य ऋभुक्षाः ।
शंसति स्म कपटे पटुरुच्चैर्वञ्चनं समभिलष्य नलस्य ॥ नैषधीयचरितम् - 5 - 73 ॥
सर्वतः कुशलवान्
असि कच्चित्त्वं स नैषध इति प्रतिभा नः ।
स्वासनार्धसुहृदस्त्वयि रेखां वीरसेननृपतेरिव
विद्मः ॥ नैषधीयचरितम् - 5 - 74 ॥
क्व
प्रयास्यसि नलेत्यलमुक्त्वा यात्रयात्र शुभया
अजनि यन्नः ।
तत्तयैव फलसत्वरया त्वं नाध्वनोऽर्धनोऽर्धमिदमागमितः किम् ॥ नैषधीयचरितम् - 5 - 75 ॥
एष नैषाध स दण्डभृदेष ज्वालजालजटिलः स हुताशः ।
यादसां स पतिरेष च शेषं शासितारम्
अवगच्छ सुराणाम् ॥ नैषधीयचरितम् - 5 - 76 ॥
अर्थिनो वयममी समुपेमस्त्वां नलेति फलितार्थम्
अवेहि ।
अध्वनः क्षणमपास्य च खेदं
कुर्महे भवति कार्यनिवेदम् ॥ नैषधीयचरितम् - 5 - 77 ॥
ईदृशीं गिरमुदीर्य बिडौजा जोषमास न विशिष्य
बभाषे ।
नात्र चित्रमभिधाकुशलत्वे शैशवावधिगुरुर्गुरुरस्य ॥ नैषधीयचरितम् - 5 - 78 ॥
अर्थिनामहृषिताखिललोमा स्वं नृपः स्फुटकदम्बकदम्बम् ।
अर्चनार्थमिव तच्चरणानां स प्रणामकरणाद्
उपनिन्ये ॥ नैषधीयचरितम् - 5 - 79 ॥
दुर्लभं दिगधिपैः किममीभिस्तादृशं कथमहो मदधीनम् ।
ईदृशं मनसिकृत्य विरोधं नैषधेन
समशायि चिराय ॥ नैषधीयचरितम् - 5 - 80 ॥
जीवितावधि वनीयकमात्रैर्याच्यमानमखिलैः सुलभं यत् ।
अर्थिने परिवृढाय सुराणां किं वितीर्य
परितुष्यतु चेतः ॥ नैषधीयचरितम् - 5 - 81 ॥
भीमजा च हृदि मे परम्
आस्ते जीवितादपि धनादपि गुर्वी ।
न स्वमेव मम सा
अर्हति यस्याः षोडशीमपि कलां किल नोर्वी ॥ नैषधीयचरितम् - 5 - 82 ॥
दीयतां कथमभीप्सितमेषां दीयतां कथमयाचितमेव ।
तं धिग्
अस्तु कलयन्नपि वाञ्छामर्थिवागवसरं
सहते यः ॥ नैषधीयचरितम् - 5 - 83 ॥
प्रापितेन चटुकाकुविडम्बं लम्भितेन बहुयाचनलज्जाम् ।
अर्थिना यदघम्
अर्जति दाता तन्न
लुम्पति विलम्ब्य ददानः ॥ नैषधीयचरितम् - 5 - 84 ॥
यत्प्रदेयमुपनीय वदान्यैः
दीयते सलिलमर्थिजनाय ।
सार्थनोक्तिविफलत्वविशङ्कात्रासमूर्च्छदपमृत्युचिकित्सा ॥ नैषधीयचरितम् - 5 - 85 ॥
अर्थिने न तृणवद्धनमात्रं किं तु जीवनमपि प्रतिपाद्यम् ।
एवम्
आह कुशवज्जलदापी द्रव्यदानविधिरुक्तिविदग्धः ॥ नैषधीयचरितम् - 5 - 86 ॥
पङ्कसङ्करविगर्हितमर्हं न श्रियः कमलमाश्रयणाय ।
अर्थिपाणिकमलं विमलं तद्वासवेश्म
विदधीत सुधीस्तत् ॥ नैषधीयचरितम् - 5 - 87 ॥
याचमानजनमानसवृत्तेः पूरणाय बत जन्म न यस्य ।
तेन भूमिरतिभारवतीयं न द्रुमैर्न गिरिभिर्न समुद्रैः ॥ नैषधीयचरितम् - 5 - 88 ॥
मा धनानि कृपणः खलु जीवंस्तृष्णया
अर्पयतु जातु परस्मै ।
तत्र चैष
कुरुते मम चित्रंयत्तु न
अर्पयति तानि मृतोऽपि ॥ नैषधीयचरितम् - 5 - 89 ॥
माममीभिरिह याचितवद्भिर्दातृजातमवमत्य जगत्याम् ।
यद्यशो मयि निवेशितमेतन्निष्क्रयः
अस्तु कतमस्तु तदीयः ॥ नैषधीयचरितम् - 5 - 90 ॥
लोक एष परलोकमुपेता हा विहाय निधने धनमेकः ।
इत्यमुं खलु तदस्य निनीषति अर्थिबन्धुरुदयद्दयचित्तः ॥ नैषधीयचरितम् - 5 - 91 ॥
दानपात्रमधमर्णमिहैकग्राहि कोटिगुणितं दिवि दायि ।
साधुः
एति सुकृतैर्यदि कर्तुं पारलौकिककुसीदम्
असीदत् ॥ नैषधीयचरितम् - 5 - 92 ॥
एवमादि स विचिन्त्य मुहूर्तं तान्
अवोचत पतिर्निषधानाम् ।
अर्थिदुर्लभमवाप्य सहर्षान्याच्यमानमुखमुल्लसितश्रि ॥ नैषधीयचरितम् - 5 - 93 ॥
न
अस्ति जन्यजनकव्यतिभेदः सत्यमन्नजनितो जनदेहः ।
वीक्ष्य वः खलु तनूममृतादं दृङ्निमज्जनम्
उपैति सुधायाम् ॥ नैषधीयचरितम् - 5 - 94 ॥
मत्तपः क्व न तनु क्व फलं वा यूयमीक्षणपथं
व्रजथ इति ।
ईदृशान्यपि
दधन्ति पुनर्नः पूर्वपूरुषतपांसि
जयन्ति ॥ नैषधीयचरितम् - 5 - 95 ॥
प्रत्यतिष्ठिपत् इमां खलु देवीं कर्म सर्वसहनव्रतजन्म ।
यूयमप्यहह पूजनमस्या यन्निजैः
सृजथ पादपयोजैः ॥ नैषधीयचरितम् - 5 - 96 ॥
जीवितावधि किमप्यधिकं वा यन्मनीषितमितो नरडिम्भात् ।
तेन वश्चरणम्
अर्चतु सोऽयं
ब्रूत वस्तु पुनः
अस्तु किमीदृक् ॥ नैषधीयचरितम् - 5 - 97 ॥
एवमुक्तवति वीतविशङ्के वीरसेनतनये विनयेन ।
वक्रभावविषमामथ शक्रः कार्यकैतवगुरुर्गिरम्
ऊचे ॥ नैषधीयचरितम् - 5 - 98 ॥
पाणिपीडनमहं दमयन्त्याः
कामयेमहि महीमिहिकांशो ।
दूत्यमत्र
कुरु नः स्मरभीतिं निर्जितस्मर चिरस्य निरस्य ॥ नैषधीयचरितम् - 5 - 99 ॥
आसते शतमधिक्षिति भूपास्तोयराशिरसि ते खलु कूपाः ।
किं ग्रहा दिवि न
जाग्रति ते ते भास्करस्य कतमस्तुलया
आस्ते ॥ नैषधीयचरितम् - 5 - 100 ॥
विश्वदृश्वनयना वयमेव त्वद्गुणाम्बुधिमगाधम्
अवेमः ।
त्वामिहैवमनिवेश्य रहस्ये निर्वृतिं नहि
लभेमहि सर्वे ॥ नैषधीयचरितम् - 5 - 101 ॥
शुद्धवंशजनितोऽपि गुणस्य स्थानतामनुभवन्नपि शक्रः ।
क्षिप्ररेनमृजुमाशु सपक्षं सायकं धनुरिव
अजनि वक्रः ॥ नैषधीयचरितम् - 5 - 102 ॥
तेन तेन वचसैव मघोनः स स्म
वेद कपटं पटुरुच्चैः ।
आचरत् तदुचितामथ वाणीमार्जवं हि कुटिलेषु न नीतिः ॥ नैषधीयचरितम् - 5 - 103 ॥
सेयमुच्चतरता दुरितानामन्यजन्मनि मयैव कृतानाम् ।
युष्मदीयमपि या महिमानं जेतुम्
इच्छति कथापथपारम् ॥ नैषधीयचरितम् - 5 - 104 ॥
वित्त चित्तमखिलस्य न कुर्यां धुर्यकार्यपरिपन्थि तु मौनम् ।
ह्रीः
अस्तु वरम्
अस्तु पुनर्मा स्वीकृतैव परवागपरास्ता ॥ नैषधीयचरितम् - 5 - 105 ॥
यन्मतौ विमलदर्पणिकायां संमुखस्थमखिलं खलु तत्त्वम् ।
तेऽपि किं
वितरथ ईदृशमाज्ञां या न यस्य सदृशी वितरीतुम् ॥ नैषधीयचरितम् - 5 - 106 ॥
यामि यामिह वरीतुमहो तद्दूततां नु
करवाणि कथं वः ।
ईदृशां न महतां बत जाता वञ्चने मम तृणस्य घृणापि ॥ नैषधीयचरितम् - 5 - 107 ॥
उद्भ्रमामि विरहात्खलु यस्या मोहम्
एमि च मुहूर्तमहं यः ।
ब्रूत वः प्रभविता
अस्मि रहस्यं रक्षितुं स कथमीदृगवस्थः ॥ नैषधीयचरितम् - 5 - 108 ॥
यां मनोरथमयीं हृदि कृत्वा यः
श्वसिमि अथ कथं स तदग्रे ।
भावगुप्तिमविलम्बितुम्
ईशे दुर्जया हि विषया विदुषापि ॥ नैषधीयचरितम् - 5 - 109 ॥
यामिकाननुपमृद्य च मादृक् तां निरीक्षितुमपि
क्षमते कः ।
रक्षिलक्षजयचण्डचरित्रे पुंसि
विश्वसिति कुत्र कुमारी ॥ नैषधीयचरितम् - 5 - 110 ॥
आदधीचि किल दातृकृतार्घं प्राणमात्रपणसीम यशो यत् ।
आददे कथमहं प्रियया तत् प्राणतः शतगुणेन पणेन ॥ नैषधीयचरितम् - 5 - 111 ॥
अर्थना मयि भवद्भिरिवाऽस्यै कर्तुम्
अर्हति मयाऽपि भवत्सु ।
भीमजाऽर्थपरयाचनचाटौ यूयमेव गुरवः करणीयाः ॥ नैषधीयचरितम् - 5 - 112 ॥
अर्थिताः प्रथमतो दमयन्तीं यूयमन्वहमुपास्य मया यत् ।
ह्रीर्न चेद्व्यतियतामपि तद्वः सा ममापि सुतरां न तद्
अस्तु ॥ नैषधीयचरितम् - 5 - 113 ॥
कुण्डिनेन्द्रसुतया किल पूर्वं मां वरीतुमुररीकृतम्
आस्ते ।
व्रीडम्
एष्यति परं मयि दृष्टे स्वीकरिष्यति न सा खलु युष्मान् ॥ नैषधीयचरितम् - 5 - 114 ॥
तत्
प्रसीदत विधत्त न खेदं दूत्यमत्यसदृशं हि ममेदम् ।
हास्यतैव सुलभा न तु साध्यं तद्विधित्सुभिरनौपयिकेन ॥ नैषधीयचरितम् - 5 - 115 ॥
ईदृशानि गदितानि तदानीमाकलय्य स नलस्य बलारिः ।
शंसति स्म किमपि स्मयमानः स्वानुगाननविलोकनलोलः ॥ नैषधीयचरितम् - 5 - 116 ॥
न
अभ्यधायि नृपते भवतेदं रोहिणीरमणवंशभुवैव ।
लज्जते न रसना तव वाम्यादर्थिषु स्वयमुरीकृतकाम्या ॥ नैषधीयचरितम् - 5 - 117 ॥
भङ्गुरं न वितथं न कथं वा जीवलोकम्
अवलोकयसि इमम् ।
येन धर्मयशसी परिहातुं धीरहो
चलति धीर तवापि ॥ नैषधीयचरितम् - 5 - 118 ॥
कः कुले
अजनि जगन्मुकुटे वः प्रार्थकेप्सितम्
अपूरि न येन ।
इन्दुरादिः
अजनिष्ट कलङ्की कष्टमत्र स भवानपि मा
भूत् ॥ नैषधीयचरितम् - 5 - 119 ॥
यापदृष्टिरपि या मुखमुद्रा याचमानमनु या च न तुष्टिः ।
त्वादृशस्य सकलः स कलङ्कः शीतभासि शशकः परमङ्कः ॥ नैषधीयचरितम् - 5 - 120 ॥
नाक्षराणि पठता किम्
अपाठि प्रस्मृतः किमथवा पठितोऽपि ।
इत्थमर्थिचयसंशयदोलाखेलनं खलु
चकार नकारः ॥ नैषधीयचरितम् - 5 - 121 ॥
अब्रवीत् तमनलः क्व नलेदं लब्धम्
उज्झसि यशः शशिकल्पम् ।
कल्पवृक्षपतिमर्थिनमित्थं न
आप कोऽपि शतमन्युमिहान्यः ॥ नैषधीयचरितम् - 5 - 122 ॥
न
व्यहन्यत कदापि मुदं यः स्वःसदामुपनयन्नभिलाषः ।
तत्पदे त्वदभिषेककृतां नः स
त्यजतु असमतामदमद्य ॥ नैषधीयचरितम् - 5 - 123 ॥
अब्रवीद् अथ यमस्तमहृष्टं वीरसेनकुलदीप तमस्त्वाम् ।
यत्किमपि अभिबुभूषति तत्किं चन्द्रवंशवसतेः सदृशं ते ॥ नैषधीयचरितम् - 5 - 124 ॥
रोहणः किमपि यः कठिनानां कामधेनुरपि या पशुरेव ।
नैनयोरपि वृथा
अभवद् अर्थी हा विधित्सुः
असि वत्स किमेतत् ॥ नैषधीयचरितम् - 5 - 125 ॥
याचितः चिरयति क्व नु धीरः प्राणने क्षणमपि प्रतिभूः कः ।
शंसति द्विनयनी दृढनिद्रां द्राङ्निमेषमिषघूर्णनपूर्णा ॥ नैषधीयचरितम् - 5 - 126 ॥
अभ्रपुष्पमपि दित्सति शीतं साऽर्थिना विमुखता यद्
अभाजि ।
स्तोककस्य खलु चञ्चुपुटेन म्लानिः
उल्लसति तद्धनसङ्घे ॥ नैषधीयचरितम् - 5 - 127 ॥
ऊचिवानुचितमक्षरमेनं पाशपाणिरपि पाणिमुदस्य ।
कीर्तिरेव भवतां प्रियदारा दाननीरझरमौक्तिकहारा ॥ नैषधीयचरितम् - 5 - 128 ॥
चर्म वर्म किल यस्य न भेद्यं यस्य वज्रमयमस्थि च तौ चेत् ।
स्थायिनाविह न कर्णदधीची तन्न धर्ममवधीरय धीर ॥ नैषधीयचरितम् - 5 - 129 ॥
अद्ययावदपि येन निबद्धौ न प्रभू विचलितुं बलिविन्ध्यौ ।
आस्थितावितथतागुणपाशस्त्वादृशा स विदुषा दुरपासः ॥ नैषधीयचरितम् - 5 - 130 ॥
प्रेयसी जितसुधांशुमुखश्रीर्या न
मुञ्चति दिगन्तगतापि ।
भङ्गिसङ्गमकुरङ्गदृगर्थे कः कदर्थयति तामपि कीर्तिम् ॥ नैषधीयचरितम् - 5 - 131 ॥
यान्वरं प्रति परेऽर्थयितारस्तेऽपि यं वयमहो स पुनस्त्वम् ।
नैव नः खलु मनोरथमात्रं शुर
पूरय दिशोऽपि यशोभिः ॥ नैषधीयचरितम् - 5 - 132 ॥
अर्थिनां त्वयि गतेषु सुरेषु म्लानदानजनिजोरुयशःश्रीः ।
अद्य पाण्डु गगनं सुरशाखी केवलेन कुसुमेन
विधत्ताम् ॥ नैषधीयचरितम् - 5 - 133 ॥
प्रवसते भरतार्जुनवैन्यवत्स्मृतिधृतोऽपि नल त्वमभीष्टदः ।
स्वगमनाफलतां यदि
शङ्कसे तदफलं निखिलं खलु मङ्गलम् ॥ नैषधीयचरितम् - 5 - 134 ॥
इष्टं न प्रति ते प्रतिश्रुतिरभूद्याद्य स्वराह्लादिनी धर्मार्था
सृज तां श्रुतिप्रतिभटीकृत्यान्विताख्यापदाम् ।
त्वत्कीर्तिः पुनती पुनस्त्रिभुवनं शुभ्राद्वयादेशनाद्द्रव्याणां शितिपीतलोहितहरिन्नामान्वयं
लुम्पतु ॥ नैषधीयचरितम् - 5 - 135 ॥
यं प्रासूत सहस्रपाद्
उदभवत् पादेन खजः कथं स च्छायातनयः सुतः किल पितुः सादृश्यम्
अन्विष्यति ।
एतस्योत्तरमद्य नः
समजनि त्वत्तेजसां लङ्घने साहस्रैरपि पङ्गुरङ्घ्रिभिरभिव्यक्तीभवन्भानुमान् ॥ नैषधीयचरितम् - 5 - 136 ॥
इत्याकर्ण्य क्षितीशस्त्रिदशपरिषदस्ता गिरश्चाटुगर्भा वैदर्भीकामुकोऽपि प्रसभविनिहितं दूत्यभारं
बभार ।
अङ्गीकारं गतेऽस्मिन्नमरपरिवृढः सम्भृतानन्दम्
ऊचे भूयाद् अन्तर्धिसिद्धेरनुविहितभवच्चित्तता यत्र तत्र ॥ नैषधीयचरितम् - 5 - 137 ॥
श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः
सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
तस्य श्रीविजयप्रशस्तिरचनातातस्य नव्ये महाकाव्ये चारुणि नैषधीयचरिते सर्गः
अगमत् पञ्चमः ॥ नैषधीयचरितम् - 5 - 138 ॥
।। इति नैषधीयचरितमहाकाव्ये पञ्चमसर्गः ।।
षष्ठसर्गः
दूत्याय दैत्यारिपतेः प्रवृत्तो द्विषां निषेद्धा निषाधप्रधानम् ।
स भीमभूमीपतिराजधानीं लक्षीचकाराथ रथस्य तस्य ॥ नैषधीयचरितम् - 6 - 1 ॥
भैम्या समं न
अजगणद् वियोगं स दूतधर्मे स्थिरधीरधीशः ।
पयोधिपाने मुनिरन्तरायं दुर्वारमप्यौर्वमिवौर्वशेयः ॥ नैषधीयचरितम् - 6 - 2 ॥
नलप्रणालीमिलदम्बुजाक्षीसंवादपीयूषपिपासवस्ते ।
तदध्ववीक्षार्थमिवानिमेषा देशस्य तस्य आभरणीबभूवुः ॥ नैषधीयचरितम् - 6 - 3 ॥
तां कुण्डिनाख्यापदमात्रगुप्तामिन्द्रस्य भूमेरमरावतीं सः ।
मनोरथः सिद्धिमिव क्षणेन रथस्तदीयः पुरम्
आससाद ॥ नैषधीयचरितम् - 6 - 4 ॥
भैमीपदस्पर्शकृतार्थरथ्या सेयं पुरीत्युत्कलिकाकुलस्ताम् ।
नृपो निपीय क्षणमीक्षणाभ्यां भृशं
निशश्वास सुरैः क्षताशः ॥ नैषधीयचरितम् - 6 - 5 ॥
स्विद्यत्प्रमोदाश्रुलवेन वामं रोमाञ्चभृत्पक्ष्मभिरस्य चक्षुः ।
अन्यत्पुनः कम्प्रमपि स्फुरत्त्वात्तस्याः पुरः
प्राप नवोपभोगम् ॥ नैषधीयचरितम् - 6 - 6 ॥
रथादसौ सारथिना सनाथाद्राजावतीर्याथ पुरं
विवेश ।
निर्गत्य बिम्बादिव भानवीयात्सौधाकरं मण्डलमंशुसङ्घः ॥ नैषधीयचरितम् - 6 - 7 ॥
चित्रं तदा कुण्डिनवेशिनः षा नलस्य मूर्तिः
ववृते न दृश्या ।
बभूव तञ्चित्रतरं तथापि विश्वैकदृश्यैव यदस्य मूर्तिः ॥ नैषधीयचरितम् - 6 - 8 ॥
जनैर्विदग्धैर्भवनैश्च मुग्धैः पदे पदे विस्मयकल्पवल्लीम् ।
तां गाहमानास्य चिरं नलस्य दृष्टिर्यथा
आददे राजकुलातिथित्वम् ॥ नैषधीयचरितम् - 6 - 9 ॥
हेलां
दधौ रक्षिजनेऽस्त्रिसज्जे लीनश्च
चरामि इति हृदा
ललज्जे ।
द्रक्ष्यामि भैमीमिति
सन्तुतोष दूतं विचिन्त्य स्वमसौ
शुशोच ॥ नैषधीयचरितम् - 6 - 10 ॥
अथोपकार्याममरेन्द्रकार्यात्कक्षासु रक्षाधिकृतैरदृष्टः ।
भैमीं दिदृक्षुर्बहुदिक्षु चक्षुर्दिशन्नसौ ताम्
अविशद् विशङ्कः ॥ नैषधीयचरितम् - 6 - 11 ॥
अयं क इत्यन्यनिवारकाणां गिरा विभुर्द्वारि विभुज्य कण्ठम् ।
दृशं
दधौ विस्मयनिस्तरङ्गां स लङ्घितायामपि राजसिंहः ॥ नैषधीयचरितम् - 6 - 12 ॥
अन्तःपुरान्तः स विलोक्य बालां काञ्चित्समालब्धुमसंवृतोरुम् ।
निमीलिताक्षः परया भ्रमन्त्या सङ्घट्टमासाद्य चमत्
चकार ॥ नैषधीयचरितम् - 6 - 13 ॥
अनादिसर्गस्रजि वानुभूता चित्रेषु वा भीमसुता नलेन ।
जातेव यद्वा जितशम्बरस्य सा शाम्बरीशिल्पम्
अलक्षि दिक्षु ॥ नैषधीयचरितम् - 6 - 14 ॥
अलीकभैमीसहदर्शनान्न तस्यान्यकन्याप्सरसो रसाय ।
भैमीभ्रमस्यैव ततः प्रसादाद्भैमीभ्रमस्तेन न तासु
अलम्भि ॥ नैषधीयचरितम् - 6 - 15 ॥
भैमीनिराशे हृदि मन्मथेन दत्तस्वहस्ताद्विरहाद्विहस्तः ।
स तामलीकामवलोक्य तत्र क्षणाद्
अपश्यन् व्यषदद् विबुद्धः ॥ नैषधीयचरितम् - 6 - 16 ॥
प्रियां विकल्पोपहृतां स यावद्दिगीशसन्देशम्
अजल्पद् अल्पम् ।
अदृश्यवाग्भीषितभूरिभीरुर्भवो रवस्तावद् अचेतयत् तम् ॥ नैषधीयचरितम् - 6 - 17 ॥
पश्यन्स तस्मिन्मरुतादि तन्व्याः स्तनौ परिस्प्रष्टुमिवास्तवस्त्रौ ।
अक्षान्तपक्षान्तमृगाङ्कमास्यं
दधार तिर्यन्वलितं विलक्षः ॥ नैषधीयचरितम् - 6 - 18 ॥
अन्तःपुरे विस्तृतवागुरोऽपि बालावलीनां वलितैर्गुणौघैः ।
न कालसारं हरिणं तदक्षिद्वयं प्रभुर्बन्द्धुम्
अभूत् मनोभूः ॥ नैषधीयचरितम् - 6 - 19 ॥
दोर्मूलमालोक्य कचं रुरुत्सोस्ततः कुचौ तावनुलेपयन्त्याः ।
नाभीमथैष श्लथवाससः
अनुमिमील दिक्षु क्रमकृष्टचक्षुः ॥ नैषधीयचरितम् - 6 - 20 ॥
मीलन्न
शेके अभिमुखागताभां धर्तुं निपीड्य स्तनसान्तराभ्याम् ।
स्वाङ्गान्यपेतो
विजगौ स पश्चात्पुमङ्गसङ्गोत्पुलके पुनस्ते ॥ नैषधीयचरितम् - 6 - 21 ॥
निमीलनस्पष्टविलोकनाभ्यां कदर्थितस्ताः कलयन्कटाक्षैः ।
स रागदर्शीव भृशं
ललज्जे स्वतः सतां ह्रीः परतोऽतिगुर्वी ॥ नैषधीयचरितम् - 6 - 22 ॥
रोमाञ्चिताङ्गीमनु तत्कटाक्षैर्भ्रान्तेन कान्तेन रतेर्निदिष्टः ।
मोघः शरौघः कुसुमानि न
अभूत् तद्धैर्यपूजां प्रति पर्यवस्यन् ॥ नैषधीयचरितम् - 6 - 23 ॥
हित्वैव वर्त्मैकमिह भ्रमन्त्याः स्पर्शः स्त्रियाः सुत्यज इत्यवेत्य ।
चतुष्पथस्याभरणं
बभूव लोकावलोकाय सतां स दीपः ॥ नैषधीयचरितम् - 6 - 24 ॥
उद्वर्तयन्त्या हृदये निपत्य नृपस्य दृष्टिः
न्यवृतद् द्रुतैव ।
वियोगिवैरात्कुचयोर्नखाङ्कैरर्धेन्दुलीलैर्गलहस्तितेव ॥ नैषधीयचरितम् - 6 - 25 ॥
तन्वीमुखं द्रागधिगत्य चन्द्रं वियोगिनस्तस्य निमीलिताभ्याम् ।
द्वयं द्रढीयः कृतमीक्षणाभ्यां तदिन्दुता च स्वसरोजता च ॥ नैषधीयचरितम् - 6 - 26 ॥
चतुष्पथे तं विनिमीलिताक्षं चतुर्दिगेताः सुखम्
अग्रहीष्यन् ।
सङ्घट्ट्य तस्मिन्भृशभीनिवृत्तास्ता एव तद्वत्र्म न चेददास्यन् ॥ नैषधीयचरितम् - 6 - 27 ॥
सङ्घट्टयन्त्यास्तरसात्मभूषाहीराङ्कुरप्रोतदुकूलहारी ।
दिशा नितम्बं परिधाप्य तन्व्यास्तत्पापसन्तापम्
अवाप भूपः ॥ नैषधीयचरितम् - 6 - 28 ॥
हतः कयाचित्पथि कन्दुकेन सङ्घट्ट्य भिन्नः करजैः कयापि ।
कयाचनाक्तः कुचकुङ्कुमेन सम्भुक्तकल्पः स
बभूव ताभिः ॥ नैषधीयचरितम् - 6 - 29 ॥
छायामयः
प्रैक्षि कयापि हारे निजे स गच्छन्नथ नेक्ष्यमाणः ।
तच्चिन्तयान्तः
निरचायि चारु स्वस्यैव तन्व्या हृदयं प्रविष्टः ॥ नैषधीयचरितम् - 6 - 30 ॥
तच्छायसौन्दर्यनिपीतधैर्याः प्रत्येकम्
आलिङ्गद् अमू रतीशः ।
रतिप्रतिद्वन्द्वितमासु नूनं नामूषु निर्णीतरतिः कथञ्चित् ॥ नैषधीयचरितम् - 6 - 31 ॥
तस्माददृश्यादपि नातिबिभ्युस्तच्छायरूपाहितमोहलोलाः ।
मन्यन्ते एवादृतमन्मथाज्ञाः प्राणानपि स्वान्सुदृशस्तृणानि ॥ नैषधीयचरितम् - 6 - 32 ॥
जागर्ति तच्छायदृशां पुरा यः स्पृष्टे च तस्मिन्
विससर्प कम्पः ।
द्रुते द्रुतं तत्पदशब्दभीत्या स्वहस्तितश्चारुदृशां परं सः ॥ नैषधीयचरितम् - 6 - 33 ॥
उल्लास्यतां स्पृष्टनलाङ्गमङ्गं तासां नलच्छायपिबापि दृष्टिः ।
अश्मैव रत्यास्तद् अनर्ति पत्या छेदेऽप्यबोधं यद्
अहर्षि रोम ॥ नैषधीयचरितम् - 6 - 34 ॥
यस्मिन्नलस्पृष्टकमेत्य हृष्टा भूयोऽपि तं देशमगान्मृगाक्षी ।
निपत्य तत्रास्य धरारजःस्थे पादे प्रसीदेति शनैः
अवादीत् ॥ नैषधीयचरितम् - 6 - 35 ॥
भ्रमन्नमुष्यामुपकारिकायामायस्य भैमीविरहात्क्रशीयान् ।
असौ मुहुः सौधपरम्पराणां
व्यधत्त विश्रान्तिमधित्यकासु ॥ नैषधीयचरितम् - 6 - 36 ॥
उल्लिख्य हंसेन दले नलिन्यास्तस्मै यथा
अदर्शि तथैव भैमी ।
तेनाभिलिख्योपहृतस्वहारा कस्या न दृष्टा
अजनि विस्मयाय ॥ नैषधीयचरितम् - 6 - 37 ॥
कौमारगन्धीनि निवारयन्ती वृत्तानि रोमावलिवेत्रचिह्ना ।
सालिख्य तेन
ऐक्ष्यत यौवनीयद्वाःस्थामवस्थां परिचेतुकामा ॥ नैषधीयचरितम् - 6 - 38 ॥
पश्याः पुरन्ध्रीः प्रति सान्द्रचन्द्ररजाःकृतक्रीडकुमारचक्रे ।
चित्राणि
चक्रे ध्वनि चक्रवर्तिचिह्नं तदङ्घ्रिप्रतिमासु चक्रम् ॥ नैषधीयचरितम् - 6 - 39 ॥
तारुण्यपुण्यामवलोकयन्त्योरन्योन्यमेणेक्षणयोरभिख्याम् ।
मध्ये मुहूर्तं स
बभूव गच्छन्नाकस्मिकाच्छादनविस्मयाय ॥ नैषधीयचरितम् - 6 - 40 ॥
पुरःस्थितस्य क्वचिदस्य भूपारत्नेषु नार्यः प्रतिबिम्बितानि ।
व्योमन्यदृश्येषु निजानि
अपश्यन् विस्मित्य विस्मित्य सहस्रकृत्वः ॥ नैषधीयचरितम् - 6 - 41 ॥
तस्मिन् विषज्याऽर्धपथान्निवृत्तं तदङ्गरागच्छुरितं निरीक्ष्य ।
विस्मेरताम्
आपुः अनिस्मरन्त्यः क्षिप्तं मिथः कन्दुकमिन्दुमुख्यः ॥ नैषधीयचरितम् - 6 - 42 ॥
पुंसि स्वभर्तृव्यतिरिक्तभूते भूत्वाप्यनीक्षानियमव्रतिन्यः ।
छायासु रूपं भुवि वीक्ष्य तस्य फलं दृशोः
आनशिरे महिष्यः ॥ नैषधीयचरितम् - 6 - 43 ॥
विलोक्य तच्छायम्
अतर्कि ताभिः पतिं प्रति स्वं वसुधापि
धत्ते ।
यथा वयं किं मदनं तथैनं त्रिनेत्रनेत्रानलकीलनीलम् ॥ नैषधीयचरितम् - 6 - 44 ॥
रूपं प्रतिच्छायिकयोपनीतम्
आलोकि ताभिर्यदि नाम कामम् ।
तथापि न
आलोकि तदस्य रूपं हारिद्रभङ्गाय वितीर्णभङ्गम् ॥ नैषधीयचरितम् - 6 - 45 ॥
भवन्नदृश्यः प्रतिबिम्बदेहव्यूहं वितन्वन्मणिकुट्टिमेषु ।
पुरं परस्य प्रविशन्वियोगी योगीव चित्रं स
रराज राजा ॥ नैषधीयचरितम् - 6 - 46 ॥
पुमानिव
अस्पर्शि मया व्रजन्त्या छाया मया पुंसः इव
व्यलोकि ।
ब्रुवन्निव
अतर्कि मयापि कश्चिदिति स्म स स्त्रैणगिरः
शृणोति ॥ नैषधीयचरितम् - 6 - 47 ॥
अम्बां प्रणत्योपनता नताङ्गी नलेन भैमी पथि योगम्
आप ।
स भ्रान्तिभैमीषु न तां
विवेद सा तं च नादृश्यतया
ददर्श ॥ नैषधीयचरितम् - 6 - 48 ॥
प्रसूप्रसादाधिगता प्रसूनमाला नलस्योद्भ्रमवीक्षितस्य ।
क्षिप्तापि कण्ठाय तयोपकण्ठं स्थितं तम्
आलम्बत सत्यमेव ॥ नैषधीयचरितम् - 6 - 49 ॥
स्रग्वासनादृष्टजनप्रसादः सत्येयमित्यद्भुतमाप भूपः ।
क्षिप्तामदृश्यत्वमितां च मालामालोक्य तां
विस्मयते स्म बाला ॥ नैषधीयचरितम् - 6 - 50 ॥
अन्योन्यमन्यत्रवदीक्षमाणो परस्परेणाध्युषितेऽपि देशे ।
अलिङ्गितालीकपरस्परान्तस्तथ्यं मिथस्तौ
परिषस्वजाते ॥ नैषधीयचरितम् - 6 - 51 ॥
स्पर्शं तमस्याधिगतापि भैमी
मेने पुनर्भ्रान्तिमदर्शनेन ।
नृपः स पश्यन्नपि तामुदीतः स्तम्भो न धर्तुं सहसा
शशाक ॥ नैषधीयचरितम् - 6 - 52 ॥
स्पर्शाटिहर्षादृतसत्यमत्या प्रवृत्य मिथ्याप्रतिलब्धबाधौ ।
पुनर्मिथस्तथ्यमपि स्पृशन्तौ न श्रद्
दधाते पथि तौ विमुग्धौ ॥ नैषधीयचरितम् - 6 - 53 ॥
सर्वत्र संवाद्यमबाधमानौ रूपश्रियातिथ्यकरं परं तौ ।
न
शेकतुः केलिरसाद्विरन्तुमलीकमालोक्य परस्परं तु ॥ नैषधीयचरितम् - 6 - 54 ॥
परस्परस्पर्शरसोर्मिसेकात्तयोः क्षणं चेतसि विप्रलम्भः ।
स्नेहातिदानादिव दीपिकार्चिर्निमिष्य किंचिद्विगुणं
दिदीपे ॥ नैषधीयचरितम् - 6 - 55 ॥
वेश्माप सा धैर्यवियोगयोगाद्बोधं च मोहं च मुहुर्दधाना ।
पुनःपुनस्तत्र पुरः स पश्यन्
बभ्राम तां सुभ्रुवमुद्भ्रमेण ॥ नैषधीयचरितम् - 6 - 56 ॥
पद्म्यां नृपः सञ्चरमाण एष चिरं परिभ्रम्य कथंकथंचित् ।
विदर्भराजप्रभवाभिरामं प्रासादमभ्रङ्कषम्
आससाद ॥ नैषधीयचरितम् - 6 - 57 ॥
सखीशतानां सरसैर्विलासैः स्मरावरोधभ्रममावहन्तीम् ।
विलोकयामास सभां स भैम्यास्तस्य प्रतोलीमणिवेदिकायाम् ॥ नैषधीयचरितम् - 6 - 58 ॥
कण्ठः किमस्याः पिकवेणुवीणास्तिस्रो जिताः
सूचयति त्रिरेखः ।
इत्यन्तः
अस्तूयत यत्र कापि नलेन बाला कलमालपन्ती ॥ नैषधीयचरितम् - 6 - 59 ॥
एतं नलं तं दमयन्ति
पश्य त्यज अर्तिमित्या लिकुलप्रबोधान् ।
श्रुत्वा स नारीकरवर्तिसारीमुखात्स्वम्
आशङ्कत यत्र दृष्टम् ॥ नैषधीयचरितम् - 6 - 60 ॥
यत्रैकयालीकनलीकृतालीकण्ठे मृषाभीमभवीभवन्त्या ।
तद्दृक्पथे दौहदिकोपनीता शालीनम्
अधायि मधूकमाला ॥ नैषधीयचरितम् - 6 - 61 ॥
चन्द्राभमाभ्रं तिलकं दधाना तद्वन्निजास्येन्दुकृतानुबिम्बम् ।
सखीमुखे चन्द्रसमे
ससर्ज चन्द्रनवस्थामिव कापि यत्र ॥ नैषधीयचरितम् - 6 - 62 ॥
दलोदरे काञ्चनकेतकस्य क्षणान्मसीभावुकवर्णलेखम् ।
तस्यैव यत्र स्वमनङ्गलेखं
लिलेख भैमी नखलेखिनीभिः ॥ नैषधीयचरितम् - 6 - 63 ॥
विलेखितुं भीमभुवो लिपीषु सख्याऽतिविख्यातिभृतापि यत्र ।
अशाकि लीलाकमलं न पाणिः
अपारि कर्णोत्पलमक्षि नैव ॥ नैषधीयचरितम् - 6 - 64 ॥
भैमीम् उपावीणयद् एत्य यत्र कलिप्रियस्य प्रियशिष्यवर्गः ।
गन्धर्ववध्वः स्वरमध्वरीणतत्कण्ठनालैकधुरीणवीणः ॥ नैषधीयचरितम् - 6 - 65 ॥
नावा स्मरः किं हरभीतिगुप्ते पयोधरे
खेलति कुम्भ एव ।
इत्यर्धचन्द्राभनखाङ्कचुम्बिकुचा सखी यत्र सखीभिः
ऊचे ॥ नैषधीयचरितम् - 6 - 66 ॥
स्मराशुगीभूय विदर्भसुभ्रूवक्षो यदक्षोभि खलु प्रसूनैः ।
स्रजं सृजन्त्या तद्
अशोधि तेषु यत्रैकया सूचिशिखां निखाय ॥ नैषधीयचरितम् - 6 - 67 ॥
यत्र
अवदत् तामतिभीय भैमी
त्यज त्यज इदं सखि साहसिक्यम् ।
त्वमेव कृत्वा मदनाय
दत्से बाणान्प्रसूनानि गुणेन सज्जान् ॥ नैषधीयचरितम् - 6 - 68 ॥
आलिख्य सख्याः कुचपत्त्रभङ्गीमध्ये सुमध्या मकरीं करेण ।
यत्र
अवदत् तामिदमालि यानं
मन्ये त्वदेकावलिनाकनद्याः ॥ नैषधीयचरितम् - 6 - 69 ॥
तामेव सा यत्र
जगाद भूयः पयोधियादः कुचकुम्भयोस्ते ।
सेयं स्थिता तावकहृच्छयाङ्कप्रिया
अस्तु विस्तारयशःप्रशस्तिः ॥ नैषधीयचरितम् - 6 - 70 ॥
शारीं चरन्तीम् सखि
मारय एतामित्यक्षदाये कथिते कयापि ।
यत्र स्वघातभ्रमभीरुशारीकाकूत्थसाकूतहसः स
जज्ञे ॥ नैषधीयचरितम् - 6 - 71 ॥
भैमीसमीपे स निरीक्ष्य यत्र ताम्बूलजाम्बूनदहंसलक्ष्मीम् ।
कृतप्रियादूत्यमहोपकारमरालमोहद्रढिमानम्
ऊहे ॥ नैषधीयचरितम् - 6 - 72 ॥
तस्मिन्नियं सेति सखीसमाजे नलस्य सन्देहमथ व्युदस्यन् ।
अपृष्ट एव स्फुटम्
आचचक्षे स कोऽपि रूपातिशयः स्वयं ताम् ॥ नैषधीयचरितम् - 6 - 73 ॥
भैमीविनोदाय मुदा सखीभिस्तदाकृतीनां भुवि कल्पितानाम् ।
न
अतर्कि मध्ये स्फुटमप्युदीतं तस्यानुबिम्बं मणिवेदिकायाम् ॥ नैषधीयचरितम् - 6 - 74 ॥
हुताशकीनाशजलेशदूतीर्निराकरिष्णोः कृतकाकुयाञ्चाः ।
भैम्या वचोभिः स निजां तदाशां
न्यवर्तयत् दूरमपि प्रयाताम् ॥ नैषधीयचरितम् - 6 - 75 ॥
विज्ञप्तिमन्तःसभयः स भैम्या मध्येसभं वासवसम्भलीयाम् ।
सम्भावयामास भृशं कृशाशस्तदालिवृन्दैरभिनन्द्यमानाम् ॥ नैषधीयचरितम् - 6 - 76 ॥
लिपिर्न दैवी सुपठा भुवीति तुभ्यं मयि प्रेरितवाचिकस्य ।
इन्द्रस्य दूत्यां
रचय प्रसादं विज्ञापयन्त्यामवधानदानैः ॥ नैषधीयचरितम् - 6 - 77 ॥
सलीलमालिङ्गनयोपपीडमनामयं
पृच्छति वासवस्त्वाम् ।
शेषस्त्वदाश्लेषकथापनिद्रैस्तद्रोमभिः
सन्दिदिशे भवत्यै ॥ नैषधीयचरितम् - 6 - 78 ॥
यः प्रेर्यमाणोऽपि हृदा मघोनस्त्वदर्थनायां ह्रियम्
आपद् आगः ।
स्वयंवरस्थानजुषस्त्वमस्य
बधान कण्ठं वरणस्रजाशु ॥ नैषधीयचरितम् - 6 - 79 ॥
नैनं
त्यज क्षीरधिमन्थनाद्यैरस्यानुजायोद्गमितामरैः श्रीः ।
अस्मै विमथ्येक्षुरसोदमन्यां
श्राम्यन्तु नोत्थापयितुं श्रियं ते ॥ नैषधीयचरितम् - 6 - 80 ॥
लोकस्रजि द्यौर्दिवि चादितेया अप्यादितेयेषु महान्महेन्द्रः ।
किंकर्तुमर्थी यदि सोऽपि रागात्
जागर्ति कक्षा किमतः परापि ॥ नैषधीयचरितम् - 6 - 81 ॥
पदं शतेन
आप मखैर्यदिन्द्रस्तस्मै स ते याचनचाटुकारः ।
कुरु प्रसादं तद् अलङ्
कुरुष्व स्वीकारकृद्भ्रूनटनक्रमेण ॥ नैषधीयचरितम् - 6 - 82 ॥
मन्दाकिनीनन्दनयोर्विहारे देवे
भवेत् देवरि माधवे वा ।
श्रेयः श्रियां यातरि यच्च सख्यां तच्चेतसा भाविनि भावयस्व ॥ नैषधीयचरितम् - 6 - 83 ॥
रज्यस्व राज्ये जगतामितीन्द्रा0द्याच्ञाप्रतिष्ठां
लभसे त्वमेव ।
लघूकृतस्वं बलियाचनेन तत्प्राप्तये वामनम्
आमनन्ति ॥ नैषधीयचरितम् - 6 - 84 ॥
यानेव देवान्
नमसि त्रिकालं न तत्कृतघ्नीकृतिरौचिती ते ।
प्रसीद तानप्यनृणान्विधातुं
पतिष्यतः त्वत्पदयोस्त्रिसन्ध्यम् ॥ नैषधीयचरितम् - 6 - 85 ॥
इत्युक्तवत्या निहितादरेण भैम्या गृहीता मघवत्प्रसादः ।
स्रक्पारिजातस्य ऋते नलाशां वासैरशेषाम्
अपूपुरद् आशाम् ॥ नैषधीयचरितम् - 6 - 86 ॥
आर्ये विचार्यालमिहेति कापि योग्यं सखि
स्याद् इति काचनायि ।
ओंकार एवोत्तरम्
अस्तु वस्तु मङ्गल्यमत्रेति च कापि
अवोचत् ॥ नैषधीयचरितम् - 6 - 87 ॥
अनाश्रवा वः किमहं कदापि वक्तुं विशेषः परम्
अस्ति शेषः ।
ईतीरिते भीमजया न दूतीम्
आलिङ्गद् आलीश्च मुदामियत्ता ॥ नैषधीयचरितम् - 6 - 88 ॥
भैमीं च दूत्यं च न किंचिद्
आपम् इति स्वयं भावयतो नलस्य ।
आलोकमात्राद्यदि तन्मुखेन्दोः
अभूत् न भिन्नं हृदयारविन्दम् ॥ नैषधीयचरितम् - 6 - 89 ॥
ईषत्स्मितक्षालितसृक्वभागा दृक्संज्ञया वारिततत्तदालिः ।
स्रजा नमस्कृत्य तयैव शक्रं तां भीमभूः उत्तरयां
चकार ॥ नैषधीयचरितम् - 6 - 90 ॥
स्तुतौ मघोनः
त्यज साहसिक्यं वक्तुं कियत्तं यदि
वेद वेदः ।
वृथोत्तरं साक्षिणि हृत्सु नॄणामज्ञातृविज्ञापि ममाऽपि तस्मिन् ॥ नैषधीयचरितम् - 6 - 91 ॥
आज्ञां तदीयामनु कस्य नाम नकारपारुष्यम्
उपैतु जिह्वा ।
प्रह्वा तु तां मूर्ध्नि विधाय मालां बाला
अपराध्यामि विशेषवाग्भिः ॥ नैषधीयचरितम् - 6 - 92 ॥
तपःफलत्वेन हरेः कृपेयमिमं तपस्येव जनं
नियुङ्क्ते ।
भवति उपायं प्रति हि प्रवृत्तावुपेयमाधुर्यमधैर्यसर्जि ॥ नैषधीयचरितम् - 6 - 93 ॥
शुश्रूषिताहे तदहं तमेव पतिं मुदेऽपि व्रतसम्पदेऽपि ।
विशेषलेशोयऽमदेवदेहमंशागतं तु क्षितिभृत्तयेह ॥ नैषधीयचरितम् - 6 - 94 ॥
अश्रौषम् इन्द्रादरिणीर्गिरस्ते सतीव्रतातिप्रतिलोमतीव्राः ।
स्वं प्रागहं
प्रादिषि नामराय किंनाम तस्मै मनसा नराय ॥ नैषधीयचरितम् - 6 - 95 ॥
तस्मिन्विमृश्यैव वृते हृदैषा मैन्द्री दया मामनुतापिका
अभूत् ।
निर्वातुकामं भवसम्भवानां धीरं सुखानामवधीरणेव ॥ नैषधीयचरितम् - 6 - 96 ॥
वर्षेषु यद्भारतमार्युधुर्याः
स्तुवन्ति गार्हस्थ्यमिवाश्रमेषु ।
तत्र
अस्मि पत्युर्वरिवस्ययेह शर्मोर्मिकिर्मीरितधर्मलिप्सुः ॥ नैषधीयचरितम् - 6 - 97 ॥
स्वर्गे सतां शर्म परं न धर्मा
भवन्ति भूमाविह तच्च ते च ।
शक्या मखेनापि मुदोऽमराणां कथं विहाय त्रयमेकम्
ईहे ॥ नैषधीयचरितम् - 6 - 98 ॥
साधोरपि स्वः खलु गामिताधो गमी स तु स्वर्गमितः प्रयाणे ।
इत्यायती चिन्तयतो हृदि द्वे द्वयोरुदर्कः किमु शर्करे न ॥ नैषधीयचरितम् - 6 - 99 ॥
प्रक्षीण एवायुषि कर्मकृष्टे नरान्न
तिष्ठति उपतिष्ठते यः ।
बुभुक्षते नाकमपथ्यकल्पं धीरस्तमापातसुखोन्मुखं कः ॥ नैषधीयचरितम् - 6 - 100 ॥
इतीन्द्रदूत्याः प्रतिवाचमर्धे प्रत्युह्य सैषा
अभिदधे वयस्याः ।
किंचिद्विवक्षोल्लसदोष्ठलक्ष्मीजितापनिद्रद्दलपङ्कजास्याः ॥ नैषधीयचरितम् - 6 - 101 ॥
अनादिधाविस्वपरम्पराया हेतुस्रजः स्रोतसि वेश्वरे वा ।
आयत्तधीरेष जनस्तदार्याः किमीदृशः पर्यनुयोगयोग्यः ॥ नैषधीयचरितम् - 6 - 102 ॥
नित्यं नियत्या परवत्यशेषे कः संविदानोऽप्यनुयोगयोग्यः ।
अचेतना सा च न वाचम्
अर्हेत् वक्ता तु वक्त्रश्रमकर्म
भुङ्क्ते ॥ नैषधीयचरितम् - 6 - 103 ॥
क्रमेलकं
निन्दति कोमलेच्छुः क्रमेलकः कण्टकलम्पटस्तम् ।
प्रीतौ तयोरिष्टभुजोः समायां मध्यस्थता नैकतरोपहासः ॥ नैषधीयचरितम् - 6 - 104 ॥
गुणा हरन्तोऽपि हरेर्नरं मे न रोचमानं
परिहारयन्ति ।
न लोकम्
आलोकयथ अपवर्गात्त्रिवर्गमर्वाञ्चममुञ्चमानम् ॥ नैषधीयचरितम् - 6 - 105 ॥
आकीटमाकैटभवैरि तुल्यः स्वाभीष्टलाभात्कृतकृत्यभावः ।
भिन्नस्पृहाणां प्रति चार्थमर्थं द्विष्टत्वमिष्टत्वमपव्यवस्थम् ॥ नैषधीयचरितम् - 6 - 106 ॥
अध्वाग्रजाग्रन्निभृतापदन्धुर्बन्धुर्यदि
स्यात् प्रतिबन्धुमर्हः ।
जोषं जनः कार्यविद्
अस्तु वस्तु प्रच्छया निजेच्छा पदवीं मुद्
अस्तु ॥ नैषधीयचरितम् - 6 - 107 ॥
इत्थं प्रतीपोक्तिमतिं सखीनां विलुप्य पाण्डित्यबलेन बाला ।
अपि श्रुतस्वर्पतिमन्त्रिसूक्तिं दूतीं
बभाषे अद्भुतलोलमौलिम् ॥ नैषधीयचरितम् - 6 - 108 ॥
परेतभर्तुर्मनसेव दूतीं नभस्वतेवानिलसख्यभाजः ।
त्रिस्रोतसेवाम्बुपतेस्तदाशु स्थिरास्थमायातवतीं निरास्थम् ॥ नैषधीयचरितम् - 6 - 109 ॥
भूयोऽर्थमेनं यदि मां त्वम्
आत्थ तदा पदौ
आलभसे मघोनः ।
सतीव्रतैस्तीव्रमिमं तु मन्तुमन्तर्वरं वज्रिणि मार्जिता
अस्मि ॥ नैषधीयचरितम् - 6 - 110 ॥
इत्थं पुनर्वागवकाशनाशान्महेन्द्रदूत्यामपयातवत्याम् ।
विवेश लोलं हृदयं नलस्य जीवः पुनः क्षीबमिव प्रबोधः ॥ नैषधीयचरितम् - 6 - 111 ॥
श्रवणपुटयुगेन स्वेन साधूपनीतं दिगधिपकृपया आत्ताद् ईदृशः संविधान् ।
अलभत मधु बाला रागवागुत्थमित्थं निषधजनपदेन्द्रः पातुमानन्दसान्द्रम् ॥ नैषधीयचरितम् - 6 - 112 ॥
श्रीहर्ष कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः
सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
षष्ठः खण्डनखण्डतोऽपि सहजात्क्षोदक्षमे तन्महाकाव्ये चारुणि नैषधीयचरिते सर्गः
अगमद् भास्वरः ॥ नैषधीयचरितम् - 6 - 113 ॥
।। इति नैषधीयचरितमहाकाव्ये षष्ठसर्गः ।।
सप्तमसर्गः
अथ प्रियासादनशीलनादौ मनोरथः पल्लवितः पुरा यः ।
विलोकनेनैव स राजपुत्र्याः पत्या भुवः पुर्णवद्
अभ्यमानि ॥ नैषधीयचरितम् - 7 - 1 ॥
प्रतिप्रतीकं प्रथमं प्रियायामथान्तरानन्दसुधासमुद्रे ।
ततः प्रमोदाश्रुपरम्परायां
ममज्जतुः तस्य दृशौ नृपस्य ॥ नैषधीयचरितम् - 7 - 2 ॥
ब्रह्माद्वयस्य
अन्वभवत् प्रमोदं रोमाग्र एवाग्रनिरीक्षितेऽस्याः ।
यथौचितीत्थं तदशेषदृष्टावथ स्मराद्वैतमुदं तथासौ ॥ नैषधीयचरितम् - 7 - 3 ॥
वेलामतिक्रम्य पृथुं मुखेन्दोरालोकपीयूषरसेन तस्याः ।
नलस्य रागाम्बुनिधौ विवृद्धे तुङ्गौ कुचौ
आश्रयति स्म दृष्टी ॥ नैषधीयचरितम् - 7 - 4 ॥
मग्ना सुधायां किमु तन्मुखेन्दोर्लग्ना स्थिता तत्कुचयोः किमन्तः ।
चिरेण तन्मध्यम्
अमुञ्चत अस्य दृष्टिः ऋशीय स्खलनाद्भिया नु ॥ नैषधीयचरितम् - 7 - 5 ॥
प्रियाङ्गपान्था कुचयोर्निवृत्त्य निवृत्त्य लोला नलदृग्भ्रमन्ती ।
बभौतमां तन्मृगनाभिलेपतमःसमासादितदिग्भ्रमेव ॥ नैषधीयचरितम् - 7 - 6 ॥
विभ्रम्य तच्चारुनितम्बचक्रे दूतस्य दृक्तस्य खलु स्खलन्ती ।
स्थिरा चिराद्
आस्त तदूरुरम्भास्तम्भावुपाश्लिष्य करेण गाढम् ॥ नैषधीयचरितम् - 7 - 7 ॥
वासः परं नेत्रमहं न नेत्रं किमु त्वमालिङ्गय तन्मयापि ।
उरोनितम्बोरु
कुरु प्रसादमितीव सा तत्पदयोः
पपात ॥ नैषधीयचरितम् - 7 - 8 ॥
दृशोर्यथाकाममथोपहृत्य स प्रेयसीमालिकुलं च तस्याः ।
इदं प्रमोदाद्भुतसम्भृतेन महीमहेन्द्रो मनसा
जगाद ॥ नैषधीयचरितम् - 7 - 9 ॥
पदे विधातुर्यदि मन्मथो वा मम
अभिषिच्येत मनोरथो वा ।
तदा
घटेत अपि न वा तदेतत्प्रतिप्रतीकाद्भुतरूपशिल्पम् ॥ नैषधीयचरितम् - 7 - 10 ॥
तरङ्गिणी भूमिभृतः प्रभूता
जानामि शृङ्गाररसस्य सेयम् ।
लावण्यपूरः
अजनि यौवनेन यस्यां तथोच्चैस्तनता घनेन ॥ नैषधीयचरितम् - 7 - 11 ॥
अस्यां वपुर्व्यूहविधानविद्यां किं
द्योतयामास नवां स कामः ।
प्रत्यङ्गसङ्गस्फुटलब्धभूमा लावण्यसीमा यदिमाम्
उपास्ते ॥ नैषधीयचरितम् - 7 - 12 ॥
जम्बालजालात्किम्
अकर्षि जम्बूनद्या न हारिद्रनिभप्रभेयम् ।
अप्यङ्गयुग्मस्य न सङ्गचिह्नम्
उन्नीयते दन्तुरता यदत्र ॥ नैषधीयचरितम् - 7 - 13 ॥
सत्येव साम्ये सदृशादशेषाद्गुणान्तरेण
उच्चकृषे यदङ्गैः ।
अस्यास्ततः
स्यात् तुलनापि नाम वस्तु त्वमीषामुपमापमानः ॥ नैषधीयचरितम् - 7 - 14 ॥
पुराकृतिः स्त्रैणमिमां विधातुम्
अभूत् विधातुः खलु हस्तलेखः ।
येयं भवद्भाविपुरंध्रिसृष्टिः सास्यै यशस्तज्जयजं प्रदातुम् ॥ नैषधीयचरितम् - 7 - 15 ॥
भव्यानि हानीः
अगुः एतदङ्गाद्यथा यथानर्ति तथा तथा तैः ।
अस्याधिकस्योपमयोपमाता दाता प्रतिष्ठां खलु तेभ्य एव ॥ नैषधीयचरितम् - 7 - 16 ॥
न
अस्पर्शि दृष्टापि विमोहिकेयं दोषैरशेषैः स्वभियेति
मन्ये ।
अन्येषु तैराकुलितस्तदस्यां
वसति असापत्न्यसुखी गुणौघः ॥ नैषधीयचरितम् - 7 - 17 ॥
औज्झि प्रियाङ्गैर्घृणयैव रूक्षा न वारिदुर्गात्तु वराटकस्य ।
न कण्टकैरावरणाच्च कान्तिर्धूलीभृता काञ्चनकेतकस्य ॥ नैषधीयचरितम् - 7 - 18 ॥
प्रत्यङ्गमस्यामभिकेन रक्षां कर्तुं मघोनेव निजास्त्रम्
अस्ति ।
वज्रं च भूषामणिमूर्तिधारि नियोजितं तद्द्युतिकार्मुकं च ॥ नैषधीयचरितम् - 7 - 19 ॥
अस्याः सपक्षैकविधोः कचौघः स्थाने मुखस्योपरि वासम्
आप ।
पक्षस्थतावद्बहुचन्द्रकोऽपि कलापिनां येन जितः कलापः ॥ नैषधीयचरितम् - 7 - 20 ॥
अस्या यदास्येन पुरस्तिरश्च तिरस्कृतं शीतरुचान्धकारम् ।
स्फुटस्फुरद्भङ्गिकचच्छलेन तदेव पश्चादिदमस्ति बद्धम् ॥ नैषधीयचरितम् - 7 - 21 ॥
अस्याः कचानां शिखिनश्च किंनु विधिं कलापौ विमतेरगाताम् ।
तेनायमेभिः किम्
अपूजि पुष्पैः
अभर्त्सि दत्त्वा स किमर्धचन्द्रम् ॥ नैषधीयचरितम् - 7 - 22 ॥
केशान्धकारादथ दृश्यभालस्थलार्धचन्द्रा स्फुटमष्टमीयम् ।
एनां यदासाद्य जगज्जयाय मनोभुवा सिद्धिः
असाधि साधु ॥ नैषधीयचरितम् - 7 - 23 ॥
पौष्पं धनुः किं मदनस्य दाहे श्यामीभवत्केसरशेषम्
आसीत् ।
व्यधाद् विधेशस्तदपि क्रुधा किं भैमीभ्रुवौ येन विधिः
व्यधत्त ॥ नैषधीयचरितम् - 7 - 24 ॥
भ्रूभ्यां प्रियाया भवता मनोभूचापेन च
आपे घनसारभावः ।
निजां यदप्लोषदशामपेक्ष्य सम्प्रत्यनेनाऽधिकवीर्यता
आर्जि ॥ नैषधीयचरितम् - 7 - 25 ॥
स्मारं धनुर्यद्विधुनोज्झितास्या यास्येन भूतेन च लक्ष्मलेखा ।
एतद्भ्रुवौ जन्म तद्
आप युग्मं लीलाचलत्वोचितबालभावम् ॥ नैषधीयचरितम् - 7 - 26 ॥
एषुत्रयेणैव जगत्त्रयस्य विनिर्जयात्पुष्पमयाशुगेन ।
शेषा द्विबाणी सफलीकृतेयं प्रियादृगम्भोजपदेऽभिषिच्य ॥ नैषधीयचरितम् - 7 - 27 ॥
सेयं मृदुः कौसुमचापयष्टिः स्मरस्य मुष्टिग्रहणार्हमध्या ।
तनोति नः श्रीमदपाङ्गमुक्तां मोहाय या दृष्टिशरौघवृष्टिम् ॥ नैषधीयचरितम् - 7 - 28 ॥
आघूर्णितं पक्ष्मलमक्षिपद्मं प्रान्तद्युतिश्वैत्यजितामृतांशु ।
अस्या इवास्याश्चलदिन्द्रनीलगोलामलश्यामलतारतारम् ॥ नैषधीयचरितम् - 7 - 29 ॥
कर्णोत्पलेनापि मुखं सनाथं
लभेत नेत्रद्युतिनिर्जितेन ।
यद्येतदीयेन ततः कृतार्था स्वचक्षुषी किं
कुरुते कुरङ्गी ॥ नैषधीयचरितम् - 7 - 30 ॥
त्वचः समुत्तार्य दलानि रीत्या मोचात्वचः पञ्चषपाटनायाम् ।
सौरैर्गृहीतैर्विधिरुत्पलौघादस्याम्
अभूद् ईक्षणरूपशिल्पी ॥ नैषधीयचरितम् - 7 - 31 ॥
चकोरनेत्रैणदृगुत्पलानां निमेषयन्त्रेण किमेष कृष्टः ।
सारः सुधोद्गारमयः प्रयत्नैर्विधातुमेतन्नयने विधातुः ॥ नैषधीयचरितम् - 7 - 32 ॥
ऋणीकृता किं हरिनीभिः
आसीद् अस्याः सकाशान्नयनद्वयश्रीः ।
भूयोगुणेयं सकला बलाद्यत्ताभ्योऽनया
अलभ्यत बिभ्यतीभ्यः ॥ नैषधीयचरितम् - 7 - 33 ॥
दृशौ किमस्याश्चपलस्वभावे न दूरमाक्रम्य मिथो
मिलेताम् ।
न चेत्कृतः स्यादनयोः प्रयाणे विघ्नः श्रवःकूपनिपातभीत्या ॥ नैषधीयचरितम् - 7 - 34 ॥
केदारभाजा शिशिरप्रवेशात्पुण्याय
मन्ये मृतमुत्पलिन्या ।
जाता यतस्तत्कुसुमेक्षणेयं यातश्च तत्कोरकदृक्चकोरः ॥ नैषधीयचरितम् - 7 - 35 ॥
नासादसीया तिलपुष्पतूणं जगत्त्रयव्यस्तशरत्रयस्य ।
श्वासानिलामोदभरानुमेयां दधद्द्विबाणीं कुसुमायुधस्य ॥ नैषधीयचरितम् - 7 - 36 ॥
बन्धूकबन्धूभवदेतदस्या मुखेन्दुनानेन सहोज्जिहाना ।
रागश्रिया शैशवयौवनीयां स्वम्
आह सन्ध्यामधरोष्ठलेखा ॥ नैषधीयचरितम् - 7 - 37 ॥
अस्या मुखेन्दावधरः सुधाभूबिम्बस्य युक्तः प्रतिबिम्ब एषः ।
तस्याथवा श्रीर्द्रुमभाजि देशे सम्भाव्यमानस्य तु विद्रुमे सा ॥ नैषधीयचरितम् - 7 - 38 ॥
जाने अतिरागादिदमेव बिम्बं बिम्बस्य च व्यक्तमितोऽधरत्वम् ।
द्वयोर्विशेषावगमाक्षमाणां नाम्नि भ्रमः
अभूद् अनयोर्जनानाम् ॥ नैषधीयचरितम् - 7 - 39 ॥
मध्योपकण्ठावधरोष्ठभागौ
भातः किमप्युच्छ्वसितौ यदस्याः ।
तत्स्वप्नसम्भोगवितीर्णदन्तदंशेन किं वा न मयापराद्धम् ॥ नैषधीयचरितम् - 7 - 40 ॥
विद्या विदर्भेन्द्रसुताधरोष्ठे
नृत्यन्ति कत्यन्तरभेदभाजः ।
इतीव रेखाभिरपश्रमस्ताः संख्यातवान्कौतुकवान्विधाता ॥ नैषधीयचरितम् - 7 - 41 ॥
सम्भुज्यमानाद्य मया निशान्ते स्वप्नेऽनुभूता मधुराधरेयम् ।
असीमलावण्यरदच्छदेत्थं कथं मयैव
प्रतिपद्यते वा ॥ नैषधीयचरितम् - 7 - 42 ॥
यदि प्रसादी
कुरुते सुधांशेरेषा सहस्रांशमपि स्मितस्य ।
तत्कौमुदीनां
कुरुते तमेव निमिच्छय देवः सफलं स जन्म ॥ नैषधीयचरितम् - 7 - 43 ॥
चन्द्राधिकैतन्मुखचन्द्रिकाणां दरायतं तत्किरणाद्धनानाम् ।
पुरःसरस्रस्तपृषद्द्वितीयं रदावलिद्वन्द्वति बिन्दुवृन्दम् ॥ नैषधीयचरितम् - 7 - 44 ॥
सेयं ममैतद्विरहार्तिमूर्च्छातमीविभातस्य
विभाति सन्ध्या ।
महेन्द्रकाष्ठागतरागकर्त्री द्विजैरमीभिः समुपास्यमाना ॥ नैषधीयचरितम् - 7 - 45 ॥
राजौ द्विजानामिह राजदन्ताः
सम्बिभ्रति श्रोत्रियविभ्रमं यत् ।
उद्वेगरागादिमृजावदाताश्चत्वार एते तद्
अवैमि मुक्ताः ॥ नैषधीयचरितम् - 7 - 46 ॥
शिरीषकोषादपि कोमलाया वेधा विधायाङ्गमशेषमस्याः ।
प्राप्तप्रकर्षः सुकुमारसर्गे
समापयत् वाचि मृदुत्वमुद्राम् ॥ नैषधीयचरितम् - 7 - 47 ॥
प्रसूनबाणाद्वयवादिनी सा काचिद्द्विजेनोपनिषत्पिकेन ।
अस्याः किमास्यद्विजराजतो वा न
अधीयते भैक्षभुजा तरुभ्यः ॥ नैषधीयचरितम् - 7 - 48 ॥
पद्माङ्कसद्मानमवेक्ष्य लक्ष्मीमेकस्य विष्णोः श्रयणात्सपत्नीम् ।
आस्येन्दुमस्या
भजते जिताब्जं सरस्वती तद्विजिगीषया किम् ॥ नैषधीयचरितम् - 7 - 49 ॥
कण्ठे वसन्ती चतुरा यदस्याः सरस्वती
वादयते विपञ्चीम् ।
तदेव वाग्भूय मुखे मृगाक्ष्याः श्रोतुः श्रुतौ
याति सुधारसवम् ॥ नैषधीयचरितम् - 7 - 50 ॥
विलोकितास्या मुखमुन्नमय्य किं वेधसेयं सुषमासमाप्तौ ।
धृत्युद्भवा यच्चिबुके
चकास्ति निम्ने मनागङ्गुलियन्त्रणेव ॥ नैषधीयचरितम् - 7 - 51 ॥
प्रियामुखीभूय सुखी सुधांशुः
वसति अयं राहुभयव्ययेन ।
इमां
दधार अधरबिम्बलीलां तस्यैव वालं करचक्रवालम् ॥ नैषधीयचरितम् - 7 - 52 ॥
अस्या मुखस्य
अस्तु न पुर्णमास्यं पूर्णस्य जित्वा महिमा हिमांशुम् ।
भूलक्ष्म खण्डं दधदर्धमिन्दुर्भालस्तृतीयः खलु यस्य भागः ॥ नैषधीयचरितम् - 7 - 53 ॥
व्यधत्त धाता वदनाब्जमस्याः सम्राजमम्भोजकुलेऽखिलेऽपि ।
सरोजराजौ
सृजतः अदसीयां नेत्राभिधेयावत एव सेवाम् ॥ नैषधीयचरितम् - 7 - 54 ॥
दिवारजन्यो रविसोमभीते चन्द्राम्बुजे
निक्षिपतः स्वलक्ष्मीम् ।
आस्ये यदास्या न तदा तयोः श्रीरेकश्रियेदं तु कदा न कान्तम् ॥ नैषधीयचरितम् - 7 - 55 ॥
अस्या मुखश्रीप्रतिविम्बमेव जलाच्च तातान्मुकुराच्च मित्त्रात् ।
अभ्यर्थ्य
धत्तः खलु पद्मचन्द्रौ विभूषणं याचितकं कदाचित् ॥ नैषधीयचरितम् - 7 - 56 ॥
अर्काय पत्ये खलु तिष्ठमाना भृङ्गैर्मितामक्षिभिरम्बुकेलौ ।
भैमीमुखस्य श्रियमम्बुजिन्यो
याचन्ति विस्तारितपद्महस्ताः ॥ नैषधीयचरितम् - 7 - 57 ॥
अस्या मुखेनैव विजित्य नित्यस्पर्द्धी मिलत्कुङ्कुमरोषाभासा ।
प्रसह्य चन्द्रः खलु नह्यमानः
स्याद् एव तिष्ठत्परिवेषपाशः ॥ नैषधीयचरितम् - 7 - 58 ॥
विधोर्विधिर्बिम्बशतानि लोपंलोपं कुहूरात्रिषु मासिमासि ।
अभङ्गुरश्रीकममुं किमस्या मुखेन्दुम्
अस्थापयद् एकशेषम् ॥ नैषधीयचरितम् - 7 - 59 ॥
कपोलपत्त्रान्मकरात्सकेतुभूभ्यां जिगीषुर्धनुषा जगन्ति ।
इहावलम्ब्य
अस्ति रतिं मनोभू रज्यद्वयस्यो मधुनाधरेण ॥ नैषधीयचरितम् - 7 - 60 ॥
वियोगबाष्पाञ्चितनेत्रपद्मच्छद्मार्पितोत्सर्गपयःप्रसूनौ ।
कर्णौ किमस्या रतितत्पतिभ्यां निवेद्यपूपौ विधिशिल्पमीदृक् ॥ नैषधीयचरितम् - 7 - 61 ॥
इह
अविशद् येन पथातिवक्रः शास्त्रौघनिष्यन्दसुधाप्रवाहः ।
सोऽस्याः श्रवःपत्त्रयुगे प्रणालीरेखैव
धावति अभिकर्णकूपम् ॥ नैषधीयचरितम् - 7 - 62 ॥
अस्या यदष्टादश संविभज्य विद्याः श्रुती
दध्रतुः अर्धमर्धम् ।
कर्णान्तरुत्कीर्णगभीररेखः किं तस्य सङ्ख्यैव नवानवाङ्कः ॥ नैषधीयचरितम् - 7 - 63 ॥
मन्ये अमुना कर्णलतामयेन पाशद्वयेन च्छिदुरेतरेण ।
एकाकिपाशं वरुणं
विजिग्ये अनङ्गीकृतायासतती रतीशः ॥ नैषधीयचरितम् - 7 - 64 ॥
आत्मैव तातस्य चतुर्भुजस्य जातश्चतुर्दोरुचितः स्मरोऽपि ।
तच्चापयोः कर्णलते भ्रुवोर्ज्ये वंशत्वगंशौ चिपिटे किमस्याः ॥ नैषधीयचरितम् - 7 - 65 ॥
ग्रीवाद्भुतैवावटुशोभितापि प्रसाधिता माणवकेन सेयम् ।
आलिङ्ग्यताम् अप्यवलम्बमाना सुरूपताभागखिलोर्ध्वकाया ॥ नैषधीयचरितम् - 7 - 66 ॥
कवित्वगानप्रियवादसत्यान्यस्या विधाता
न्यधित अधिकण्ठम् ।
रेखात्रयन्यासमिषादमीषां वासाय सोऽयं
विबभाज सीमाः ॥ नैषधीयचरितम् - 7 - 67 ॥
बाहू प्रियाया
जयतां मृणालं द्वन्द्वे जयो नाम न विस्मयोऽस्मिन् ।
उच्चैस्तु तच्चित्रममुष्य भग्नस्य
आलोक्यते निर्व्यथनं यदन्तः ॥ नैषधीयचरितम् - 7 - 68 ॥
अजीयत अवर्तशुभंयुनाभ्यां दोर्भ्यां मृणालं किमु कोमलाभ्याम् ।
निःसूत्रम्
आस्ते घनपङ्कमृत्सु मूर्तासु नाकीर्तिषु तन्निमग्नम् ॥ नैषधीयचरितम् - 7 - 69 ॥
रज्यन्नखस्याङ्गुलिपञ्चकस्य मिषादसौ हैङ्गुलपद्मतूणे ।
हैमैकपुङ्ख्या
अस्ति विशुद्धपर्वा प्रियाकरे पञ्चशरी स्मरस्य ॥ नैषधीयचरितम् - 7 - 70 ॥
अस्याः करस्पर्धनगर्धनर्द्धिर्बालत्वम्
आपत् खलु पल्लवो यः ।
भूयोऽपि नामाधरसाम्यगर्वं कुर्वन्कथं वा
अस्तु न स प्रवालः ॥ नैषधीयचरितम् - 7 - 71 ॥
अस्यैव सर्गाय भवत्करस्य सरोजसृष्टिर्मम हस्तलेखः ।
इति
आह धाता हरिणेक्षणायां किं हस्तलेखीकृतया तयास्याम् ॥ नैषधीयचरितम् - 7 - 72 ॥
किं नर्मदाया मम सेयमस्या दृश्याभितो बाहुलतामृणाली ।
कुचौ किम्
उत्तस्थतुः अन्तरीपे स्मरोष्मशुष्यत्तरबाल्यवारः ॥ नैषधीयचरितम् - 7 - 73 ॥
तालं प्रभु
स्यात् अनुकर्तुमेतावुत्थानसुस्थौ पतितं न तावत् ।
परं च नाश्रित्य तरुं महान्तं कुचौ कृशाङ्घ्याः स्वत एव तुङ्गौ ॥ नैषधीयचरितम् - 7 - 74 ॥
एतत्कुचस्पर्धितया घटस्य ख्यातस्य शास्त्रेषु निदर्शनत्वम् ।
तस्माच्च शिल्पान्मणिकादिकारी प्रसिद्धनाम
अजनि कुम्भकारः ॥ नैषधीयचरितम् - 7 - 75 ॥
गुच्छालयस्वच्छतमोदबिन्दुवृन्दाभमुक्ताफलफेनिलाङ्के ।
माणिक्यहारस्य विदर्भसुभूपयोधरे
रोहति रोहितश्रीः ॥ नैषधीयचरितम् - 7 - 76 ॥
निःशङ्कसङ्कोचितपङ्कजोऽयमस्यामुदीतो मुखमिन्दुबिम्बः ।
चित्रं तथापि स्तनकोकयुग्मं न स्तोकमपि
अञ्चति विप्रयोगम् ॥ नैषधीयचरितम् - 7 - 77 ॥
आभ्यां कुचाभ्यामिभकुम्भयोः श्रीः
आदीयते असावनयोर्न ताभ्याम् ।
भयेन गोपायितमौक्तिकौ तौ प्रव्यक्तमुक्ताभरणाविमौ यत् ॥ नैषधीयचरितम् - 7 - 78 ॥
कराग्रजाग्रच्छतकोटिरर्थी ययोरिमौ तौ तुलयेत् कुचौ चेत् ।
सर्वं तदा श्रीफलमुन्मदिष्णु जातं वटीमप्यधुना न लब्धुम् ॥ नैषधीयचरितम् - 7 - 79 ॥
स्तनावटे चन्दनपङ्किलेऽस्या जातस्य यावद्युवमानसानाम् ।
हारावलीरत्नमयूखधाराकाराः
स्फुरन्ति स्खलनस्य रेखाः ॥ नैषधीयचरितम् - 7 - 80 ॥
क्षीणेन मध्येऽपि सतोदरेण यत्
प्राप्यते नाक्रमणं वलिभ्यः ।
सर्वाङ्गशुद्धौ तदनङ्गराज्यविजृम्भितं भीमभुवीह चित्रम् ॥ नैषधीयचरितम् - 7 - 81 ॥
मध्यं तनूकृत्य यदीदमीयं वेधा न दध्यात्कमनीयमंशम् ।
केन स्तनौ सम्प्रति यौवनेऽस्याः
सृजेत् अनन्यप्रतिमाङ्गयष्टेः ॥ नैषधीयचरितम् - 7 - 82 ॥
गौरीव पत्या सुभगा कदाचित्कर्तेयमप्यर्धतनूसमस्याम् ।
इतीव मध्ये
विदधे विधाता रोमावलीमेचकसूत्रमस्याः ॥ नैषधीयचरितम् - 7 - 83 ॥
रोमावलीरज्जुमुरोजकुम्भौ गम्भीरमासाद्य च नाभिकूपम् ।
मद्दृष्टितृष्णा
विरमेद् यदि
स्यात् नैषां बतैषासिचयेन गुप्तिः ॥ नैषधीयचरितम् - 7 - 84 ॥
उन्मूलितालानबिलाभनाभिश्छिन्नस्खलच्छृङ्खलरोमराजिः ।
मत्तस्य सेयं मदनद्विपस्य प्रस्वापवप्रोच्चकुचास्तु वास्तु ॥ नैषधीयचरितम् - 7 - 85 ॥
रोमावलिभ्रूकुसुमैः स्वमौर्वीचापेषुभिर्मध्यललाटमूर्ध्नि ।
व्यस्तैरपि स्थास्नुभिरेतदीयैर्जैत्रः स चित्रं रतिजानिवीरः ॥ नैषधीयचरितम् - 7 - 86 ॥
पुष्पाणि बाणाः कुचमण्डनानि भ्रुवौ धनुर्भालमलङ्करिष्णु ।
रोमावली मध्यविभूषणं ज्या तथापि जेता रतिजानिरेतैः ॥ नैषधीयचरितम् - 7 - 87 ॥
अस्याः खलु ग्रन्थिनिबद्धकेशमल्लीकदम्बप्रतिबिम्बवेषात् ।
स्मरप्रशस्ती रजताक्षरेयं पृष्ठस्थलीहाटकपट्तिकायाम् ॥ नैषधीयचरितम् - 7 - 88 ॥
चक्रेण विश्वं युधि मत्स्यकेतुः पितुर्जितं वीक्ष्य सुदर्शनेन ।
जगज्जिगीषत्यमुना नितम्बमयेन किं दुर्लभदर्शनेन ॥ नैषधीयचरितम् - 7 - 89 ॥
रोमावलीदण्डनितम्बचक्रे गुणं च लावण्यजलं च बाला ।
तारुण्यमूर्तेः कुचकुम्भकर्तुः
बिभर्ति शङ्के सहकारिचक्रम् ॥ नैषधीयचरितम् - 7 - 90॥
अङ्गेन केनापि विजेतुमस्या गवेष्यते किं चलपत्त्रपत्त्रम् ।
न चेद्विशेषादितरच्छदेभ्यस्तस्य
अस्तु कम्पस्तु कुतो भयेन ॥ नैषधीयचरितम् - 7 - 91 ॥
भ्रूश्चित्रलेखा च तिलोत्तमास्या नासा च रम्भा च यदूरुसृष्टिः ।
दृष्टा ततः
पूरयति इयमेकानेकाप्सरःप्रेक्षणकौतुकानि ॥ नैषधीयचरितम् - 7 - 92 ॥
रम्भापि किं चह्नयति प्रकाण्डं न चात्मनः स्वेन न चैतदूरू ।
स्वस्यैव येनोपरि सा ददाना पत्त्राणि
जागर्ति अनयोर्भ्रमेण ॥ नैषधीयचरितम् - 7 - 93 ॥
विधाय मूर्धानमधश्चरं चेत्
मुञ्चेत् तपोभिः स्वमसारभावम् ।
जाड्यं च न
अञ्चेत् कदली बलीयस्तदा यदि
स्याद् इदमूरुचारुः ॥ नैषधीयचरितम् - 7 - 94 ॥
ऊरुप्रकाण्डद्वितयेन तन्व्याः करः पराजीयत वारणीयः ।
युक्तं ह्रिया कुण्डलनच्छलेन
गोपायति स्वं मुखपुष्करं सः ॥ नैषधीयचरितम् - 7 - 95 ॥
अस्यां मुनीनामपि मोहम्
ऊहे भृगुर्महान्यत्कुचशैलशीली ।
नानारदाह्लादि मुखं श्रियोरुर्व्यासो महाभारतसर्गयोग्यः ॥ नैषधीयचरितम् - 7 - 96 ॥
क्रमोद्गता पीवरताधिजङ्घं वृक्षाधिरूढं विदुषी किमस्याः ।
अपि भ्रमीभङ्गिभिरावृताङ्गं वासो लतावेष्टितकप्रवीणम् ॥ नैषधीयचरितम् - 7 - 97 ॥
अरुन्धतीकामपुरन्ध्रिलक्ष्मीजम्भद्विषद्दारनवाम्बिकानाम् ।
चतुर्दशीयं तदिहोचितैव गुल्फद्वयाप्ता यददृश्यसिद्धिः ॥ नैषधीयचरितम् - 7 - 98 ॥
अस्याः पदौ चारुतया महान्तावपेक्ष्य सौक्ष्म्याल्लवभावभाजः ।
जाता प्रवालस्य महीरुहाणां
जानीमहे पल्लवशब्दलब्धिः ॥ नैषधीयचरितम् - 7 - 99 ॥
जगद्वधूमूर्धसु रूपदर्पाद्यदेनया
अधायि पदारविन्दम् ।
तत्सान्द्रसिन्दूरपरागरागैर्द्वयं प्रवालप्रबलारुणं तत् ॥ नैषधीयचरितम् - 7 - 100 ॥
रुषारुणा सर्वगुणैर्जयन्त्या भैम्याः पदं श्रीः स्म विधेः
वृणीते ।
ध्रुवं स ताम् अच्छलयत् यतः सा भृशारुणैतत्पदभाग्
विभाति ॥ नैषधीयचरितम् - 7 - 101 ॥
यानेन तन्व्या जितदन्तिनाथौ पादाब्जराजौ परिशुद्धपार्ष्णी ।
जाने न शुश्रूषयितुं स्वमिच्छू नतेन मूर्ध्ना कतरस्य राज्ञः ॥ नैषधीयचरितम् - 7 - 102 ॥
कर्णाक्षिदन्तच्छदबाहुपाणिपादादिनः स्वाखिलतुल्यजेतुः ।
उद्वेगभागद्वयताभिमानादिहैव वेधा
व्यधित द्वितीयम् ॥ नैषधीयचरितम् - 7 - 103 ॥
तुषारनिःशेषितमब्जसर्गं विधातुकामस्य पुनर्विधातुः ।
पञ्चस्विहास्याङ्घ्रिकरेष्वभिख्याभिक्षाधुना मधुकरीसदृक्षा ॥ नैषधीयचरितम् - 7 - 104 ॥
एष्यन्ति यावद्गणनाद्दिगन्तान्नृपाः स्मराताः शरणे प्रवेष्टुम् ।
इमे पदाब्जे विधिनापि सृष्टास्तावत्य एवाङ्गुलयोऽत्र लेखाः ॥ नैषधीयचरितम् - 7 - 105 ॥
प्रियानखीभूतवतो मुदेदं
व्यधाद् विधिः साधुदशत्वमिन्दोः ।
एतत्पदच्छद्मसरागपद्मसौभाग्यभाग्यं कथमन्यथा
स्यात् ॥ नैषधीयचरितम् - 7 - 106 ॥
यशः पदाङ्गुष्ठनखौ मुखं च
बिभर्ति पूर्णेन्दुचतुष्टयं या ।
कलाचतुःषष्टिः
उपैतु वासं तस्यां कथं सुभ्रुवि नाम नास्याम् ॥ नैषधीयचरितम् - 7 - 107 ॥
सृष्टातिविश्वा विधिनैव तावत्तस्यापि नीतोपरि यौवनेन ।
वैदग्ध्यमध्याप्य मनोभुवेयमवापिता वाक्पत्रपारमेव ॥ नैषधीयचरितम् - 7 - 108 ॥
इति स चिकुरादारभ्यैनां नखावधि वर्णयन्हरिणरमणीनेत्रां चित्राम्बुधौ तरदन्तरः ।
हृदयभरणोद्वेलानन्दः सखीवृतभीमजानयनविषयीभावे भावं
दधार धराधिपः ॥ नैषधीयचरितम् - 7 - 109 ॥
श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः
सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
गौडर्वीशकुलप्रशस्तिभणितिभ्रातर्ययं तन्महाकाव्ये चारुणि वैरसेनिचरिते सर्गः
अगमत् सप्तमः ॥ नैषधीयचरितम् - 7 - 110 ॥
।। इति नैषधीयचरितमहाकाव्ये सप्तमसर्गः ।।
अष्टमसर्गः
अथाद्भुतेनास्तनिमेषमुद्रमुन्निद्रलोमानममुं युवानम् ।
दृशा
पपुः ताः सुदृशः समुस्ताः सुता च भीमस्य महीमघोनः ॥ नैषधीयचरितम् - 8 - 1 ॥
कियच्चिरं दैवतभाषितानि निह्नोतुमेनं
प्रभवन्तु नाम ।
पलालजालैः पिहितः स्वयं हि प्रकाशम्
आसादयति इक्षुडिम्भिः ॥ नैषधीयचरितम् - 8 - 2 ॥
अपाङ्गमप्याप दृशोर्न रश्मिर्नलस्य भैमीमभिलष्य यावत् ।
स्मराशुगः सुभ्रुवि तावदस्यां प्रत्यङ्गमापुङ्खशिखं
ममज्ज ॥ नैषधीयचरितम् - 8 - 3 ॥
यदक्रमं विक्रमशक्तिसाम्यादुपाचरद्द्वावपि पञ्चबाणः ।
कथं न वैमत्यममुष्य
चक्रे शरैरनर्धार्धविभागभाग्भिः ॥ नैषधीयचरितम् - 8 - 4 ॥
तस्मिन्नलोऽसाविति सा
अन्वरज्यत् क्षणं क्षणं क्वेह स इति
उदास्त ।
पुनः स्म तस्यां
वलते अस्य चित्तं दूत्यादनेनाथ पुनः
न्यवर्ति ॥ नैषधीयचरितम् - 8 - 5 ॥
कयाचिदालोक्य नलं
ललज्जे कयापि तद्भासि हृदा
ममज्जे ।
तं कापि
मेने स्मरमेव कन्या
भेजे मनोभूवशभूयमन्या ॥ नैषधीयचरितम् - 8 - 6 ॥
कस्त्वं कुतो वेति न जातु
शेकुः तं प्रष्टुमप्यप्रतिभातिभारात् ।
उदस्थुः अभ्युत्थितिवाञ्छयेव निजासनान्नेकरसाः कृशाङ्ग्यः ॥ नैषधीयचरितम् - 8 - 7 ॥
स्वाच्छन्द्यमानन्दपरम्पराणां भैमी तमालोक्य किमपि
अवाप ।
महारयं निर्झरिणीव वारामासाद्य धाराधरकेलिकालम् ॥ नैषधीयचरितम् - 8 - 8 ॥
तत्रैव मग्ना यद्
अपश्यद् अग्रे नास्यादृगस्थाङ्गम्
अयास्यद् अन्यत् ।
न
अदास्यद् अस्यै यदि बुद्धिधारां विच्छिद्य विच्छिद्य चिरान्निमेष ॥ नैषधीयचरितम् - 8 - 9 ॥
दृशापि सालिङ्गितमङ्गमस्य
जग्राह नाग्रावगताङ्गहर्षैः ।
सङ्गान्तरेऽनन्तरमीक्षिते तु निवृत्य
सस्मार न पूर्वदृष्टम् ॥ नैषधीयचरितम् - 8 - 10 ॥
हित्वैकमस्यापघनं विशन्ती तद्दृष्टिरङ्गान्तरभुक्तिसीमाम् ।
चिरं
चकार उभयलाभलोभात्स्वभावलोला गतमागतम् ॥ नैषधीयचरितम् - 8 - 11 ॥
निरीक्षितं चाङ्गमवीक्षितं च दृशा पिबन्ती रभसेन तस्य ।
समानमानन्दमियं दधाना
विवेद भेदं न विदर्भसुभ्रुः ॥ नैषधीयचरितम् - 8 - 12 ॥
सूक्ष्मे घने नैषधकेशपाशे निपत्य निस्पन्दतरीभवद्भ्याम् ।
तस्यानुबन्धं न विमोच्य गन्तुम्
अपारि तल्लोचनखञ्जनाभ्याम् ॥ नैषधीयचरितम् - 8 - 13 ॥
भूलोकभर्तुर्मुखपाणिपादपद्मैः परीरम्भमवाप्य तस्य ।
दमस्वसुर्दृष्टिसरोजराजिश्चिरं न
तत्याज सबन्धुबन्धम् ॥ नैषधीयचरितम् - 8 - 14 ॥
तत्कालमानन्दमयीभवन्ती भवत्तरानिर्वचनीयमोहा ।
सा मुक्तसंसारिदशारसाभ्यां द्विस्वादमुल्लासम्
अभुङ्क्त मिष्टम् ॥ नैषधीयचरितम् - 8 - 15 ॥
दूते नलश्रीभृति भाविभावा कलङ्किनीयं जनितेति नूनम् ।
न स
व्यधात् नैषाधकायमायं विधिः स्वयं दूतमिमां प्रतीन्द्रम् ॥ नैषधीयचरितम् - 8 - 16 ॥
पुण्ये मनः कस्य मुनेरपि
स्यात् प्रमाणम्
आस्ते यदघेऽपि धावत् ।
तच्चिन्ति चित्तं परमेश्वरस्तु भक्तस्य हृष्यत्करुणो
रुणद्धि ॥ नैषधीयचरितम् - 8 - 17 ॥
सालीकदृष्टे मदनोन्मदिष्णुर्यथ
आप शालीनतमा न मौनम् ।
तथैव तथ्येऽपि नले न
लेभे मुग्धेषु कः सत्यमृषाविवेकः ॥ नैषधीयचरितम् - 8 - 18 ॥
व्यर्थीभवद्भावपिधानयत्ना स्वरेण साथ श्लथगद्गदेन ।
सखीचये साध्वसबद्धवाचि स्वयं तम्
ऊचे नमदाननेन्दुः ॥ नैषधीयचरितम् - 8 - 19 ॥
नत्वा शिरोरत्नरुचापि पाद्यं सम्पाद्यमाचारविदातिथिभ्यः ।
प्रियाक्षरालीरसधारयापि वैधी विधेया मधुपर्कतृप्तिः ॥ नैषधीयचरितम् - 8 - 20 ॥
स्वात्मापि शीलेन तृणं विधेयं देया विहायासनभूर्निजापि ।
आनन्दबाष्पैरपि कल्प्यमम्भः पृच्छा विधेया मधुभिर्वचोभिः ॥ नैषधीयचरितम् - 8 - 21 ॥
पदोपहोरेऽनुपनम्रतापि
सम्भाव्यते अपां त्वरयापराधः ।
तत्कर्तुमर्हाञ्जलिसञ्जनेन स्वसम्भृतिः प्राञ्जलतापि तावत् ॥ नैषधीयचरितम् - 8 - 22 ॥
पुरा परित्यज्य मया
अत्यसर्जि स्वमासनं तत्किमिति क्षणं न ।
अनर्हमप्येतद् अलं
क्रियेत प्रयातुमीहा यदि चान्यतोऽपि ॥ नैषधीयचरितम् - 8 - 23 ॥
निवेद्यतां हन्त समापयन्तौ शिरीषकोषम्रदिमाभिमानम् ।
पादौ कियद्दूरमिमौ प्रयासे निधित्सते तुच्छदयं मनस्ते ॥ नैषधीयचरितम् - 8 - 24 ॥
अनायि देशः कतमस्त्वयाद्य वसन्तमुक्तस्य दशां वनस्य ।
त्वदाप्तसङ्केततया कृतार्था श्रव्यापि नानेन जनेन संज्ञा ॥ नैषधीयचरितम् - 8 - 25 ॥
तीर्णः किमर्णोनिधिरेव नैष सुरक्षिता
अभूद् इह यत्प्रवेशः ।
फलं किमेतस्य तु साहसस्य न तावदद्यापि
विनिश्चिनोमि ॥ नैषधीयचरितम् - 8 - 26 ॥
तव प्रवेशे सुकृतानि हेतुर्मन्ये मदक्ष्णोरपि तावदत्र ।
न लक्षितो रक्षिभटैर्यदाभ्यां पीतः
असि तन्वा जितपुष्पधन्वा ॥ नैषधीयचरितम् - 8 - 27 ॥
यथा कृतिः काचन ते यथावा दौवारिकान्धङ्करणी च शक्तिः ।
रुच्यो रुचीभिर्जितकाञ्चनीभिस्तथा
असि पीयूषभुजां सनाभिः ॥ नैषधीयचरितम् - 8 - 28 ॥
न मन्मथस्त्वं स हि नास्तिमूर्तिर्न चाश्विनेयः स हि नाद्वितीयः ।
चिह्नैः किमन्यैरथवा तवेयं श्रीरेव ताभ्यामधिको विशेषः ॥ नैषधीयचरितम् - 8 - 29 ॥
आलोकतृप्तीकृतलोक यस्त्वाम्
असूत पीयूषमयूखमेनम् ।
कः स्पर्धितुं
धावति साधु सार्धमुदन्वता नन्वयमन्ववायः ॥ नैषधीयचरितम् - 8 - 30 ॥
भूयोऽपि बाला नलसुन्दरं तं मत्वामरं रक्षिजनाक्षिबन्धात् ।
आतिथ्यचाटून्यपदिश्य तत्स्थां श्रियं प्रियस्य
अस्तुत वस्तुतः सा ॥ नैषधीयचरितम् - 8 - 31 ॥
वाग्जन्मवैफल्यमसह्यशल्यं गुणाद्भुते वस्तुनि मौनिता चेत् ।
खलत्वमल्पीयसि जल्पितेऽपि तद्
अस्तु बन्दिभ्रमभूमितैव ॥ नैषधीयचरितम् - 8 - 32 ॥
कन्दर्प एवेदम्
अविन्दत त्वां पुण्येन
मन्ये पुनरन्यजन्म ।
चण्डीशचण्डाक्षिहुताशकुण्डे
जुहाव यन्मन्दिरमिन्द्रियाणाम् ॥ नैषधीयचरितम् - 8 - 33 ॥
शोभायशोभिर्जितशैवशैलं
करोषि लज्जागुरुमौलिमैलम् ।
दस्रौ हठश्रीहरणादुदस्रौ कन्दर्पमप्युज्झितरूपदर्पम् ॥ नैषधीयचरितम् - 8 - 34 ॥
अवैमि हंसावलयो वलक्षास्त्वत्कान्तिकीर्तेश्चपलाः पुलाकाः ।
उड्डीय युक्तं पतिताः स्रवन्तीवेशन्तपूरं परितः
प्लवन्ते ॥ नैषधीयचरितम् - 8 - 35 ॥
भवत्पदाङ्गुष्ठमपि श्रिता श्रीर्ध्रुवं न लब्धा कुसुमायुधेन ।
रतीशजेतुः खलु चिह्नमस्मिन्नर्धेन्दुः
आस्ते नखवेषधारी ॥ नैषधीयचरितम् - 8 - 36 ॥
राजा द्विजानामनुमासभिन्नः पूर्णां तनूकृत्य तनूं तपोभिः ।
कुहूषु दृश्येतरतां किम्त्य सायुज्यम्
आप्नोति भवन्मुखस्य ॥ नैषधीयचरितम् - 8 - 37 ॥
कृत्वा दृशौ ते बहुवर्णचित्रे किं कृष्णसारस्य तयोर्मृगस्य ।
अदूरजाग्रद्विदरप्रणालीरेखाम्
अयच्छद् विधिरर्धचन्द्रम् ॥ नैषधीयचरितम् - 8 - 38 ॥
मुग्धः स मोहात्सुभगान्न देहाद्दद्भवद्भ्रूरचनाय चापम् ।
भ्रूभङ्गजेयस्तव यन्मनोभूरनेन रूपेण यदातदा
अभूत् ॥ नैषधीयचरितम् - 8 - 39 ॥
मृगस्य नेत्रद्वितयं तवास्ये विधौ विधुत्वानुमितस्य दृश्यम् ।
तस्यैव चञ्चत्कचपाशवेषः पुच्छः स्फुरच्चामरगुच्छ एषः ॥ नैषधीयचरितम् - 8 - 40 ॥
आस्ताम् अनङ्गीकरणाद्भवेन दृश्यः स्मरो नेति पुराणवाणी ।
तवैव देहं श्रितया श्रियेति नवस्तु वस्तु
प्रतिभाति वादः ॥ नैषधीयचरितम् - 8 - 41 ॥
त्वया जगत्युच्चितकान्तिसारे यदिन्दुनाशीलि शिलोञ्छवृत्तिः ।
आरोपि तन्माणवकोऽपि मौलौ स यज्वराज्येऽपि महेश्वरेण ॥ नैषधीयचरितम् - 8 - 42 ॥
आदेहदाहं कुसुमायुधस्य विधाय सौन्दर्यकथादरिद्रम् ।
त्वदङ्गशिल्पात्पुनरीश्वरेण चिरेण
जाने जगद्
अन्वकम्पि ॥ नैषधीयचरितम् - 8 - 43 ॥
मही कृतार्था यदि मानवः
असि जितं दिवा यद्यमरेषु कोऽपि ।
कुलं त्वयालङ्कृतमौरगं चेन्नाधोऽपि कस्योपरि नागलोकः ॥ नैषधीयचरितम् - 8 - 44 ॥
सेयं न
धत्ते अनुपपत्तिमुच्चैर्मच्चित्तवृत्तिस्त्वयि चिन्त्यमाने ।
ममौ स भद्रं चुलुके समुद्रस्त्वयात्तगाम्भीर्यमहत्त्वमुद्रः ॥ नैषधीयचरितम् - 8 - 45 ॥
संसारसिन्धावनुबिम्बमत्र
जागर्ति जाने तव वैरसेनिः ।
बिम्बानुबिम्बौ हि विहाय धातुर्न जातु दृष्टातिसरूपसृष्टिः ॥ नैषधीयचरितम् - 8 - 46 ॥
इयत्कृतं केन महीजगत्यामहो महीयः सुकृतं जनेन ।
पादौ यमुद्दिश्य तवापि पद्यारजःसु पद्मस्रजम्
आरभेते ॥ नैषधीयचरितम् - 8 - 47 ॥
ब्रवीति ते किं किमियं न
जाने सन्देहदोलामवलम्ब्य संवित् ।
कस्यापि धन्य्स्य गृहातिथिस्त्वमलीकसम्भावनयाथवालम् ॥ नैषधीयचरितम् - 8 - 48 ॥
प्राप्तैव तावत्तव रूपसृष्तिं निपीय दृष्टिर्जनुषः फलं मे ।
अपि श्रुती नामृतम्
आद्रियेतां तयोः प्रसादी
कुरुषे गिरं चेत् ॥ नैषधीयचरितम् - 8 - 49 ॥
इत्थं मधूत्थं रसमुद्गिरन्ती तदोष्ठबन्धूकधनुर्विसृष्टा ।
कर्णात्प्रसूनाशुगपञ्चबाणी वाणीमिषेणास्य मनो
विवेश ॥ नैषधीयचरितम् - 8 - 50 ॥
अमज्जद् आकण्ठमंसौ सुधासु प्रियं प्रियाया वचनं निपीय ।
द्विषन्मुखेऽपि
स्वदते स्तुतिर्या तन्मि(न्मृ)ष्टता नेष्टमुखे त्वमेया ॥ नैषधीयचरितम् - 8 - 51 ॥
पौरस्त्यशैलं जनतोपनीतां गृह्णन्यथाह्नः पतिरर्घ्यपूजाम् ।
तथातिथेयीमथ सम्प्रतीच्छन्प्रियार्पितामासनम्
आससाद ॥ नैषधीयचरितम् - 8 - 52 ॥
अयोधि तद्धैर्यमनोभवाभ्यां तामेव भैमीमवलम्ब्य भूमिम् ।
आह स्म यत्र स्मरचापमन्तश्छिन्नं भ्रुवौ तज्जयभङ्गवार्ताम् ॥ नैषधीयचरितम् - 8 - 53 ॥
अथ स्मराज्ञामवधीर्य धैर्याद्
ऊचे स तद्वागुपवीणितोऽपि ।
विवेकधाराशतधौतमन्तः सतां न कामः कलुषी
करोति ॥ नैषधीयचरितम् - 8 - 54 ॥
हरित्पतीनां सदसः
प्रतीहि त्वदीयमेवातिथिमागतं माम् ।
वहन्तमन्तर्गुरुणादरेण प्राणानिव स्वःप्रभुवाचिकानि ॥ नैषधीयचरितम् - 8 - 55 ॥
विरम्यतां भूतवती सपर्या
निविश्यताम् आसनमुज्झितं किम् ।
या दूतता नः फलिना विधेया सैवातिथेयी पृथुरुद्भवित्री ॥ नैषधीयचरितम् - 8 - 56 ॥
कल्याणि कल्यानि तवाङ्गकानि कच्चित्तमां चित्तमनाविलं ते ।
अलं विलम्बेन गिरं मदीयाम्
आकर्णय आकर्णतटायताक्षि ॥ नैषधीयचरितम् - 8 - 57 ॥
कौमारमारभ्य गणा गुणानां
हरन्ति ते दिक्षु धृताधिपत्यान् ।
सुराधिराजं सलिलाधिपं च हुताशनं चर्यमनन्दनं च ॥ नैषधीयचरितम् - 8 - 58 ॥
चरच्चिरं शैशवयौवनीयद्वैराज्यभाजि त्वयि खेदम्
एति ।
तेषां रुचश्चौरतरेण चित्तं पञ्चेषुणा लुण्ठितधैर्यवित्तम् ॥ नैषधीयचरितम् - 8 - 59 ॥
तेषामिदानीं किल केवलं सा हृदि त्वदाशा
विलसति अजस्रम् ।
आशास्तु नासाद्य तनूरुदाराः पूर्वादयः पूर्ववदात्मदाराः ॥ नैषधीयचरितम् - 8 - 60 ॥
अनेन सार्धं तव यौवनेन कोटिं परामच्छिदुरः
अध्यरोहत् ।
प्रेमापि तन्वि त्वयि वासवस्य गुणोऽपि चापे सुमनःशरस्य ॥ नैषधीयचरितम् - 8 - 61 ॥
प्राचीं प्रयाते विरहादयं ते तापाच्च रूपाच्च शशाङ्कशङ्की ।
परापराधैः
निदधाति भानौ रुषारुणं लोचनवृन्दमिन्द्रः ॥ नैषधीयचरितम् - 8 - 62 ॥
त्रिनेत्रमाट्रेण रुषा कृतं यत्तदेव योऽद्यापि न
संवृणोति ।
न वेद रुष्टेऽद्य सहस्रनेत्रे
गन्ता स कामः खलु कामवस्थाम् ॥ नैषधीयचरितम् - 8 - 63 ॥
पिकस्य वाङ्मात्राकृताद्व्यलीकान्न स प्रभुः
नन्दति नन्दनेऽपि ।
बालस्य चूडाशशिनोऽपराधान्नाराधनं
शीलति शूलिनोऽपि ॥ नैषधीयचरितम् - 8 - 64 ॥
तमोमयीकृत्य दिशः परागैः स्मरेषवः शक्रदृशां
दिशन्ति ।
कुहूगिरश्चञ्चुपुटं द्विजस्य राकारजन्यामपि सत्यवाचम् ॥ नैषधीयचरितम् - 8 - 65 ॥
शरैः प्रसूनैस्तुदतः स्मरस्य स्मर्तुं स किं नाशनिना
करोति ।
अभेद्यमस्याहह वर्म न
स्याद् अनङ्गता चेद्गिरिशप्रसादः ॥ नैषधीयचरितम् - 8 - 66 ॥
धृताधृतेस्तस्य भवद्वियोगादन्यान्यशय्यारचनाय लूनैः ।
अप्यन्यदारिद्र्यहराः प्रवालैजीता दरिद्रास्तरवोऽमराणाम् ॥ नैषधीयचरितम् - 8 - 67 ॥
रवैर्गुणास्फालभवैः स्मरस्य स्वर्णाथकर्णौ बधिरौ
अभूताम् ।
गुरोः
शृणोतु स्मरमोहनिद्राप्रबोधदक्षाणि किमक्षराणि ॥ नैषधीयचरितम् - 8 - 68 ॥
अनङ्गतापप्रशमाय तस्य कदर्थ्यमाना मुहुरामृणालम् ।
मधौमधौ नाकनदीनलिन्यो वरं
वहन्तां शिशिरेऽनुरागम् ॥ नैषधीयचरितम् - 8 - 69 ॥
दमस्वसः सेयम्
उपैति तृष्णा हरेर्जगत्यग्रिमलेख्यलक्ष्मीम् ।
दृशां यदब्धिस्तव नाम दृष्टित्रिभागलोभार्तिमसौ
बिभर्ति ॥ नैषधीयचरितम् - 8 - 70 ॥
अग्न्याहिता नित्यमुपासते यां देदीप्यमानां तनुमष्टामूर्तेः ।
आशापतिस्ते दमयन्ति सोऽपि स्मरेण दासीभवितुं
न्यदेशि ॥ नैषधीयचरितम् - 8 - 71 ॥
त्वद्गोचरस्तं खलु पञ्चबाणः
करोति सन्ताप्य तथा विनीतम् ।
स्वयं यथा स्वादिततप्तभूयः परं न सन्तापयिता स भूयः ॥ नैषधीयचरितम् - 8 - 72 ॥
अदाहि यस्तेन दशार्धबाणः पुरापुरारेर्नयनालयेन ।
न निर्दहंस्तं भवदक्षिवासी न वैरशुद्धेरधुनाधमर्णः ॥ नैषधीयचरितम् - 8 - 73 ॥
सोमाय कुप्यन्निव विप्रयुक्तः स सोमम्
आचामति दूयमानम् ।
नामापि
जागर्ति हि यत्र शत्रोस्तेजस्विनस्तं कतमे
सहन्ते ॥ नैषधीयचरितम् - 8 - 74 ॥
शरैरजस्रं कुसुमायुधस्य कदर्थ्यमानस्तरुणि त्वदर्थे ।
अभ्यर्चयद्भिर्विनिवेद्यमानादप्येष
मन्ये कुसुमाद्
बिभेति ॥ नैषधीयचरितम् - 8 - 75 ॥
स्मरेन्धने वक्षसि तेन दत्ता संवर्तिका शैवलवल्लिचित्रा ।
चकास्ति चेतोभवपावकस्य धूमाविला कीलपरम्परेव ॥ नैषधीयचरितम् - 8 - 76 ॥
पुत्री सुहृद्येन सरोरुहाणां यत्प्रेयसी चन्दनवासिता दिक् ।
धैर्यं विभुः सोऽपि तयैव हेतोः स्मरप्रतापज्वलने
जुहाव ॥ नैषधीयचरितम् - 8 - 77 ॥
तं दह्यमानैरपि मन्मथैधं हस्तैः
उपास्ते मलयः प्रवालैः ।
कृच्छ्रेऽप्यसौ न
उज्झति तस्य सेवां सदा यदाशाम्
अवलम्बते यः ॥ नैषधीयचरितम् - 8 - 78 ॥
स्मरस्य कीर्त्येव सितीकृतानि तद्दोःप्रतापैरिव तापितानि ।
अङ्गानि
धत्ते स भवद्वियोगात्पाण्डूनि चण्डज्वरजर्जराणि ॥ नैषधीयचरितम् - 8 - 79 ॥
यस्तन्वि भर्ता घुसृणेन सायं दिशः समालम्भनकौतुकिन्याः ।
तदा स चेतः
प्रजिघाय तुभ्यं यदा गतो न
एति निवृत्य पान्थः ॥ नैषधीयचरितम् - 8 - 80 ॥
तथा न तापाय पयोनिधीनामश्वामुखोत्थः क्षुधितः शिखावान् ।
निजः पतिः सम्प्रति वारिपोपि यथा हृदिस्थः स्मरतापदुःस्थः ॥ नैषधीयचरितम् - 8 - 81 ॥
अत्प्रत्युत त्वन्मृदुबाहुवल्लीस्मृतिस्रजं गुम्फति दुर्विनीता ।
ततो
विधत्ते अधिकमेव तापं तेन श्रिता शैत्यगुणा मृणाली ॥ नैषधीयचरितम् - 8 - 82 ॥
न्यस्तं ततस्तेन मृणालदण्डखण्डं
बभासे हृदि तापभाजि ।
तच्चित्तमग्नैर्मदनस्य बाणैः कृतं शतच्छिद्रमिव क्षणेन ॥ नैषधीयचरितम् - 8 - 83 ॥
इति त्रिलोकीतिलकेषु तेषु मनोभुवो विक्रमकामचारः ।
अमोघमस्त्रं भवतीमवाप्य मदान्धतानर्गलचापलस्य ॥ नैषधीयचरितम् - 8 - 84 ॥
सारोत्थधारेव सुधारसस्य स्वयंवरः श्वो
भविता तवेति ।
सन्तर्पयन्ती हृदयानि तेषां श्रुतिः श्रुती नाकजुषाम्
अयासीत् ॥ नैषधीयचरितम् - 8 - 85 ॥
समं सपत्नीभवदुःखतीक्ष्णैः स्वदारनासापथिकैर्मरुद्भिः ।
अनङ्गशौर्यानलतापदुःस्थैरथ
प्रतस्थे हरितां मरुद्भिः ॥ नैषधीयचरितम् - 8 - 86 ॥
अपास्तपाथेयसुधोपयोगैस्त्वच्चुम्बिनैव स्वमनोरथेन ।
क्षुधं च निर्वापयता तृषं च स्वादीयसाऽध्वा गमितः सुखं तैः ॥ नैषधीयचरितम् - 8 - 87 ॥
प्रिया मनोभूशरदावदाहे देवीस्त्वदर्थेन निमज्जयद्भिः ।
सुरेषु सारैः
क्रियते अधुना तैः पादार्पणानुग्रहभूरियं भूः ॥ नैषधीयचरितम् - 8 - 88 ॥
अलङ्कृतासन्नमहीविभागैरयं जनस्तैरमरैर्भवत्याम् ।
अवापितो जङ्गमलेखलक्ष्मीं निक्षिप्य सन्देशमयाक्षराणि ॥ नैषधीयचरितम् - 8 - 89 ॥
एकैकमेते परिरभ्य पीनस्तनोपपीडं त्वयि
सन्दिशन्ति ।
त्वं मूर्च्छतां नः स्मरभिल्लशल्यैर्मुदे विशल्यौषधिवल्लिः
एधि ॥ नैषधीयचरितम् - 8 - 90 ॥
त्वत्कान्तिमस्माभिरयं पिपासन्मनोरथाश्वासनयैकयैव ।
निजः कटाक्षः खलु विप्रलभ्यः कियन्ति यावद्भण वासराणि ॥ नैषधीयचरितम् - 8 - 91 ॥
निजे
सृज अस्मासु भुजे भजन्त्यावादित्यवर्गे परिवेषवेषम् ।
प्रसीद निर्वापय तापमङ्गैरनङ्गलीलालहरीतुषारैः ॥ नैषधीयचरितम् - 8 - 92 ॥
दयस्व नो
घातय त्वमस्माननङ्गचण्डालशरैरदृश्यैः ।
भिन्ना वरं तीक्ष्णकटाक्षबाणैः प्रेमस्तव प्रेमरसात्पवित्रैः ॥ नैषधीयचरितम् - 8 - 93 ॥
त्वदर्थिनः
सन्तु परस्सहस्राः प्राणास्तु नस्त्वच्चरणप्रसादः ।
विशङ्कसे कैतवनर्तितं चेदन्तश्चरः पञ्चशरः प्रमाणम् ॥ नैषधीयचरितम् - 8 - 94 ॥
अस्माकमध्यासितमेतदन्तस्तावद्भवत्या हृदयं चिराय ।
बहिस्त्वया अलं
क्रियताम् इदानीमुरो मुरं विद्विषतः श्रियेव ॥ नैषधीयचरितम् - 8 - 95 ॥
दयोदयश्चेतसि चेत्तव
अभूद् अलं
कुरु द्यां विफलो विलम्बः ।
भुवः स्वरादेशमथ
आचरामो भूमौ धृतिं
यासि यदि स्वभूमौ ॥ नैषधीयचरितम् - 8 - 96 ॥
धिनोति नास्माञ्जलजेन पूजा त्वयान्वहं तन्वि वितन्यमाना ।
तव प्रसादोपनते तु मौलौ पूजा
अस्तु नस्त्वत्पदपङ्कजाभ्याम् ॥ नैषधीयचरितम् - 8 - 97 ॥
स्वर्णैर्वितीर्णैः
करवाम वामनेत्रे भवत्या किमुपासनासु ।
अङ्ग त्वदङ्गानि निपीतपीतदर्पाणि पाणिः खलु
याचते नः ॥ नैषधीयचरितम् - 8 - 98 ॥
वयं कलादा इव दुर्विदग्धं त्वद्गौरिमस्पर्धि
दहेम हेम ।
प्रसूननाराचशरासनेन सहैकवंशप्रभवभ्रु बभु ॥ नैषधीयचरितम् - 8 - 99 ॥
सुधासरःसु त्वदनङ्गतापः शान्तो न नः किं पुनरप्सरःसु ।
निर्वाति तु त्वन्ममताक्षरेण सूनाशुगेषोर्मधुसीकरेण ॥ नैषधीयचरितम् - 8 - 100 ॥
खण्डः किमु त्वद्गिर एव खण्डः किं शर्करा तत्पथशर्करैव ।
कृशाङ्गि तद्भङ्गिरसोत्थकच्छतृणं न दिक्षु प्रथितं तदिक्षुः ॥ नैषधीयचरितम् - 8 - 101 ॥
ददाम किं ते सुधयाऽधरेण त्वदास्य एव स्वयम्
आस्यते हि ।
चन्द्रं विजित्य स्वयमेव भावि त्वदाननं तन्मखभागभोजि ॥ नैषधीयचरितम् - 8 - 102 ॥
प्रिये
वृणीष्व अमरभावमस्मदिति त्रपाकृद्वचनं न किं नः ।
त्वत्पादपद्मे शरणं प्रविश्य स्वयं वयं येन जिजीविषामः ॥ नैषधीयचरितम् - 8 - 103 ॥
नास्माकमस्मान्मदनापमृत्योस्त्राणाय पीयूषरसायनानि ।
प्रसीद तस्मादधिकं निजं तु
प्रयच्छ पातुं रदनच्छदं नः ॥ नैषधीयचरितम् - 8 - 104 ॥
पृष्टः स्वैश्चापरोपैः सह स हि मकरेणात्मभूः केतुना
अभूद् धत्तां नस्त्वत्प्रसादादथ मनसिजतां मानसो नन्दनः सन् ।
भ्रूभ्यां ते तन्वि धन्वी
भवतु तव सितैर्जैत्रभल्लः स्मितैस्ताद्
अस्तु त्वन्नेत्रचञ्चत्तरशफरयुगाधीनमीनध्वजाङ्कः ॥ नैषधीयचरितम् - 8 - 105 ॥
स्वप्नेन प्रापितायाः प्रतिरजनि तव श्रीषु मग्नः कटाक्षः श्रोत्रे गीतामृताब्धौ त्वगपि ननु तनूमञ्जरीसौकुमार्ये ।
नासा श्वासाधिवासेऽधरमधुनि रसज्ञा चरित्रेषु चित्तं तन्नस्तन्वङ्गि कैश्चिन्न करणहरिणैर्वागुरा लङ्घिता
असि ॥ नैषधीयचरितम् - 8 - 106 ॥
इति धृतसुरसार्थवाचिकस्रङ्निजरसनातलपत्त्रहारकस्य ।
सफलय मम दूततां
वृणीष्व स्वयमवधार्य दिगीशमेकमेषु ॥ नैषधीयचरितम् - 8 - 107 ॥
आनन्दयेन्द्रमथ मन्मथमग्नमग्निं केलीभिः
उद्धर तनूदरि नूतनाभिः ।
आसादय उदितदयं शमने मनो वा नो वा यदीत्थमथ तद्वरुणं वृणीथाः ॥ नैषधीयचरितम् - 8 - 108 ॥
श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः
सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
तस्य
अगाद् अयमष्टमः कविकुलादृष्टाध्वपान्थे महाकाव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥ नैषधीयचरितम् - 8 - 109 ॥
।। इति नैषधीयचरितमहाकाव्ये अष्टमसर्गः ।।
नवमसर्गः
इतीयमक्षिभ्रुवविभ्रमेङ्गितस्फुटामनिच्छां विवरीतुमुत्सुका ।
तदुक्तिमात्रश्रवणेच्छया
अशृणोद् दिगीशसंदेशगिरं न गौरवात् ॥ नैषधीयचरितम् - 9 - 1 ॥
तदर्पितामश्रुतवद्विधाय तां दिगीशसंदेशमयीं सरस्वतीम् ।
इदं तमुर्वीतलशीतलद्युतिं
जगाद वैदर्भनरेन्द्रनन्दिनी ॥ नैषधीयचरितम् - 9 - 2 ॥
मयाङ्ग पृष्टः कुलनामनी भवानमू विमुच्यैव किमन्यदुक्तवान् ।
न मह्यमत्रोत्तरधारयस्य किं ह्रियेऽपि सेयं भवतोऽधमर्णता ॥ नैषधीयचरितम् - 9 - 3 ॥
अदृश्यमाना क्वचिदीक्षिता क्वचिन्ममानुयोगे भवतः सरस्वती ।
क्वचित्प्रकाशां क्वचिदस्फुटार्णसं सरस्वतीं जेतुमनाः सरस्वतीम् ॥ नैषधीयचरितम् - 9 - 4 ॥
गिरः श्रुता एव तव श्रवःसुधाः श्लथा भवन्नाम्नि तु न श्रुतिस्पृहा ।
पिपासुता शान्तिम्
उपैति वारिजा न जातु दुग्धान्मधुनोऽधिकादपि ॥ नैषधीयचरितम् - 9 - 5 ॥
बिभर्ति वंशः कतमस्तमोपहं भवादृशं नायकरत्नमीदृशम् ।
तमन्यसामान्यधियावमानितं त्वया महान्तं बहु मन्तुम्
उत्सहे ॥ नैषधीयचरितम् - 9 - 6 ॥
इतीरयित्वा विरतां स तां पुनर्गिरानुजग्राहतरां नराधिपः ।
विरुत्य विश्रान्तवतीं तपात्यये घनाघनश्चातकमण्डलीमिव ॥ नैषधीयचरितम् - 9 - 7 ॥
अये ममोदासितमेव जिह्वया द्वयेऽपि तस्मिन्ननतिप्रयोजने ।
गरौ गिरः पल्लवनार्थलाघवे मितं च सारं च वचो हि वाग्ग्मिता ॥ नैषधीयचरितम् - 9 - 8 ॥
वृथा कथेयं मयि वर्णपद्धतिः कयानुपूर्व्या समकेति केति च ।
क्षमे समक्षव्यवहारमावयोः पदे विधातुं खलु युष्मदस्मदी ॥ नैषधीयचरितम् - 9 - 9 ॥
यदि स्वभावान्मम नोज्ज्वलं कुलं ततस्तदुद्भावनमौचिती कुतः ।
अथावदातं तदहो विडम्बना तथा कथा प्रेष्यतयोपसेदुषः ॥ नैषधीयचरितम् - 9 - 10 ॥
इति प्रतीत्यैव मयावधीरिते तवापि निर्बन्धरसो न
शोभते ।
हरित्पतीनां प्रतिवाचिकं प्रति श्रमो गिरां ते
घटते हि सम्प्रति ॥ नैषधीयचरितम् - 9 - 11 ॥
तथापि
निर्बध्नति तेऽथवा स्पृहामिह
अनुरुन्धे मितया न किं गिरा ।
हिमांशुवंशस्य करीरमेव मां निशम्य किं न
असि फलेग्रहिग्रहा ॥ नैषधीयचरितम् - 9 - 12 ॥
महाजनाचारपरम्परेदृशी स्वनाम नाम
आददते न साधवः ।
अतोऽभिधातुं न तद्
उत्सहे पुनर्जनः किलाचारमुचं
विगायति ॥ नैषधीयचरितम् - 9 - 13 ॥
अदोऽयमालप्य शिखीव शारदो
बभूव तूष्णीमहितापकारकः ।
अथास्यरागस्य दधा पदेपदे वचांसि हंसीव विदर्भजा
आददे ॥ नैषधीयचरितम् - 9 - 14 ॥
सुधांशुवंशाभरणं भवानिति श्रुतेऽपि न
अपैति विशेषसंशयः ।
कियत्सु मौनं वितता कियत्सु वाग्महत्यहो वञ्चनचातुरी तव ॥ नैषधीयचरितम् - 9 - 15 ॥
मयापि देयं प्रतिवाचिकं न ते स्वनाम मत्कर्णसुधाम् अकुर्वते ।
परेण पुंसा हि ममापि संकथा कुलाबलाचारसहासनासहा ॥ नैषधीयचरितम् - 9 - 16 ॥
हृदाभिनन्द्य प्रतिवन्द्यनुत्तरः प्रियागिरः सस्मितम्
आह स स्म ताम् ।
वदामि वामाक्षि परेषु मा
क्षिप स्वमीदृशं माक्षिकमाक्षिपद्वचः ॥ नैषधीयचरितम् - 9 - 17 ॥
करोषि नेमं फलिनं मम श्रमं दिशोः
अनुगृह्णासि न कञ्चन प्रभुम् ।
त्वमित्थम्
अर्हसि सुरानुपासितुं रसामृतस्नानपवित्रया गिरा ॥ नैषधीयचरितम् - 9 - 18 ॥
सुरेषु
सन्देशयसि ईदृशीं बहुं रसस्रवेण स्तिमितां न भारतीम् ।
मदर्पिता दर्पकतापितेषु या
प्रयाति दावार्दितदाववृष्टिताम् ॥ नैषधीयचरितम् - 9 - 19 ॥
यथायथेह त्वदुपेक्षयानया निमेषमप्येष जनो
विलम्बते ।
रुषा शरव्यीकरणे दिवौकसां तथातथाद्य
त्वरते रतेः पतिः ॥ नैषधीयचरितम् - 9 - 20 ॥
इयच्चिरस्य
अवदधन्ति मत्पथे किमिन्द्रनेत्राण्यशनिर्न निर्ममौ ।
धिग्
अस्तु मां सत्वरकार्यमन्थरं स्थितः परप्रेष्यगुणोऽपि यत्र न ॥ नैषधीयचरितम् - 9 - 21 ॥
इदं निगद्य क्षितिभर्तरि स्थिते तया
अभ्यधायि स्वगतं विदग्धया ।
अधिस्त्रि तं दूतयतां भुवः स्मरं मनो दधत्या नयनैपुणव्यये ॥ नैषधीयचरितम् - 9 - 22 ॥
जलाधिपस्त्वाम्
अदिशत् मयि ध्रुवं परेतराजः
प्रजिघाय स स्फुटम् ।
मरुत्वतैव प्रहितः
असि निश्चितं नियोजितश्चोर्ध्वमुखेन तेजसा ॥ नैषधीयचरितम् - 9 - 23 ॥
अथ प्रकाशं निभृतस्मिता सती सतीकुलस्याभरणं किमप्यसौ ।
पुनस्तदाभाषणविभ्रमोन्मुखं मुखं विदर्भाधिपसम्भवा
दधे ॥ नैषधीयचरितम् - 9 - 24 ॥
वृथा परीहास इति प्रगल्भता न नेति च त्वादृशि वाग्विगर्हणा ।
भवति अवज्ञा च
भवति अनुत्तरादतः प्रदित्सुः प्रतिवाचम्
अस्मि ते ॥ नैषधीयचरितम् - 9 - 25 ॥
कथं नु तेषां कृपयापि वागसौ
असावि मानुष्यकलाञ्छने जने ।
स्वभावभक्तिप्रवणं प्रतीश्वराः कया न वाचा मुदम्
उद्गिरन्ति वा ॥ नैषधीयचरितम् - 9 - 26 ॥
अहो महेन्द्रस्य कथं मयौचिती सुराङ्गनासङ्गमशोमिताभृतः ।
ह्रदस्य हंसावलिमांसलश्रियो वलाकयेव प्रबला विडम्बना ॥ नैषधीयचरितम् - 9 - 27 ॥
पुरः सुरीणां भण केव मानवी न यत्र तास्तत्र तु शोभिकापि सा ।
अकाञ्चनेऽकिञ्चननायिकाङ्गके किमारकूटाभरणेन न श्रियः ॥ नैषधीयचरितम् - 9 - 28 ॥
यथातथा नाम गिरः किरन्तु ते श्रुती पुनर्मे बधिरे तदक्षरे ।
पृषत्किशोरी
कुरुताम् असङ्गतां कथं मनोवृत्तिमपि द्विपाधिपे ॥ नैषधीयचरितम् - 9 - 29 ॥
अदो निगद्यैव नतास्यया तया श्रुतौ लगित्वाभिहितालिः
आलपत् ।
प्रविश्य यन्मे हृदयं ह्रिया
आह तद्विनिर्यद् आकर्णय मन्मुखाध्वना ॥ नैषधीयचरितम् - 9 - 30 ॥
बिभेति चिन्तामपि कर्तुमीदृशीं चिराय चित्तार्पितनैषधेश्वरा ।
मृणालतन्तुच्छिदुरा सतीस्थितिर्लवादपि
त्रुट्यति चापलात्किल ॥ नैषधीयचरितम् - 9 - 31 ॥
ममाशयः स्वप्नदशाज्ञयापि वा नलं विलङ्घ्येतरम
अस्पृशद् यदि ।
कुतः पुनस्तत्र समस्तसाक्षिणी निजैव बुद्धिर्विबुधैर्न
पृच्छ्यते ॥ नैषधीयचरितम् - 9 - 32 ॥
अपि स्वमस्वप्नमसूषुपन्नमी परस्य दाराननवैतुमेव माम् ।
स्वयं दुरध्वार्णवनाविकाः कथं
स्पृशन्तु विज्ञाय हृदापि तादृशीम् ॥ नैषधीयचरितम् - 9 - 33 ॥
अनुग्रहः केवलमेष मादृशे मनुष्यजन्मन्यपि यन्मनो जने ।
स चेद्विधेयस्तदमी तमेव मे प्रसद्य भिक्षां वितरीतुमीशताम् ॥ नैषधीयचरितम् - 9 - 34 ॥
अपि द्रढीयः
शृणु मत्प्रतिश्रुतं स
पीडयेत् पाणिमिमं न चेन्नृपः ।
हुताशनोद्बन्धनवारिकारितां निजायुषस्तत्
करवै स्ववैरिताम् ॥ नैषधीयचरितम् - 9 - 35 ॥
निषिद्धमप्याचरणीयमापदि क्रिया सती न
अवति यत्र सर्वथा ।
घनाम्बुना राजपथे हि पिच्छिले क्वचिद्बुधैरप्यपथेन
गम्यते ॥ नैषधीयचरितम् - 9 - 36 ॥
स्त्रिया मया वाग्ग्मिषु तेषु
शक्यते न जातु सम्यग्वितरीतुमुत्तरम् ।
तदत्र मद्भाषितसूत्रपद्धतौ प्रबन्द्धृतास्तु प्रतिबन्द्धृता न ते ॥ नैषधीयचरितम् - 9 - 37 ॥
निरस्य दूतः स्म तथा विसर्जितः प्रियोक्तिरपि
आह कदुष्णमक्षरम् ।
कुतूहलेनेव मुहुः कुहूरवः विडम्ब्य डिम्भेन पिकः प्रकोपितः ॥ नैषधीयचरितम् - 9 - 38 ॥
अहो मनस्त्वामनु तेऽपि
तन्वते त्वमप्यमीभ्यो विमुखीति कौतिकम् ।
क्व वा निधिर्निर्धनम्
एति किञ्च तं स वाक्कवाटं घटयन्
निरस्यति ॥ नैषधीयचरितम् - 9 - 39 ॥
सहाखिलस्त्रीषु
वहे अवहेलया महेन्द्ररागाद्गुरुमादरं त्वयि ।
त्वमीदृशि श्रेयसि संमुखेऽपि तं पराङ्मुखी चन्द्रमुखि न्यवीवृतः ॥ नैषधीयचरितम् - 9 - 40 ॥
दिवौकसं
कामयते न मानवी नवीनम्
अश्रावि तवाननादिदम् ।
कथं न वा दुर्ग्रहदोष एष ते हितेन सम्यग्गुरुणाऽपि
शाम्यते ॥ नैषधीयचरितम् - 9 - 41 ॥
अनुग्रहादेव दिवौकसां नरो निरस्य मानुष्यकम्
एति दिव्यताम्।
अयोविकारे स्वरितत्वम्
इष्यते कुतोऽयसां सिद्धरसस्पृशामपि ॥ नैषधीयचरितम् - 9 - 42 ॥
हरिं परित्यज्य नलाभिलाषुका न
लज्जसे वा विदुषिब्रुवा कथम् ।
उपेक्षितेक्षोः करभाच्छमीरतादुरुं
वदे त्वां करभोरु भोरिति ॥ नैषधीयचरितम् - 9 - 43 ॥
विहाय हा सर्वसुपर्वनायकं त्वया धृतः किंनरसाधिमभ्रमः ।
मुखं विमुच्य श्वसितस्य धारया वृथैव नासापथधावनश्रमः ॥ नैषधीयचरितम् - 9 - 44 ॥
तपोनले
जुह्वति सूरयस्तनूर्दिवे फलायान्यजनुर्भविष्णवे ।
करे पुनः
कर्षति सैव विह्वला बलादिव त्वां
वलसे न बालिशे ॥ नैषधीयचरितम् - 9 - 45 ॥
यदि स्वमुद्बन्धुमना विना नलं
भवेः भवन्तीं हरिरन्तरिक्षागाम् ।
दिविस्थितानां प्रथितः पतिस्ततो
हरिष्यति न्याय्यम्
उपेक्षते हि कः ॥ नैषधीयचरितम् - 9 - 46 ॥
निवेक्ष्यसे यद्यनले नलोज्झिता सुरे तदस्मिन्महती दया कृता ।
चिरादनेनार्थनयापि दुर्लभं स्वयं त्वयैवाङ्ग यदङ्गम् अर्प्यते ॥ नैषधीयचरितम् - 9 - 47 ॥
जितंजितं तत्खलु पाशपाणिना विनानलं वारि यदि
प्रवेक्ष्यसि ।
तदा त्वदाख्यान्बहिरप्यसूनसौ पयःपतिर्वक्षसि वक्ष्यतेतराम् ॥ नैषधीयचरितम् - 9 - 48 ॥
करिष्यसे यद्यत एव दूषणादुपायमन्यं विदुषी स्वमृत्यवे ।
प्रियातिथिः स्वेन गृहागता कथं न धर्मराजं चरितार्थयिष्यसि ॥ नैषधीयचरितम् - 9 - 49 ॥
निषेधवेषो विधिरेष तेऽथवा तवैव युक्ता खलु वाचि वक्रता ।
विजृम्भितं यस्य किल ध्वनेरिदं विदग्धनारीवदनं तदाकरः ॥ नैषधीयचरितम् - 9 - 50 ॥
भ्रमामि ते भैमि सरस्वतीरसप्रवाहचक्रेषु निपत्य कत्यदः ।
त्रपामपाकृत्य मनाक्
कुरु स्फुटं कृतार्थनीयः कतमः सुरोत्तमः ॥ नैषधीयचरितम् - 9 - 51 ॥
मतः किमौरावतकुम्भकैतवप्रगल्भपीनस्तनदिग्धवस्तव ।
सहस्रनेत्रान्न पृथग्मते मम त्वदङ्गलक्ष्मीमवगाहितुं क्षमः ॥ नैषधीयचरितम् - 9 - 52 ॥
प्रसीद तस्मै दमयन्ति सन्ततं त्वदङ्गसग्गप्रभवैर्जगत्प्रभुः ।
पुलोमजालोचनतीक्ष्णकण्टकैस्तनुं घनाम्
आतनुतां स कण्टकैः ॥ नैषधीयचरितम् - 9 - 53 ॥
अबोधि तत्त्वं दहने
अनुरज्यसे स्वयं खलु क्षत्त्रियगोत्रजन्मनः ।
विना तमोजस्विनमन्यतः कथं मनोरथस्ते
वलते विलासिनि ॥ नैषधीयचरितम् - 9 - 54 ॥
त्वयैकसत्या तनुतापशङ्कया ततो निवर्त्यं न मनः कथञ्चन ।
हिमोपमा तस्य परीक्षणक्षणे सतीषु वृत्तिः शतशो निरूपिता ॥ नैषधीयचरितम् - 9 - 55 ॥
स धर्मराजः खलु धर्मशीलया त्वया
अस्ति चित्तातिथितामवापितः ।
ममापि साधुः
प्रतिभाति अयं क्रमः
चकास्ति योग्येन हि योग्यसङ्गमः ॥ नैषधीयचरितम् - 9 - 56 ॥
अजातविच्छेदलवैः स्मरोद्भवैरगस्त्यभासा दिशि निर्मलत्विषि ।
धुतावधिं कालममृत्युशङ्किता निमेषवत्तेन
नयस्व केलिभिः ॥ नैषधीयचरितम् - 9 - 57 ॥
शिरीषमृद्वी वरुणं किम्
ईहसे पयःप्रकृत्या मृदुवर्गवासवम् ।
विहाय सर्वान्
वृणुते स्म किं न सा निशापि शीतांशुमनेन हेतुना ॥ नैषधीयचरितम् - 9 - 58 ॥
असेवि यस्त्यक्तदिवा दिवानिशं श्रियः प्रियेणानणुरामणीयकः ।
सहामुना तत्र पयः पयोनिधौ कृशोदरि
क्रीड यथामनोरथम् ॥ नैषधीयचरितम् - 9 - 59 ॥
इति स्फुटं तद्वचसस्तयादरात्सुरस्पृहारोपविडम्बनादपि ।
कराङ्कसुप्तैककपोलकर्णया श्रुतं च तद्भाषितमश्रुतं च तत् ॥ नैषधीयचरितम् - 9 - 60 ॥
चिरादनध्यायमवाङ्मुखी मुखे ततः स्म सा वासयते दमस्वसा ।
कृतायतश्वासविमोक्षणाथ तं क्षणाद्
वभाषे करुणं विचक्षणा ॥ नैषधीयचरितम् - 9 - 61 ॥
विभिन्दता दुष्कृतिनीं मम श्रुतिं दिगिन्द्रदुर्वाचिकसूचिसञ्चयैः ।
प्रयातजीवामिव मां प्रति स्फुटं कृतं त्वयाप्यन्तकदूततोचितम् ॥ नैषधीयचरितम् - 9 - 62 ॥
त्वदास्यनिर्यन्मदलीकदुर्यशोमषीमयं सल्लिपिरूपभागिव ।
श्रुतिं ममाविश्य भवद्दुरक्षरं
सृजति अदः कीटवदुत्कटा रुजः ॥ नैषधीयचरितम् - 9 - 63 ॥
तमालिः
ऊचे अथ विदर्भजेरिता प्रगाढमौनव्रतयैकया सखी ।
त्रपां
समाराधयति इयमन्यया भवन्तम्
आह स्वरसज्ञया मया ॥ नैषधीयचरितम् - 9 - 64 ॥
तमर्चितुं मद्वरणस्रजा नृपं स्वयंवरः
सम्भविता परेद्यवि ।
ममासुभिर्गन्तुमनाः पुरःसरैस्तदन्तरायः पुनरेष वासरः ॥ नैषधीयचरितम् - 9 - 65 ॥
तदद्य विश्रम्य दयालुः
एधि मे दिनं निनीषामि भवद्विलोकिनी ।
नखैः किल
आख्यायि विलिख्य पक्षिणा तवैव रूपेण समः स मत्प्रियः ॥ नैषधीयचरितम् - 9 - 66 ॥
दृशोर्द्वयी ते विधिना
अस्ति वञ्चिता मुखस्य लक्ष्मीं तव यन्न
वीक्षते ।
असौ अपि श्वस्तदिमां नलानने विलोक्य साफल्यम्
उपैतु जन्मनः ॥ नैषधीयचरितम् - 9 - 67 ॥
ममैव पाणौकरणेऽग्निसाक्षिकं प्रसङ्गसम्पादितमङ्ग सङ्गतम् ।
न हा सहाधीतिधृतः स्पृहा कथं तवार्यपुत्रीयम् अजयम् अर्जितुम् ॥ नैषधीयचरितम् - 9 - 68 ॥
दिगीश्वरार्थं न कथञ्चन त्वया कदर्थनीया
अस्मि कृतोऽयमञ्जलिः ।
प्रसद्यतां नाद्य निगाद्यमीदृशं दृशौ
दधे बाष्परयास्पदे भृशम् ॥ नैषधीयचरितम् - 9 - 69 ॥
वृणे दिगीशानिति का कथा तथा त्वयीति न
ईक्षे नलभामपीह या ।
सतीव्रतेऽग्नौ तृणयामि जीवितं स्मरस्तु किं वस्तु तदस्तु भस्म यः ॥ नैषधीयचरितम् - 9 - 70 ॥
न्यवेशि रत्नत्रितये जिनेन यः स धर्मचिन्तामणिरुज्झितो यया ।
कपालिकोपानलभस्मनः कृते तदेव भस्म स्वकुले स्तृतं तथा ॥ नैषधीयचरितम् - 9 - 71 ॥
निपीय पीयूषरसौरसीरसौ गिरः स्वकन्दर्पहुताशनाहुतीः ।
कृतान्तदूतं न तया यथोदितं कृतान्तमेव स्वम्
अमन्यत अदयम् ॥ नैषधीयचरितम् - 9 - 72 ॥
स भिन्नमर्मापि तदर्तिकाकुभिः स्वदूतधर्मान्न विरन्तुम्
ऐहत ।
शनैः
अशंसत् निभृतं विनिश्वसन्विचित्रवाक्चित्रशिखाण्डनन्दनः ॥ नैषधीयचरितम् - 9 - 73 ॥
दिवो धवस्त्वां यदि कल्पशाखिनं कदापि
याचेत निजाङ्गणालयम् ।
कथं
भवेः अस्य न जीवितेश्वरा न मोघयाच्ञः स हि भीरु भूरुहः ॥ नैषधीयचरितम् - 9 - 74 ॥
शिखी विधाय त्वदवाप्तिकामनां स्वयंहुतस्वांशहविः स्वमूर्तिषु ।
क्रतुं
विधत्ते यदि सार्वकामिकं कथं स मिथ्या
अस्तु विधिस्तु वैदिकः ॥ नैषधीयचरितम् - 9 - 75 ॥
सदा तदाशामधितिष्ठतः करं वरं प्रदातुं चलिताद्बलादपि ।
मुनेरगस्त्याद्
वृणुते स धर्मराड्यदि त्वदाप्तिं भण तत्र का गतिः ॥ नैषधीयचरितम् - 9 - 76 ॥
क्रतोः कृते
जाग्रति वेत्ति कः कति प्रभोरपां वेश्मनि कामधेनवः ।
त्वदर्थमेकामपि
याचते स चेत्प्रचेतसः पाणिगतैव
वर्तसे ॥ नैषधीयचरितम् - 9 - 77 ॥
न संनिधात्री यदि विघ्नसिद्धये पतिव्रता पत्युरनिच्छया शची ।
स एव राजव्रजवैशसात्कुतः परस्परस्पर्धिवरः स्वयंवरः ॥ नैषधीयचरितम् - 9 - 78 ॥
निजस्य वृत्तान्तमजानतां मिथो मुखस्य रोषात्परुषाणि जल्पतः ।
मृधं किमच्छत्त्रकदण्डताण्डवं भुजाभुजि क्षोणिभुजां दिदृक्षासे ॥ नैषधीयचरितम् - 9 - 79 ॥
अपार्थयन्याजकफूत्कृतिश्रमं
ज्वलेद् रुषा चेद्वपुषापि नानलः ।
अलं नलः कर्तुमनग्निसाक्षिकं विधिं विवाहे तव सारसाक्षि कम् ॥ नैषधीयचरितम् - 9 - 80 ॥
पतिंवरायाः कुलजं वरस्य वा यमः कमप्याचरितातिथिं यदि ।
कथं न
गन्ता विफलीभविष्णुतां स्वयंवरः साध्वि समृद्धिमानपि ॥ नैषधीयचरितम् - 9 - 81 ॥
अपः प्रति स्वामितयाऽपरः सुरः स ता
निषेधेद् यदि नैषधक्रुधा ।
नलाय लोभात्ततपाणयेऽपि ते पिता कथं त्वां वद
सम्प्रदास्यते ॥ नैषधीयचरितम् - 9 - 82 ॥
इदं महत्तेऽभिहितं हितं मया विहाय मोहं दमयन्ति
चिन्तय ।
सुरेषु विघ्नैकपरेषु को नरः करस्थमप्यर्थमवाप्तुमीश्वरः ॥ नैषधीयचरितम् - 9 - 83 ॥
इमा गिरस्तस्य विचिन्त्य चेतसा तथेति सम्प्रत्ययम्
आससाद सा ।
निवारितावग्रहनीरनिर्झरे नभोनभस्यत्वम अलम्भयद् दृशौ ॥ नैषधीयचरितम् - 9 - 84 ॥
स्फुटोत्पलाभ्यामलिदम्पतीव तद्विलोचनाभ्यां कुचकुड्नलाशया ।
निपत्य बिन्दू हृदि कज्जलाविलौ मणीव नीलौ तरलौ
विरेजतुः ॥ नैषधीयचरितम् - 9 - 85 ॥
धुतापतत्पुष्पशिलीमुखाशुगैः शुचेस्तद्
आसीत् सरसी रसस्य सा ।
रयाय बद्धादरयाश्रुधारया सनालनीलोत्पललोललोचना ॥ नैषधीयचरितम् - 9 - 86 ॥
अथोद्भ्रमन्ती रुदती गतक्षमा ससम्भ्रमा लुप्तरतिः स्खलन्मतिः ।
व्यधात् प्रियप्राप्तिविघातनिश्चयान्मृदूनि दूना परिदेवितानि सा ॥ नैषधीयचरितम् - 9 - 87 ॥
त्वरस्व पञ्चेषुहुताशनात्मनः
तनुष्व मद्भस्ममयं यशश्चयम् ।
विधे परेहाफलभक्षणव्रती
पत अद्य तृप्यन्नसुभिर्ममाफलैः ॥ नैषधीयचरितम् - 9 - 88 ॥
भृशं वियोगानलतप्यमान किं
विलीयसे न त्वमयोमयं यदि ।
स्मरेषुभिर्भेद्य न वज्रमप्यसि
ब्रवीषि न स्वान्त कथं न
दीर्यसे ॥ नैषधीयचरितम् - 9 - 89 ॥
विलम्बसे जीवित किं द्रव द्रुतं
ज्वलति अदस्ते हृदयं निकेतनम् ।
जहासि नाद्यापि मृषा सुखासिकामपूर्वमालस्यमिदं तवेदृशम् ॥ नैषधीयचरितम् - 9 - 90 ॥
दृशौ मृषा पातकिनो मनोरथाः कथं पृथू वामपि
विप्रलेभिरे ।
प्रियश्रियः प्रेक्षणघाति पातकं स्वमश्रुभिः
क्षालयते शतं समाः ॥ नैषधीयचरितम् - 9 - 91 ॥
प्रियं न मृत्युं न
लभे त्वदीप्सितं तदेव न
स्यात् मम यत्त्वम्
इच्छसि ।
वियोगमेव
इच्छ मनः प्रियेण मे तव प्रसादान्न
भवति असौ मम ॥ नैषधीयचरितम् - 9 - 92 ॥
न काकुवाक्यैरतिवाममङ्गजं द्विषत्सु
याचे पवनं तु दक्षिणम् ।
दिशापि मद्भस्म
किरतु अयं तया प्रियो यया वैरविधिर्वधावधिः ॥ नैषधीयचरितम् - 9 - 93 ॥
अमूनि
गच्छन्ति युगानि न क्षणः कियत्
सहिष्ये न हि मृत्युः
अस्ति मे ।
न मां तु कान्तः स्फुटमन्तरुज्झिता न तं मनस्तच्च न कायवायवः ॥ नैषधीयचरितम् - 9 - 94 ॥
मदुग्रतापव्ययशक्तशीकरः सुराः स वः केन
पपे कृपार्णवः ।
उदेति कोटिर्न मुदे मदुत्तमा किमाशु सङ्कल्पकणश्रमेण वः ॥ नैषधीयचरितम् - 9 - 95 ॥
ममैव वाहर्दिनमश्रुदुर्दिनैः प्रसह्य वर्षासु ऋतौ प्रसञ्जिते ।
कथं नु
शृण्वन्तु सुषुप्य देवता
भवतु अरण्येरुदितं न मे गिरः ॥ नैषधीयचरितम् - 9 - 96 ॥
इयं न ते नैषाध दृक्पथातिथिस्त्वदेकतानस्य जनस्य यातना ।
ह्रदे ह्रदे हा न कियद्गवेषितः स वेधसा
अगोपि खगोऽपि
वक्ति यः ॥ नैषधीयचरितम् - 9 - 97 ॥
ममापि किं नो
दयसे दयाघन त्वदङ्घ्रिमग्नं यदि
वेत्थ मे मनः ।
निमज्जयन्सन्तमसे पराशयं विधिस्तु वाच्यः क्व तवागसः कथा ॥ नैषधीयचरितम् - 9 - 98 ॥
कथावशेषं तव सा कृते गतेति
उपैष्यति श्रोत्रपथं कथम् न ते ।
दयाणुना मां
समनुग्रहीप्यसे तदापि तावद्यदि नाथ नाधुना ॥ नैषधीयचरितम् - 9 - 99 ॥
मम आदरि इदं विदरीतुमान्तरं तदर्थिकल्पद्रुम किञ्चिदर्थये ।
भिदां हृदि द्वारमवाप्य मा स मे हतासुभिः प्राणसमः समं
गमः ॥ नैषधीयचरितम् - 9 - 100 ॥
इति प्रियाकाकुभिरुन्मिषन्भृशं दिगीशदूत्येन हृदि स्थिरीकृतः ।
नृपं स योगेऽपि वियोगमन्मथः क्षणं तमुद्भ्रान्तमजीजनत्पुनः ॥ नैषधीयचरितम् - 9 - 101 ॥
महेन्द्रदूत्यादि समस्तमात्मनस्ततः स विस्मृत्य मनोरथस्थितैः ।
क्रियाः प्रियाया ललितैः करम्बिता वितर्कयन्नित्थमलीकम्
आलपत् ॥ नैषधीयचरितम् - 9 - 102 ॥
अयि प्रिये कस्य कृते
विलप्यते विलिप्यते हा मुखमश्रुबिन्दुभिः ।
पुरस्त्वया
आलोकि नमन्नयं न किं तिरश्चलल्लोचनलीलया नलः ॥ नैषधीयचरितम् - 9 - 103 ॥
चकास्ति बिन्दुच्युतकातिचातुरी घनास्रुबिन्दुस्रुतिकैतवात्तव ।
मसारताराक्षि ससारमात्मना
तनोषि संसारमसंशयं यतः ॥ नैषधीयचरितम् - 9 - 104 ॥
अपास्तपाथोरुहि शायितं करे
करोषि लीलाकमलं किमाननम् ।
तनोषि हारं कियदस्रुणः स्रवैरदोषनिर्वासितभूषणे हृदि ॥ नैषधीयचरितम् - 9 - 105 ॥
दृशोरमङ्गल्यमिदं मिलज्जलं करेण तावत्
परिमार्जयामि ते ।
अथापराधं भवदङ्घ्रिपङ्कजद्वयीरजोमिः सममात्ममौलिना ॥ नैषधीयचरितम् - 9 - 106 ॥
मम त्वदच्छाङ्घ्रिनखामृतद्युतेः किरीटमाणिक्यमयूखमञ्जरी ।
उपासनामस्य
करोतु रोहिणी
त्यज त्यज आकारणरोषणे रुषम् ॥ नैषधीयचरितम् - 9 - 107 ॥
तनोषि मानं मयि चेन्मनागपि त्वयि श्रये तद्बहुमानमानतः ।
विनम्य वक्रं यदि
वर्तसे कियत्
नमामि ते चण्डि तदा पदावधि ॥ नैषधीयचरितम् - 9 - 108 ॥
प्रभुत्वभूम्नानुगृहाण वा न वा प्रणाममात्राधिगमेऽपि कः श्रमः ।
क्व याचतां कल्पलता
असि मां प्रति क्व दृष्टिदाने तव बद्धमुष्टिता ॥ नैषधीयचरितम् - 9 - 109 ॥
स्मरेषुमाथं
सहसे मृदुः कथं हृदि द्रढीयः कुचसंवृते तव ।
निपत्य वैसारिणकेतनस्य वा
व्रजन्ति बाणा विमुखोत्पतिष्णुताम् ॥ नैषधीयचरितम् - 9 - 110 ॥
स्मितस्य सम्भावय सृक्वणा कणान्
विधेहि लीलाचलचञ्चलं भ्रुवः ।
अपाङ्गरथ्यापथिकीं च हेलया प्रसद्य
सन्धेहि दृशं ममोपरि ॥ नैषधीयचरितम् - 9 - 111 ॥
समापय प्रावृषमस्रुविप्रुषां स्मितेन विश्राणय कौमुदीमुदः ।
दृशावितः
खेलतु खञ्जनद्वयी विकासि पङ्केरुहम्
अस्तु ते मुखम् ॥ नैषधीयचरितम् - 9 - 112 ॥
सुधारसोद्वेलनकेलिमक्षरस्रजा सृजान्तर्मम कर्णकूपयोः ।
दृशौ मदीये मदिराक्षि
कारय स्मितश्रिया पायसपारणाविधिम् ॥ नैषधीयचरितम् - 9 - 113 ॥
ममासनार्धे
भव मण्डनं न न प्रिये मदुत्सङ्गविभूषणं भव ।
अहं भ्रमाद्
आलपम् अङ्ग
मृष्यतां विना ममोरः कतमत्त्वासनम् ॥ नैषधीयचरितम् - 9 - 114 ॥
अधीतपञ्चाशुगबाणवञ्चने स्थिता मदन्तर्बहिः
एषि चेदुरः ।
स्मराशुगेभ्यो हृदयं
बिभेतु न प्रविश्य तत्त्वन्मयसम्पुटे मम ॥ नैषधीयचरितम् - 9 - 115 ॥
परिष्वजस्व अनवकाशबाणता स्मरस्य लग्ने हृदयद्वये
अस्तु नौ ।
दृढा मम त्वत्कुचयोः कठोरयोरुरस्तटीयं परिचारिकोचिता ॥ नैषधीयचरितम् - 9 - 116 ॥
तवाधराय
स्पृहयामि यन्मधुस्रवैः श्रवःसाक्षिकमाक्षिका गिरः ।
अधित्यकासु स्तनयोः
तनोतु ते ममेन्दुलेखाभ्युदयाद्भुतं नखः ॥ नैषधीयचरितम् - 9 - 117 ॥
न
वर्तसे मन्मथनाटिका कथं प्रकाशरोमावलिसूत्रधारिणी ।
तवाङ्गहारे रुचिम्
एति नायकः शिखामणिश्च द्विजराड्विदूषकः ॥ नैषधीयचरितम् - 9 - 118 ॥
शुभाष्टवर्गस्त्वदनङ्गजन्मनस्तवाधरेऽलिख्यत यत्र लेखया ।
मदीयदन्तक्षतराजिरञ्जनैः स भूर्जताम्
अर्जतु बिम्बपाटलः ॥ नैषधीयचरितम् - 9 - 119 ॥
गिरा
अनुकम्पस्व दयस्व चुम्बनैः
प्रसीद शुश्रूषयितुं मया कुचौ ।
निशेव चान्द्रस्य करोत्करस्य यन्मम त्वमेका
असि नलस्य जीवितम् ॥ नैषधीयचरितम् - 9 - 120 ॥
मुनिर्यथात्मानमथ प्रबोधवान् प्रकाशयन्तं स्वमसौ
अबुध्यत ।
अपि प्रपन्नां प्रकृतिं विलोक्य तामवाप्तसंस्कारतया
असृजत् गिरः ॥ नैषधीयचरितम् - 9 - 121 ॥
अये मयात्मा किमनिह्नुतीकृतः किमत्र
मन्ता स तु मां शतक्रतुः ।
पुरः स्वभक्त्याथ नमन्ह्रियाविलो
विलोकिताहे न तदिङ्गितान्यपि ॥ नैषधीयचरितम् - 9 - 122 ॥
स्वनाम यन्नाम मुधा
अभ्यधाम् अहो महेन्द्रकार्यं महदेतदुज्झितम् ।
हनूमदाद्यैर्यशसा मया पुनर्द्विषां हसैर्दूत्यपथः सितीकृतः ॥ नैषधीयचरितम् - 9 - 123 ॥
धियात्मनस्तावदचारु नाचरं परस्तु तद्
वेद स यद्
वदिष्यति ।
जनावनायोद्यमिनं जनार्दनं क्षये जगज्जीवपिबं शिवं वदन् ॥ नैषधीयचरितम् - 9 - 124 ॥
स्फुटति अदः किं हृदयं त्रपाभराद्यदस्य शुद्धिर्विबुधैः
विबुध्यते ।
विदन्तु ते तत्त्वमिदं तु दन्तुरं जनानने कः करम् अर्पयिष्यति ॥ नैषधीयचरितम् - 9 - 125 ॥
मम श्रमश्चेतनयानया फली बलीयसा
अलोपि च सैव वेधसा ।
न वस्तु दैवस्वरसाद्विनश्वरं सुरेश्वरोऽपि प्रतिकर्तुमीश्वरः ॥ नैषधीयचरितम् - 9 - 126 ॥
इति स्वयं मोहमहोर्मिनिर्मितं प्रकाशनं
शोचति नैषधे निजम् ।
तथाव्यथामग्नतदुद्दिधीर्षया दयालुः
अगात् लघु हेमहंसराट् ॥ नैषधीयचरितम् - 9 - 127 ॥
नलं स तत्पक्षरवोर्ध्ववीक्षिणं स एष पक्षीति भणन्तम्
अभ्यधात् ।
नय अदयैनामतिमानिराशतामसून्
विहाता इयमतः परं परम् ॥ नैषधीयचरितम् - 9 - 128 ॥
सुरेषु पश्यन्निजसापराधतामियत्प्रयस्यापि तदर्थसिद्धये ।
न कूटसाक्षीभवनोचितो भवान्सतां हि चेतःशुचितात्मसाक्षिका ॥ नैषधीयचरितम् - 9 - 129 ॥
इतीरिणापृच्छ्य नलं विदर्भजामपि प्रयातेन खगेन सान्त्वितः ।
मृदुः
बभाषे भगिनीं दमस्य स प्रणम्य चित्तेन हरित्पतीन्नृपः ॥ नैषधीयचरितम् - 9 - 130 ॥
ददे अपि तुभ्यं कियतीः कदर्थनाः सुरेषु रागप्रसवावकेशिनीः ।
अदम्भदूत्येन
भजन्तु वा दयां
दिशन्तु वा दण्डममी ममागसाम् ॥ नैषधीयचरितम् - 9 - 131 ॥
अयोगजाम्
अन्वभवं न वेदनां हिताय मे
अभूत् इयमुन्मदिष्णुता ।
उदेति दोषादपि दोषलाघवं कृशत्वमज्ञानवशादिवैनसः ॥ नैषधीयचरितम् - 9 - 132 ॥
तवेत्ययोगस्मरपावकोऽपि मे कदर्थनात्यर्थतया॑
अगमद् दयाम् ।
प्रकाशमुन्माद्य यदद्य कारयन्मयात्मनस्त्वाम्
अनुकम्पते स्म सः ॥ नैषधीयचरितम् - 9 - 133 ॥
अमी समीहैकपरास्तवामराः स्वकिङ्करं मामपि कर्तुम्
ईशिषे ।
विचार्य कार्यं
सृज मा
विधात् मुधा कृतानुतापस्त्वयि पार्ष्णिवग्रिहम् ॥ नैषधीयचरितम् - 9 - 134 ॥
उदासितेनैव मयेदम्
उद्यसे भिया न तेभ्यः स्मरतानवान्न वा ।
हितं यदि स्यान्मदसुव्ययेन ते तदा तव प्रेमणि शुद्धिलब्धये ॥ नैषधीयचरितम् - 9 - 135 ॥
इतीरितैर्नैषधसूनृतामृतैर्विदर्भजन्मा भृशम्
उल्ललास सा ।
ऋतोरधिश्रीः शिशिरानुजन्मनः पिकस्वरैर्दूरविकस्वरैर्यथा ॥ नैषधीयचरितम् - 9 - 136 ॥
नलं तदावेत्य तमाशये निजे घृणां विगानं च
मुमोच भीमजा ।
जुगुप्समाना हि मनो धृतं तदा सतीधिया दैवतदूतधावि सा ॥ नैषधीयचरितम् - 9 - 137 ॥
मनोभुवस्ते भविनां मनः पिता निमज्जयन्नेनसि तन्न
लज्जसे ।
अमुद्रि सत्पुत्रकथा त्वयेति सा स्थिता सती मन्मथनिन्दिनी धिया ॥ नैषधीयचरितम् - 9 - 138 ॥
प्रसूनमित्येव तदङ्गवर्णना न सा विशेषात्कतमत्तदिति
अभूत् ।
तद्वा कदम्बं
निरवर्णि लोमभिर्मुदस्रुणा प्रावृषि हर्षमागतैः ॥ नैषधीयचरितम् - 9 - 139 ॥
मयैव सम्बोध्य नलं
व्यलापि यत्स्वमाह मद्बुद्धमिदं विमृश्य तत् ।
असाविति भ्रान्तिम्
असाद् दमस्वसुः स्वभाषितस्वोद्भ्रमविभ्रमक्रमः ॥ नैषधीयचरितम् - 9 - 140 ॥
विदर्भराजप्रभवा ततः परं त्रपासखी वक्तुमलं न सा नलम् ।
पुरस्तम्
ऊचे अभिमुखं यदत्रपा
ममज्ज तेनैव महाह्रदे ह्रियः ॥ नैषधीयचरितम् - 9 - 141 ॥
यदापवार्यापि न दातुमुत्तरं
शशाक सख्याः श्रवसि प्रियस्य सा ।
विहस्य सख्येव तम्
अब्रवीत् तदा ह्रियाऽधुना मौनधना भवत्प्रिया ॥ नैषधीयचरितम् - 9 - 142 ॥
पदातिथेयांल्लिखितस्य ते स्वयं वितन्वती लोचननिर्झरानियम् ।
जगाद यां सैव मुखान्मम त्वया प्रसूनबाणोपनिषत्
निशम्यताम् ॥ नैषधीयचरितम् - 9 - 143 ॥
असंशयं स त्वयि हंस एव मां
शशंस न त्वद्विरहाप्तसंशयाम् ।
क्व चन्द्रवंशस्य वतंस मद्वधान्नृशंसता सम्भविनी भवादृशे ॥ नैषधीयचरितम् - 9 - 144 ॥
जितस्तवास्येन विधुः स्मरः श्रिया कृतप्रतिज्ञौ मम तौ वधे कुतः ।
तवेति कृत्वा यदि तज्जितं मया न मोघसङ्कल्पधराः किलामराः ॥ नैषधीयचरितम् - 9 - 145 ॥
निजांशुनिर्दग्धमदङ्गभस्मभिर्मुधा विधुः
वाञ्छति लाञ्छनोन्मृजाम् ।
त्वदास्यता
यास्यति तावतापि किं वधूवधेनैव पुनः कलङ्कितः ॥ नैषधीयचरितम् - 9 - 146 ॥
प्रसीद यच्छ स्वशरान्मनोभुवे स
हन्तु मां तैर्धुतकौसुमाशुगः ।
त्वदेकचित्ताहमसून्विमुञ्चती त्वमेव भूत्वा तृणवज्जयामि तम् ॥ नैषधीयचरितम् - 9 - 147 ॥
श्रुतिः सुराणां गुणगायनी यदि त्वदङ्घ्रिमग्नस्य जनस्य किं ततः ।
स्तवे रवेरप्सु कृताप्लवैः कृते न मुद्वती जातु
भवेत् कुमुद्वती ॥ नैषधीयचरितम् - 9 - 148 ॥
कथासु शिष्यै वरमद्य न ध्रिये मम
अवगन्तासि न भावमन्यथा ।
त्वदर्थमुक्तासुतया सुनाथ मां
प्रतीहि जीवाभ्यधिकं त्वदेकिकाम् ॥ नैषधीयचरितम् - 9 - 149 ॥
महेन्द्रहेतेरपि रक्षणं भयाद्यदर्थिसाधारणमस्त्रभृद्वृतम् ।
प्रसूनबाणादपि मामरक्षतः क्षतं तदुच्चैरवकीर्णिनस्तव ॥ नैषधीयचरितम् - 9 - 150 ॥
तवास्मि मां घातुकमपि
उपेक्षसे मृषामरं हाऽमरगौरवात्स्मरम् ।
अवेहि चण्डालमनङ्गमङ्ग तं स्वकाण्डकारस्य मधोः सखा हि सः ॥ नैषधीयचरितम् - 9 - 151 ॥
लघौ लघावेव पुरः परे बुधैर्विधेयमुत्तेजनमात्मतेजसः ।
तृणे
तृणेढि ज्वलनः खलु ज्वलन्त्रमात्करीषद्रुमकाण्डमण्डलम् ॥ नैषधीयचरितम् - 9 - 152 ॥
सुरापराधस्तव वा कियानयं स्वयंवरायामनुकम्प्रता मयि ।
गिरापि
वक्ष्यन्ति मखेषु तर्पणादिदं न देवा मुखलज्जयैव ते ॥ नैषधीयचरितम् - 9 - 153 ॥
व्रजन्तु ते तेऽपि वरं स्वयंवरं प्रसाद्य तानेव मया
वरिष्यसे ।
न सर्वथा तानपि न
स्पृशेद् दया न तेऽपि तावन्मदनस्त्वमेव वा ॥ नैषधीयचरितम् - 9 - 154 ॥
इतीयमालेख्यगतेऽपि वीक्षिते त्वयि स्मरव्रीडसमस्ययानया ।
पदे पदे मौनमयान्तरीपिणी प्रवर्तिता सारघसारसारणी ॥ नैषधीयचरितम् - 9 - 155 ॥
चण्डालस्ते विषामविशिखः
स्पृश्यते दृश्यते न ख्यातोऽनङ्गस्त्वयि जयति यः किंनु कृत्ताङ्गुलीकः ।
कृत्वा मित्त्रं मधुमधिवनस्थानमन्तश्चरित्वा सख्याः प्राणान्
हरति हरितस्त्वद्यशस्तद्
जुषन्ताम् ॥ नैषधीयचरितम् - 9 - 156 ॥
अथ भीमभुवैव रहोऽभिहितां नतमौलिरपत्रपया स निजाम् ।
अमरैः सह राजसमाजगतिं जगतीपतिरभ्युपगत्य
ययौ ॥ नैषधीयचरितम् - 9 - 157 ॥
श्वस्तस्याः प्रियमाप्तुसुद्धुरधियो धाराः सृजन्त्या रयान्नम्रोन्नम्रकपोलपालिपुलकैर्वेतस्वतीरस्रुणः ।
चत्वारः प्रहराः स्मरार्तिभः
अभूत् सापि क्षपा दुःक्षया तत्तस्यां कृपयाखिलैव विधिना रात्रिस्त्रियामा कृता ॥ नैषधीयचरितम् - 9 - 158 ॥
तदखिलमिह भूतं भूतगत्या जगत्याः पतिः
अभिलपति स्म स्वात्मदूतत्वतत्त्वम् ।
त्रिभुवनजनयावद्दृत्तवृत्तान्तसाक्षात्कृतिकृतिषु निरस्तानन्दमिन्द्रादिषु द्राक् ॥ नैषधीयचरितम् - 9 - 159 ॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः
सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
संदृब्धार्णववर्णनस्य नवमस्तस्य
व्यरंसीत् महाकाव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥ नैषधीयचरितम् - 9 - 160 ॥
।। इति नैषधीयचरितमहाकाव्ये नवमसर्गः ।।
दशमसर्गः
रथैरथ
आयुः कुलजाः कुमाराः शस्त्रेषु शास्त्रेषु च दृष्टपाराः ।
स्वयंवरं शम्बरवैरिकायव्यूहश्रियः श्रीजितयक्षराजाः ॥ नैषधीयचरितम् - 10 - 1 ॥
न
अभूद् अभूमिः स्मरसायकानां न
आसीद् अगन्ता कुलजः कुमारः ।
न
अस्थाद् अपन्था धरणेः कणोऽपि व्रजेषु राज्ञां युगपद्व्रजत्सु ॥ नैषधीयचरितम् - 10 - 2 ॥
योग्यैर्व्रजद्भिर्नृपजां वरीतुं वीरैरनर्हैः प्रसभेन हर्तुम् ।
द्रष्टुं परैस्तान्परिकर्तुमन्यैः स्वमात्रशेषाः ककुभो
बभूवुः ॥ नैषधीयचरितम् - 10 - 3 ॥
लोकैरशेषैरविनिश्रियं तामुद्दिश्य दिश्यैर्विहिते प्रयाणे ।
स्ववर्तितत्तज्जनयन्त्रणार्तिविश्रान्तिम्
आयुः ककुभां विभागाः ॥ नैषधीयचरितम् - 10 - 4 ॥
तलं यथा
ईयुः न तिला विकीर्णाः सैन्यैस्तथा राजपथा
बभूवुः ।
भैमीं स लब्धामिव तत्र
मेने कः
प्राप भूभृद्भवितुं पुरस्तात् ॥ नैषधीयचरितम् - 10 - 5 ॥
नृपः पुरस्थैः प्रतिबद्धवर्त्मा पश्चात्तनैः कश्चन नुद्यमानः ।
यन्त्रस्थसिद्धार्थपदाभिषेकं लब्ध्वाप्यसिद्धार्थम्
अमन्यत स्वम् ॥ नैषधीयचरितम् - 10 - 6 ॥
राज्ञां पथि स्त्यानतयानुपूर्व्या विलङ्घनाशक्तिविलम्बभाजाम् ।
आह्वानसंज्ञानमिवाग्रकम्पैः
दधुः विदर्भेन्द्रपुरीपताकाः ॥ नैषधीयचरितम् - 10 - 7 ॥
प्राग्भूय कर्कोटक
आचकर्ष सकम्बलं नागबलं यदुच्चैः ।
भुवस्तले कुण्डिनगामि राज्ञां तद्वासुकेश्चाश्वतरः
अन्वगच्छत् ॥ नैषधीयचरितम् - 10 - 8 ॥
आगच्छदुर्विन्द्रचमूसमुत्थैर्भूरेणुभिः पाण्डुरिता मुखश्रीः ।
विस्पष्टम्
आचष्ट हरिद्वधूनां रूपं पतित्यागदशानुरूपम् ॥ नैषधीयचरितम् - 10 - 9 ॥
आखण्डलो दण्डधरः कृशानुः पाशीति नाथैः ककुभां चतुर्भिः ।
भैम्येव बद्ध्वा स्वगुणेन कृष्टैः स्वयंवरे तत्र गतं न शेषैः ॥ नैषधीयचरितम् - 10 - 10 ॥
मन्त्रैः पुरं भीमपुरोहितस्य तद्बद्धरक्षं
विशति क्व रक्षः ।
तत्रोद्यमं दिक्पतिः
आततान यातुं ततो जातु न यातुधानः ॥ नैषधीयचरितम् - 10 - 11 ॥
कर्तुं
शशाक अभिमुखं न भैम्या मृगं दृगम्भोरुहतर्जितम् यत् ।
अस्या विवाहाय
ययौ विदर्भांस्तद्वाहनस्तेन न गन्धवाहः ॥ नैषधीयचरितम् - 10 - 12 ॥
जातौ न वित्ते न गुणे न कामः सौन्दर्य एव प्रवणः स वामः ।
स्वच्छस्वशैलेक्षितकुत्सबेरस्तां
प्रत्यगात् न स्त्रितमां कुबेरः ॥ नैषधीयचरितम् - 10 - 13 ॥
भमीविवाहं
सहते स्म कस्मादर्धं तनुर्या गिरिजात्मभर्तुः ।
तेनाव्रजन्त्या
विदधे विदर्भानीशानयानाय तयान्तरायः ॥ नैषधीयचरितम् - 10 - 14 ॥
स्वयंवरं भीमनरेन्द्रजाया दिशः पतिन
प्रविवेश शेषः ।
प्रयातु भारं स निवेश्य कस्मिन्नहिर्महीगौरवसासहिर्यः ॥ नैषधीयचरितम् - 10 - 15 ॥
ययौ विमृश्योर्ध्वदिशः पतिर्न स्वयंवरं वीक्षितधर्मशास्त्रः ।
व्यलोकि लोके श्रुतिषु स्मृतौ वा समं विवाहः क्व पितामहेन ॥ नैषधीयचरितम् - 10 - 16 ॥
भैमीनिरस्तं स्वमवेत्य दूतीमुखात्किलेन्द्रप्रमुखा दिगीशाः ।
स्यदे मुखेन्दौ च वितत्य मान्द्यं चित्तस्य ते राजसमाजम्
ईयुः ॥ नैषधीयचरितम् - 10 - 17 ॥
नलभ्रमेणापि
भजेत भैमी कदाचिदस्मानिति शेषिताशा ।
अभूत् महेन्द्रादिचतुष्टयी सा चतुर्नली काचिदलीकरूपा ॥ नैषधीयचरितम् - 10 - 18 ॥
प्रयस्यतां तद्भवितुं सुराणां दृष्टेन पृष्टेन परस्परेण ।
नैव
अनुमेने नलसाम्यसिद्धिः स्वाभाविकात्कृत्रिममन्यदेव ॥ नैषधीयचरितम् - 10 - 19 ॥
पूर्णेन्दुमास्यं
विदधुः पुनस्ते पुनर्मुखीचक्रुरनिद्रमब्जम् ।
स्ववक्त्रमादर्शतलेऽथ दर्शं दर्शं
बभञ्जुः न तथातिमञ्जु ॥ नैषधीयचरितम् - 10 - 20 ॥
तेषां तदा लब्धुमनीश्वराणां श्रियं निजास्येन नलाननस्य ।
नालं तरीतुं पुनरुक्तिदोषं बर्हिर्मुखानामनलाननत्वम् ॥ नैषधीयचरितम् - 10 - 21 ॥
प्रियावियोगक्वथितादिवैलाच्चन्द्राच्च राहुग्रहपीडितात्ते ।
ध्माताद्भवेन स्मरतोऽपि सारैः स्वं
कल्पयन्ति स्म नलानुकल्पम् ॥ नैषधीयचरितम् - 10 - 22 ॥
नलस्य
पश्यतु इयदन्तरं तैर्भैमीति भूपान्विधिराहृतास्यै ।
स्पर्धां दिगीशानपि कारयित्वा तस्यैव तेभ्यः प्रथिमानम्
आख्यत् ॥ नैषधीयचरितम् - 10 - 23 ॥
सभा नलश्रीयमकैर्यमाद्यैर्नलं विना
अभूद् धृतदिव्यरत्नैः ।
भामाङ्गणप्राधुणिके चतुर्भिर्देवद्रुमैर्द्यौरिव पारिजाते ॥ नैषधीयचरितम् - 10 - 24 ॥
तत्र
अगमद् वासुकिरीशभूषाभस्मोपदेहस्फुटगौरदेहः ।
फणीन्द्रवृन्दप्रणिगद्यमानप्रसीदजीवाद्यनुजीविवादः ॥ नैषधीयचरितम् - 10 - 25 ॥
द्वीपान्तरेभ्यः पुटभेदनं तत् क्षणाद्
अवापे सुरभूमिभूपैः ।
तत्कालम्
आलम्भि न केन यूना स्मरेषुपक्षानिलतूललीला ॥ नैषधीयचरितम् - 10 - 26 ॥
रम्येषु हर्म्येषु निवेशनेन सपर्यया कुण्डिननाकनाथः ।
प्रियोक्तिदानादरनम्रताद्यैः
उपाचरत् चारु स राजचक्रम् ॥ नैषधीयचरितम् - 10 - 27 ॥
चतुःसमुद्रीपरिखे नृपाणामन्तः पुरे वासितकीर्तिदारे ।
दानं दया सूनृतमातिथेयी चतुष्टयी रक्षणसौविदल्ला ॥ नैषधीयचरितम् - 10 - 28 ॥
अभ्यागतैः कुण्डिनवासवस्य परोक्षवृत्तेष्वपि तेषु तेषु ।
जिज्ञासितस्वेप्सितलाभलिङ्गं स्वल्पोऽति न
अवापि नृपैर्विशेषः ॥ नैषधीयचरितम् - 10 - 29 ॥
अङ्के विदर्भेन्द्रपुरस्य शङ्के न
सम्ममौ नैष तथा समाजः ।
यथा पयोराशिरगस्त्यहस्ते यथा जगद्वा जठरे मुरारेः ॥ नैषधीयचरितम् - 10 - 30 ॥
पुरे पथि द्वारगृहाणि तत्र चित्रीकृतान्युत्सववाञ्छयेव ।
नभोऽपि किर्मीरम्
अकारि तेषां महीभुजामाभरणप्रभाभिः ॥ नैषधीयचरितम् - 10 - 31 ॥
विलासवैदग्ध्यविभूषणश्रीस्तेषां तथा
अभूत् परिचारकेऽपि ।
अज्ञासिषुः स्त्रीशिशुबालिशास्तं यथागतं नायकमेव कञ्चित् ॥ नैषधीयचरितम् - 10 - 32 ॥
न स्वेदिनश्चामरमारुतैर्न निमेषनेत्राः प्रतिवस्तुचित्रैः ।
म्लानस्रजो नातपवारणेन देवा नृदेवा बिभिदुर्न तत्र ॥ नैषधीयचरितम् - 10 - 33 ॥
अन्योन्यभाषानवबोधभीतेः संस्कृत्रिमाभिर्व्यवहारवत्सु ।
दिग्भ्यः समेतेषु नृपेषु तेषु सौवर्गवर्गो न जनैः अचिह्नि ॥ नैषधीयचरितम् - 10 - 34 ॥
ते तत्र भैम्याश्चरितानि चित्रे चित्राणि पौरैः पुरि लेखितानि ।
निरीक्ष्य
निन्युः दिवसं निशां च तत्स्वप्नसम्भोगकलाविलासैः ॥ नैषधीयचरितम् - 10 - 35 ॥
सा विभ्रमं स्वप्नगतापि तस्यां निशि स्वलाभस्य
ददे यदेभ्यः ।
तदर्थिनां भूमिभुजां वदान्या सती सती
पूरयति स्म कामम् ॥ नैषधीयचरितम् - 10 - 36 ॥
वैदर्भदूतानुनयोपहूतैः शृङ्गारभङ्गीरनुभावयद्भिः ।
स्वयंवरस्थानजनाश्रयस्तैर्दिने परत्रालम्
अकारि वीरैः ॥ नैषधीयचरितम् - 10 - 37 ॥
भूषाभिरुच्चैरपि संस्कृते यं वीक्ष्य
अकृत प्राकृतबुद्धिमेव ।
प्रसूनबाणे विबुधाधिनाथस्तेनाथ सा
अशोभि सभा नलेन ॥ नैषधीयचरितम् - 10 - 38 ॥
धृताङ्गरागे कलितद्युशोभां तस्मिन्सभां
चुम्बति राजचन्द्रे ।
गता बताक्ष्णोर्विषयं विहाय क्व क्षात्त्रनक्षत्त्रकुलस्य कान्तिः ॥ नैषधीयचरितम् - 10 - 39 ॥
द्राग्दृष्टयः क्षोणिभुजाममुष्मीन्नाश्चर्यपर्युत्सुकिता
निपेतुः ।
अनन्तरं दन्तुरितभ्रुवां तु नितान्तमीर्ष्याकलुषा दृगन्ताः ॥ नैषधीयचरितम् - 10 - 40 ॥
सुधांशुरेषु प्रथमो भुवीति स्मरो द्वितीयः किमसावितीमम् ।
दस्रस्तृतीयोऽयमिति क्षितीशाः स्तुतिच्छलान्मत्सरिणो
निनिन्दुः ॥ नैषधीयचरितम् - 10 - 41 ॥
आद्यं विधोर्जन्म स एष भूमौ द्वैतं युवासौ रतिवल्लभस्य ।
नासत्ययोर्मूर्तितृतीयतायमिति स्तुतस्तैः कृतमत्सरैः सः ॥ नैषधीयचरितम् - 10 - 42 ॥
मायानलोदाहरणान्मिथस्तैः
ऊचे समाः सन्त्यमुना कियन्तः ।
आत्मापकर्षे सति मत्सराणां द्विषः परस्पर्धनया समाधिः ॥ नैषधीयचरितम् - 10 - 43 ॥
गुणेन केनापि जनेऽनवद्ये दोषान्तरोक्तिः खलु तत्खलत्वम् ।
रूपेण तत्संसददूषितस्य सुरैर्नरत्वं यद्
अदूषि तस्य ॥ नैषधीयचरितम् - 10 - 44 ॥
नलानसत्यान्
अवदत् स सत्यः कृतोपवेशान्सविधे सुवेषान् ।
नोभाविलाभूः किमु दर्पकश्च
भवन्ति नासत्ययुतौ भवन्तः ॥ नैषधीयचरितम् - 10 - 45 ॥
अमी तम्
आहुः स्म यदत्र मध्ये कस्यापि नोत्पत्तिः
अभूद् इलायाम् ।
अदर्पकाः स्मः सविधे स्थितास्ते नासत्यतां नात्र
बिभर्ति कश्चित् ॥ नैषधीयचरितम् - 10 - 46 ॥
तेभ्यः परान्नः परिकल्पयस्व श्रिया विदूरीकृतकामदेवान् ।
अस्मिन्समाजे बहुषु भ्रमन्ती भैमी किलास्मासु
घटिष्यते असौ ॥ नैषधीयचरितम् - 10 - 47 ॥
असाम यन्नाम तवेह रूपं स्वेनाधिगत्य श्रितमुग्धभावाः ।
तन्नो धिगाशापतितान्नरेन्द्र धिक् चेदमस्मद्विबुधत्वम्
अस्तु ॥ नैषधीयचरितम् - 10 - 48 ॥
सा वागवाज्ञायितमां नलेन तेषामनाशङ्कितवाक्छलेन ।
स्त्रीरत्नलाभोचितयत्नमग्नमेनं हि न स्म
प्रतिभाति किञ्चित् ॥ नैषधीयचरितम् - 10 - 49 ॥
यः स्पर्धया येन निजप्रतिष्ठां लिप्सुः स एव
आह तदुन्नतत्वम् ।
कः स्पर्धितुः स्वाभिहितस्वहानेः स्थानेऽवहेलां बहुलां न
कुर्यात् ॥ नैषधीयचरितम् - 10 - 50 ॥
गीर्देवतागीतयशःप्रशस्तिः श्रिया तडित्त्वल्ललिताभिनेता ।
मुदा तदा
अवैक्षत केशवस्तं स्वयंवराडम्बरमम्बरस्थः ॥ नैषधीयचरितम् - 10 - 51 ॥
अष्टौ तदाष्टासु हरित्सु दृष्टीः सदो दिदृक्षुः
निदिदेश देवः ।
लैङ्गीमदृष्ट्वापि शिरःश्रियं यो दृष्टौ मृषावादितकेतकीकः ॥ नैषधीयचरितम् - 10 - 52 ॥
एकेन पर्यक्षिपदात्मनाद्रिं चक्षुर्मुरारेः
अभवत् परेण ।
तैर्द्वादशात्मा दशभिस्तु शेषैर्दिशो दश
अलोकत लोकपूर्णाः ॥ नैषधीयचरितम् - 10 - 53 ॥
प्रदक्षिणं दैवतहर्म्यमद्रिं सदैव कुर्वन्नपि शर्वरीशः ।
द्रष्टा महेन्द्रानुजदृष्टिमूर्त्या न
प्राप तद्दर्शनविघ्नतापम् ॥ नैषधीयचरितम् - 10 - 54 ॥
आलोकमाना वरलोकलक्ष्मीं तात्कालिकीमप्सरसो रसोत्काः ।
जनाम्बुधौ यत्र निजाननानि
वितेनुः अम्भोरुहकाननानि ॥ नैषधीयचरितम् - 10 - 55 ॥
न यक्षलक्षैः किम्
अलक्षि नो वा सिद्धैः किम्
अध्यासि समाप्तशोभा ।
सा किंनरैः किं न रसाद्
असेवि न
अदर्शि हर्षेण महर्षिभिर्वा ॥ नैषधीयचरितम् - 10 - 56 ॥
वाल्मीकिः
अश्लाघत तामनेकशाखत्रयीभूरुहराजिभाजा ।
क्लेशं विना कण्ठपथेन यस्य दैवी दिवः प्राग्भुवम्
आगमद् वाक् ॥ नैषधीयचरितम् - 10 - 57 ॥
प्राशंसि संसद्गुरुणापि चार्वी चार्वाकतासर्वविदूषकेण ।
आष्थानपट्टं रसनां यदीयां
जानामि वाचामधिदेवतायाः ॥ नैषधीयचरितम् - 10 - 58 ॥
नाकेऽपि दीव्यत्तमदिव्यवाचि वचःस्रगाचार्यकवित्कविर्यः ।
दैतेयनीतेः पथि सार्थवाहः काव्यः स काव्येन सभाम्
अभाणीत् ॥ नैषधीयचरितम् - 10 - 59 ॥
अमेलयद्भीमनृपः परं न न
आकर्षद् एतान्दमनस्वसैव ।
इदं विधातापि विचिन्त्य यूनः स्वशिल्पसर्वस्वमदर्शयन्नः ॥ नैषधीयचरितम् - 10 - 60 ॥
एकाकिभावेन पुरा पुरारिर्यः पञ्चतां पञ्चशरं
निनाय ।
तद्भीसमाधानममुष्य काय निकायलीलाः किममी युवानः ॥ नैषधीयचरितम् - 10 - 61 ॥
पूर्णेन्दुबिम्बाननुमासभिन्नानस्थापयत्क्वापि निधाय वेधाः ।
तैरेव शिल्पी
निरमाद् अमीषां मुखानि लावण्यमयानि मन्ये ॥ नैषधीयचरितम् - 10 - 62 ॥
मुधार्पितं मूर्धसु रत्नमेभिर्यन्नाम तानि स्वयमेत एव ।
स्वतःप्रकाशे परमात्मबोधे बोधान्तरं न स्फुरणार्थमर्थ्यम् ॥ नैषधीयचरितम् - 10 - 63 ॥
प्रवेक्ष्यतः सुन्दरवृन्दमुच्चैरिदं मुदा चेदितरेतरं तत् ।
न शक्ष्यतो लक्षयितुं विमिश्रं दस्रौ सहस्रैरपि वत्सराणाम् ॥ नैषधीयचरितम् - 10 - 64 ॥
स्थितैरियद्भिर्युवभिर्विदग्धैर्दग्धेऽपि कामे जगतः क्षतिः का ।
एकाम्बुबिन्दुव्ययमम्बुराशेः पूर्णस्य कः
शंसति शोषदोषम् ॥ नैषधीयचरितम् - 10 - 65 ॥
इति स्तुवन्हुङ्कृतिवर्गणाभिर्गन्धर्ववर्गेण स गायतैव ।
ओंकारभूम्ना पठतैव वेदान्महर्षिवृन्देन तथा
अन्वमानि ॥ नैषधीयचरितम् - 10 - 66 ॥
न्यवीविशत्तानथ राजसिंहान्सिंहासनौघेषु विदर्भराजः ।
शृङ्गेषु यत्र त्रिदशैरिवैभिः
अशोभि कार्तस्वरभूधरस्य ॥ नैषधीयचरितम् - 10 - 67 ॥
विचिन्त्य नानाभुवनागतांस्तानमर्त्यसङ्कीर्त्यचरित्रगोत्रान् ।
कथ्याः कथङ्कारममी सुतायामिति
व्यषादि क्षितिपेन तेन ॥ नैषधीयचरितम् - 10 - 68 ॥
श्रद्धालुसङ्कल्पितकल्पनायां कल्पद्रुमस्याथ रथाङ्गपाणेः ।
तदाकुलोऽसौ कुलदैवतस्य स्मृतिं
ततान क्षणमेकतानः ॥ नैषधीयचरितम् - 10 - 69 ॥
तच्चिन्तनानन्तरमेव देवः सरस्वतीं सस्मितम्
आह स स्म ।
स्वयंवरे राजकगोत्रवृत्तवत्त्रीमिह त्वां
करवाणि वाणि ॥ नैषधीयचरितम् - 10 - 70 ॥
कुलं च शीलं च बलं च यूनां
जानासि नानाभुवनागतानाम् ।
एषामतस्त्वं
भव वावदूका मूकायितुं कः समयस्तवायम् ॥ नैषधीयचरितम् - 10 - 71 ॥
जगत्त्रयीपण्डितमण्डितैषा सभा न भूता च न भाविनी च ।
राज्ञां गुणज्ञापनकैतवेन सङ्ख्यावतः श्रावय वाङ्मुखानि ॥ नैषधीयचरितम् - 10 - 72 ॥
इतीरिता तच्चरणात्परागं गीर्वाणचूडामणिमृष्टशेषम् ।
तस्य प्रसादेन सहाज्ञयासावादाय मूर्ध्नादरिणी
बभार ॥ नैषधीयचरितम् - 10 - 73 ॥
मध्येसभं सा
अवततार बाला गन्धर्वविद्याधरकण्ठनाला ।
त्रयीमयीभूतवलीविभङ्गा साहित्यनिर्वर्तितदृक्तरङ्गा ॥ नैषधीयचरितम् - 10 - 74 ॥
आसीत् अथर्वा त्रिवलित्रिवेदी मूलाद्विनिर्गत्य वितायमाना ।
नानाभिचारोचितमेचकश्रीः श्रुतिर्यदीयोदररोमरेखा ॥ नैषधीयचरितम् - 10 - 75 ॥
शिक्षैव साक्षाच्चरितं यदीयं कल्पश्रियाकल्पविधिर्यदीयः ।
यस्याः समस्तार्थनिरुक्तिरूपैर्निरुक्तिविद्या खलु
पर्यणंसीत् ॥ नैषधीयचरितम् - 10 - 76 ॥
जात्या च वृत्तेन च भिद्यमानं छन्दो भुजद्वन्द्वम्
अभूत् यदीयम् ।
श्लोकार्धविश्रान्तिमयीभविष्णु पर्वद्वयीसन्धिसुचिह्नमध्यम् ॥ नैषधीयचरितम् - 10 - 77 ॥
असंशयं सा गुणदीर्घभावकृता दधाना विततिं यदीया ।
विधायिका शब्दपरम्पराणां किं वा
अरचि व्याकरणेन काञ्ची ॥ नैषधीयचरितम् - 10 - 78 ॥
स्थितैव कण्ठे परिणम्य हारलता
बभूव उदिततारवृत्ता ।
ज्योतिर्मयी यद्भजनाय विद्या मध्येङ्गमङ्केन भृता
विशङ्के ॥ नैषधीयचरितम् - 10 - 79 ॥
अवैमि वादिप्रतिवादिगाढखपक्षरागेण विराजमाने ।
ते पूर्वपक्षोत्तरपक्षशास्त्रे रदच्छदौ भूतवती यदीयौ ॥ नैषधीयचरितम् - 10 - 80 ॥
ब्रह्मार्थकर्मार्थकवेदभेदा द्विधा विधाय स्थितयात्मदेहम् ।
चक्रे पराच्छादनचारु यस्या मीमांसया मांसलमूरुयुग्मम् ॥ नैषधीयचरितम् - 10 - 81 ॥
उद्देशपर्वण्यपि लक्षणेऽपि द्विधोदितैः षोडशभिः पदार्थैः ।
आन्वीक्षिकीं यद्दशनद्विमालीं तां मुक्तिकामाकलितां
प्रतीमः ॥ नैषधीयचरितम् - 10 - 82 ॥
तर्का रदा यद्वदनस्य तर्क्या वादेऽस्य शक्तिः क्व तथाऽन्यथा तैः ।
पत्त्रं क्व दातुं गुणशालिपूगं क्व वादतः खण्डयितुं प्रभुत्वम् ॥ नैषधीयचरितम् - 10 - 83 ॥
सपल्लवं व्यासपराशराभ्यां प्रणीतभावादुभयीभविष्णु ।
तन्मत्स्यपद्माद्युपलक्ष्यमाणं यत्पाणियुग्मं
ववृते पुराणम् ॥ नैषधीयचरितम् - 10 - 84 ॥
आकल्पविच्छेदविवर्जितो यः स धर्मशास्त्रव्रज एव यस्याः ।
पश्यामि मूर्धा श्रुतिमूलशाली कण्ठस्थितः कस्य मुदे न वृत्तः ॥ नैषधीयचरितम् - 10 - 85 ॥
भ्रुवौ दलाभ्यां प्रणवस्य यस्यास्तद्बिन्दुना भालतमालपत्त्रम् ।
तदर्धचन्द्रेण विधिर्विपञ्ची निक्वाणनाकोणधनुः
प्रणिन्ये ॥ नैषधीयचरितम् - 10 - 86 ॥
द्विकुण्डली वृत्तसमाप्तिलिप्या कराङ्गुली काञ्चनलेखनीनाम् ।
कैश्यं मषीणां स्मितभा कठिन्याः काये यदीये
निरमायि सारैः ॥ नैषधीयचरितम् - 10 - 87 ॥
या सोमसिद्धान्तमयाननेव शून्यात्मतावादमयोदरेव ।
विज्ञानसामस्त्यमयान्तरेव साकारतासिद्धिमयाखिलेव ॥ नैषधीयचरितम् - 10 - 88 ॥
भीमस्तया
अगद्यत मोदितुं ते वेला किलेयं तदलं विषद्य ।
मया निगाद्यं जगतीपतीनां गोत्रं चरित्रं च विचित्रमेषाम् ॥ नैषधीयचरितम् - 10 - 89 ॥
अविन्दत असौ मकरन्दलीलां मन्दाकिनी यच्चरणारविन्दे ।
अत्रावतीर्णा गुणवर्णनाय राज्ञां तदाज्ञावशगा
अस्मि कापि ॥ नैषधीयचरितम् - 10 - 90 ॥
तत्कालवेद्यैः शकुनस्वराद्यैराप्तामवाप्तां नृपतिः प्रतीत्य ।
तां लोकपालैकधुरीण एष तस्यै सपर्यामुचितां
दिदेश ॥ नैषधीयचरितम् - 10 - 91 ॥
दिगन्तरेभ्यः पृथिवीपतीनामाकर्षकौतूहलसिद्धविद्याम् ।
ततः क्षितीशः स निजां तनूजां मध्येमहाराजकम्
आजुहाव ॥ नैषधीयचरितम् - 10 - 92 ॥
दासीषु नासीरचरीषु जातं स्फीतं क्रमेणालिषु वीक्षितासु ।
स्वाङ्गेषु रूपोत्थमथाद्भुताब्धिमुद्वेलयन्तीमवलोककानाम् ॥ नैषधीयचरितम् - 10 - 93 ॥
स्निग्धत्वमायाजललेपलोपसयत्नरत्नांशुमृजांशुकाभाम् ।
नेपथ्यहीरद्युतिवारिवर्तिस्वच्छायसच्छायनिजालिजालाम् ॥ नैषधीयचरितम् - 10 - 94 ॥
विलेपनामोदमुदागतेन तत्कर्णपूरोत्पलसर्पिणा च ।
रतीशदूतेन मधुव्रतेन कर्णे रहः किञ्चिदिवोच्यमानाम् ॥ नैषधीयचरितम् - 10 - 95 ॥
विरोधिवर्णाभरणाश्मभासां मल्लाजिकौतूहलमीक्षमाणाम् ।
स्मरस्वचापभ्रमचालिते नु भ्रुवौ विलासाद्वलिते वहन्तीम् ॥ नैषधीयचरितम् - 10 - 96 ॥
सामोदपुष्पाशुगवासिताङ्गीं किशोरशाखाग्रशयालिमालाम् ।
वसन्तलक्ष्मीमिव राजभिस्तैः कल्पद्रुमैरप्यभिलष्यमाणाम् ॥ नैषधीयचरितम् - 10 - 97 ॥
पीतावदातारुणनीलभासां देहोपदेहात्किरणैर्मणीनाम् ।
गोरोचनाचन्दनकुङ्कुमैणनाभीविलेपान्पुनरुक्तयन्तीम् ॥ नैषधीयचरितम् - 10 - 98 ॥
स्मरं प्रसूनेन शरासनेन जेतारमश्रद्दधतीं नलस्य ।
तस्मै स्वभूषादृषदंशुशिल्पं बलद्विषः कार्मुकमर्पयन्तीम् ॥ नैषधीयचरितम् - 10 - 99 ॥
विभूषाणेभ्योऽवरमंशुकेषु ततोऽवरं सान्द्रमणिप्रभासु ।
सम्यक्पुनः क्वापि न राजकस्य पातुं दृशा धातृधृतावकाशाम् ॥ नैषधीयचरितम् - 10 - 100 ॥
प्राक्पुष्पवर्षैर्वियतः पतद्भिर्द्रष्टुं न दत्तामथ न द्विरेफैः ।
तद्भीतिभुग्नेन ततो मुखेन विधेरहो वाञ्छितविघ्नयत्नः ॥ नैषधीयचरितम् - 10 - 101 ॥
एतद्वरं
स्याम् इति राजकेन मनोरथातिथ्यमवापिताय ।
सखीमुखायोत्सृजतीमपाङ्गात्कर्पूरकस्तूरिकयोः प्रवाहम् ॥ नैषधीयचरितम् - 10 - 102 ॥
स्मितेच्छुदन्तच्छदकम्पकिञ्चिद्दिगम्बरीभूतरदांशुवृन्दैः ।
आनन्दितोर्वीन्द्रमुखारविन्दैर्मन्दं नुदन्तीं हृदि कौमुदीनाम् ॥ नैषधीयचरितम् - 10 - 103 ॥
प्रत्यङ्गभूषाच्छमणिच्छलेन यल्लग्नतन्निश्चललोकनेत्राम् ।
हाराग्रजाग्रद्गरुडाश्मरश्मिपीनाभनाभीकुहरान्धकाराम् ॥ नैषधीयचरितम् - 10 - 104 ॥
तद्गौरसारस्मितविस्मितेन्दुप्रभाशिरःकम्परुचोऽभिनेतुम् ।
विपाण्डुतामण्डितचामरालीनानामरालीकृतलास्यलीलाम् ॥ नैषधीयचरितम् - 10 - 105 ॥
तदङ्गभोगावलिगायनीनां मध्ये निरुक्तिक्रमकुण्ठितानाम् ।
स्वयं धृतामप्सरसां प्रसादं ह्रियं हृदो मण्डनमर्पयन्तीम् ॥ नैषधीयचरितम् - 10 - 106 ॥
तारा रदानां वदनस्य चन्द्रं रुचा कचानां च नभो जयन्तीम् ।
आकण्ठमक्ष्णोर्द्वितयं मधूनि महीभुजः कस्य न भोजयन्तीम् ॥ नैषधीयचरितम् - 10 - 107 ॥
अलङ्कृताङ्गाद्भुतकेवलाङ्गीं स्तवाधिकाध्यक्षनिवेद्यलक्ष्मीम् ।
इमां विमानेन सभां विशन्तीं
पपौ अपाङ्गैरथ राजराजिः ॥ नैषधीयचरितम् - 10 - 108 ॥
आसीत् असौ तत्र न कोऽपि भूपस्तन्मूर्तिरूपोद्भवदद्भुतस्य ।
उल्लेसुः अङ्गानि मुदा न यस्य विनद्ररोमाङ्कुरदन्तुराणि ॥ नैषधीयचरितम् - 10 - 109 ॥
अङ्गुष्ठमूर्ध्ना विनिपीडिताया मध्येन भागेन च मध्यमायाः ।
आस्फोटि भैमीमवलोक्य तत्र न तर्जनी केन जनेन नाम ॥ नैषधीयचरितम् - 10 - 110 ॥
अस्मिन्समाजे मनुजेश्वरेण तां खञ्जनाक्षीमंवलोक्य केन ।
पुनः पुनर्लोलितमौलिना न भ्रुवोरुदक्षेपितरां द्वयी वा ॥ नैषधीयचरितम् - 10 - 111 ॥
स्वयंवरस्याजिरमाजिहानां विभाव्य भैमीमथ भूमिनाथैः ।
इदं मुदा विह्वलचित्तभावाद्
अवादि खण्डाक्षारजिह्मजिह्वम् ॥ नैषधीयचरितम् - 10 - 112 ॥
रम्भादिलोभात्कृतकर्मभिर्मा शून्यैव भूः
अभूत् सुरभूमिपान्थैः ।
इत्येतया
अलोपि दिवोऽपि पुंसां वैमत्यमत्यप्सरसा रसायाम् ॥ नैषधीयचरितम् - 10 - 113 ॥
रूपं यदाकर्ण्य जनाननेभ्यस्तत्तद्दिगन्ताद्वयम्
आगमाम ।
सौन्दर्यसारादनुभूयमानादस्यास्तदस्माद्बहु नाकनीयः ॥ नैषधीयचरितम् - 10 - 114 ॥
रसस्य शृङ्गार इति श्रुतस्य क्व नाम
जागर्ति महानुदन्वान् ।
कस्माद्
उदस्थाद् इयमन्यथा श्रीर्लावण्यवैदग्ध्यनिधिः पयोधेः ॥ नैषधीयचरितम् - 10 - 115 ॥
साक्षात्सुधांशुर्मुखमेव भैम्या दिवः स्फुटं लाक्षणिकः शशाङ्कः ।
एतद्भुवौ मुख्यमनङ्गचापं पुष्पं पुनस्तद्गुणमात्रवृत्त्या ॥ नैषधीयचरितम् - 10 - 116 ॥
लक्ष्ये धृतं कुण्डलिके सुदत्या ताटङ्कयुग्मं स्मरधन्विने किम् ।
सव्यापसव्यं विशिखा विसृष्टास्तेनानयोः
यान्ति किमन्तरेव ॥ नैषधीयचरितम् - 10 - 117 ॥
तनोति अकीर्तिं कुसुमाशुगस्य सैषा बतेन्दीवरकर्णपूरौ ।
यतः श्रवःकुण्डलिकापराद्धशरं खलः ख्यापयिता तमाभ्याम् ॥ नैषधीयचरितम् - 10 - 118 ॥
रजःपदं षट्पदकीटजुष्टं हित्वात्मनः पुष्पमयं पुराणम् ।
अद्यात्मभूः
आद्रियतां स भैम्या भ्रूयुग्ममन्तर्धृतमुष्टि चापम् ॥ नैषधीयचरितम् - 10 - 119 ॥
पद्मान्हिमे प्रावृषि खञ्जरीटान्क्षिप्नुर्यमादाय विधिः क्वचित्तान् ।
सारेण तेन प्रतिवर्षमुच्चैः
पुष्णाति दृष्टिद्वयमेतदीयम् ॥ नैषधीयचरितम् - 10 - 120 ॥
एतादृशोरम्बुरुहैर्विशेषं भृङ्गौ जनः
पृच्छतु तद्गुणज्ञौ ।
इतीव धाता
अकृत तारकालिस्त्रीपुंसमाध्यस्थ्यमिहाक्षियुग्मे ॥ नैषधीयचरितम् - 10 - 121 ॥
व्यधत्त सौधे रतिकामयोस्तद्भक्तं वयोऽस्या हृदि वासभाजोः ।
तदग्रजाग्रत्पृथुशातकुम्भकुम्भौ न सम्भावयति स्तनौ कः ॥ नैषधीयचरितम् - 10 - 122 ॥
अस्या भुजाभ्यां विजिताद्बिसाक्तिं पृथक्करः
अगृह्यत तत्प्रसूनम् ।
इह
ईक्ष्यते तन्न गृहाः श्रियः कैर्न
गीयते वा कर एव लोकैः ॥ नैषधीयचरितम् - 10 - 123 ॥
छद्मैव तच्छम्बरजं बिसिन्यास्तत्पद्ममस्यास्तु भुजाग्रसदम् ।
उत्कण्टकादुद्गमनेन नालादुत्कण्टकं शातशिखैर्नखैर्यत् ॥ नैषधीयचरितम् - 10 - 124 ॥
जागर्ति मर्त्येषु तुलार्थमस्या योग्येति योग्यानुपलम्भनं नः ।
यदि
अस्ति नाके भुवनेऽथ वाधस्तदा न कौतस्कुतलोकबाधः ॥ नैषधीयचरितम् - 10 - 125 ॥
नमः करेभ्यः
अस्तु विधेर्न वा
अस्तु स्पृष्टं धियाप्यस्य न किं पुनस्तैः ।
स्पर्शादिदं
स्यात् लुलितं हि शिल्पं मनोभुवोऽनङ्गतयानुरूपम् ॥ नैषधीयचरितम् - 10 - 126 ॥
इमां न मृद्वीम्
असृजत् कराभ्यां वेधा कुशाध्यासनकर्कशाभ्याम् ।
शृङ्गारधारां मनसा न शान्तिविश्रान्तिधन्वाध्वमहीरुहेण ॥ नैषधीयचरितम् - 10 - 127 ॥
उल्लास्य धातुस्तुलिता करेण श्रोणौ किमेषा स्तनयोर्गुरुर्वा ।
तेनान्तरालैस्त्रिभिरङ्गुलीनामुदीतमध्यत्रिवलीविलासा ॥ नैषधीयचरितम् - 10 - 128 ॥
निजामृतोद्यन्नवनीतजाङ्गीमेतां क्रमोन्मीलितपीतिमानम् ।
कृत्वेन्दुरस्या मुखमात्मना
अभूत् निद्रालुना दुर्घटमम्बुजेन ॥ नैषधीयचरितम् - 10 - 129 ॥
अस्याः स चारुर्मधुरेव कारुः श्वासं
वितेने मलयानिलेन ।
अमूनि सूनैः
विदधे अङ्गकानि
चकार वाचं पिकपञ्चमेन ॥ नैषधीयचरितम् - 10 - 130 ॥
कृतिः स्मरस्यैव न धातुरेषा नास्या हि शिल्पीतरकारुजेयः ।
रूपस्य शिल्पे वयसाऽपि वेधा
निर्जीयते स स्मरकिङ्करेण ॥ नैषधीयचरितम् - 10 - 131 ॥
गुरोरपीमां भणदोष्ठकण्ठं निरुक्तिगर्वच्छिदया विनेतुः ।
श्रमः स्मरस्यैव भवं विहाय मुक्तिं गतानामनुतापनाय ॥ नैषधीयचरितम् - 10 - 132 ॥
आख्यातुमक्षिव्रजसर्वपीतां भैमीं तदेकाङ्गनिखातदृक्षु ।
गाथासुधाश्लेषकलाविलासैः अलं
चकार आननचन्द्रमिन्द्रः ॥ नैषधीयचरितम् - 10 - 133 ॥
स्मितेन गौरी हरिणी दृशेयं वीणावती सुस्वरकण्ठभासा ।
हेमेव कायप्रभयाङ्गशेषैस्तन्वी मतिं
क्रामति मे न कापि ॥ नैषधीयचरितम् - 10 - 134 ॥
इति स्तुवानः सविधे नलेन विलोकितः शङ्कितमानसेन ।
व्याकृत्य मर्त्योचितमर्थमुक्तेराखण्डलस्तस्य
नुनोद शङ्काम् ॥ नैषधीयचरितम् - 10 - 135 ॥
स्वं नैषधादेशमहो विधाय कार्यस्य हेतोरपि नानलः सन् ।
किं स्थानिवद्भावम्
अधत्त दुष्टं तादृक्कृतव्याकरणः पुनः सः ॥ नैषधीयचरितम् - 10 - 136 ॥
इयमियमधिरथ्यं
याति नेपथ्यमञ्जुः
विशति विशति वेदीमुर्वशी सेयमुर्व्याः ।
इति जनजनितैः सानन्दनादैः
विजघ्ने नलहृदि परभैमीवर्णनाकर्णनाप्तिः ॥ नैषधीयचरितम् - 10 - 137 ॥
श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः
सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
तर्केष्वप्यसमश्रमस्य दशमस्तस्य
व्यरंसीत् महाकाव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥ नैषधीयचरितम् - 10 - 138 ॥
।। इति नैषधीयचरितमहाकाव्ये दशमसर्गः ।।
एकादशसर्गः
तां देवतामिव मुखेन्दुवसत्प्रसादामक्ष्णा रसादनिमिषेण निभालयन्तीम् ।
लाभाय चेतसि धृतस्य वरस्य भीमभूमीन्द्रजा तदनु राजसभां
बभाज ॥ नैषधीयचरितम् - 11 - 1 ॥
तन्निर्मलावयवभित्तिषु तद्विभूषारत्नेषु च प्रतिफलन्निजदेहदम्भात् ।
दृष्ट्या परं न हृदयेन न केवलं तैः सर्वात्मनैव सुतनौ युवभिः
ममज्जे ॥ नैषधीयचरितम् - 11 - 2 ॥
द्यामन्तरा वसुमतीमपि गाधिजन्मा यद्यन्यमेव
निरमास्यत नाकलोकम् ।
चारुः स यादृग्
अभविष्यद् अभूद् विमानैस्तादृक्तदभ्रमवलोकितुमागतानाम् ॥ नैषधीयचरितम् - 11 - 3 ॥
कुर्वद्भिरात्मभवसौरभसम्प्रदानं भूपालचक्रचलचामरमारुतौघम् ।
आलोकनाय दिवि सञ्चरतां सुराणां तत्रार्चनाविधिः
अभूद् अधिवासधूपैः ॥ नैषधीयचरितम् - 11 - 4 ॥
तत्रावनीन्द्रचयचन्दनचन्द्रलेपनेपथ्यगन्धवहगन्धवहप्रवाहम् ।
आलीभिरापतदनङ्गशरानुसारी संरुध्य सौरभम्
अगाहत भृङ्गवर्गः ॥ नैषधीयचरितम् - 11 - 5 ॥
उत्तुङ्गमङ्गलमृदङ्गनिनादभङ्गीसर्वानुवादविधिबोधितसाधुमेधाः ।
सौधस्रजः प्लुतपताकतया
अभिनिन्युः मन्ये जनेषु निजताण्डवपण्डितत्वम् ॥ नैषधीयचरितम् - 11 - 6 ॥
सम्भाषणं भगवती सदृशं विधाय वाग्देवता विनयवन्धुरकंधरायाः ।
ऊचे चतुर्दशजगज्जनतानमस्या तन्नाश्रिता सदसि दक्षिणपक्षमस्याः ॥ नैषधीयचरितम् - 11 - 7 ॥
अभ्यागमत् मुखभुजामिह कोटिरेषा येषां पृथक्कथनमब्दशतातिपाति ।
अस्यां
वृणीष्व मनसा परिभाव्य कंचिद्यं चित्तवृत्तिः
अनुधावति तावकीना ॥ नैषधीयचरितम् - 11 - 8 ॥
एषां त्वदीक्षणरसादनिमेषतैषा स्वाभाविकानिमिषतामिलिता यथा
अभूत् ।
आस्ये तथैव तव नन्वधरोपभोगैर्मुग्धे विधावमृतपानमपि द्विधा
अस्तु ॥ नैषधीयचरितम् - 11 - 9 ॥
एषां गिरेः सकलरत्नफलस्तरुः स प्राग्दुग्धभूमिसुरभेः खलु पञ्चशाखः ।
मुक्ताफलं फलनसान्वयनाम तन्वन्ना
आभाति बिन्दुभिरिव च्छुरितः पयोधेः ॥ नैषधीयचरितम् - 11 - 10 ॥
वक्त्रेन्दुसंनिधिनिमीलदलारविन्दद्वन्द्वभ्रमक्षममथाञ्जलिनात्ममौलौ ।
कृत्वापराधभयचञ्चलमीक्षमाणा सान्यत्र गन्तुममरैः कृपया
अन्वमानि ॥ नैषधीयचरितम् - 11 - 11 ॥
तत्तद्विरागमुदितं शिबिकाधरस्थाः साक्षाद्
विदुः स्म न मनागपि यानधुर्याः ।
आसन्ननायकविषण्णमुखानुमेयभैमीविरक्तचरितानुमया तु
जज्ञुः ॥ नैषधीयचरितम् - 11 - 12 ॥
रक्षःस्वरक्षणमवेक्ष्य निजं निवृत्तो विद्याधरेष्वधरतां वपुषैव भैम्याः ।
गन्धर्वसंसदि न गन्धमपि स्वरस्य तस्या विमृश्य विमुखो
अजनि यानवर्गः ॥ नैषधीयचरितम् - 11 - 13 ॥
दीनेषु सत्स्वपि कृताफलवित्तरक्षैर्यक्षैः
अदर्शि न मुखं त्रपयैव भैम्याम् ।
ते
जानते स्म सुरशाखिपतिव्रतां किं तां कल्पवीरुधमधिक्षिति नावतीर्णाम् ॥ नैषधीयचरितम् - 11 - 14 ॥
जन्यास्ततः फणभृतामधिपः सुरौघान्माञ्जिष्थमञ्जिमवगाहिपदोष्ठलक्ष्मीम् ।
तां मानसं निखिलवारिचयान्नवीना हंसावलीमिव घना गमयां
बभूवुः ॥ नैषधीयचरितम् - 11 - 15 ॥
यस्या विभोरखिलवाङ्मयविस्तरोऽयम् आख्यायते परिणतिर्मुनिभिः पुनः सा ।
उद्गत्वरामृतकरार्धपरार्ध्यभालां बालाम्
अभाषत सभासततप्रगल्भा ॥ नैषधीयचरितम् - 11 - 16 ॥
आश्लेषलग्नगिरिजाकुचकुङ्कुमेन यः पट्टसूत्रपरिरम्भणशोणशोभः ।
यज्ञोपवीतपदवीं
भजते स शम्भोः सेवासु वासुकिरयं प्रसितः सितश्रीः ॥ नैषधीयचरितम् - 11 - 17 ॥
पाणौ फणी
भजति कङ्कणभूयमैशे सोऽयं मनोहरमणीरमणीयमुच्चैः ।
कोटीरबन्धनधनुर्गुणयोगपट्टव्यापारपारगममुं
भज भूतभर्तुः ॥ नैषधीयचरितम् - 11 - 18 ॥
धृत्वैकया रसनयामृतमीश्वरेन्दोरप्यन्यया त्वदधरस्य रसं द्विजिह्वः ।
आस्वादयन्युगपदेष परं विशेषं निर्णेतुमेतदुभयस्य यदि क्षमः
स्यात् ॥ नैषधीयचरितम् - 11 - 19 ॥
आशीविषेण रदनच्छददंशदानमेतेन ते पुनरनर्थतया न गण्यम् ।
बाधां विधातुमधरे हि न तावकीने पीयूषसारधटिते
घटते अस्य शक्तिः ॥ नैषधीयचरितम् - 11 - 20 ॥
तद्विस्फुरत्फणविलोकनभूतभीतेः कम्पं च वीक्ष्य पुलकं च ततोनु तस्याः ।
सञ्जातसात्विकविकारधियः स्वभृत्यान्नृत्यात्
न्यषेधद् उरगाधिपतिर्विलक्षाः ॥ नैषधीयचरितम् - 11 - 21 ॥
तद्दर्शिभिः स्ववरणे फणिभिर्निराशैर्निःश्वस्य तत्किमपि सृष्टमनात्मनीनम् ।
यत्तान्प्रयातुमनसोऽपि विमानवाहा हा हा प्रतीपपवनाशकुनान्न
जग्मुः ॥ नैषधीयचरितम् - 11 - 22 ॥
ह्रीसङ्कुचत्फणगणादुरगप्रधानात्तां राजसङ्घम्
अनयन्त विमानवाहाः ।
सन्ध्यानमद्दलकुलात्कमलाद्विनीय कह्लारमिन्दुकिरणा इव हासभासम् ॥ नैषधीयचरितम् - 11 - 23 ॥
देव्या
अभ्यधायि भव भीरु धृतावधाना भूमीभुजो
त्यजत भीमभुवो निरीक्षाम् ।
आलोकितामपि पुनः पिबतां दृशैनामिच्छा
अपगच्छति न वत्सरकोटिभिर्वा ॥ नैषधीयचरितम् - 11 - 24 ॥
लोकेशकेशवशिवानपि यः
चकार शृङ्गारसान्तरभृशान्तरशान्तभावान् ।
पञ्चेन्द्रियाणि जगतामिषुपञ्चकेन संक्षोभयन्
वितनुतां वितनुर्मदं वः ॥ नैषधीयचरितम् - 11 - 25 ॥
पुष्पेषुणा ध्रुवममूनिषुवर्षजप्तिहुङ्कारमन्त्रबलभस्मितशान्तशक्तीन् ।
शृङ्गारसर्गरसिकद्व्यणुकोदरि त्वं द्वीपाधिपान्नयनयोः
नय गोचरत्वम् ॥ नैषधीयचरितम् - 11 - 26 ॥
स्वादूदके जलनिधौ सवनेन सार्धं भव्या
भवन्तु तव वारिविहारलीलाः ।
द्वीपस्य तं पतिममुं
भज पुष्करस्य निस्तन्द्रपुष्करतिरस्करणक्षमाक्षि ॥ नैषधीयचरितम् - 11 - 27 ॥
सावर्तभावभवदद्भुतनाभिकूपे स्वर्भौममेतदुपवर्तनमात्मनैव ।
स्वाराज्यम
अर्जयसि न श्रियमेतदीयामेतद्गृहे
परिगृहाण शचीविलासम् ॥ नैषधीयचरितम् - 11 - 28 ॥
देवः स्वयं
वसति तत्र किल स्वयम्भूर्न्यग्रोधमण्डलतले हिमशीतले यः ।
स वां विलोक्य निजशिल्पमनन्यकल्पं सर्वेषु कारुषु
करोतु करेण दर्पम् ॥ नैषधीयचरितम् - 11 - 29 ॥
न्यग्रोधनादिव दिवः पतदातपादेर्न्यग्रोधमात्मभरधारमिवावरोहैः ।
तं तस्य पाकिफलनीलदलद्युतिभ्यां द्वीपस्य
पश्य शिखिपत्त्रजमातपत्रम् ॥ नैषधीयचरितम् - 11 - 30 ॥
न
श्वेततां चरतु वा भुवनेषु राजहंसस्य न प्रियतमा कथमस्य किर्तिः ।
चित्रं तु यद्विशदिमाद्वयमाविशन्ती क्षीरं च नाम्बु च मिथः पृथग्
आतनोति ॥ नैषधीयचरितम् - 11 - 31 ॥
शूरेऽपि सूरिपरिषत्प्रथमार्चितेऽपि शृङ्गारभङ्गिमधुरेऽपि कलाकरेऽपि ।
तस्मिन्नवद्यमियम्
आप तदेव नाम यत्कोमलं न किल तस्य नलेति नाम ॥ नैषधीयचरितम् - 11 - 32 ॥
भ्रूवल्लिवेल्लितमथाकृतिभङ्गिमेषा लिङ्गं
चकार तदनादरणस्य विज्ञा ।
राज्ञोऽपि तस्य तदलाभजतापवह्निश्चिह्नी
बभूव मलिनच्छविभूमधूमः ॥ नैषधीयचरितम् - 11 - 33 ॥
राजान्तराभिमुखमिन्दुमुखीमथैनां जन्या जनीं हृदयवेदितयैव
निन्युः ।
अन्यानपेक्षितविधौ न खलु प्रधानवाचां
भवति अवसरः सति भव्यभृत्ये ॥ नैषधीयचरितम् - 11 - 34 ॥
ऊचे पुनर्भगवती नृपमन्यमस्यै निर्दिश्य दृश्यतमतावमताश्विनेयम् ।
आलोक्यताम् अयमये कुलशीलशाली शालीनतानतमुदस्य निजास्यबिम्बम् ॥ नैषधीयचरितम् - 11 - 35 ॥
एतत्पुरःपठदपश्रमबन्दिवृन्दवाग्डम्बरैरनवकाशतरेऽम्बरेऽस्मिन् ।
उत्पत्तुम्
अस्ति पदमेव न मत्पदानामर्थोऽपि नार्थपुनरुक्तिषु पातुकानाम् ॥ नैषधीयचरितम् - 11 - 36 ॥
नन्वत्र हव्य इति विश्रुतनाम्नि शाकद्वीपप्रशासिनि सुधीषु सुधीभवन्त्या ।
एतद्भुजाबिरुदबन्दिजयानयापि किं रागि राजनि गिरा
अजनि नान्तरं ते शाकः ॥ नैषधीयचरितम् - 11 - 37 ॥
शुकच्छदसमच्छविपत्त्रमालभारी
हरिष्यति तरुस्तव तत्र चित्तम् ।
यत्पल्लवौघपरिरम्भविजृम्भितेन ख्याता जगत्सु हरितो हरितः
स्फुरन्ति ॥ नैषधीयचरितम् - 11 - 38 ॥
स्पर्शेन तत्र किल तत्तरुपत्त्रजन्मा यन्मारुतः कमपि संमदम्
आदधाति ।
कौतूहलं तदनुभूय
विधेहि भूयः श्रद्धां पराशरपुराणकथान्तरेऽपि ॥ नैषधीयचरितम् - 11 - 39 ॥
क्षीरार्णवस्तवकटाक्षरुचिच्छटानाम्
अध्येतु तत्र विकटायितमायताक्षि ।
वेलावनीवनततिप्रतिबिम्बचुम्बिकिर्मीरितोर्मिचयचारिमचापलाभ्याम् ॥ नैषधीयचरितम् - 11 - 40 ॥
कल्लोलजालचलनोपनतेन पीवा जीवातुनानवरतेन पयोरसेन ।
अस्मिन्नखण्डपरिमण्डलितोरुमूर्तिः
अध्यास्यते मधुभिदा भुजगाधिराजः ॥ नैषधीयचरितम् - 11 - 41 ॥
त्वद्रूपसम्पदवलोकनजातशङ्का पादाब्जयोरिह कराङ्गुलिलालनेन ।
भूयात् चिराय कमला कलितावधाना निद्रानुबन्धमनुरोधयितुं धवस्य ॥ नैषधीयचरितम् - 11 - 42 ॥
बालातपैः कृतकगैरिकतां कृतां द्विस्तत्रोदयाचलशिलाः
परिशीलयन्तु ।
त्वद्विभ्रमभ्रमणजश्रमवारिधारिपादाङ्गुलीगलितया नखलाक्षयापि ॥ नैषधीयचरितम् - 11 - 43 ॥
नृणां करम्बितमुदामुदयन्मृगाङ्कशङ्कां
सृजतु अनघजङ्घि परिभ्रमन्त्याः ।
तत्रोदयाद्रिशिखरे तव दृश्यमास्यं कश्मीरसम्भवसमारचनाभिरामम् ॥ नैषधीयचरितम् - 11 - 44 ॥
एतेन ते विरहपावकमेत्य तावत्कामं स्वनाम कलितान्वयम्
अन्वभावि ।
अङ्गी
करोषि यदि तत्तव नन्दनाद्यैर्लब्धान्वयं स्वमपि नन्वयम्
आतनोतु ॥ नैषधीयचरितम् - 11 - 45 ॥
लक्ष्मीलतासमवलम्बभुजद्रुमेऽपि वाग्देवतायतनमञ्जुमुखाम्बुजेऽपि ।
सामुत्र दूषणम्
अजीगणद् एकमेव नार्थी
बभूव मघवा यदमुष्य देवः ॥ नैषधीयचरितम् - 11 - 46 ॥
लक्ष्मीविलासवसतेः सुमनःसु मुख्यादस्माद्विकृष्य भुवि लब्धगुणप्रसिद्धिम् ।
स्थानान्तरं तदनु
निन्युः इमां विमानवाहाः पुनः सुरभितामिव गन्धवाहाः ॥ नैषधीयचरितम् - 11 - 47 ॥
भूयस्ततो निखिलवाङ्मयदेवता सा हेमोपमेयतनुभासम्
अभाषत एनाम् ।
एतं स्वबाहुबहुवारनिवारितारिं चित्ते
कुरुष्व कुरुविन्दसकान्तिदन्ति ॥ नैषधीयचरितम् - 11 - 48 ॥
द्वीपस्य
पश्य दयितं द्युतिमन्तमेनं क्रौञ्चस्य चञ्चलदृगञ्चलविभ्रमेण ।
यन्मण्डले स परिमण्डलसंनिवेशः पाण्डुः
चकास्ति दधिमण्डपयोधिपूरः ॥ नैषधीयचरितम् - 11 - 49 ॥
तत्राद्रिः
अस्ति भवदङ्घ्रिविहारयाची क्रौञ्चः
स्फुरिष्यति गुणानिव यस्त्वदीयान् ।
हंसावली कलकलप्रतिनादवाग्भिः स्कन्देषुवृन्दविवरैर्विवरीतुकामः ॥ नैषधीयचरितम् - 11 - 50 ॥
वैदर्भि दर्भदलपूजनयापि यस्य गर्भे जनः पुनः
उदेति न जातु मातुः ।
तस्यार्चनां
रचय तत्र मृगाङ्कमौलेस्तन्मात्रदैवतजनाभिजनः स देशः ॥ नैषधीयचरितम् - 11 - 51 ॥
चूडाग्रचुम्बिमिहिरोदयशैलशीलस्तेनाः स्तनन्धयसुधाकरशेखरस्य ।
तस्मिन्सुवर्णरसभूषणरम्यहर्म्यभूभृद्धटा
घटय हेमघटावतंसाः ॥ नैषधीयचरितम् - 11 - 52 ॥
तस्मिन्मलिम्लुच इव स्मरकेलिजन्मघर्मोदबिन्दुमययौक्तिकमण्डनं ते ।
जालैर्मिलन्दधिमहोदधिपूरलोलकल्लोलचामरमरुत्तरुणि
छिनत्तु ॥ नैषधीयचरितम् - 11 - 53 ॥
एतद्यशो नवनवं खलु हंसवेषं वेशन्तसन्तरणदूरगमक्रमेण ।
अभ्यासम्
अर्जयति सन्तरितुं समुद्रान्गन्तुं च निःश्रममितः सकलान्दिगन्तान् ॥ नैषधीयचरितम् - 11 - 54 ॥
तस्मिन्गुणैरपि भृते गणनादरिद्रैस्तन्वी न सा हृदयबन्धम्
अवाप भूपे ।
दैवे निरुन्धति निबन्धनतां
वहन्ति हन्त प्रयासपरुषाणि न पौरुषाणि ॥ नैषधीयचरितम् - 11 - 55 ॥
ते
निन्यिरे नृपतिमन्यमिमाममुष्मादंसावतंसशिबिकांशभृतः पुमांसः ।
रत्नाकरादिव तुषारमयूखलेखां लेखानुजीविपुरुषा गिरिशोत्तमाङ्गम् ॥ नैषधीयचरितम् - 11 - 56 ॥
एकैकमद्भुतगुणं धुतदूषणं च हित्वान्यमन्यमुपगत्य परित्यजन्तीम् ।
एनां
जगाद जगदञ्चितपादपद्मा पद्मामिवाच्युतभुजान्तरविच्युतां सा ॥ नैषधीयचरितम् - 11 - 57 ॥
ईशः कुशेशयसनाभिशये कुशेन द्वीपस्य लाञ्छिततनोर्यदि वाञ्छितस्ते ।
ज्योतिष्मता सममनेन वनीघनासु तत्त्वं
विनोदय घृतोदतटीषु चेतः ॥ नैषधीयचरितम् - 11 - 58 ॥
वातोर्मिदोलनचलद्दलमण्डलाग्रभिन्नाभ्रमण्डलगलज्जलजातसेकः ।
स्तम्बः कुशस्य
भविता अम्बरचुम्बिचूडश्चित्राय तत्र तव नेत्रनिपीयमानः ॥ नैषधीयचरितम् - 11 - 59 ॥
पाथोधिमाथसमयोत्थितसिन्धुपुत्रीपत्पङ्कजार्पणपवित्रशिलासु तत्र ।
पत्या सह
आवह विहारमयैर्विलासैरानन्दमिन्दुमुखि मन्दरकन्दरासु ॥ नैषधीयचरितम् - 11 - 60 ॥
आरोहणाय तव सज्ज इव
अस्ति तत्र सोपानशोभिवपुरश्मवलिच्छटाभिः ।
भोगीन्द्रवेष्टशतघृष्टिकृताभिरब्धिक्षुब्धाचलः कनककेतकगोत्रगात्रि ॥ नैषधीयचरितम् - 11 - 61 ॥
मन्था नगः स भुजगप्रभुवेष्टघृष्टिलेखावलद्धवलनिर्झरवारिधारः ।
त्वन्नेत्रयोः स्वभरयन्त्रितशीर्षशेषशेषाङ्गवेष्टिततनुभ्रमम्
आतनोतु ॥ नैषधीयचरितम् - 11 - 62 ॥
एतेन ते स्तनयुगेन सुरेभकुम्भौ पाणिद्वयेन दिविषह्रुमपल्लवानि ।
आस्येन स
स्मरतु नीरधिमन्थनोत्थं स्वच्छन्दमिन्दुमपि सुन्दरि मन्दराद्रिः ॥ नैषधीयचरितम् - 11 - 63 ॥
वेदैर्वचोभिरखिलैः कृतकीर्तिरत्ने हेतुं विनैव धृतनित्यपरार्थयत्ने ।
मीमांसयेव भगवत्यमृतांशुमौलौ तस्मिन्महीभुजि तयानुमतिर्न
भेजे ॥ नैषधीयचरितम् - 11 - 64 ॥
तस्मादिमां नरपतेरपनीय तन्वीं राजन्यमन्यमथ जन्यजनः स
निन्ये ।
स्त्रीभावधावितपदामविमृश्य याच्ञामर्थी निवर्त्य विधनादिव वित्तवित्तम् ॥ नैषधीयचरितम् - 11 - 65 ॥
देवी पवित्रितचतुर्भुजवामभागा वाग्
आलपत् पुनरिमां गरिमाभिरामाम् ।
अस्यारिनिष्कृपकृपाणसनाथपाणेः पाणिग्रहाद्
अनुगृहाण गणं गुणानाम् ॥ नैषधीयचरितम् - 11 - 66 ॥
द्वीपस्य शाल्मल इति प्रथितस्य नाथः पाथोधिना वलयितस्य सुराम्बुनायम् ।
अस्मिन्वपुष्मति न
विस्मयसे गुणाब्धौ रक्ता तिलप्रसवनासिकि न
असि किं वा ॥ नैषधीयचरितम् - 11 - 67 ॥
विप्रे
धयति उदधिमेकतमं त्रसत्सु यस्तेषु पञ्चसु बिभाय न सीधुसिन्धुः ।
तस्मिन्ननेन च निजालिजनेन च त्वं सार्धं
विधेहि मधुरा मधुपानकेलीः ॥ नैषधीयचरितम् - 11 - 68 ॥
द्रोणः स तत्र
वितरिष्यति भाग्यलभ्यसौभाग्यकार्मणमयीमुपदां गिरिस्ते ।
तद्द्वीपदीप इव दीप्तिभिरौषधीनां चूडामिलज्जलदकज्जलदर्शनीयः ॥ नैषधीयचरितम् - 11 - 69 ॥
तद्वीपलक्ष्मपृथुशाल्मलितूलजालैः क्षोणीतले मृदुनि मारुतचारुकीर्णैः ।
लीलाविहारसमये चरणार्पणानि योग्यानि ते सरससारसकोशमृद्वि ॥ नैषधीयचरितम् - 11 - 70 ॥
एतद्गुणश्रवणकालविजृम्भमाणतल्लोचनाञ्चलनिकोचनसूचितस्य ।
भावस्य
चक्रुः उचितं शिबिकाभृतस्ते तामेकतः क्षितिपतेरपरं नयन्तः ॥ नैषधीयचरितम् - 11 - 71 ॥
तां भारती पुनर्
अभाषत नन्वमुष्मिन्काश्मीरपङ्कनिभलग्नजनानुरागे ।
श्रीखण्डलेपमयदिग्जयकीर्तिराजिराजद्भुजे
भज महीभुजि भैमि भावम् ॥ नैषधीयचरितम् - 11 - 72 ॥
द्वीपं द्विपाधिपति मन्दपदे
प्रशास्ति प्लक्षोपलक्षितमयं क्षितिपस्तदस्य ।
मेधातिथेस्त्वमुरसि
स्फुर सृष्टसौख्या साक्षाद्यथैव कमला यमलार्जुनारेः ॥ नैषधीयचरितम् - 11 - 73 ॥
प्लक्षे महीयसि महीवलयातपत्रे तत्रेक्षिते खलु तवापि मतिर्भवित्री ।
खेलां विधातुमधिशाखविलम्बिदोलालोलाखिलाङ्गजनताजनितानुरागे ॥ नैषधीयचरितम् - 11 - 74 ॥
पीत्वा तवाधरसुधां वसुधासुधांशुर्न श्रद्
दधातु रसमिक्षुरसोदवाराम् ।
द्वीपस्य तस्य
दधतां परिवेषवेषं सोऽयं चमत्कृतचकोरचलाचलाक्षि ॥ नैषधीयचरितम् - 11 - 75 ॥
सूरं न सौर इव नेन्दुमवीक्ष्य तस्मिन्न
अश्नाति यस्तदितरत्रिदशानभिज्ञः ।
तस्यैन्दवस्य भवदास्यनिरीक्षयैव दर्शे श्नतोऽपि न
भवति अवकीर्णिभावः ॥ नैषधीयचरितम् - 11 - 76 ॥
उत्सर्पिणी न किल तस्य तरिङ्गिणी या त्वन्नेत्रयोरहह तत्र विपाशि जाता ।
नीराजनाय नवनीरजराजिः
आस्ताम् अत्राञ्जस
अनुरज राजनि राजमाने ॥ नैषधीयचरितम् - 11 - 77 ॥
एतद्यशोभिरखिलेऽम्बुनि
सन्तु हंसा दुग्धीकृते तदुभयव्यतिभेदमुग्धाः ।
क्षीरे पयस्यपि पदे द्वयवाचिभूयं नानार्थकोषविषयोऽद्य मृषोद्यम्
अस्तु ॥ नैषधीयचरितम् - 11 - 78 ॥
ब्रूमः किमस्य नलमप्यलमाजुहूषोः कीर्तिं स चैष च
समादिशतः स्म कर्तुम् ।
स्वद्वीपसीमसरिदीश्वरपूरपारवेलाचलाक्रमणविक्रममक्रमेण ॥ नैषधीयचरितम् - 11 - 79 ॥
अम्भोजगर्भरुचिराथ विदर्भसुभ्रूस्तं गर्भरूपमपि रूपजितत्रिलोकम् ।
वैराग्यरूक्षम्
अवलोकयति स्म भूपं दृष्टिः पुरत्रयरिपोरिव पुष्पचापम् ॥ नैषधीयचरितम् - 11 - 80 ॥
ते तां ततोऽपि
चकृषुः जगदेकदीपादंसस्थलस्थितसमानविमानदण्डाः ।
चण्डद्युतेरुदयिनीमिव चन्द्रलेखां सोत्कण्ठकैरववनीसुकृतप्ररोहाः ॥ नैषधीयचरितम् - 11 - 81 ॥
भूपेषु तेषु न मनागपि दत्तचित्ता विस्मेरया वचनदेवतया तयाथ ।
वाणीगुणोदयतृणीकृतपाणिवीणानिक्वाणया पुनर्
अभाणि मृगेक्षणा सा ॥ नैषधीयचरितम् - 11 - 82 ॥
यन्मौलिरत्नमुदितासि स एष जम्बूद्वीपस्त्वदर्थमिलितैर्युवभिः
विभाति ।
दोलायितेन बहुना भवभीतिकम्प्रः कन्दर्पलोक इव खात्पतितस्त्रुटित्वा ॥ नैषधीयचरितम् - 11 - 83 ॥
विष्वग्वृतः परिजनैरयमन्तरीपैस्तेषामधीश इव
राजति राजपुत्रि ।
हेमाद्रिणा कनकदण्डमहातपत्रः कैलासरश्मिचयचामरचक्रचिह्नः ॥ नैषधीयचरितम् - 11 - 84 ॥
एतत्तरुस्तरुणि
राजति राजजम्बूः स्थूलोपलानिव फलानि विमृश्य यस्याः ।
सिद्धस्त्रियः प्रियमिदं
निगदन्ति दन्तियूथानि केन तरुम्
आरुरुहुः पथेति ॥ नैषधीयचरितम् - 11 - 85 ॥
जाम्बूनदं जगति विश्रुतिम्
एति मृत्स्ना कृत्स्नापि सा तव रुचा विजितश्रि ।
यस्याः तज्जाम्बवद्रवभवास्य सुधाविधाम्बुर्जम्बूसरिद्
वहति सीमनि कम्बुकण्ठि ॥ नैषधीयचरितम् - 11 - 86 ॥
अस्मिन्
जयन्ति जगतीपतयः सहस्रमस्रास्रुसार्द्ररिपुतद्वनितेषु तेषु ।
रम्भोरु चारु कतिचित्तव चित्तबिन्धिरूपान् निरूपय मुदाहम्
उदाहरामि ॥ नैषधीयचरितम् - 11 - 87 ॥
प्रत्यर्थियौवतवतंसतमालमालोन्मीलत्तमःप्रकरतस्करशौर्यसूर्ये ।
अस्मिन्नवन्तिनृपतौ गुणसंततीनां विश्रान्तिधामनि मनो दमयन्ति किं ते ॥ नैषधीयचरितम् - 11 - 88 ॥
तत्रानुतीरवनवासितपस्विविप्रा शिप्रा तवोर्मिभुजया जलकेलिकाले ।
आलिङ्गनानि ददती भवता वयस्या हास्यानुबन्धिरमणीयसरोरुहास्या ॥ नैषधीयचरितम् - 11 - 89 ॥
अस्याधिशय्य पुरमुज्जयिनीं भवानी
जागर्ति या सुभगयौवतमौलिमाला ।
पत्याऽर्धकायघटनाय मृगाक्षि तस्याः शिष्या
भविष्यसि चिरं वरिवस्ययापि ॥ नैषधीयचरितम् - 11 - 90 ॥
निःशङ्कमङ्कुरिततां रतिवल्लभस्य देवः स्वचन्द्रकिरणामृतसेचनेन ।
तत्रावलोक्य सुदृशां हृदयेषु रुद्रस्तद्देहदाहफलम्
आप स किं न
विद्मः ॥ नैषधीयचरितम् - 11 - 91 ॥
आगश्शतं विदधतोऽपि समिद्धकामा न
अधीयते परुषामक्षरमस्य वामाः ।
चान्द्री न तत्र हरमौलिशयालुरेकानध्यायहेतुतिथिकेतुरपैति लेखा ॥ नैषधीयचरितम् - 11 - 92 ॥
भूपं
व्यलोकत न दूरतरानुरक्तं सा कुण्डिनावनिपुरंदरनन्दिनी तम् ।
अन्यानुरागविरसेन विलोकनाद्वा
जानामि सम्यगविलोकनमेव रम्यम् ॥ नैषधीयचरितम् - 11 - 93 ॥
भैमीङ्गितानि शिबिकामधरे वहन्तः साक्षान्न यद्यपि कथंचन
जानते स्म ।
जज्ञुः तथापि सविधस्थितसंमुखीनभूपालभूषणमणिप्रतिविम्बितेन ॥ नैषधीयचरितम् - 11 - 94 ॥
भैमीम्
अवापयत जन्यजनस्तदन्यं गङ्गामिव क्षितितलं रधुवंशदीपः ।
गाङ्गेयपीतकुचकुम्भयुगां च हारचूडासमागमवशेन विभूषितां च ॥ नैषधीयचरितम् - 11 - 95 ॥
तां मत्स्यलाञ्छनदराञ्छितचापभासा नीराजितभ्रुवम्
अभाषत भाषितेशा ।
व्रीडाजडे किमपि
सूचय चेतसा चेत्क्रीडारसं
वहसि गौडविडौजसीह ॥ नैषधीयचरितम् - 11 - 96 ॥
एतद्यशोभिरमलानि कुलानि भासां तथ्यं तुषारकिरणस्य तृणीकृतानि ।
स्थाने ततो
वसति तत्र सुधाम्बुसिन्धौ रङ्कुस्तदङ्कुरवनीकवलाभिलाषात् ॥ नैषधीयचरितम् - 11 - 97 ॥
आलिङ्गितः कमलवत्करकस्त्वयाऽयं श्यामः सुमेरुशिस्वयेव नवः पयोदः ।
कन्दर्पमूर्धरुहमण्डनचम्पकस्रग्दामत्वदङ्गरुचिकञ्चुकितः
चकास्तु ॥ नैषधीयचरितम् - 11 - 98 ॥
एतेन संमुखमिलत्करिकुम्भमुक्ताः कौक्षेयकाभिहतिभिः
विबभुः विमुक्ताः ।
एतद्भुजोष्मभृशनिःसहया विकीर्णाः प्रस्वेदबिन्दव इवारिनरेन्द्रलक्ष्म्या ॥ नैषधीयचरितम् - 11 - 99 ॥
आश्चर्यमस्य ककुभामवधीन्
अवापद् आजानुगाद्भुजयुगादुदितः प्रतापः ।
व्यापत् सदाशयविसारितसप्ततन्तुजन्मा चतुर्दश जगन्ति यशःपटश्च ॥ नैषधीयचरितम् - 11 - 100 ॥
औदास्यसंविदवलम्बितशून्यमुद्रामस्मिन्दृशोर्निपतितामवगम्य भैम्याः ।
स्वेनैव जन्यजनतान्यम्
अजीगमत् तां सुज्ञं प्रतीङ्गितविभावनमेव वाचः ॥ नैषधीयचरितम् - 11 - 101 ॥
एतां कुमारनिपुणां पुनरपि
अभाणीद् वाणी सरोजमुखि निर्भरम्
आरभस्व ।
अस्मिन्नसंकुचितपङ्कजसख्यशिक्षानिष्णातदृष्टिपरिरम्भविजृम्भितानि ॥ नैषधीयचरितम् - 11 - 102 ॥
प्रत्यर्थिपार्थिवपयोनिधिमाथमन्थपृथ्वीधरः पृथुरयं मथुराधिनाथः ।
अश्मश्रुजातम्
अनुयाति न शर्वरीशः श्यामाङ्ककर्बुरवपुर्वदनाब्जमस्य ॥ नैषधीयचरितम् - 11 - 103 ॥
बालेऽधराधरितनैकविधप्रवाले पाणौ जगद्विजयकार्मणमस्य
पश्य ।
ज्याघातजेन रिपुराजकधूमकेतुतारायमाणमुपरज्य मणिं किणेन ॥ नैषधीयचरितम् - 11 - 104 ॥
एतद्भुजारणिसमुद्भवविक्रमाग्निचिह्नं धनुर्गुणकिणः खलु धूमलेखा ।
जातं ययारिपरिषन्मशकार्थयाश्रुविश्राणनाय रिपुदारदृगम्बुजेभ्यः ॥ नैषधीयचरितम् - 11 - 105 ॥
श्यामीकृता मृगमदैरिव माथुरीणां धौतैः कलिन्दतनयामधिमध्यदेशम् ।
तत्राप्तकालियमहाह्रदनाभिशोभा रोमावलीमिव
विलोकयितासि भूमेः ॥ नैषधीयचरितम् - 11 - 106 ॥
गोवर्धनाचलकलापिचयप्रचारनिर्वासिताहिनि घने सुरभिप्रसूनैः ।
तस्मिन्ननेन सह
निर्विश निर्विशङ्कं वृन्दावने वनविहारकुतूहलानि ॥ नैषधीयचरितम् - 11 - 107 ॥
भावी करः कररुहाङ्कुरकोरकोऽपि तद्वल्लिपल्लवचये तव सौख्यलक्ष्यः ।
अन्तस्त्वदास्यहृतसारतुषारभानुशोकानुकारिकरिदन्तजकङ्कणाङ्कः ॥ नैषधीयचरितम् - 11 - 108 ॥
तज्जः श्रमाम्बु सुरतान्तमुदा नितान्तमुत्कण्टके स्तनतटे तव सञ्चरिष्णुः ।
खञ्जन्प्रभञ्जनजनः पथिकः पिपासुः
पाता कुरङ्गमदपङ्किलमप्यशङ्कम् ॥ नैषधीयचरितम् - 11 - 109 ॥
पूजाविधौ मखभुजामुपयोगिनो ये विद्वत्कराः कमलनिर्मलकान्तिभाजः ।
लक्ष्मीमनेन दधतेऽनुदिनं वितीर्णैस्ते हाटकैः स्फुटवराटकगौरगर्भाः ॥ नैषधीयचरितम् - 11 - 110 ॥
वैरिश्रियं प्रतिनियुद्धमनाप्नुवन्यः किंचिन्न
तृप्यति धरावलयैकवीरः ।
स त्वामवाप्य निपतन्मदनेषुवृन्दस्यन्दीति
तृप्यतु मधूनि पिबन्निवायम् ॥ नैषधीयचरितम् - 11 - 111 ॥
तस्मादियं क्षितिपतिक्रमगम्यमानमध्वानम्
ऐक्षत नृपादवतारिताक्षी ।
तद्भावबोधबुधतां निजचेष्टयैव
व्याचक्षते स्म शिबिकानयने नियुक्ताः ॥ नैषधीयचरितम् - 11 - 112 ॥
भूयोऽपि भूपमपरं प्रति भारती तां त्रस्यच्चमूरुचलचक्षुषम् आचचक्षे ।
एतस्य काशिनृपतेस्त्वमवेक्ष्य लक्ष्मीमक्ष्णोः सुखं
जनय खञ्जनमञ्जुनेत्रे ॥ नैषधीयचरितम् - 11 - 113 ॥
एतस्य सावनिभुजः कुलराजधानी काशी भवोत्तरणधर्मतरिः स्मरारेः ।
यामागता दुरितपूरितचेतसोऽपि पापं निरस्य चिरजं विरजी
भवन्ति ॥ नैषधीयचरितम् - 11 - 114 ॥
आलोक्य भाविविधिकर्तृकलोकसृष्टिकष्टानि
रोदिति पुरा कृपयैव रुद्रः ।
नामेच्छयेति मिषमात्रम्
अधत्त यत्तां संसारतारणतरीम्
असृजत् पुरीं सः ॥ नैषधीयचरितम् - 11 - 115 ॥
वाराणसी
निविशते न वसुन्धरायां तत्र स्थितिर्मखभुजां भुवने निवासः ।
तत्तीर्थमुक्तवपुषामत एव मुक्तिः स्वर्गात्परं पदम्
उदेतु मुदे तु कीदृक् ॥ नैषधीयचरितम् - 11 - 116 ॥
सायुज्यम्
ऋच्छति भवस्य भवाब्धियादस्तां पत्युरेत्य नगरीं नगराजपुत्र्याः ।
भूताभिधानपटुमद्यतनीमवाप्य भीमोद्भवे भवतिभावमिवास्तिधातुः ॥ नैषधीयचरितम् - 11 - 117 ॥
निर्विश्य निर्विरति काशिनिवासि भोगान्निर्माय नर्म च मिथो मिथुनं यथेच्छम् ।
गौरीगिरीशघटनाधिकमेकभावं शर्मोर्मिकञ्चुकितम्
अञ्चति पञ्चतायाम् ॥ नैषधीयचरितम् - 11 - 118 ॥
न श्रद्
दधासि यदि तन्मम मौनम्
अस्तु कथ्या निजाप्ततमयैव तवानुभूत्या ।
न
स्यात् कनीयसितरा यदि नाम काश्या राजन्वती मुदिरमण्डनधन्वना भूः ॥ नैषधीयचरितम् - 11 - 119 ॥
ज्ञानाधिका असि सुकृतान्यधिकाशि
कुर्याः कार्यं किमन्यकथनैरपि यत्र मृत्योः ।
एकं जनाय सतताभयदानमन्यद्धन्ये
वहति अमृतसत्त्रमवारितार्थि ॥ नैषधीयचरितम् - 11 - 120 ॥
भूभर्तुरस्य रतिः
एधि मृगाक्षि मूर्ता सोऽयं तव
अस्तु कुसुमायुध एव मूर्तः ।
भातं च ताविव पुरा गिरिशं विराद्धमाराद्धुमाशु पुरि तत्र कृतावतारौ ॥ नैषधीयचरितम् - 11 - 121 ॥
कामानुशासनशते सुतरामधीती सोऽयं रहो नखपदैः
महतु स्तनौ ते ।
रुष्टाद्रिजाचरणकुङ्कुमपङ्करागसङ्कीर्णशङ्करशशाङ्ककलाङ्ककारैः ॥ नैषधीयचरितम् - 11 - 122 ॥
पृथ्वीश एष
नुदतु त्वदनङ्गतापमालिङ्ग्य कीर्तिचयचामरचारुचापः ।
सङ्ग्रामसङ्गतविरोधिशिरोधिदण्डखण्डिक्षुरप्रशरसम्प्रसरत्प्रतापः ॥ नैषधीयचरितम् - 11 - 123 ॥
वक्षस्त्वदुग्रविरहादपि नास्य दीर्णं वज्रायते पतनकुण्ठतशत्रुशस्त्रम् ।
तत्कन्दकन्दलतया भुजयोर्न तेजो वह्निः
नमति अरिवधूनयनाम्बुनापि ॥ नैषधीयचरितम् - 11 - 124 ॥
किं न द्रुमा जगति
जाग्रति लक्षसङ्ख्यास्तुल्योपनीतपिककाकफलोपभोगाः ।
स्तुत्यस्तु कल्पविटपी फलसम्प्रदानं कुर्वन्स एष विबुधानमृतैकवृत्तीन् ॥ नैषधीयचरितम् - 11 - 125 ॥
अस्मै करं
प्रवितरन्तु नृपा न कस्मादस्यैव तत्र यद्
अभूत् प्रतिभूः कृपाणः ।
दैवाद्यदा
प्रवितरन्ति न ते तदैव नेदङ्कृपा निजकृपाणकरग्रहाय ॥ नैषधीयचरितम् - 11 - 126 ॥
एतद्बलैः क्षणिकतामपि भूखुराग्रस्पर्शायुषां रयरसादसमापयद्भिः ।
दृक्पेयकेवलनभःक्रमणप्रवाहैर्वाहैः
अलुप्यत सहस्रदृगर्वगर्वः ॥ नैषधीयचरितम् - 11 - 127 ॥
तद्वर्णनासमय एव समेतलोकशोभावलोकनपरा तमसौ निरासे ।
मानी तया गुणविदा यदनादृतोऽसौ तद्भूभृतां सदसि दुर्यशसेव
मम्लौ ॥ नैषधीयचरितम् - 11 - 128 ॥
सानन्तानाप्यतेजःसखनिखिलमरुत्पार्थिवान्दिष्टभाजश्चित्तेनाशाजुषस्तान्सममसमगुणान्मुञ्चती गूढभावा ।
पारेवाग्वर्तिरूपं पुरुषमनु चिदम्भोधिमेकं शुभाङ्गी निःसीमानन्दम्
आसीत् पनिषदुपमा तत्परीभूय भूयः ॥ नैषधीयचरितम् - 11 - 129 ॥
श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः
सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
शृङ्गारामृतशीतगावयम्
अगाद् एकादशस्तन्महाकाव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥ नैषधीयचरितम् - 11 - 130 ॥
।। इति नैषधीयचरितमहाकाव्ये एकादशसर्गः ।।
द्वादशसर्गः
प्रियाह्रियालम्ब्य विलम्बमाविला विलासिनः कुण्डिनमण्डनायितम् ।
समाजम्
आजग्मुः अथो रथोत्तमास्तमा समुद्रादपरेऽपरे नृपाः ॥ नैषधीयचरितम् - 12 - 1 ॥
ततः स भैम्या
ववृते वृते नृपैर्विनिःश्वसद्भिः सदसि स्वयंवरः ।
चिरागतैस्तर्किततद्विरागितैः स्फुरद्भिरानन्दमहार्णवैर्नवैः ॥ नैषधीयचरितम् - 12 - 2 ॥
चलत्पदस्तत्पदयन्त्रणेङ्गितस्फुटाशयामासयति स्म राजके ।
श्रमं गता यानगतावपीयमित्युदीर्य धुर्यः कपटाज्जनीं जनः ॥ नैषधीयचरितम् - 12 - 3 ॥
नृपानुपक्रम्य विभूषितासनान्सनातनी सा
सुषुवे सरस्वती ।
विहारमारभ्य सरस्वतीः सुधासरःस्वतीवार्द्रतनूरनूत्थिताः ॥ नैषधीयचरितम् - 12 - 4 ॥
वृणीष्व वर्णेन सुवर्णकेतकीप्रसूनवर्णादृतुपर्णमादृतम् ।
निजामयोध्यामपि पावनीमयं भवन्मयो
ध्यायति नावनीपतिः ॥ नैषधीयचरितम् - 12 - 5 ॥
न
पीयतां नाम चकोरजिह्वया कथंचिदेतन्मुखचन्द्रचन्द्रिका ।
इमां किम्
आचामयसे न चक्षुषी चिरं चकोरस्य भवन्मुखस्पृशी ॥ नैषधीयचरितम् - 12 - 6 ॥
अपां विहारे तव हारविभ्रमं
करोतु नीरे पृषदुत्करस्तरन् ।
कठोरपीनोच्चकुचद्वयीतटत्रुट्यत्तरः सारवसारवोर्मिजः ॥ नैषधीयचरितम् - 12 - 7 ॥
अखानि सिन्धुः
समपूरि गङ्गया कुले किलास्य प्रसभं स
भन्त्स्यते ।
विलङ्घ्यते चास्य यशःशतैरहो सतां महत्संमुखधावि पौरुषम् ॥ नैषधीयचरितम् - 12 - 8 ॥
एतद्यशःक्षीरधिपूरगाहि
पतति अगाधे वचनं कवीनाम् ।
एतद्गुणानां गणनाङ्कपातः प्रत्यर्थिकीर्तीः खटिकाः
क्षिणोति ॥ नैषधीयचरितम् - 12 - 9 ॥
भास्वद्वंशकरीरतां दधदयं वीरः कथं
कथ्यताम् अध्युष्टापि हि कोटिरस्य समरे रोमाणि सत्त्वाङ्कुराः ।
नीतः संयति बन्दिभिः श्रुतिपथं यन्नामवर्णावलीमन्त्रः
स्तम्भयति प्रतिक्षितिभृतां दोस्तम्भकुम्भीनसान् ॥ नैषधीयचरितम् - 12 - 10 ॥
तादृग्दीर्घविरिञ्चिवासरविधौ
जानामि यत्कर्तृतां
शङ्के यत्प्रतिबिम्बमम्बुधिपयःपूरोदरे वाडवः ।
व्योमव्यापिविपक्षराजकयशस्ताराः पराभावुकः कासामस्य न स प्रतापतपनः पारं गिरां
गाहते ॥ नैषधीयचरितम् - 12 - 11 ॥
द्वेष्याकीर्तिकलिन्दशैलसुतया नद्यास्य यद्दोर्द्वयी कीर्तिश्रेणिमयी समागमम
अगात् गङ्गा रणप्राङ्गणे ।
तत्तस्मिन्विनिमज्ज्य बाहुजभटैः
आरम्भि रम्भापरीरम्भानन्दनिकेतनन्दनवनक्रीडादराडम्बरः ॥ नैषधीयचरितम् - 12 - 12 ॥
इति श्रुतिस्वादिततद्गुणस्तुतिः सरस्वतीवाङ्मयविस्मयोत्थया ।
शिरस्तिरःकम्पनयैव भीमजा न तं मनोरन्वयम्
अन्वमन्यत ॥ नैषधीयचरितम् - 12 - 13 ॥
युवान्तरं सा वचसामधीश्वरा स्वरामृतन्यक्कृतमत्तकोकिला ।
शशंस संसक्तकरैव तद्दिशा निशापतिज्ञातिमुखीमिमां प्रति ॥ नैषधीयचरितम् - 12 - 14 ॥
न पाण्ड्यभूमण्डनमेणलोचने विलोचनेनापि नृपं पिपाससि ।
शशिप्रकाशाननमेनमीक्षितुं तरङ्गय अपाङ्गदिशा दृशोस्त्विषः ॥ नैषधीयचरितम् - 12 - 15 ॥
भुवि भ्रमित्वानवलम्बमम्बरे विहर्तुमभ्यासपरम्परापरा ।
अहो महावंशममुं समाश्रिता सकौतुकं
नृत्यति कीर्तिनर्तकी ॥ नैषधीयचरितम् - 12 - 16 ॥
इतो भिया भूपतिभिर्वनं वनादटद्भिरुच्चैरटवीत्वमीयुषी ।
निजापि सा
अवापि चिरात्पुनः पुरी पुनः स्वम्
अध्यासि विलासमन्दिरम् ॥ नैषधीयचरितम् - 12 - 17 ॥
आसीद् आसीमभूमीवलयमलयजालेपनेपथ्यकीर्तिः सप्ताकूपारपारीसदनजनघनोद्गीतचापप्रतापः ।
वीरादस्मात्परः कः पदयुगयुगपत्पातिभूपातिभूयश्चूडारत्नोडुपत्नीकरपरिचरणामन्दनन्दन्नखेन्दुः ॥ नैषधीयचरितम् - 12 - 18 ॥
भङ्गाकीर्तिमषीमलीमसतमप्रत्यर्थिसेनाभटश्रेणीतिन्दुककाननेषु
विलसति अस्य प्रतापानलः ।
तस्मादुत्पतिताः
स्फुरन्ति जगदुत्सङ्गे स्फुलिङ्गाः स्फुटं भालोद्भूतभवाक्षिभानुहुतभुग्जम्भारिदम्भोलयः ॥ नैषधीयचरितम् - 12 - 19 ॥
एतद्दन्तिबलैर्विलोक्य निखिलामालिङ्गिताङ्गीं भुवं सङ्ग्रामाङ्गणसीम्नि जङ्गमगिरिस्तोमभ्रमाधायिभिः ।
पृथ्वीन्द्रः पृथुरेतदुग्रसमरप्रेक्षोपनम्रामरश्रेणीमध्यचरः पुनः क्षितिधरक्षेपाय
धत्ते धियम् ॥ नैषधीयचरितम् - 12 - 20 ॥
शशंस दासीङ्गितविद्विदर्भजामितो ननु स्वामिनि
पश्य कौतुकम् ।
यदेष सौधाग्रनटे पटाञ्चले चलेऽपि काकस्य पदार्पणग्रहः ॥ नैषधीयचरितम् - 12 - 21 ॥
ततस्तदप्रस्तुतभाषितोत्थितैः सदस्त
अश्वेति हसैः सदःसदाम् ।
स्फुटा
अजनि म्लानिरतोऽस्य भूपतेः सिते हि
जायेत शितेः सुलक्ष्यता ॥ नैषधीयचरितम् - 12 - 22 ॥
ततोऽनु देव्या
जगदे महेन्द्रभूपुरन्दरं सा जगदेकवन्द्यया ।
तदार्जवावर्जिततर्जनीकया जनी कयाचित्परचित्स्वरूपया ॥ नैषधीयचरितम् - 12 - 23 ॥
स्वयंवरोद्वाहमहे
वृणीष्व हे महेन्द्रशैलस्य महेन्द्रमागतम् ।
कलिङ्गजानां स्वकुचद्वयश्रिया कलिं गजानां
शृणु तत्र कुम्भयोः ॥ नैषधीयचरितम् - 12 - 24 ॥
अयं किल
अयात् इतीरिपौरवाग्भयादयादस्य रिपुर्वृथा वनम् ।
श्रुताष्तदुत्स्वापगिरस्तदक्षाराः पठद्भिः
अत्रासि शुकैर्वनेऽपि सः ॥ नैषधीयचरितम् - 12 - 25 ॥
इतस्त्रसद्विद्रुतभूभृदुज्झिता प्रियाथ दृष्टा वनमानवीजनैः ।
शशंस पृष्टाद्भुतमात्मदेशजं शशित्विषः शीतलशीलतां किल ॥ नैषधीयचरितम् - 12 - 26 ॥
इतोऽपि किं
वीरयसे न कुर्वतो नृपान्धनुर्बाणगुणैर्वशंवदान् ।
गुणेन शुद्धेन विधाय निर्भरं तमेनमुर्वीवलयोर्वशी वशम् ॥ नैषधीयचरितम् - 12 - 27 ॥
एतद्भीतारिनारी गिरिबिलविगलद्वासरा निःसरन्ती स्वक्रीडाहंसमोहग्रहिलशिशुभृशप्रार्थितोन्निद्रचन्द्रा ।
आक्रन्दद् भूरि यत्तन्नयनजलमिलच्चन्द्रहंसानुबिम्बप्रत्यासत्तिप्रहृष्यत्तनयविहसितैः
आश्वसीत् न्यश्वसीत् च ॥ नैषधीयचरितम् - 12 - 28 ॥
अस्मिन्दिग्विजयोद्यते पतिरयं मे
स्ताद् इति
ध्यायति कम्पं सात्त्विकभावम्
अञ्चति रिपुक्षोणीन्द्रदारा धरा ।
अस्यैवाभिमुखं निपत्य समरे यास्यद्भिरूर्ध्वं निजः पन्था भास्वति
दृश्यते बिलमयः प्रत्यर्थिभिः पार्थिवैः ॥ नैषधीयचरितम् - 12 - 29 ॥
विद्राणे रणचत्वरादरिगणे त्रस्ते समस्ते पुनः कोपात्कोऽपि
निवर्तते यदि भटः कीर्त्या जगत्युद्भटः ।
आगच्छन्नपि संमुखं विमुखतामेव
अधिगच्छति असौ द्रागेतच्छुरिकारयेण ठणिति च्छिन्नापसर्पच्छिराः ॥ नैषधीयचरितम् - 12 - 30 ॥
ततस्तदुर्वीन्द्रगुणाद्भुतादिव स्ववक्त्रपद्मेऽङ्गुलिनालदायिनी ।
विधीयताम् आननमुद्रणेति सा
जगाद वैदग्ध्यमयेङ्गितैव ताम् ॥ नैषधीयचरितम् - 12 - 31 ॥
अनन्तरं ताम्
अवदत् नृपान्तरं तदध्वदृक्तारतरङ्गरङ्गणा ।
तृणीभवत्पुष्पशरं सरस्वती स्वतीव्रतेजःपरिभूतभूतलम् ॥ नैषधीयचरितम् - 12 - 32 ॥
तदेव किं न
क्रियते नु का क्षतिर्यदेष तद्दूतमुखेन
काङ्क्षति ।
प्रसीद काञ्चीमयम्
आच्छिनत्तु ते प्रसह्य काञ्चीपुरभूपुरन्दरः ॥ नैषधीयचरितम् - 12 - 33 ॥
मयि स्थितिर्नम्रतयैव
लभ्यते दिगेव तु स्तब्धतया
विलङ्घ्यते ।
इतीव चापं दधदाशुगं क्षिपन्नयं नयं सम्यग्
उपादिशद् दिषाम् ॥ नैषधीयचरितम् - 12 - 34 ॥
अदःसमित्संमुखवीरयौवतत्रुटद्भुजाकम्बुमृणालहारिणी ।
द्विषद्गणस्त्रैणदृगम्बुनिर्झरे यशोमरालावलिरस्य
खेलति । नैषधीयचरितम् - 12 - 35 ॥
सिन्दूरद्युतिमुग्धमूर्धनि धृतस्कन्धावध्रिश्यामिके व्योमान्तस्पृशि सिन्धुरेऽस्य समरारम्भोद्धुरे
धावति ।
जानीमः नु यदि प्रदोषतिमिरव्यामिश्रसन्ध्याधियेवास्तं
यान्ति समस्तबाहुजभुजातेजःसहस्रांशवः ॥ नैषधीयचरितम् - 12 - 36 ॥
हित्वा दैत्यरिपोरुरः स्वभवनं शून्यत्वदोषस्फुटासीदन्मर्कटकीटकृत्रिमसितच्छत्त्रीभवत्कौस्तुभम् ।
उज्झित्वा निजसद्म पद्ममपि तद्व्यक्तावनद्धीकृतं लूतातन्तुभिरन्तरद्य भुजयोः श्रीरस्य
विश्राम्यति ॥ नैषधीयचरितम् - 12 - 37 ॥
सिन्धोर्जैत्रमयं पवित्रम्
असृजत् तत्कीर्तिपूर्ताद्भुतं यत्र
स्नान्ति जगन्ति
सन्ति कवयः केवा न वाचंयमाः ।
यद्बिन्दुश्रियमिन्दुः
अञ्चति जलं चाविश्य दृश्येतरो यस्यासौ जलदेवतास्फटिकभूः
जागर्ति यागेश्वरः ॥ नैषधीयचरितम् - 12 - 38 ॥
अन्तःसन्तोषबाष्पैः स्थगयति न दृशस्ताभिराकर्णयिष्यन्नङ्गे नानस्तिरोमा
रचयति पुलकश्रेणिमानन्दकन्दाम् ।
न क्षोणीभङ्गभीरुः
कलयति च शिरःकम्पनं तन्न
विद्मः शृण्वन्नेतस्य कीर्तीः कथमुरगपतिः प्रीतिम् आविष्
करोति ॥ नैषधीयचरितम् - 12 - 39 ॥
आचूडाग्रम्
अमज्जयत् जयपटुर्यच्छल्यदण्डानयं संरम्भे रिपुराजकुञ्जरघटाकुम्भस्थलेषु स्थिरान् ।
सा सेवास्य पृथुः
प्रसीदति तया नास्मै कुतस्त्वत्कुचस्पर्धागर्धिषु तेषु तान्धृतवते दण्डान्प्रदण्डानपि ॥ नैषधीयचरितम् - 12 - 40 ॥
स्मितश्रिया सृक्कणि लीयमानयावितीर्णया तद्गुणशर्मणेव सा ।
उपाहसत् कीर्त्यमहत्त्वमेव तं गिरां हि पारे निषधेन्द्रवैभवम् ॥ नैषधीयचरितम् - 12 - 41 ॥
निजाक्षिलक्ष्मीहसितैणशावकामसौ
अभाणीद् अपरं परन्तपम् ।
पुरैव तद्दिग्वलनश्रियां भुवा भ्रुवा विनिर्दिश्य सभासभाजितम् ॥ नैषधीयचरितम् - 12 - 42 ॥
कृपा नृपाणामुपरि क्वचिन्न ते नतेन हा हा शिरसा रसादृशाम् ।
भवन्तु तावत्तव लोचनाञ्चला निपेयनेपालनृपालपालयः ॥ नैषधीयचरितम् - 12 - 43 ॥
ऋजुत्वमौनश्रुतिपारगामिता यदीयके
सन्ति परं विहिंसितुम् ।
अतीव विश्वासविधायि चेष्टितं बहुर्महानस्य स दाम्भिकः शरः ॥ नैषधीयचरितम् - 12 - 44 ॥
शरः रिपूनवाप्यापि गतोऽवकीर्णितामयं न यावज्जनरञ्जनव्रती ।
भृशं विरक्तानपि रक्तवत्तरान्निकृत्त्य यत्तानसृजा
असृजद् युधि ॥ नैषधीयचरितम् - 12 - 45 ॥
पतति एतत्तेजोहुतभुजि कदाचिद्यदि तदा पतङ्गः
स्याद् अङ्गीकृततमपतङ्गापदुदयः ।
यशोऽमुष्येवोपार्जयितुमसमर्थेन विधिना कथंचित्क्षीराम्भोनिधिरपि कृतस्तत्प्रतिनिधिः ॥ नैषधीयचरितम् - 12 - 46 ॥
यावत्पौलस्त्यवास्तूभवदुभयहरिल्लोमलेखोत्तरीये सेतुप्रालेयशैलौ
चरति नरपतेस्तावदेतस्य कीर्तिः ।
यावत्प्राक्प्रत्यगाशापरिवृढनगरारम्भणस्तम्भमुद्रावद्री सन्ध्यापताकारुचिरचितशिखाशोणशोभावुभौ च ॥ नैषधीयचरितम् - 12 - 47 ॥
युद्ध्वा चामिमुखं रणस्य चरणस्यैवादसीयस्य वा बुद्ध्वाऽन्तः स्वपरान्तरं निपततामुन्मुच्य बाणावलीः ।
छिन्नं वावनतीभवन्निजभियः खिन्नं भरेणाथ वा राज्ञानेन हठाद्विलोठितम्
अभूद् भूमावरीणां शिरः ॥ नैषधीयचरितम् - 12 - 48 ॥
न तूणादुद्धारे न गुणघटने नाश्रुतिशिखं समाकृष्टौ दृष्टिर्न वियति न लक्ष्ये न च भुवि ।
पश्यति नृणां अस्य क्वचन विशिखान्किं तु पतितद्विषद्वक्षःश्वभ्रैरनुमितिरसून् गोचरयति ॥ नैषधीयचरितम् - 12 - 49 ॥
दमस्वसुश्चित्तमवेत्य हासिका
जगाद देवीं कियदस्य
वक्ष्यसि ।
भण प्रभूते जगति स्थिते गुणैरिह
आप्यते सङ्कटवासयातना ॥ नैषधीयचरितम् - 12 - 50 ॥
ब्रवीति दासीह किमप्यसङ्गतं ततोऽपि नीचेयम्
अतिप्रगल्भते ।
अहो सभा साधुरितीरिणः क्रुधा
न्यषेधद् एतत्क्षितिपानुगाञ्जनः ॥ नैषधीयचरितम् - 12 - 51 ॥
अथान्यमुद्दिश्य नृपं कृपामयी मुखेन तद्दिङ्मुखसंमुखेन सा ।
दमस्वसारं
वदति स्म देवता गिरामिलाभूवदतिस्मरश्रियम् ॥ नैषधीयचरितम् - 12 - 52 ॥
विलोचनेन्दीवरवासवासितैः सितैरपाङ्गाध्वगचन्द्रिकाञ्चलैः ।
त्रपामपाकृत्य निभात्
निभालय क्षितिक्षितिं मालयमालयं रुचः ॥ नैषधीयचरितम् - 12 - 53 ॥
इमं परित्यज्य परं रणादरिः स्वमेव भग्नः शरणं मुधा
अविशत् ।
न
वेत्ति यत्त्रातुमितः कृतस्मयो न दुर्गया शैलभुवापि
शक्यते ॥ नैषधीयचरितम् - 12 - 54 ॥
अनेन राज्ञार्थिषु दुर्भगीकृतो भवन्घनध्वानजरत्नमेदुरः ।
तथा विदूराद्रिरदूरतां गमी यथा स गामी तव केलिशैलताम् ॥ नैषधीयचरितम् - 12 - 55 ॥
नम्रप्रत्यर्थिपृथ्वीपतिमुखकमलम्लानताभृङ्गजातच्छायान्तःपातचन्द्रायितचरणनखश्रेणिरैणेयनेत्रे ।
दृप्तारिप्राणवातामृतरसलहरीभूरिपानेन पीनं भूलोकस्यैष भर्ता भुजभुजगयुगं सांयुगीनं
बिभर्ति ॥ नैषधीयचरितम् - 12 - 56 ॥
अध्याहारः स्मरहरशिरश्चन्द्रशेषस्य शेषस्याहेर्भूयः फणसमुचितः काययष्टीनिकायः ।
दुग्धाम्भोधेर्मुनिचुलकनत्रासनाशाभ्युपायः कायव्यूहः क्व जगति न
जागर्ति अदःकीर्तिपूरः ॥ नैषधीयचरितम् - 12 - 57 ॥
राज्ञामस्य शतेन किं कलयतो हेतिं शतघ्नीं कृतं लक्षैर्लक्षभिदो दशैव जयतः पद्मानि पद्मैरलम् ।
कर्तुं सर्वपरिच्छिदः किमपि नो शक्यं परार्धेन वा तत्सङ्ख्यापगमं विना
अस्ति न गतिः काचिद्बतैतद्द्विषाम् ॥ नैषधीयचरितम् - 12 - 58 ॥
वयस्ययाकूतविदा दमस्वसुः स्मितं वितत्याभिदधेऽथ भारती ।
इतः परेषामपि
पश्य याचतां भवन्मुखेन स्वनिवेदनत्वराम् ॥ नैषधीयचरितम् - 12 - 59 ॥
कृतात्र देवी वचनाधिकारिणी त्वमुत्तरन्दासि
ददासि कासती ।
इतीरिणस्तन्नृपपारिपार्श्विकान्स्वभर्तुरेव भ्रुकुटिः
न्यवर्तयत् ॥ नैषधीयचरितम् - 12 - 60 ॥
धराधिराजं
निजगाद भारती तदुन्मुखेषद्वलिताङ्गसूचितम् ।
दमस्वसारं प्रति सारवत्तरं कुलेन शीलेन च राजसूचितम् ॥ नैषधीयचरितम् - 12 - 61 ॥
कुतः कृतैवं वरलोकमागतं प्रति प्रतिज्ञाऽनवलोकनाय ते ।
अपीयमेनं मिथिलापुरन्दरं निपीय दृष्टिः शिथिला
अस्तु ते वरम् ॥ नैषधीयचरितम् - 12 - 62 ॥
न
पाहि पाहि इति यद्
अब्रवीः अमुं ममौष्ठ तेनैवम्
अभूद् इति क्रुधा ।
रणक्षितावस्य विरोधिमूर्धभिर्विदश्य दन्तैर्निजमोष्ठम्
आस्यते ॥ नैषधीयचरितम् - 12 - 63 ॥
भुजे
अपसर्पति अपि दक्षिणे गुणं सहेषुणादाय पुरःप्रसर्पिणे ।
धनुः परीरम्भमिवास्य संमदान्महाहवे वामबाहवे ॥ नैषधीयचरितम् - 12 - 64 ॥
अस्योर्वीरमणस्य पार्वणविधुद्वैराज्यसज्जं यशः सर्वाङ्गोज्ज्वलशर्वपर्वतसितश्रीगर्वनिर्वासि यत् ।
तत्कम्बुप्रतिबिम्बितं किमु शरत्पर्जन्यराजिश्रियः पर्यायः किमु दुग्धसिन्धुपयसां सर्वानुवादः किमु ॥ नैषधीयचरितम् - 12 - 65 ॥
निस्त्रिंशत्रुटितारिवारणघटाकुम्भास्तिकूटावटस्थानस्थायुकमौक्तिकोत्करकिरः कैरस्य नायं करः ।
उन्नीतश्चतुरङ्गसैन्यसमरत्वङ्गत्तुरङ्गक्षुराक्षुण्णासु क्षितिषु क्षिपन्निव यशः क्षोणीजबीजव्रजम् ॥ नैषधीयचरितम् - 12 - 66 ॥
अर्थिभ्रंशबहूभवत्फलभरव्याजेन कुब्जायितः सत्यस्मिन्नतिदानभाजि कथमपि
आस्तां स कल्पद्रुमः ।
आस्ते निर्व्ययरत्नसंपदुदयोदग्रः कथं याचकश्रेणीवर्जनदुर्यशोनिबिडितव्रीडस्तु रत्नाचलः ॥ नैषधीयचरितम् - 12 - 67 ॥
सृजामि किं विघ्नमिदंनृपस्तुतावितीङ्गितैः
पृच्छति तां सखीजने ।
स्मिताय वक्त्रं यद् अवक्रयद् वधूस्तदेव वैमुख्यम्
अलक्षि तन्नृपे ॥ नैषधीयचरितम् - 12 - 68 ॥
दृशास्य निर्दिश्य नरेश्वरान्तरं मधुस्वरा वक्तुमधीश्वरा गिराम् ।
अनूपयामास विदर्भजाश्रुती निजास्यचन्द्रस्य सुधाभिरुक्तिभिः ॥ नैषधीयचरितम् - 12 - 69 ॥
स कामरूपाधिप एष हा त्वया न कामरूपाधिक
ईक्ष्यते अपि यः ।
त्वमस्य सा योग्यतमासि वल्लभा सुदुर्लभा यत्प्रतिमल्लभा परा ॥ नैषधीयचरितम् - 12 - 70 ॥
अकर्णधाराशुगसम्भृशाङ्गतां गतैररित्रेण विनास्य वैरिभिः ।
विधाय यावत्तरणेर्भिदामहो निमज्ज्य तीर्णः समरे भवार्णवः ॥ नैषधीयचरितम् - 12 - 71 ॥
अमुष्य भूलोकभुजो भुजोष्मभिस्तपर्तुरेव
क्रियते अरिवेश्मनि ।
प्रपां न तत्रारिवधूस्तपस्विनी
ददाति नेत्रोत्पलवासिभिर्जलैः ॥ नैषधीयचरितम् - 12 - 72 ॥
एतद्दत्तासिघातस्रवदसृगसुहृद्वंशसार्द्रेन्धनैतद्दोरुद्दामप्रतापज्वलदनलमिलद्भूमधूमभ्रमाय ।
एतद्दिग्जैत्रयात्रासमसमरभरं पश्यतः कस्य न
आसीद् एतन्नासीरवाजिव्रजखुरजरजोराजिराजिस्थलीषु ॥ नैषधीयचरितम् - 12 - 73 ॥
क्षीरोदन्वदपाः प्रमथ्य मथितादेशेऽमरैर्निर्मिते स्वाक्रम्यं सृजतस्तदस्य यशसः क्षीरोदसिंहासनम् ।
केषां न
अजनि वा जनेन जगतामेतत्कवित्वामृतस्रोतःप्रोतपिपासुकर्णकलसीभाजाभिषेकोत्सवः ॥ नैषधीयचरितम् - 12 - 74 ॥
सभिति पतिनिपाताकर्णनद्रागदीर्णप्रतिनृपतिमृगाक्षीलक्षवक्षःशिलासु ।
रचितलिपिरिवोरस्ताडनव्यस्तहस्तप्रखरनखरटङ्कैरस्य कीर्तिप्रशस्तिः ॥ नैषधीयचरितम् - 12 - 75 ॥
विधाय ताम्बूलपुटीं कराङ्कगां
बभाण ताम्बूलकरङ्कवाहिनी ।
दमस्वसुर्भावमवेत्य भारतीं
नय अनया वक्त्रपरिश्रमं शमम् ॥ नैषधीयचरितम् - 12 - 76 ॥
समुन्मुखीकृत्य
बभार भारती रतीशकल्पेऽन्यनृपे निजं भुजम् ।
ततस्त्रसद्बालपृषद्विलोचनां
शशंस संसज्जनरञ्जनीं जनीम् ॥ नैषधीयचरितम् - 12 - 77 ॥
अयं गुणौघैरनुरज्यदुत्कलो भवन्मुखालोकरसोत्कलोचनः ।
स्पृशन्तु रूपामृतवापि नन्वमुं तवापिदृक्तारतरङ्गभङ्गयः ॥ नैषधीयचरितम् - 12 - 78 ॥
अनेन सर्वार्थिकृतार्थताकृताहृतार्थिनौ कामगवीसुरद्रुमौ ।
मिथः पयःसेचनपल्लवाशने प्रदाय दानव्यसनं
समाप्नुतः ॥ नैषधीयचरितम् - 12 - 79 ॥
नृपः कराभ्याम्
उदतोलयत् निजे नृपानयं यान्पततः पदद्वये ।
तदीयचूडाकुरुविन्दरश्मिभिः स्फुटेयमेतत्करपादरञ्जना ॥ नैषधीयचरितम् - 12 - 80 ॥
यत्कस्यामपि भानुमान्न ककुभि स्थेमानम्
आलम्बते जातं यद्धनकाननैकशरणप्राप्तेन दावाग्निना ।
एषैतद्भुजतेजसा विजितयोस्तावत्तयोरौचिती धिक्तं वाडवमम्भसि द्विषि भिया येन प्रविष्टं पुनः ॥ नैषधीयचरितम् - 12 - 81 ॥
अमुष्योर्वीभर्तुः प्रसृमरचमूसिन्धुरभवैः
अवैमि प्रारब्धे वमथुभिरवश्यायसमये ।
न
कम्पन्ताम् अन्तः प्रतिनृपभटा
म्लायतु न तद्वधूवक्त्राम्भोजं
भवतु न स तेषां कुदिवसः ॥ नैषधीयचरितम् - 12 - 82 ॥
आत्मन्यस्य समुच्छ्रितीकृतगुणस्याहोतरामौचिती यद्गाट्रान्तरवर्जनाद्
अजनयत् भूजानिरेष द्विषाम् ।
भूयोऽहं
क्रियते स्म येन च हृदा स्कन्धो न यश्चानमत्तन्मर्माणि दलन्दलं समिदलङ्कर्मीणबाणव्रजः ॥ नैषधीयचरितम् - 12 - 83 ॥
दूरं गौरगुणैरहङ्कृतिभृतां जैत्राङ्ककारे
चरति एतद्दोर्यशसि
प्रयाति कुमुदं बिभ्यन्न निद्रां निशि ।
धम्मिल्ले तव मल्लिकासुमनसां माल्यं भिया
लीयते पीयूषस्रवकैतवाद्धृतदरः शीतद्युतिः
स्विद्यति ॥ नैषधीयचरितम् - 12 - 84 ॥
एतद्गन्धगजस्तृषाम्भसि भृशं कण्ठान्तमज्जत्तनुः फेनैः पाण्डुरितः स्वदिक्करिजयक्रीडायशःस्पर्धिभिः ।
दन्तद्वन्द्वजलानुबिम्बनचतुर्दन्तः कराम्भोवमिव्याजादभ्रमुवल्लभेन विरहं
निर्वापयति अम्बुधेः ॥ नैषधीयचरितम् - 12 - 85 ॥
अथैतदुर्वीपतिवर्णनाद्भुतं
न्यमीलत् आस्वादयितुं हृदीव सा ।
मधुस्रजा नैषधनामजापिनी स्फुटीभवद्ध्यानपुरःस्फुरन्नला ॥ नैषधीयचरितम् - 12 - 86 ॥
प्रशंसितुं संसदुपान्तरञ्जिनं श्रिया जयन्तं जगतीश्वरं जिनम् ।
गिरः
प्रतस्तार पुरावदेव ता दिनान्तसन्ध्यासमयस्य देवता ॥ नैषधीयचरितम् - 12 - 87 ॥
तथाधिकुर्या रुचिरे चिरेप्सिता यथोत्सुकः सम्प्रति
सम्प्रतीच्छति ।
अपाङ्गरङ्गस्थललास्यलम्पटाः कटाक्षधारास्त्व कीकटाधिपः ॥ नैषधीयचरितम् - 12 - 88 ॥
इदंयशांसि द्विषतः सुधारुचः किमङ्कमेतद्द्विषातः किमाननम् ।
यशोभिरस्याखिललोकधाविभिर्विभीषिता
धावति तामसी मसी ॥ नैषधीयचरितम् - 12 - 89 ॥
इदंनृपप्रार्थिभिरुज्झितोऽर्थिभिर्मणिप्ररोहेण विवृध्य रोहणः ।
कियद्दिनैरम्बरम्
आवरिष्यते मुधा मुनिर्विन्ध्यम्
अरुद्ध भूधरम् ॥ नैषधीयचरितम् - 12 - 90 ॥
भूशक्रस्य यशांसि विक्रमभरेणोपार्जितानि क्रमादेतस्य
स्तुमहे महेमरदनस्पर्धीनि कैरक्षरैः ।
लिम्पद्भिः कृतकं कृतोऽपि रजतं राज्ञां यशःपारदैरस्य स्वर्णगिरिः प्रतापदहनैः स्वर्णं पुनर्निर्मितः ॥ नैषधीयचरितम् - 12 - 91 ॥
यद्भर्तुः
कुरुते अभिषेणनमयं शक्रो भुवः सा ध्रुवं दैग्दाहैरिव भस्मभिर्मघवता वृष्टैर्धृतोद्धूलना ।
शम्भोर्मा बत सान्धिवेलनटनं भाजि व्रतं द्रागिति क्षोणी
नृत्यति मूर्तिरष्टवपुषोऽसृग्वृष्टिसन्ध्याधिया ॥ नैषधीयचरितम् - 12 - 92 ॥
प्रागेतद्वपुरामुखेन्दु सृजतः स्रष्टुः समस्तस्त्विषां कोशः शोषम्
अगाद् अगाधजगतीशिल्पेऽप्यनल्पायितः ।
निश्शेषद्युतिमण्डलव्ययवशादीषलभैरेष वा शेषः केशमयः किमन्धतमसस्तोभैस्ततो निर्मितः ॥ नैषधीयचरितम् - 12 - 93 ॥
तत्तद्दिग्जैत्रयात्रोद्धुरतुरगखुराग्रोद्धतैरन्धकारं निर्वाणारिप्रतापानलजमिव
सृजति एष राजा रजोभिः ।
भूगोलच्छायमायामयगणितविदुन्नेयकायोऽभिया
अभूद् एतत्कीर्तिप्रतानैर्विधुभिरिव युधे राहुराहूयमानः ॥ नैषधीयचरितम् - 12 - 94 ॥
आस्ते दामदोरीयामियमुदरदरीं यावलम्ब्य त्रिलोकी संमातुं शक्नुवन्ति प्रथिमभरवशादत्र नैतद्यशांसि ।
तामेनां पूरयित्वा
निरगुः इव मधुध्वंसिनः पाण्डुपद्मच्छद्मापन्नानितानिद्विपदशनसनाभीनि नाभीपथेन ॥ नैषधीयचरितम् - 12 - 95 ॥
अस्यासिर्भुजगः स्वकोशसुषिराकृष्टः स्फुरत्कृष्णिमा कम्पोन्मीलदराललीलवलनस्तेषां भिये भूभुजाम् ।
सङ्ग्रामेषु निजाङ्गुलीमयमहासिद्धाषधीवीरुधः पर्वास्ये विनिवेश्य जाङ्गुलिकता यैर्नाम नालम्बिता ॥ नैषधीयचरितम् - 12 - 96 ॥
यः पृष्ठं युधि
दर्शयति अरिभटश्रेणीषु यो वक्रतामस्मिन्नेव
बिभर्ति यञ्च किरति कूरध्वनिं निष्ठुरः ।
दोषं तस्य तथाविधस्य भजतश्चापस्य गृह्णन्गुणं विख्यातः स्फुटमेक एष नृपतिः सीमा गुणग्राहिणाम् ॥ नैषधीयचरितम् - 12 - 97 ॥
अस्यारिप्रकरः शरश्च नृपतेः संख्ये पतन्तावुभौ सीत्कारं च न संमुखौ
रचयतः कम्पं च न प्राप्नुतः ।
तद्युक्तं न पुनर्निवृत्तिरुभयोः
जागर्ति यन्मुक्तयोरेकस्तत्र
भिनत्ति मित्रमपरश्चामित्रमित्यद्भुतम् ॥ नैषधीयचरितम् - 12 - 98 ॥
धूलीभिर्दिवमन्धयन्बधिरयन्नाशाः खुराणां रवैर्वातं संयति खञ्जयञ्जवजयैः स्तोतॄन् गुणैर्मूकयन् ।
धर्माराधनसंनियुक्तजगता राज्ञामुनाधिष्ठितः सान्द्रोत्फालमिषाद्
विगायति पदा स्प्रष्टुं तुरङ्गोऽपि गाम् ॥ नैषधीयचरितम् - 12 - 99 ॥
एतेनोत्कृत्तकण्ठप्रतिसुभटनटारब्धनाट्याद्भुतानां कष्टं द्रष्टैव न
अभूद् भूवि समरसमालोकिलोकास्पदेऽपि ।
अश्वैरस्वैरवेगैः कृतखुरखुरलीमङ्क्षुविक्षुद्यमानक्ष्मापृष्ठोत्तिष्ठदन्धंकरणरणधुरारेणुधारान्धकारात् ॥ नैषधीयचरितम् - 12 - 100 ॥
उन्मीलल्लीलनीलोत्पलदलदलनामोदमेदस्विपूरक्रोडक्रीडद्द्विजालीगरुदुदितमरुत्स्फालवाचालवीचिः ।
एतेन
अखानि शाखानिवहनवहरित्पर्णपूर्णद्रुमालीव्यालीढोपान्तशान्तव्यथपथिकदृशां दत्तरागस्तडागः ॥ नैषधीयचरितम् - 12 - 101 ॥
वृद्धो वार्धिरसौ तरङ्गवलिभं बिभ्रद्वपुः पाण्डुरं हंसालीपलितेन यष्टिकलितस्तावद्वयोर्बंहिमा ।
बिभ्रच्चन्द्रिकया च कं विकचया योग्यस्फुरत्सङ्गतं स्थाने स्नानविधायिधार्मिकशिरोनत्यापि नित्यादृतः ॥ नैषधीयचरितम् - 12 - 102 ॥
तस्मिन्नेतेन यूना सह विहर पयःकेलिवेलासु बाले नालेन
अस्तु त्वदक्षिप्रतिफलनभिदा तत्र नीलोत्पलानाम् ।
तत्पाथोदेवतानां
विशतु तव तनुच्छायमेवाधिकारे तत्फुल्लाम्भोजराज्ये
भवतु च भवदीयाननस्याभिषेकः ॥ नैषधीयचरितम् - 12 - 103 ॥
एतत्कीर्तिविवर्तधौतनिखिलत्रैलोक्यनिर्वासितैर्विश्रान्तिः कलिता कथासु जगतां श्यामैः समग्रैरपि ।
जज्ञे कीर्तिमयादहो भयभरैरस्मादकीर्तिः पुनः सायन्नास्य कथापथेऽपि मलिनच्छाया
बबन्ध स्थितिम् ॥ नैषधीयचरितम् - 12 - 104 ॥
अथ
अवदत् भीमसुतेङ्गितात्सखी जनैरकीर्तिर्यदि वास्य न
इष्यते ।
मयापि सा तत्खलु न
इष्यते परं सभाश्रवःपूरतमालवल्लिताम् ॥ नैषधीयचरितम् - 12 - 105 ॥
अस्य क्षोणिपतेः परार्धपरया लक्षीकृताः सङ्ख्यया प्रज्ञाचक्षुरवेक्ष्यमाणतिमिरप्रख्याः किलाकीर्तयः ।
गीयन्ते स्वरमष्टमं कलयता जातेन वन्ध्योदरान्मूकानां प्रकरेण कूर्मरमणीदुग्धोदधे रोधसि ॥ नैषधीयचरितम् - 12 - 106 ॥
तदक्षरैः सस्मितविस्मिताननां निपीय तामीक्षणभङ्गिभिः सभाम् ।
इहास्य हास्यं किम्
अभूत् नवेति तं विदर्भजा भूपमपि
न्यभालयत् ॥ नैषधीयचरितम् - 12 - 107 ॥
नलान्यवीक्षां
विदधे दमस्वसुः कनीनिकागः खलु नीलिमालयः ।
चकार सेवां शुचिरक्ततोचितां मिलन्नपाङ्गः सविधे तु नैषधे ॥ नैषधीयचरितम् - 12 - 108 ॥
दृशा नलस्य श्रुतिचुम्बिनेषुणा करेऽपि चक्रच्छलनम्रकार्मुकः ।
स्मरः पराङ्गैरनुकल्प्य धन्वितां जनीमनङ्गः स्वयम्
आर्दयत् ततः ॥ नैषधीयचरितम् - 12 - 109 ॥
उत्कण्टका विलसदुज्ज्वलपत्रराजिरामोदभागनपरागतराऽतिगौरी ।
रुद्रक्रुधस्तदरिकामधिया नले सा वासार्थिताम्
अधृत काञ्चनकेतकी वा ॥ नैषधीयचरितम् - 12 - 110 ॥
तन्नालीकनले चलेतरमनाः साम्यान्मनागपि
अभूद् अप्यग्रे चतुरः स्थितान्न चतुरा पातुं दृशा नैषधान् ।
आनन्दाम्बुनिधौ निमज्ज्य नितरां दूरं गता तत्तलालङ्कारीभवनाज्जनाय ददती पातालकन्याभ्रमम् ॥ नैषधीयचरितम् - 12 - 111 ॥
सर्वस्वं चेतसस्तां नृपतिरपि दृशे प्रीतिदायं प्रदाय
प्रापत् तद्दृष्टिमिष्टातिथिममरदुरापामपाङ्गोत्तरङ्गम् ।
आनन्दान्ध्येन वन्ध्यान्
अकृत तदपराकूतपातान्स रत्याः पत्या पीयूषधारावलनविरचितेनाशुगेनाशु लीढः ॥ नैषधीयचरितम् - 12 - 112 ॥
श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
तस्य द्वादश एष मातृचरणाम्भोजालिमौलेर्महाकाव्येऽयं
व्यगलत् नलस्य चरिते सर्गो निसर्गोज्ज्वलः ॥ नैषधीयचरितम् - 12 - 113 ॥
।। इति नैषधीयचरितमहाकाव्ये द्वादशसर्गः ।।
त्रयोदशसर्गः
कल्पद्रुमान्परिमला इव भृङ्गमालामात्माश्रयामखिलनिन्दनशाखिवृन्दात् ।
तां राजकादपगमय्य विमानधुर्या
निन्युः नलाकृतिधरानथ पञ्चवीरान् ॥ नैषधीयचरितम् - 13 - 1 ॥
साक्षात्कृताखिलजगज्जनताचरित्रा तत्राधिनाथमधिकृत्य दिवस्तथा सा ।
ऊचे यथा स च शचीपतिः
अभ्यधायि प्राकाशि तस्य न च नैषधकायमाया ॥ नैषधीयचरितम् - 13 - 2 ॥
ब्रूमः किमस्य वरवर्णिनि वीरसेनोद्भूतिं द्विषद्बलविजित्वरपौरुषस्य ।
सेनाचरीभवदिभाननदानवारिवासेन यस्य जनितासुरभीरणश्रीः ॥ नैषधीयचरितम् - 13 - 3 ॥
शुभ्रांशुहारगणहारिपयोधराङ्कचुम्बीन्द्रचापखचितद्युमणिप्रभाभिः ।
अन्वास्यते समिति चामरवाहिनीभिर्यात्रासु चैष बहुलाभरणार्चिताभिः ॥ नैषधीयचरितम् - 13 - 4 ॥
क्षोणीभृतामतुलकर्कशविग्रहाणामुद्दामदर्पहरिकुञ्जरकोटिभाजाम् ।
पक्षच्छिदामयमुदग्रबलो विधाय मग्नं विपज्जलनिधौ जगद्
उज्जहार ॥ नैषधीयचरितम् - 13 - 5 ॥
भूमीभृतः समिति जिष्णुमपव्यपायं
जानीहि न त्वमघवन्तममुं कथञ्चित् ।
गुप्तं घटप्रतिभटस्तनि बाहुनेत्रं ना
आलोकसे अतिशयमद्भुतमेतदीयम् ॥ नैषधीयचरितम् - 13 - 6 ॥
लेखा नितम्बिनि बलादिसमृद्धराज्यप्राज्योपभोगपिशुना
दधते सरागम् ।
एतस्य पाणिचरणं तदनेन पत्या सार्धं शचीव हरिणा मुदम्
उद्वहस्व ॥ नैषधीयचरितम् - 13 - 7 ॥
आकर्ण्य तुल्यमखिलां सुदती लगन्तीमाखण्डलेऽपि च नलेऽपि च वाचमेताम् ।
रूपं समानमुभयत्र विगाहमाना श्रोत्रान्न निर्णयम्
अवापद् असौ न नेत्रात् ॥ नैषधीयचरितम् - 13 - 8 ॥
शक्रः किमेष निषाधाधिपतिः स वेति दोलायमानमनसं परिभाव्य भैमीम् ।
निर्दिश्य तत्र पवनस्य सखायमस्यां भूयः
असृजद् भगवती वचसः स्रजं सा ॥ नैषधीयचरितम् - 13 - 9 ॥
एष प्रतापनिधिरुद्गतिमान्सदाऽयं किं नाम् नार्जितमनेन धनञ्जयेन ।
हेम प्रभूतम्
अधिगच्छ शुचेरमुष्मानास्येव कस्यचन भास्वररूपसम्पत् ॥ नैषधीयचरितम् - 13 - 10 ॥
अस्यर्थहेतिपटुताकवलीभवत्तत्तत्पार्थिवाधिकरणप्रभवाऽस्य भूतिः ।
अप्यङ्गरागजननाय महेश्वरस्य
सञ्जायते रुचिरकर्णि तपस्विनोऽपि ॥ नैषधीयचरितम् - 13 - 11 ॥
एतन्मुखा विबुधसंसदसावशेषा माध्यस्थ्यमस्य यमतोऽपि महेन्द्रतोऽपि ।
एनं महस्विनम्
उपेहि सदारुणोच्चैर्येनामुना पितृमुखि
ध्रियते करश्रीः ॥ नैषधीयचरितम् - 13 - 12 ॥
नैवाल्पमेधसि पटो रुचिमत्त्वमस्य मध्येसमिन्निवसतो रिपवस्तृणानि ।
उत्थानवानिह पराभवितुं तरस्वी शक्यः पुनः
भवति केन विरोधिनायम् ॥ नैषधीयचरितम् - 13 - 13 ॥
साधारणीं गिरमुषर्बुधनैषधाभ्यामेतां निपीय न विशेषमवाप्तवत्या ।
ऊचे नलोऽयमिति तं प्रति चित्तमेकं
ब्रूते स्म चान्यदनलोऽयमितीदमीयम् ॥ नैषधीयचरितम् - 13 - 14 ॥
एतादृशीमथ विलोक्य सरस्वती तां सन्देहचित्रभयचित्रितचित्तवृत्तिम् ।
देवस्य सूनुमरविन्दविकासिरश्मेरुद्दिश्य दिक्पतिमुदीरयितुं
प्रचक्रे ॥ नैषधीयचरितम् - 13 - 15 ॥
दण्डं
बिभर्ति अयमहो जगतस्ततः स्यात्कम्पाकुलस्य सकलस्य न पङ्कपातः ।
स्वर्वैद्ययोरपि मदव्ययदायिनीभिरेतस्य रुग्भिरमरः किमु कश्चिद्
अस्ति ॥ नैषधीयचरितम् - 13 - 16 ॥
मित्त्रप्रियोपजननं प्रति हेतुरस्य संज्ञा श्रुतासुहृदयं न जनस्य कस्य ।
छायेदृगस्य च न कुत्रचिद्
अध्यगायि तप्तं यमेन नियमेन तपोऽमुनैव ॥ नैषधीयचरितम् - 13 - 17 ॥
किञ्च प्रभावनमिताखिलराजतेजा देवः पिताम्बरमणी रमणीयमूर्तिः ।
उत्क्रान्तिदा कमनु न
प्रतिभाति शक्तिः कृष्णत्वमस्य च परेषु गदान्नियोक्तुः ॥ नैषधीयचरितम् - 13 - 18 ॥
एकः प्रभावमयमेति परेतराजौ तज्जीवितेशधियमत्र
विधेहि मुग्धे ।
भूतेषु यस्य खलु भूरियमस्य वश्यभावं
समाश्रयति दस्रसहोदरस्य ॥ नैषधीयचरितम् - 13 - 19 ॥
गुम्फो गिरां शमननैषाधयोः समानः शङ्कामनेकनलदर्शनजातशङ्के ।
चित्ते विदर्भवसुधाधिपतेः सुताया यत्
निर्ममे खलु तदेष
पिपेष पिष्टम् ॥ नैषधीयचरितम् - 13 - 20 ॥
तत्रापि तत्रभवती भृशसंशयालोरालोक्य सा विधिनिषेधनिवृत्तिमस्याः ।
याथःपतिं प्रति धृताभिमुखाङ्गुलीकपाणिः क्रमोचितम्
उपाक्रमत अभिधातुम् ॥ नैषधीयचरितम् - 13 - 21 ॥
या सर्वतोमुखतया व्यवतिष्ठमाना यादोरणैः
जयति नैकविदारका या ।
एतस्य भूरितरवारिनिधिश्चमूः सा यस्याः प्रतीतिविषयः परतो न रोधः ॥ नैषधीयचरितम् - 13 - 22 ॥
नासीरसीमनि घनध्वनिरस्य
भूयात् कुम्भीरवान्समकरः सहदानवारिः ।
उत्पद्मकाननसखः सुखम्
आतनोति रत्नैरलङ्करणभावमितैर्नदीनः ॥ नैषधीयचरितम् - 13 - 23 ॥
सस्यन्दनैः प्रवहणैः प्रतिकूलपातं का वाहिनी न
तनुते पुनरस्य नाम ।
तस्या विलासवति कर्कशताश्रिता या
ब्रूमः कथम् बहुतयासिकता वयं ताः ॥ नैषधीयचरितम् - 13 - 24 ॥
शोणं पदप्रणयिनं गुणमस्य
पश्य किञ्चास्य सेवनपरैव सरखती सा ।
एनं
भजस्व सुभगे भुवनाधिनाथं किं वा
भजन्ति तमिमं कमलाशया न ॥ नैषधीयचरितम् - 13 - 25 ॥
शङ्कालताततिमनेकनलावलम्बां वाणी न वर्धयतु तावदभेदिकेयम् ।
भीमोद्भवां प्रति नले च जलेश्वरे च तुल्यं तथापि यदवर्धयदत्र चित्रम् ॥ नैषधीयचरितम् - 13 - 26 ॥
बालां विलोक्य विबुधैरपि मायिभिस्तैरच्छद्मितामियमलीकनलीकृतस्वैः ।
आह स्म तां भगवती निषधाधिनाथं निर्दिश्य राजपरिषत्परिवेषभाजम् ॥ नैषधीयचरितम् - 13 - 27 ॥
अत्याजिलब्धविजयप्रसरस्त्वया किं
विज्ञायते रुचिपदं न महीमहेन्द्रः ।
प्रत्यर्थिदानवशताहितचेष्टयासौ जीमूतवाहनधियं न
करोति कस्य ॥ नैषधीयचरितम् - 13 - 28 ॥
येनामुना बहुविगाढसुरेश्वराध्वराज्याभिषेकविकसन्महसा
बभूवे ।
आवर्जनं तमनु ते ननु साधु नामग्राहं मया नलमुदीरितमेवमत्र ॥ नैषधीयचरितम् - 13 - 29 ॥
यच्चण्डिमारणविधिव्यसनं च तत्त्वं बुद्ध्वाशयाश्रितममुष्य च दक्षिणत्वम् ।
सैषा नले सहजरागभरादमुष्मिन्नात्मानमर्पयितुम्
अर्हसि धर्मराजे ॥ नैषधीयचरितम् - 13 - 30 ॥
किं ते तथा मतिरमुष्य यथाशयः स्यात्त्वत्पाणिपीडनविनिर्मितयेऽनपाशः ।
कान्मानवान्
अवति नो भुवनं चरिष्णून्नासावमुत्र नरता
भवति इति युक्तम् ॥ नैषधीयचरितम् - 13 - 31 ॥
श्लोकादिह प्रथमतो हरिणा द्वितीयाद्धूमध्वजेन शमनेन समं तृतीयात् ।
तुर्याच्च तस्य वरुणेन समानभावं सा जानती पुनः
अवादि तया विमुग्धा ॥ नैषधीयचरितम् - 13 - 32 ॥
त्वं याऽर्थिनी किल नले न शुभाय तस्याः क्व
स्यात् निजार्पणममुष्य चतुष्टये ते ।
इन्द्रानलार्यमतनूजपयःपतीनां प्राप्यैकरूप्यमिह संसदि दीप्यमाने ॥ नैषधीयचरितम् - 13 - 33 ॥
देवः पतिर्विदुषि नैष धराजगत्या
निर्णीयते न किमु न
व्रियते भवत्या ।
नायं नलः खलु तवातिमहानलाभो यद्येनम्
उज्झसि वरः कतरः परस्ते ॥ नैषधीयचरितम् - 13 - 34 ॥
इन्द्राग्निदक्षिणदिगीश्वरपाशिभिस्तां वाचं नले तरलिताथ समां प्रमाय ।
सा सिन्धुवेणिरिव वाडववीतिहोत्रं लावण्यभूः कमपि भीमसुता
आप तापम् ॥ नैषधीयचरितम् - 13 - 35 ॥
साप्तुं
प्रयच्छति न पक्षचतुष्टये तां तल्लाभशंसिनि न पञ्चमकोटिमात्रे ।
श्रद्धां
दधे निषधराड्विमतौ मतानामद्वैततत्त्व इव सत्यतरेऽपि लोकः ॥ नैषधीयचरितम् - 13 - 36 ॥
कारिष्यते परिभवः कलिना नलस्य तां द्वापरस्तु सुतनूम्
अदुनोत् पुरस्तात् ।
भैमीनलोपयमनं पिशुनौ
सहेते न द्वापरः किल कलिश्च युगे जगत्याम् ॥ नैषधीयचरितम् - 13 - 37 ॥
उत्कण्ठयन्पृथगिमां युगपन्नलेषु प्रत्येकमेषु परिमोहयमाणबाणः ।
जानीमहे निजशिलीमुखशीलिसङ्ख्यासाफल्यम्
आप स तदा यदि पञ्चबाणः ॥ नैषधीयचरितम् - 13 - 38 ॥
देवानियं निषाधराजरुचस्त्यजन्ती रूपाद्
अरज्यत नले न विदर्भसुभ्रूः ।
जन्मान्तराधिगतकर्मविपाकजन्मैव
उन्मीलति क्वचन कस्यचनानुरागः ॥ नैषधीयचरितम् - 13 - 39 ॥
क्व
प्राप्यते स पतगः
परिपृच्छ्यते यः प्रत्येमि तस्य हि पुरेव नलं गिरेति ।
सस्मार सस्मरमतिः प्रति नैषधीयं तत्रामरालयमरालमरालकेशी ॥ नैषधीयचरितम् - 13 - 40 ॥
एकैकम्
ऐक्षत मुहुर्महतादरेण भेदं
विवेद न च पञ्चसु कञ्चिदेषा ।
शङ्काशतं वितरता हरता पुनस्तदुन्मादिनेव मनसेयमिदं तद्
आह ॥ नैषधीयचरितम् - 13 - 41 ॥
अस्ति द्विचन्द्रमतिः
अस्ति जनस्य तत्र भ्रान्तौ दृगन्तचिपिटीकरणादिरादिः ।
स्वच्छोपसर्पणमपि प्रतिमाभिमाने भेदभ्रमे पुनरमीषु न मे निमित्तम् ॥ नैषधीयचरितम् - 13 - 42 ॥
किं वा
तनोति मयि नैषध एव कावव्यूहं विधाय परिहासमसौ विलासी ।
विज्ञानवैभवभृतः किमु तस्य विद्या सा
विद्यते न तुरगाशयवेदितेव ॥ नैषधीयचरितम् - 13 - 43 ॥
एको नलः किमयमन्यतमः किमैलः कामोऽपरः किमु किमु द्वयमाश्विनेयौ ।
किं रूपधेयभरसीमतया समेषु तेष्वेव नेह नलमोहमहं
वहे वा ॥ नैषधीयचरितम् - 13 - 44 ॥
पूर्वं मया विरहनिःसहयापि दृष्टः सोऽयं प्रियस्तत इतो निषधाधिराजः ।
भूयः किमागतवती मम सा दशेयं
पश्यामि यद्विलसितेन नलानलीकान् ॥ नैषधीयचरितम् - 13 - 45 ॥
मुग्धा
दधामि कथमित्थमथापशङ्कां सङ्क्रन्दनादिकपटः स्फुटमीदृशोऽयम् ।
देव्यानयैव रचिता हि तथा तथैषां गाथा यथा दिगधिपानपि ताः
स्पृशन्ति ॥ नैषधीयचरितम् - 13 - 46 ॥
एतन्मदीयमतिवञ्चकपञ्चकस्थे नाथे कथं नु मनुजस्य
चकास्तु चिह्नम् ।
लक्ष्माणि तानि किममी न
वहन्ति हन्त बर्हिर्मुखा धुतरजस्तनुतामुखानि ॥ नैषधीयचरितम् - 13 - 47 ॥
याचे नलं किममरानथवा तदर्थं नित्यार्चनादपि ममाफलिनैरलं तैः ।
कन्दर्पशोषणशिलीमुखपातपीतकारुण्यनीरनिधिगह्वरधोरचित्तैः ॥ नैषधीयचरितम् - 13 - 48 ॥
ईशा दिशां नलभुवं प्रतिपद्य लेखा वर्णिश्रियं गुणवतामपि वः कथं वा ।
मूर्खान्धकूपपतनादिव पुस्तकानामस्तं गतं बत परोपकृतिव्रतत्वम् ॥ नैषधीयचरितम् - 13 - 49 ॥
यस्येश्वरेण यद्
अलेखि ललाटपट्टे तत्
स्याद् योग्यमपि योग्यमपास्य तस्य ।
का वासना
अस्तु बिभृयाम् इह यां हृदाहं नार्कातपैर्जलजम्
एति हिमैस्तु दाहम् ॥ नैषधीयचरितम् - 13 - 50 ॥
इत्थं यथेह मदभाग्यमनेन
मन्ये कल्पद्रुमोऽपि स मया खलु याच्यमानः ।
सङ्कोचसञ्ज्वरदलाङ्गुलिपल्लवाग्रपाणीभवन्
भवति मां प्रति बद्धमुष्टिः ॥ नैषधीयचरितम् - 13 - 51 ॥
देव्याः करे वरणमाल्यमथा
अर्पये वा यो वैरसेनिरिह तत्र
निवेशय इति।
सैषा मया मखभुजां द्विषती कृता
स्यात् स्वस्मै तृणाय तु
विहन्मि न बन्धुरत्नम् ॥ नैषधीयचरितम् - 13 - 52 ॥
यः
स्यात् अमीषु परमार्थनलः स मालाम् अङ्गी
करोतु वरणाय ममेति चैनाम् ।
तं
प्रापयामि यदि तत्तु विसृज्य लज्जां
कुर्वे कथं जगति शृङ्वति ही विडम्बः ॥ नैषधीयचरितम् - 13 - 53 ॥
इतरनलतुलाभागेष शेषाः सुधाभिः
स्नपयति मम चेतो नैषधः कस्य हेतोः ।
प्रथमचरमयोर्वा शब्दयोर्वर्णसख्ये
विलसति चरमेऽनुप्रासभासां विलासः ॥ नैषधीयचरितम् - 13 - 54 ॥
इति मनसि विकल्पानुद्यतः सन्त्यजन्ती क्वचिदपि दमयन्ती निर्णयं न
आससाद ।
मुखमथ परितापास्कन्दितानन्दमस्या मिहिरविरचितावस्कन्दमिन्दुं
निनिन्द ॥ नैषधीयचरितम् - 13 - 55 ॥
श्रीहर्शं कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः
सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
स्वादूत्पादभृति त्रयोदशतयादेश्यस्तदीये महाकाव्येऽयं
व्यरमत् नलस्य चरिते सर्गो रसाम्भोनिधिः ॥ नैषधीयचरितम् - 13 - 56 ॥
।। इति नैषधीयचरितमहाकाव्ये त्रयोदशसर्गः ।।
चतुर्दशसर्गः
अथाधिगन्तुं निषधेश्वरं सा प्रसादनाम्
आद्रियत आमराणाम् ।
यतः सुराणां सुरभिर्नृणां तु सा वेधसा
असृज्यत कामधेनुः ॥ नैषधीयचरितम् - 14 - 1 ॥
प्रदक्षिणप्रक्रमणालवालविलेपधूपाचरणाम्बुसेकैः ।
इष्टं च मृष्टं च फलं सुवाना देवा हि कल्पद्रुमकाननं नः ॥ नैषधीयचरितम् - 14 - 2 ॥
श्रद्धामयीभूय सुपर्वणस्तान्
ननाम नामग्रहणाग्रकं सा ।
सुरेषु हि श्रद्दधतां नमस्या सर्वार्थनिध्यङ्गमिथः समस्या ॥ नैषधीयचरितम् - 14 - 3 ॥
यत्तान्निजे सा हृदि भावनाया बलेन साक्षाद्
अकृत अखिलस्थान् ।
अभूद् अभीष्टप्रतिभूः स तस्या वरं हि दृष्टा
ददते परं ते ॥ नैषधीयचरितम् - 14 - 4 ॥
सभाजनं तत्र
ससर्ज तेषां सभाजने
पश्यति विस्मिते सा ।
आमुद्यते यत्सुमनोभिरेवं फलस्य सिद्धौ सुमनोभिरेव ॥ नैषधीयचरितम् - 14 - 5 ॥
वैशद्यहृद्यैर्म्रदिमाभिरामैरामोदिभिस्तानथ जातिजातैः ।
आनर्च गीत्यन्वितषट्पदैः सा स्तवप्रसूनस्तबकैर्नवीनैः ॥ नैषधीयचरितम् - 14 - 6 ॥
हृत्पद्मसद्मन्यधिवास्य बुद्ध्या
दध्यौ अथैतानियमेकताना ।
सुपर्वणां हि स्फुटभावना या सा पूर्वरूपं फलभावनायाः ॥ नैषधीयचरितम् - 14 - 7 ॥
भक्त्या तयैव प्रससाद तस्यास्तुष्टं स्वयं देवचतुष्टयं ततः ।
स्वेनानलस्य स्फुटतां यियासोः फूत्कृत्यपेक्षा कियती खलु
स्यात् ॥ नैषधीयचरितम् - 14 - 8 ॥
प्रसादमासाद्य सुरैः कृतं सा सस्मार सारस्वतसूक्तिसृष्टेः ।
देवा हि नान्यद्वितरन्ति किन्तु प्रसद्य ते साधुधियं
ददन्ते ॥ नैषधीयचरितम् - 14 - 9 ॥
शेषं नलं प्रत्यमरेण गाथा या या समर्था खलु येन येन ।
तां तां तदन्येन सहालगन्तीं तदा विशेषं प्रति
सन्दधे सा ॥ नैषधीयचरितम् - 14 - 10 ॥
एकैकवृत्तेः प्रतिलोकपालं पतिव्रतात्वं
जगृहुः दिशां याः ।
वेद स्म गाथा मिलितास्तदासावाशा इवैकस्य नलस्य वश्याः ॥ नैषधीयचरितम् - 14 - 11 ॥
या पाशिनैवाशनिपाणिनैव गाथा यमेनैव समाग्निनैव ।
तामेव
मेने मिलितां नलस्य सैषा विशेषाय तदा नलस्य ॥ नैषधीयचरितम् - 14 - 12 ॥
निश्चित्य शेषं तमसौ नरेशं प्रमोदमेदस्वितरान्तरा
अभूत् ।
देव्या गिरां भावितभङ्गिः
आख्यत् चित्तेन चिन्तार्णवयादसेयम् ॥ नैषधीयचरितम् - 14 - 13 ॥
सा भङ्गिरस्याः खलु वाचि कापि यद्भारती मूर्तिमतीयमेव ।
श्लिष्टं निगद्य
आदृत वासवादीन्विशिष्य मे नैषधमपि
अवादीत् ॥ नैषधीयचरितम् - 14 - 14 ॥
जग्रन्थ सेयं मदनुग्रहेण वचःस्रजः स्पष्टयितुं चतस्रः ।
द्वे ते नलं लक्षयितुं
क्षमेते ममैव मोहोऽयमहो महीयान् ॥ नैषधीयचरितम् - 14 - 15 ॥
श्लिष्यन्ति वाचो यदमूरमुष्याः कवित्वशक्तेः खलु ते विलासाः ।
भूपाललीलाः किल लोकपालाः
समाविशन्ति व्यतिभेदिनोऽपि ॥ नैषधीयचरितम् - 14 - 16 ॥
त्यागं महेन्द्रादिचतुष्टस्य किम्
अभ्यनन्दत् क्रमसूचितस्य ।
किं
प्रेरयामास नले च तन्मां सा सूक्तिरस्या मम कः प्रमोहः ॥ नैषधीयचरितम् - 14 - 17 ॥
परस्य दारान्खलु मन्यमानैरस्पृश्यमानाममरैर्धरित्रीम् ।
भक्त्यैव भर्तुश्चरणौ दधानां नलस्य तत्कालम्
अपश्यत् एषा ॥ नैषधीयचरितम् - 14 - 18 ॥
सुरेषु न
अपश्यत् अवैक्षत अक्ष्णोर्निमेषमुर्वीभृति संमुखी सा ।
इह त्वमागत्य नले मिलेति संज्ञानदानादिव भाषमाणम् ॥ नैषधीयचरितम् - 14 - 19 ॥
न
अबुद्ध बाला विबुधेषु तेषु क्षोदं क्षितेः
ऐक्षत नैषधे तु ।
पत्ये सृजन्त्याः परिरम्भमुर्व्याः सम्भूतसम्भेदमसंशयं सा ॥ नैषधीयचरितम् - 14 - 20 ॥
स्वेदः स्वदेहस्य वियोगतापं निर्वापयिष्यन्निव संसिसृक्षोः ।
हीराङ्कुरश्चारुणि हेमनीव नले तयालोकि न दैवतेषु ॥ नैषधीयचरितम् - 14 - 21 ॥
सुरेषु मालाममलाम्
अपश्यत् नले तु बाला मलिनीभवन्तीम् ।
इमां किमासाद्य नलोऽद्य मृद्वीं श्रद्
धास्यते मामिति चिन्तयेव ॥ नैषधीयचरितम् - 14 - 22 ॥
श्रियं भजन्तां कियदस्य देवाश्छाया नलस्य
अस्ति तथापि नैषाम् ।
इतीरयन्तीव तया
निरैक्षि सा नैषधे न त्रिदशेषु तेषु ॥ नैषधीयचरितम् - 14 - 23 ॥
चिह्नैरमीभिर्नलसंविदस्याः संवादम्
आप प्रथमोपजाता ।
सा लक्षणव्यक्तिभिरेव देवप्रसादमासादितमपि
अबोधि ॥ नैषधीयचरितम् - 14 - 24 ॥
नले निधातुं वरणस्रजं तां स्मरः स्म रामां
त्वरयति अथैनाम् ।
अपत्रपा तां
निषिषेध तेन द्वयानुरोधं तुलितं
दधौ सा ॥ नैषधीयचरितम् - 14 - 25 ॥
स्रजा समालिङ्गयितुं प्रियं सा रसाद्
अधत्त एव बहुप्रयत्नम् ।
स्तम्भत्रपाभ्याम्
अभवत् तदीये स्पन्दस्तु मन्दोऽपि न पाणिपद्मे ॥ नैषधीयचरितम् - 14 - 26 ॥
तस्या हृदि व्रीडमनोभवाभ्यां दोलाविलासं समवाप्यमाने ।
स्थितं धृतैणाङ्ककुलातपत्रे शृङ्गारम्
आलिङ्गत् अधीश्वरश्रीः ॥ नैषधीयचरितम् - 14 - 27 ॥
करः स्रजा सज्जतरस्तदीयः प्रियोन्मुखीभूय पुनः
व्यरंसीत् ।
तदाननस्यार्धपथं
ययौ च
प्रत्याययौ चातिचलः कटाक्षः ॥ नैषधीयचरितम् - 14 - 28 ॥
तस्याः प्रियं चित्तमुदेतुमेव प्रभू
बभूव अक्षि न तु प्रयातुम् ।
सत्यीकृतः स्पष्टम
अभूत् तदानीं तयाऽक्षिलज्जेति जनप्रवादः ॥ नैषधीयचरितम् - 14 - 29 ॥
कथं कथञ्चिन्निषधेश्बरस्य कृत्वास्यपद्मं दरवीक्षितश्रि ।
वाग्देवताया वदनेन्दुबिम्बं त्रपावती सा
अकृत सामिदृष्टम् ॥ नैषधीयचरितम् - 14 - 30 ॥
न जानतीवेदम्
अवोचत् एनामाकूतमस्यास्तदवेत्य देवी ।
भावस्त्रपोर्मिप्रतिसीरया ते न
दीयते लक्षयितुं ममापि ॥ नैषधीयचरितम् - 14 - 31 ॥
देव्याः श्रुतौ नेति नलार्धनाम्नि गृहीत एव त्रपया निपीता ।
अथाङ्गुलीरङ्गुलिभिर्मृशन्ती दूरं सा नमयां
चकार ॥ नैषधीयचरितम् - 14 - 32 ॥
करे विधृत्येश्वरया गिरां सा पान्था पथीन्द्रस्य कृता विहस्य ।
वामेति नामैव
बभाज सार्धं पुरन्ध्रिसाधारणसंविभागम् ॥ नैषधीयचरितम् - 14 - 33 ॥
विहस्य हस्तेऽथ विकृष्य देवी नेतुं प्रयाताऽभि महेन्द्रमेताम् ।
भ्रमादियं दत्तमिवाहिदेहे ततश्चमत्कृत्य करं
चकर्ष ॥ नैषधीयचरितम् - 14 - 34 ॥
भैमीं निरीक्ष्याभिमुखीं मघोनः स्वाराज्यलक्ष्मीः
अभृत अभ्यसूयाम् ।
दृष्ट्वा ततस्तत्परिहारिणीं तां व्रीडं बिडौजःप्रवणा
अभ्यपादि ॥ नैषधीयचरितम् - 14 - 35 ॥
त्वत्तः श्रुतं नेति नले मयातः परं
वदस्व इत्युदिताथ देव्या ।
हीमन्मथद्वैरथरङ्गभूमी भैमी दृशा भाषितनैषधा
अभूत् ॥ नैषधीयचरितम् - 14 - 36 ॥
हसत्सु भैमीं दिविषत्सु पाणौ पाणिम् प्रणीयाप्सरसां रसात्सा ।
आलिङ्ग्य नीत्वा
अकृत पान्थदुर्गां भूपालदिक्पालकुलाध्वमध्यम् ॥ नैषधीयचरितम् - 14 - 37 ॥
आदेशितामप्यवलोक्य मन्दं मन्दं नलस्यैव दिशा चलन्तीम् ।
भूयः सुरानर्धपथादथासौ तानेव तां नेतुमना
नुनोद ॥ नैषधीयचरितम् - 14 - 38 ॥
मुखाब्जमावर्तनलोलनालं कृत्वालिहूंहूंरवलक्ष्यलक्ष्यम् ।
भीमोद्भवा तां
नुनुदे अङ्कपालीं देव्या नवोढेव दृढां विवोढुः ॥ नैषधीयचरितम् - 14 - 39 ॥
देवी कथञ्चित् खलु तामदेवद्रीचीं भवन्तीं स्मितसिक्तसृक्का ।
आह स्म मां प्रत्यपि ते पुनः का शङ्का शशाङ्कादधिकाष्यबिम्बे ॥ नैषधीयचरितम् - 14 - 40 ॥
एषामकृत्वा चरणप्रणाममेषामनुज्ञामनवाप्य सम्यक् ।
सुपर्ववैरे तव वैरसेनिं वरीतुमीहा कथमौचितीयम् ॥ नैषधीयचरितम् - 14 - 41 ॥
इतीरिते विश्वसितां पुनस्तामादाय पाणौ दिविषत्सु देवी ।
कृत्वा प्रणम्रां
वदति स्म सा तान् भक्तेयम्
अर्हति अधुनानुकम्पाम् ॥ नैषधीयचरितम् - 14 - 42 ॥
युष्मान्
वृणीते न बहून्सतीयं शेषावमानाच्च भवत्सु नैकम् ।
तद्वः समेतान्नृपमेनमंशान्वरीतुम्
अन्विच्छति लोकपालाः ॥ नैषधीयचरितम् - 14 - 43 ॥
भैम्या स्रजःसञ्जनया पथि प्राक्स्वयंवरं संवरयां
बभूव ।
सम्भोगमालिङ्गनयास्य वेधाः शेषं तु कं हन्तुमियत्
यतध्वम् ॥ नैषधीयचरितम् - 14 - 44 ॥
वर्णाश्रमाचारपथात्प्रजाभिः स्वाभिः सहैवास्खलते नलाय ।
प्रसेदुषो वेदृशवृत्तभङ्ग्या दित्सैव कीर्तेर्भुवम्
आनयत् वः ॥ नैषधीयचरितम् - 14 - 45 ॥
इति श्रुतेऽस्या वचसैव हास्यात्कृत्वा सलास्याधरमास्यबिम्बम् ।
भ्रूविभ्रमाकूतकृताभ्यनुज्ञेष्वेतेषु तां साथ नलाय
निन्ये ॥ नैषधीयचरितम् - 14 - 46 ॥
मन्दाक्षनिस्पन्दतनोर्मनोभूदुष्प्रेरमपि
आनयति स्म तस्याः ।
मधूकमालामधुरं करं सा कण्ठोपकण्ठं वसुधासुधांशोः ॥ नैषधीयचरितम् - 14 - 47 ॥
अथाभिलिख्येव समर्प्यमाणां राजिं निजस्वीकरणाक्षराणाम् ।
दूर्वाङ्कुराढ्यां नलकण्ठनाले वधूर्मधूकस्रजम्
उत्ससर्ज ॥ नैषधीयचरितम् - 14 - 48 ॥
तां दूर्वया श्यामलयातिवेलं शृङ्गारभाषंनिभया सुशोभाम् ।
मालां प्रसूनायुधपाशभासं कण्ठेन भूभृद्
बिभरांबभूव ॥ नैषधीयचरितम् - 14 - 49 ॥
दूर्वाग्रजाग्रत्पुलकावलिं तां नलाङ्गमङ्गाद्भृशमुल्लसन्तीम् ।
मानेन
मन्ये नमितानना सा सासूयम्
आलोकत पुष्पमालाम् ॥ नैषधीयचरितम् - 14 - 50 ॥
कापि प्रमोदास्फुटनिर्जिहानवर्णेव या मङ्गलगीतिरासाम् ।
सैवाननेभ्यः पुरसुन्दरीणामुच्चैरुलूलुध्वनिः
उच्चचार ॥ नैषधीयचरितम् - 14 - 51 ॥
सा निर्मले तस्य मधूकमाला हृदि स्थिता च प्रतिबिम्बिता च ।
कियत्यमग्ना कियती च मग्ना पुष्पेषुबाणालिरिव
व्यलोकि ॥ नैषधीयचरितम् - 14 - 52 ॥
रोमाणि सर्वाण्यपि बालभावाद्वरश्रियं वीक्षितुमुत्सुकानि ।
तस्यास्तदा कण्टकिताङ्गयष्टेरुद्ग्रीविकादानमिव
अन्वभूवन् ॥ नैषधीयचरितम् - 14 - 53 ॥
रोमाङ्कुरैर्दन्तुरिताखिलाङ्गी रम्याधरा सा सुतरां
विरेजे ।
शरव्यदण्डैः श्रितमण्डनश्रीः स्मारी शरोपासनवेदिकेव ॥ नैषधीयचरितम् - 14 - 54 ॥
चेष्टा
व्यनेशन् निखिलास्तदास्याः स्मरेषुवातैरिव ता विधूताः ।
अभ्यर्थ्य नीताः कलिना मुहूर्तं लाभाय तस्य बहु चेष्टितुं वा ॥ नैषधीयचरितम् - 14 - 55 ॥
तन्न्यस्तमाल्यस्पृशि यन्नलस्य स्वेदं करे पञ्चशरः
चकार ।
भविष्यदुद्वाहमहोत्सवस्य हस्तोदकं तत् जनयां
बभूव ॥ नैषधीयचरितम् - 14 - 56 ॥
तूलेन तस्यास्तुलना मृदोस्तत्कम्प्रा
अस्तु सा मन्मथबाणवातैः ।
चित्रीयितं तत्तु नलो यदुच्चैः
अभूत् स भूभृत्पृथुवेपथुस्तैः ॥ नैषधीयचरितम् - 14 - 57 ॥
दृशोरपि न्यस्तमिव
आस्त राज्ञां रागाद्दृगम्बुप्रतिबिम्बिमाल्यम् ।
नृपस्य तत्पीतवतोरिवाक्ष्णोः प्रालम्बम्
आलम्बत युक्तमन्तः ॥ नैषधीयचरितम् - 14 - 58 ॥
स्तम्भस्तथालम्भितमां नलेन भैमीकरस्पर्शमुदः प्रसादः ।
कन्दर्पलक्ष्यीकरणार्पितस्य स्तम्भस्य दम्भं स चिरं यथा
आपत् ॥ नैषधीयचरितम् - 14 - 59 ॥
उत्सृज्य साम्राज्यमिवाथ भिक्षां तारुण्यमुल्लङ्घ्य जरामिवारात् ।
तं चारुमाकारमुपेक्ष्य यान्तं निजां तनूम्
आदधिरे दिगीशाः ॥ नैषधीयचरितम् - 14 - 60॥
मायानलत्वं त्यजतो निलीनैः पूर्वैरहम्पूर्विकया मघोनः ।
भीमोद्भवासात्त्विकभावशोभा दिदृक्षयेव आविरभावि नेत्रैः ॥ नैषधीयचरितम् - 14 - 61 ॥
गोत्रानुकूलत्वभवे विवाहे तत्प्रातिकूल्यादिव गोत्रशत्रुः ।
पुरः
चकार प्रवरं वरं यमायन्सखायं
ददृशे तया सः ॥ नैषधीयचरितम् - 14 - 62 ॥
स्वकामसंमोहमहान्धकारनिर्वापमिच्छन्निव दीपिकाभिः ।
उद्गत्वरीभिश्छुरितं
वितेने निजं वपुर्वायुसखः शिखाभिः ॥ नैषधीयचरितम् - 14 - 63 ॥
पत्यौ वृते भीमजया न वह्नावह्ना स्वमह्नाय
निजुह्नुवे यः ।
जनादपत्रप्य स हा सहायस्तस्य प्रकाशः
अभवत् अप्रकाशः ॥ नैषधीयचरितम् - 14 - 64 ॥
सदण्डमालक्तकनेत्रचण्डं तमःकिरं कायम्
अधत्त कालः ।
तत्कालमन्तःकरणं नृपाणामध्यासितुं कोप इवोपनम्रः ॥ नैषधीयचरितम् - 14 - 65 ॥
दृग्गोचरः
अभूत् अथ चित्रगुप्तः कायस्थ उच्चैर्गुण एतदीयः ।
ऊर्ध्वं तु पत्त्रस्य मषीद एको मषेर्ददञ्चोपरि पत्त्रमन्यः ॥ नैषधीयचरितम् - 14 - 66 ॥
तस्यां मनोबन्धविमोचनस्य कृतस्य तत्कालमिव प्रचेताः ।
पाशं दधानः करबद्धवासं विभुः
बभौ आप्यमवाप्य देहम् ॥ नैषधीयचरितम् - 14 - 67 ॥
सहद्वितीयः स्त्रियम्
अभ्युपेयात् एवं स दुर्बुध्य नयोपदेशम् ।
अन्यां सभार्यः कथम्
ऋच्छति इति जलाधिपः
अभूत् असहाय एव ॥ नैषधीयचरितम् - 14 - 68 ॥
देव्यापि दिव्याऽनु तनुः प्रकाशीचक्रे मुदश्चक्रभृतः सृजन्ती ।
अनिह्नुतैस्तामवधार्य चिह्नैस्तद्वाचि बाला शिथिलाद्भुता
अभूत् ॥ नैषधीयचरितम् - 14 - 69 ॥
विलोकके नायकमेलकेऽस्मिन्रूपान्यताकौतुकदर्शिभिस्तैः ।
बाधा बतेन्द्रादिभिरिन्द्रजालविद्याविदां वृत्तिवधाद्
व्यधायि ॥ नैषधीयचरितम् - 14 - 70 ॥
विलोक्य तावाप्तदुरापकामौ परस्परप्रेमरसाभिरामौ ।
अथ प्रभुः प्रीतमना
बभाषे जाम्बूनदोर्वीधरसार्वभौमः ॥ नैषधीयचरितम् - 14 - 71 ॥
वैदर्भि दत्तस्तव तावदेष वरो दुरापः पृथिवीश एव ।
दूत्यं तु यत्त्वं कृतवानमायं नल प्रसादस्त्वयि तन्ममायम् ॥ नैषधीयचरितम् - 14 - 72 ॥
प्रत्यक्षलक्ष्यामवलम्ब्य मूर्तिं हुतानि यज्ञेषु तव
उपभोक्ष्ये ।
संशेरते अस्माभिरवीक्ष्य भुक्तं मखं हि मन्त्राधिकदेवभावे ॥ नैषधीयचरितम् - 14 - 73 ॥
भवानपि त्वद्दयितापि शेषे सायुज्यमासादयतं शिवाभ्याम् ।
प्रेत्य
अस्मि कीदृग्
भवितास्मि चिन्ता संतापमन्तः
तनुते हि जन्तोः ॥ नैषधीयचरितम् - 14 - 74 ॥
तवोपवाराणसि नामचिह्नं वासाय पारेसि पुरं पुरा
आस्ते ।
निर्वातुमिच्छोरपि तत्र भैमीसम्भोगसङ्कोचभियाधिकाशि ॥ नैषधीयचरितम् - 14 - 75 ॥
धूमावलिश्मश्रु ततः सुपर्वा मुखं मखास्वादविदां तम्
ऊचे ।
कामं मदीक्षामयकामधेनोः पयायतामभ्युदयस्त्वदीयः ॥ नैषधीयचरितम् - 14 - 76 ॥
या दाहपाकौपयिकी तनुर्मे
भूयात् त्वदिच्छावशवर्तिनी सा ।
तया पराभूततनोरनङ्गात्तस्याः प्रभुः सन्नधिकस्त्वम्
एधि ॥ नैषधीयचरितम् - 14 - 77 ॥
अस्तु त्वया साधितमन्नमीनरसादि पीयूषरसातिशायि ।
यद्भूप
विद्मः तव सूपकारक्रियासु कौतूहलशालि शीलम् ॥ नैषधीयचरितम् - 14 - 78 ॥
वैवस्वतोऽपि स्वत एव देवस्तुष्टस्तम्
आचष्ट धराधिराजम् ।
वरप्रदानाय तवावदानैश्चिरं मदीया रसनोद्धुरेयम् ॥ नैषधीयचरितम् - 14 - 79 ॥
सर्वाणि शस्त्राणि तवाङ्गचक्रैराविर्भवन्तु त्वयि शत्रुजैत्रे ।
अवाप्यमस्मादधिकं न किञ्चित्
जागर्ति वीरव्रतदीक्षितानाम् ॥ नैषधीयचरितम् - 14 - 80 ॥
कृच्छ्रं गतस्यापि दशाविपाकं धर्मान्न चेतः स्खलतु त्वदीयम् ।
अमुञ्चतः पुण्यमनन्यभक्तेः स्वहस्तवास्तव्य इव त्रिवर्गः ॥ नैषधीयचरितम् - 14 - 81 ॥
स्मिताञ्चितां वाचमवोचदेनं प्रसन्नचेता नृपतिं प्रचेताः ।
प्रदाय भैमीमधुना वरौ तु
ददामि तद्यौतककौतुकेन ॥ नैषधीयचरितम् - 14 - 82 ॥
यत्राभिलाषस्तव तत्र देशे ननु
अस्तु धन्वन्यपि तूर्णमर्णः ।
आपो
वहन्ति इह हि लोकयात्रां यथा न भूतानि तथाऽपराणि ॥ नैषधीयचरितम् - 14 - 83 ॥
प्रसारितापः शुचिभानुना
अस्तु मरुः समुद्रत्वमपि प्रपद्य ।
भवन्मनस्कारलवोद्गमेन क्रमेलकानां निलयः पुरेव ॥ नैषधीयचरितम् - 14 - 84 ॥
अम्लानिरामोदभरश्च दिव्यः पुष्पेषु
भूयात् भवदङ्गसङ्गात् ।
दृष्टं प्रसूनोपमया मयान्यन्न धर्मशर्मोभयकर्मठं यत् ॥ नैषधीयचरितम् - 14 - 85 ॥
वाग्देवतापि स्मितपूर्वमुर्वीसुपर्वराजं रभसाद्
बभाषे ।
त्वत्प्रेयसीसंमदमाचरन्त्या मत्किं न किञ्चिद्ग्रहणोचितं ते ॥ नैषधीयचरितम् - 14 - 86 ॥
अर्थो विनैवार्थनयोपसीदन्नाल्पोऽपि धीरैरवधीरणीयः ।
मान्येन
मन्ये विधिना वितीर्णः स प्रीतिदायो बहु मन्तुमर्हः ॥ नैषधीयचरितम् - 14 - 87 ॥
अवामावामार्धे सकलमुभयाकारघटनाद्द्विधाभूतं रूपं भगवदभिधेयं
भवति यत् ।
तदन्तर्मन्त्रं मे स्मरहरमयं सेन्दुममलं निराकारं शश्वज्जप नरपते
सिध्यतु सते ॥ नैषधीयचरितम् - 14 - 88 ॥
सर्वाङ्गीणरसामृतस्तिमितया वाचा स वाचस्पतिः स स्वर्गीयमृगीदृशामपि वशीकाराय मारायते ।
यस्मै यः स्पृहयत्यनेन स तदेव
आप्नोति किं भूयसा येनायं हृदये स्थितः सुकृतिना मन्मन्त्रचिन्तामणिः ॥ नैषधीयचरितम् - 14 - 89 ॥
पुष्पैरभ्यर्च्य गन्धादिभिरपि सुभगैश्चारुहंसेन मां चेन्निर्यान्तीं मन्त्रमूर्तिं
जपति मयि मतिं न्यस्य मय्येव भक्तः ।
तत्प्राप्ते वत्सरान्ते शिरसि करमसौ यस्य कस्यापि
धत्ते सोऽपि श्लोकानकाण्डे
रचयति रुचिरान्कौतुकं दृश्यमस्याः ॥ नैषधीयचरितम् - 14 - 90 ॥
गुणानामास्थानीं नृपतिलकनारीति विदितां रसस्फीतामन्तस्तव च तव वृत्ते च कवितुः ।
भवित्री वैदर्भीमधिकमधिकण्ठं रचयितुं परीरम्भक्रीडाचरणशरणामन्वहमहम् ॥ नैषधीयचरितम् - 14 - 91 ॥
भवद्वृत्तस्तोतुर्मदुपहितकण्ठस्य कवितुर्मुखात्पुण्यैः श्लोकैस्त्वयि घनमुदेयं जनमुदे ।
ततः पुण्यश्लोकः क्षितिभुवनलोकस्य
भविता भवानाख्यातः सन्कलिकलुषहारी हरिरिव ॥ नैषधीयचरितम् - 14 - 92 ॥
देवी च ते च
जगदुः जगदुत्तमाङ्गरत्नाय ते
कथय कं
वितराम कामम् ।
किञ्चित्त्वया नहि पतिव्रतया दुरापं भस्मास्तु यस्तव बत व्रतलोपमिच्छुः ॥ नैषधीयचरितम् - 14 - 93 ॥
कूटकायमपहाय नो वपुर्बिभ्रतस्त्वम्
असि वीक्ष्य विस्मिता ।
आप्तुमाकृतिमतो मनीषितां विद्यया हृदि तवापि
उदीयताम् ॥ नैषधीयचरितम् - 14 - 94 ॥
इत्थं वितीर्य वरमम्बरमाश्रयत्सु तेषु क्षणाद्
उदलसत् विपुलः प्रणादः ।
उत्तिष्ठताम् परिजनालपनैर्नृपाणां स्वर्वासिवृन्दहतदुन्दुभिनादसान्द्रः ॥ नैषधीयचरितम् - 14 - 95 ॥
न दोषं विद्वेषादपि निरवकाशं गुणमये वरेण प्राप्तास्त्रे न समरसमारम्बसदृशम् ।
जगुः पुण्यश्लोकं प्रतिनृपतयः किंतु
विदधुः स्वनिश्वासैर्भैमीहृदयमुदयन्निर्भरदयम् ॥ नैषधीयचरितम् - 14 - 96 ॥
भूभृद्भिर्लम्भिताऽसौ करुणरसनदीमूर्तिमद्देवतात्वं तातेनाभ्यर्थ्ययोग्याःसपदिनिजसखीः
दापयामास तेभ्यः ।
वैदर्भ्यास्तेऽप्यलाभात्कृतगमनमनःप्राणवाञ्छां
निजघ्नुः सख्यः संशिक्ष्य विद्याः सततधृतवयस्यानुकाराभिराभिः ॥ नैषधीयचरितम् - 14 - 97 ॥
अहह सह मघोना श्रीप्रतिष्ठासमाने निलयमभि नलेऽथ स्वं प्रतिष्ठासमाने ।
अपतत् अमरभर्तुर्मूर्तिबद्धेव कीर्तिर्गलदलिमधुबाष्पा पुष्पवृष्टिर्नभस्तः ॥ नैषधीयचरितम् - 14 - 98 ॥
स्वस्यामरैर्नृपतिमंशममुं त्यजद्भिरंशच्छिदाकदनमेव तदा
अध्यगामि ।
उत्का स्म
पश्यति निवृत्य निवृत्य यान्ती वाग्देवतपि निजविभ्रमधाम भैमीम् ॥ नैषधीयचरितम् - 14 - 99 ॥
सानन्दन्तनुजाविवाहनमहे भीमः स भूमीपतिर्वैदर्भीनिषधेश्वरौ नृपजनानिष्टोक्तिनिर्मृष्टये ।
स्वानि स्वानि धराधिपाश्च शिबिराण्युद्दिश्य यान्तः क्रमादेको द्वौ बहबः
चकार सृजतः स्म
आतेनिरे मङ्गलम् ॥ नैषधीयचरितम् - 14 - 100 ॥
श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः
सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
यातस्तस्य चतुर्दशः शरदिजज्योत्स्नाच्छसूक्तेर्महाकाव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥ नैषधीयचरितम् - 14 - 101 ॥
।। इति नैषधीयचरितमहाकाव्ये चतुर्दशसर्गः ।।
पञ्चदशसर्गः
अथोपकार्या निषधावनीपतिर्निजाम्
अयासीत् वरणस्रजाञ्चितः ।
वसूनि वर्षन्सुबहूनि बन्दिनां विशिष्यभैमीगुणकीर्तनाकृताम् ॥ नैषधीयचरितम् - 15 - 1 ॥
तथा पथि त्यागमयं वितीर्णवान्यथातिभाराधिगमेन मागधैः ।
तृणीकृतं रत्ननिकायमुच्चकैः
चिकाय लोकश्चिरमुञ्छमुत्सुकः ॥ नैषधीयचरितम् - 15 - 2 ॥
त्रपास्य न
स्यात् सदसि स्त्रियान्वयात्कुतोऽतिरूपः सुखभाजनं जनः ।
अमूदृशी तत्कविबन्दिवर्णनैरवाक्कृता राजकरञ्जिलोकवाक् ॥ नैषधीयचरितम् - 15 - 3 ॥
अदोषतामेव सतां
विवृण्वते द्विषां मृषादोषकणाधिरोपणाः ।
न जातु सत्ये सति दूषाणे
भवेत् अलीकमाधातुमवद्यमुद्यमः ॥ नैषधीयचरितम् - 15 - 4 ॥
विदर्भराजोऽपि समं तनूजया प्रविश्य हृष्यन्नवरोधमात्मनः ।
शशंस देवीमनुजातसंशयां
प्रतीच्छ जामातरमुत्सुके नलम् ॥ नैषधीयचरितम् - 15 - 5 ॥
तनुत्विषा यस्य तृणं स मन्मथा कुलश्रिया यः पवितास्मदन्वयम् ।
जगत्त्रयीनायकमेलके वरं सुतां परं
वेद विवेक्तुमीदृशम् ॥ नैषधीयचरितम् - 15 - 6 ॥
सृजन्तु पाणिग्रहमङ्गलोचिता मृगीदृशः स्त्रीसमयस्पृशः क्रियाः ।
श्रुतिस्मृतीनां तु वयं
विदध्महे विधीनिति स्माह च
निर्ययौ च सः ॥ नैषधीयचरितम् - 15 - 7 ॥
निरीय भूपेन निरीक्षितानना
शशंस मौहूर्तिकसंसदंशकम् ।
गुणैररीणैरुदयास्तनिस्तुषां तदा स दातुं तनयां
प्रचक्रमे ॥ नैषधीयचरितम् - 15 - 8 ॥
अथ
अवदत् दूतमुखः स नैषधं कुलं च बाला च मम
अनुकम्प्यताम् ।
स पल्लवत्वद्य मनोरथाङ्क्रुरश्चिरेण नस्त्वच्चरणोदकैरिति ॥ नैषधीयचरितम् - 15 - 9 ॥
तथोत्थितं भीमवचःप्रतिध्वनिं निपीय दूतस्य स वक्त्रगह्वरात् ।
व्रजामि वन्दे चरणौ गुरोरिति ब्रुवन्प्रदाय
प्रजिघाय तं बहु ॥ नैषधीयचरितम् - 15 - 10 ॥
निपीतदूतालपितस्ततो नलं विदर्भभर्ता आगमयां
बभूव सः ।
निशावसाने श्रुतताम्रचूडवाग्यथा रथाङ्गस्तपनं धृतादरः ॥ नैषधीयचरितम् - 15 - 11 ॥
क्वचित्तदालेपनदानपण्डिता कमप्यहंकारम्
अगात् पुरस्कृता ।
अलम्भि तुङ्गासनसंनिवेशनादपूपनिर्माणविदग्धयादरः ॥ नैषधीयचरितम् - 15 - 12 ॥
मुखानि मुक्तामणितोरणोद्गतैर्मरीचिभिः पान्थविलासमाश्रितैः ।
पुरस्य तस्याखिलवेश्मनामपि प्रमोदहासच्छुरितानि
रेजिरे ॥ नैषधीयचरितम् - 15 - 13 ॥
पथाम्
अनीयन्त तथाधिवासनान्मधुव्रतानामपि दत्तविभ्रमाः ।
वितानतामातपनिर्भयास्तदा पटच्छिदाकालिकपुष्पजाः स्रजः ॥ नैषधीयचरितम् - 15 - 14 ॥
विभूषणैः कञ्चुकिता
बभुः प्रजा विचित्रचित्रैः स्नपितत्विषो गृहाः ।
बभूव तस्मिन्मणिकुट्टिमैः पुरे वपुः स्वमुर्व्याः परिवर्तितोपमम् ॥ नैषधीयचरितम् - 15 - 15 ॥
तदा निसस्वानतमां घनं घनं ननाद तस्मिन्नितरां ततं ततम् ।
अवापुः उच्चैः सुषिराणि राणिताममानमानद्धमियत्तया
अध्वनीत् ॥ नैषधीयचरितम् - 15 - 16 ॥
विपञ्चिः
आच्छादि न वेणुभिर्न ते प्रणीतगीतैर्न च तेऽपि झर्झरैः ।
न ते हुहुक्केन न सोऽपि ढक्कया न मर्दलैः सापि न तेऽपि ढक्कया ॥ नैषधीयचरितम् - 15 - 17 ॥
विचित्रवादित्रनिनादमूर्च्छितः सुदूरचारी जनतामुखारवः ।
ममौ न कर्णेषु दिगन्तदन्तिनां पयोधिपूरप्रतिनादमेदुरः ॥ नैषधीयचरितम् - 15 - 18 ॥
उदस्य कुम्भीरथ शातकुम्भजाश्चतुष्कचारुत्विषि वेदिकोदरे ।
यथाकुलाचारमथावनीन्द्रजां पुरन्ध्रिवर्गः स्नपयां
बभूव ताम् ॥ नैषधीयचरितम् - 15 - 19 ॥
विजित्य दास्यादिव वारिहारितामवापितास्तत्कुचयोर्द्वयेन ताः ।
शिखाम्
अवाक्षुः सहकारशाखिनस्त्रपाभरम्लानिमिवानतैर्मुखैः ॥ नैषधीयचरितम् - 15 - 20 ॥
असौ मुहुर्जातजलाभिषेचना क्रमाद्दुकूलेन सितांशुनोज्ज्वला ।
द्वयस्य वर्षाशरदां तदातनीं सनाभितां साधु
बबन्ध सन्ध्यया ॥ नैषधीयचरितम् - 15 - 21 ॥
पुरा प्रभिन्नाम्बुददुर्दिनीकृतां
निनिन्द चन्द्रद्युतिसुन्दरीं दिवम् ।
शिरोरुहौघेण घनेन वर्षता क्वचिद्दुकूलेन सितांशुनोज्ज्वला ॥ नैषधीयचरितम् - 15 - 22 ॥
विरेजिरे तच्चिकुरोत्कराः किराः क्षाणं गलन्निर्मलवारिविप्रुषाम् ।
तमःसुहृच्चामरनिर्जयार्जिताः सिता वमन्तः खलु कीर्तिमुक्तिकाः ॥ नैषधीयचरितम् - 15 - 23 ॥
म्रदीयसा स्नानजलस्य वाससा प्रमार्जनेनाधिकमुज्ज्वलीकृताः ।
अदभ्रम्
अभ्राजत साश्मशाणनात्प्रकाशरोचिःप्रतिमेव हेमजा ॥ नैषधीयचरितम् - 15 - 24 ॥
तदा तदङ्गस्य
बिभर्ति विभ्रमं विलेपनामोदमुचः स्फुरद्रुचः ।
दरस्फुरत्काञ्चनकेतकीदलात्सुवर्णम्
अभ्यस्यति सौरभं यदि ॥ नैषधीयचरितम् - 15 - 25 ॥
अवापितायाः शुचिवेदिकान्तरं कलासु तस्याः सकलासु पण्डिताः ।
क्षणेन सख्यश्चिरशिक्षणैः स्फुटं प्रतिप्रतीकं प्रतिकर्म
निर्ममुः ॥ नैषधीयचरितम् - 15 - 26 ॥
विनापि भूषामवधिः श्रियामियं व्यभूषि विज्ञाभिः
अदर्शि चाधिका ।
न भूषयैषाधिचकास्ति किं तु सानयेति कस्य
अस्तु विचारचातुरी विधाय ॥ नैषधीयचरितम् - 15 - 27 ॥
बन्धूकपयोजपूजने कृतां विधोर्गन्धफलीबलिश्रियम् ।
निनिन्द लब्धाधरलोचनार्चनं मनःशिलाचित्रकमेत्य तन्मुखम् ॥ नैषधीयचरितम् - 15 - 28 ॥
महीमधोनां मदनान्धतातमीतमःपटारम्भणतन्तुसन्ततिः ।
अबन्धि तन्मूर्धजपाशमञ्जरी कयापि धूपग्रहधूमकोमला ॥ नैषधीयचरितम् - 15 - 29 ॥
पुनःपुनः काचन कुर्वती कचच्छटाधिया धूपजधूमसंयमम् ।
सखी स्मितैस्तर्किततन्निजभ्रमा
बबन्ध तन्मूर्धजचामरं चिरात् ॥ नैषधीयचरितम् - 15 - 30 ॥
वलस्य कृष्टेव हलेन
भाति या कलिन्दकन्या घनभङ्गभङ्गुरा ।
तदार्पितैस्तां करुणस्य कुड्नलैः
जहास तस्याः कुटिला कचच्छटा ॥ नैषधीयचरितम् - 15 - 31 ॥
धृतैतया हाटकपट्टिकालिके
बभूव केशाम्बुदविद्युदेव सा ।
मुखेन्दुसम्बन्धवशात्सुधाजुषः स्थिरत्वम्
ऊहे नियतं तदायुषः ॥ नैषधीयचरितम् - 15 - 32 ॥
ललाटिकासीमनि चूर्णकुन्तला बभुः स्फुटं भीमनरेन्द्रजन्मनः ।
मनःशिलाचित्रकदीपसम्भवा भ्रामीभृतः कज्जलधूमवल्लयः ॥ नैषधीयचरितम् - 15 - 33 ॥
अपाङ्गमालिङ्ग्य तदीयमुच्चकैः
अदीपि रेखा जनिताञ्जनेन या ।
अपाति सूत्रं तदिव द्वितीयया वयःश्रिया वर्धयितंअ विलोचने ॥ नैषधीयचरितम् - 15 - 34 ॥
अनङ्गलीलाभिरपाङ्गधाविनः कनीनिकानीलमणेः पुनः पुनः ।
तमिस्रवंशप्रभवेन रश्मिना स्वपद्धतिः सा किम्
अरञ्जि नाञ्जनैः ॥ नैषधीयचरितम् - 15 - 35 ॥
असेविषातां सुषमां विदर्भजादृशाववाप्याञ्जनरेखयाऽन्वयम् ।
भुजद्वयज्याकिणपद्धतिस्पृशोः स्मरेण बाणीकृतयोः पयोजयोः ॥ नैषधीयचरितम् - 15 - 36 ॥
तदक्षितत्कालतुलागसा नखं निखाय कृष्णस्य मृगस्य चक्षुषी ।
विधिर्यदुद्धर्तुम्
इयेष तत्तयोरदूरवर्तिक्षतता स्म
शंसति ॥ नैषधीयचरितम् - 15 - 37 ॥
विलोचनाभ्यामतिमात्रपीडिते वतंसनीलाम्बुरुहद्वयीं खलु ।
तयोः प्रतिद्वन्द्विधिया अधिरोपयां
बभूवतुः भीमसुताश्रुती ततः ॥ नैषधीयचरितम् - 15 - 38 ॥
धृतं वतंसोत्पलयुग्ममेतया
व्यराजत् अस्यां पतिते दृशाविव ।
मनोभुवान्ध्यं गमितस्य पश्यतः स्थिते लगित्वा रसिकस्य कस्यचित् ॥ नैषधीयचरितम् - 15 - 39 ॥
विदर्भपुत्रीश्रवणावतंसिकामणीमहःकिंशुककार्मुकोदरे ।
उदीतनेत्रोत्पलबाणसम्भृतिर्नलं परं लक्ष्यम्
अवैक्षत स्मरः ॥ नैषधीयचरितम् - 15 - 40 ॥
अनाचरत्तथ्यमृषाविचारणां तदाननं कर्णलतायुगेन किम् ।
बबन्ध जित्वा मणिकुण्डले विधू द्विचन्द्रबुद्ध्या कथितावसूयकौ ॥ नैषधीयचरितम् - 15 - 41 ॥
अवादि भैमी परिधाप्य कुण्डले वयस्ययाभ्यामभितः समन्वयः ।
त्वदाननेन्दोः प्रियकामजन्मनि
श्रयति अयं दौरुधरीं धुरं ध्रुवम् ॥ नैषधीयचरितम् - 15 - 42 ॥
निवेशितं यावकरागदीप्तये लगत्तदीयाधरसीम्नि सिक्थकम् ।
रराज तत्रैव निवस्तुमुत्सुकं मधूनि निर्धूय सुधासधर्मणि ॥ नैषधीयचरितम् - 15 - 43 ॥
स्वरेण वीणेत्यविशेषणं पुरा
अस्फुरत् तदीया खलु कण्ठकन्दली ।
अवाप्य तन्त्रीरथ सप्त मौक्तिकासरान्
अराजत् परिवादिनी स्फुटम् ॥ नैषधीयचरितम् - 15 - 44 ॥
उपास्यमानाविव शिक्षितुं ततो मृदुत्वमप्रौढमृणालनालया ।
विरेजतुः माङ्गलिकेन सङ्गतौ भुजौ सुदत्या वलयेन कम्बुनः ॥ नैषधीयचरितम् - 15 - 45 ॥
पदद्वयेऽस्या नवयावरञ्जना जनैस्तदानीम्
उदनीयत अर्पिता ।
चिराय पद्मौ परिरभ्य जाग्रती निशीव विश्लिष्य नवा रविद्युतिः ॥ नैषधीयचरितम् - 15 - 46 ॥
कृतापराधः सुतनोरनन्तरं विचिन्त्य कान्तेन समं समागमम् ।
स्फुटं
सिषेव कुसुमेषुपावकः स रागचिह्नश्चरणौ न यावकः ॥ नैषधीयचरितम् - 15 - 47 ॥
स्वयं तदङ्गेषु गतेषु चारुतां परस्परेणैव विभूषितेषु च ।
किम्
ऊचिरे अलङ्करणानि तानि तद्दृथैव तेषां करणं
बभूव यत् ॥ नैषधीयचरितम् - 15 - 48 ॥
क्रमाधिकामुत्तरमुत्तरं श्रियं
पुपोष यां भूषणचुम्बनैरियम् ।
पुरः पुरस्तस्थुषि रामणीयके तया
बबाधे अवधिबुद्धिधोरणिः ॥ नैषधीयचरितम् - 15 - 49 ॥
मणीसनाभौ मुकुरस्य मण्डले
बभौ निजास्यप्रतिबिम्बदर्शिनी ।
विधोरदूरं स्वमुखं विधाय सा निरूपयन्तीव विशेषमेतयोः ॥ नैषधीयचरितम् - 15 - 50 ॥
जितस्तदास्येन कलानिधिः
दधे द्विचन्द्रधीसाक्षिकमायकायताम् ।
तथापि
जिग्ये युगपत्सखीयुगप्रदर्शितादर्शबहूभविष्णुना ॥ नैषधीयचरितम् - 15 - 51 ॥
किमालियुग्मार्पितदर्पणद्वये तदास्यमेकं बहु चान्यदम्बुजम् ।
हिमेषु निर्वाप्य निशासमाधिभिस्तदीयसालोक्यमितं
व्यलोक्यत ॥ नैषधीयचरितम् - 15 - 52 ॥
पलाशदामेतिमिलच्छिलीमुखैर्वृता विभूषामणिरश्मिकार्मुकैः ।
अलक्षि लक्षैर्धनुषामसौ तदा रतीशसर्वस्वतयाऽभिरक्षिता ॥ नैषधीयचरितम् - 15 - 53 ॥
विशेषतीर्थैरिव जह्नुनन्दिनी गुणैरिवाजानिकरागभूमिता ।
जगाम भाग्यैरिव नीतिरुज्ज्वलैर्विभूषणैस्तत्सुषमा महार्धताम् ॥ नैषधीयचरितम् - 15 - 54 ॥
नलात्स्ववैश्वस्त्यमनाप्तुमानता नृपस्त्रियो भीममहोत्सवागताः ।
तदङ्घ्रिलाक्षाम्
अदधन्त मङ्गलं शिरःसु सिन्दूरमिव प्रियायुषे ॥ नैषधीयचरितम् - 15 - 55 ॥
अमोघभावेन सनाभितां गताः प्रसन्नगीर्वाणवराक्षरस्रजाम् ।
ततः प्रणम्य
अधिजगाम सा ह्रिया गुरुर्गुरुब्रह्मपतिव्रताशिषाः ॥ नैषधीयचरितम् - 15 - 56 ॥
तथैव तत्कालमथानुजीविभिः प्रसाधनासञ्जनशिल्पपारगैः ।
निजस्य पाणिग्रहणक्षणोचिता कृता नलस्यापि विभोर्विभूषणा ॥ नैषधीयचरितम् - 15 - 57 ॥
नृपस्य तत्राधिकृताः पुनः पुनर्विचार्य तान्बन्धमवापिपन्कचान् ।
कलापलीलोपनिधिर्गरुत्त्यजः स यैः
अपालापि कलापिसम्पदः ॥ नैषधीयचरितम् - 15 - 58 ॥
पतत्त्रिणां द्राधिमशालिना धनुर्गुणेन संयोगजुषां मनोभुवः ।
कचेन तस्यार्जितमार्जनश्रिया समेत्य सौभाग्यम्
अलम्भि कुङ्नलैः ॥ नैषधीयचरितम् - 15 - 59 ॥
अनर्ध्यरत्नौघमयेन मण्डितो
रराज राजा मुकुटेन मूर्धनि ।
वनीपकानां स हि कल्पभूरुहस्ततो विमुञ्चन्निव मञ्जुमञ्जरीम् ॥ नैषधीयचरितम् - 15 - 60 ॥
नलात्स्ववैश्वस्त्यमनाप्तुमानता नृपस्त्रियो भीममहोत्सवागताः ।
तदङ्घ्रिलाक्षाम्
अदधन्त मङ्गलं शिरःसु सिन्दूरमिव प्रियायुषे ॥ नैषधीयचरितम् - 15 - 61 ॥
अमोघभावेन सनाभितां गताः प्रसन्नगीर्वाणवरक्षरस्रजाम् ।
ततः प्रणम्य
अधिजगाम सा ह्रिया गुरुर्गुरुब्रह्मपतिव्रताशिषः ॥ नैषधीयचरितम् - 15 - 62 ॥
तथैव तत्कालमथानुजीविभिः प्रसाधनासजनशिल्पपारगैः ।
निजस्य पाणिग्रहणक्षणोचिता कृता नलस्यापि विभोर्विभूषणा ॥ नैषधीयचरितम् - 15 - 63 ॥
नृपस्य तत्राधिकृताः पुनः पुनर्विचार्य तान्बन्धमवापिपन्कचाण् ।
कलापलीलोपनिधिर्गरुत्त्यजः स यैः
अपालापि कलापिसम्पदः ॥ नैषधीयचरितम् - 15 - 64 ॥
पतत्त्रिणां द्राधिमशालिना धनुर्गुणेन संयोगजुषां मनोभुवः ।
कचेन तस्यार्जितमार्जनश्रिया समेत्य सौभाग्यमलम्भि कुग्नलैः ॥ नैषधीयचरितम् - 15 - 65 ॥
अनर्ध्यरत्नैघमयेन मण्डितो
रराज राज मुकुटेन मूर्धति ।
वनीपकानां स हि कल्पभूरुहस्ततो विमुञ्चन्निव मञ्जुमञ्जरीम् ॥ नैषधीयचरितम् - 15 - 66 ॥
नलस्य भाले मणिवीरपट्टिकानिभेन लग्नः परिधिर्विधोः
बभौ ।
तदा शशाङ्काधिकरूपतां गते तदानने मातुमशक्नुवन्निव ॥ नैषधीयचरितम् - 15 - 67 ॥
बभूव भैम्याः खलु मानसौकसं जिघांसतो धैर्यभरं मनोभुवः ।
उपभ्रु तद्वर्तुलचित्ररूपिणी धनुःसमीपे गुलिकेव सम्भृता ॥ नैषधीयचरितम् - 15 - 68 ॥
अचुम्बि या चन्दनबिन्दुमण्डली नलीयवक्त्रेण सरोजतर्जिना ।
श्रियं श्रिता काचन तारकासखी कृता शशाङ्कस्य तयाङ्कवर्तिनी ॥ नैषधीयचरितम् - 15 - 69 ॥
न यावदग्निभ्रमम्
एति उदूढतां नलस्य भैमीति हरेर्दुराशया ।
स बिन्दुरिन्दुः प्रहितः किमस्य सा न वेति भाले पठितुं लिपीमिव ॥ नैषधीयचरितम् - 15 - 70 ॥
कपोलपालीजनिजानुबिम्बयोः समागमात्कुण्डलमण्डलद्वयी ।
नलस्य तत्कालम्
अवाप चित्तभूरथ स्फुरच्चक्रचतुष्कचारुताम् ॥ नैषधीयचरितम् - 15 - 71 ॥
श्रितास्य कण्ठं गुरुविप्रवन्दनाद्विनम्रमोलेश्चिबुकाग्रचुम्बिनी ।
अवाप मुक्तावलिरास्यचन्द्रमःस्रवत्सुधातुन्दिलबिन्दुवृन्दताम् ॥ नैषधीयचरितम् - 15 - 72 ॥
यतोऽजनि श्रीर्बलवान्बलं द्विषन्
बभूव यस्याजिषु वारणेन सः ।
अपूपुरत् तान्कमलार्थिनो घनान्समुद्रभावं स
बभार तद्भुजः ॥ नैषधीयचरितम् - 15 - 73 ॥
कृतार्थयन्नर्थिजनाननारतं बभूव तस्यामरभूरुहः करः ।
तदीयमूले निहितं द्वितीयवद्ध्रुवं
दधे कङ्कणमालवालताम् ॥ नैषधीयचरितम् - 15 - 74 ॥
रराज दोर्मण्डनमण्डलीजुषोः स वज्रमाणिक्यसितारुणत्विषोः ।
मिषेण वर्षन्दशदिङ्मुखोन्मुखौ यशःप्रतापाववनीजयार्जितौ ॥ नैषधीयचरितम् - 15 - 75 ॥
घने समस्तापघनावलम्बिनां विभूषणानां मणिमण्डले नलः ।
स्वरूपरेखामवलोक्य निष्फली
चकार सेवाचणदर्पणार्पणाम् ॥ नैषधीयचरितम् - 15 - 76 ॥
व्यलोकि लोकेन न केवलं चलन्मुदा तदीयाभरणार्पणाद्युतिः ।
अदर्शि विस्फारितरत्नलोचनैः परस्परेणेव विभूषणैरपि ॥ नैषधीयचरितम् - 15 - 77 ॥
ततोऽनु वार्ष्णेयनियन्तृकं रथं युधि क्षितारिक्षितिभृज्जयद्रथः ।
नृपः पृथासूनुरिवाधिरूढवान्स जन्ययात्रामुदितः किरीटवान् ॥ नैषधीयचरितम् - 15 - 78 ॥
विदर्भनाम्नस्त्रिदिवस्य वीक्षितुं रसोदयादप्सरसस्तमुज्ज्वलम् ।
गृहाद्गृहादेत्य धृतप्रसाधना व्यराजयन् राजपथानथाधिकम् ॥ नैषधीयचरितम् - 15 - 79 ॥
अजानती कापि विलोकनोत्सुका समीरधूतार्धमपि स्तनांशुकम् ।
कुचेन तस्मै चलते
अकरोत् पुरः पुराङ्गना मङ्गलकुम्भसम्भृतिम् ॥ नैषधीयचरितम् - 15 - 80 ॥
सखीं नलं दर्शयमानयाङ्कतो जवादुदस्तस्य करस्य कङ्कणे ।
विषज्य हारैस्त्रुटितैरतर्कितैः कृतं कयापि क्षणलाजमोक्षणम् ॥ नैषधीयचरितम् - 15 - 81 ॥
लसन्नखादर्शमुखाम्बुजस्मितप्रसूनवाणीमधुपाणिपल्लवम् ।
यियासतस्तस्य नृपस्य
जज्ञिरे प्रशस्तवस्तूनि तदेवयौवतम् ॥ नैषधीयचरितम् - 15 - 82 ॥
करस्थताम्बूलजिघत्सुरेकिका विलोकनैकाग्रविलोचनोत्पला ।
मुखे
निचिक्षेप मुखद्विराजतारुषेव लीलाकमलं विलासिनी ॥ नैषधीयचरितम् - 15 - 83 ॥
कयापि वीक्षाविमनस्कलोचने समाज एवोपपतेः समीयुषः ।
घनं सविघ्नं परिरम्भसाहसैस्तदा तदालोकनम्
अन्वभूयत ॥ नैषधीयचरितम् - 15 - 84 ॥
दिदृक्षुरन्या विनिमेषावीक्षणां नृणामयोग्यां दधती तनुश्रियम् ।
पदाग्रमात्रेण यदस्पृशन्महीं न तावता केवलमप्सरः
अभवत् ॥ नैषधीयचरितम् - 15 - 85 ॥
विभूषणस्रंसनशंसनार्पितैः करप्रहारैरपि धूननैरपि ।
अमान्तमन्तः प्रसभं पुराऽपरा सखीषु
संमापयति इव संमदम् ॥ नैषधीयचरितम् - 15 - 86 ॥
वतंसनीलाम्बुरुहेण किं दृशा विलोकमाने विमनी
बभूवतुः ।
अपि श्रुती दर्शनसक्तचेतसां न तेन ते
शुश्रुवतुः मृगीदृशाम् ॥ नैषधीयचरितम् - 15 - 87 ॥
काश्चिन्निर्माय चक्षुःप्रसृतिचुलुकितं तासु
अशङ्कन्त कान्ता मौग्ध्यादाचूडमोघैर्निचुलितमिव तं भूषणानां मणीनाम् ।
साहस्रीभिर्निमेषाकृतमतिभिरयं दृग्भिरालिङ्गितः किं ज्योतिष्टोमादियज्ञश्रुतिफलजगतीसार्वभौमभ्रमेण ॥ नैषधीयचरितम् - 15 - 88 ॥
भवन्सुद्युम्नः स्त्री नरपतिः
अभूत् यस्य जननी तमुर्वश्याः प्राणानपि विजयमानस्तनुरुचा ।
हरारब्धक्रोधेन्धनमदनसिंहासनमसावलङ्कर्मीणश्रीः
उदभवत् अलङ्कर्तुमधुना ॥ नैषधीयचरितम् - 15 - 89 ॥
अर्थी सर्वसुपर्वणां पतिरसावेतस्य यूनः कृते
पर्यत्याजि विदर्भराजसुतया युक्तं विशेषज्ञया ।
अस्मिन्नाम तया वृते सुमनसः सन्तोऽपि यन्निर्जरा जाता दुर्मनसो न सोढुमुचिता तेषां तु साऽनौचिती ॥ नैषधीयचरितम् - 15 - 90 ॥
अस्योत्कण्ठितकण्ठलोठिवरणस्रक्साक्षिभिर्दिग्भटैः स्वं वक्षः स्वयमस्फुटन्न किमदः शस्त्रादपि स्फोटितम् ।
व्यावृत्योपनतेन हा शतमखेनाद्य प्रसाद्या कथं भैम्यां व्यर्थमनोरथेन च शची साचीकृतास्याम्बुजा ॥ नैषधीयचरितम् - 15 - 91 ॥
मा
जानीत विदर्भजामविदुषीं कीर्तिं मुदः श्रोयसीं सेयं भद्रम्
अचीकरत् मघवता न स्वं द्वितीयां शचीम् ।
कः शच्या
रचयांचकार चरिते काव्यं स नः
कथ्यताम् एतस्यास्तु
करिष्यते रसधुनीपात्रे चरित्रे न कैः ॥ नैषधीयचरितम् - 15 - 92 ॥
वैदर्भीबहुजन्मनिर्मिततपःशिल्पेन देहश्रिया नेत्राभ्यां
स्वदते युवायमवनीवासः प्रसूनायुधः ।
गीर्वाणालयसार्वभौमसुकृतप्राग्भारदुष्प्रापया गोयं भीमजयानुभूय
भजताम् अद्वैतमद्य त्विषाम् ॥ नैषधीयचरितम् - 15 - 93 ॥
स्त्रीपुंसव्यतिषञ्जनं जनयतः पत्युः प्रजानाम्
अभूत् अभ्यासः परिपाकिमः किमनयोर्दाम्पत्यसम्पत्तये ।
आसंसारपुरन्ध्रिपूरुषमिथःप्रेमार्पणक्रीडयाप्येतज्जम्पतिगाढरागरचना
प्राकर्षि चेतोभुवः ॥ नैषधीयचरितम् - 15 - 94 ॥
ताभिः
दृश्यते एष यान्पथि महाज्यैष्ठीमहे मन्महे यदृग्भिः पुरुषोत्तमः परिचितः प्राग्मञ्चमञ्चन्कृतः ।
सा स्त्रीराट् पतयालुभिः शितिसितैः
स्यात् अस्य दृक्चामरैः सस्ने माघमघातिघातियमुनागङ्गौघयोगे यया ॥ नैषधीयचरितम् - 15 - 95 ॥
वैदर्भीविपुलानुरागकलनात्सौभाग्यमत्राखिलक्षोणीचक्रशतक्रतौ
निजगदे तद्बृत्तवृत्तक्रमैः ।
किंचास्माकनरेन्द्रभूसुभगतासम्भूतये लग्नकं देवेन्द्रावरणप्रसादितशचीविश्राणिताशीर्वचः ॥ नैषधीयचरितम् - 15 - 96 ॥
आसुत्राममपासनान्मखभुजां भैम्यैव राजव्रजे तादर्थ्यागमनानुरोधपरया युक्ता
आर्जि लज्जामृजा ।
आत्मानं त्रिदशप्रसादफलताम् पत्ये विधायानया ह्रीरोषापयशःकथानवसरः सृष्टं सुराणामपि ॥ नैषधीयचरितम् - 15 - 97 ॥
इति
आलेपुः अनुप्रतीकनिलयालङ्कारसारश्रियाहङ्कुर्वत्तनुरामणीयकममूरालोक्य पौरप्रियाः ।
सानन्दाः कुरुविन्दसुन्दरकरस्यानन्दनं स्यन्दनं तस्याध्यास्य यतः शतक्रतुहरित्क्रीडाद्रिमिन्दोरिव ॥ नैषधीयचरितम् - 15 - 98 ॥
श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः
सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
यातः पञ्चदशः कृशेतररसस्वादाविहायं महाकाव्ये तस्य कृतौ नलीयचरिते सर्गो निसर्गोज्ज्वलः ॥ नैषधीयचरितम् - 15 - 99 ॥
।। इति नैषधीयचरितमहाकाव्ये पञ्चदशसर्गः ।।
षोडशसर्गः
वृतः
प्रतस्थे स रथैरथो रथी गृहान्विदर्भाधिपतेर्धराधिपः ।
पुरोधसं गौतममात्मवित्तमं द्विधा पुरस्कृत्य गृहीतमङ्गलः ॥ नैषधीयचरितम् - 16 - 1 ॥
विभूषणांशुप्रतिबिम्बितैः स्फुटं भृशावदातैः स्वनिवासिभिर्गुणैः ।
मृगेक्षणानां
समुपासि चामरैर्विधूयमानैः स विधुप्रभैः प्रभुः ॥ नैषधीयचरितम् - 16 - 2 ॥
परार्ध्यवेषाभरणैः पुरःसरैः समं जिहाने निषधावनीभुजि ।
दधे सुनासीरपदाभिधेयतां स रूढिमात्राद्यदि वृत्रशात्रवः ॥ नैषधीयचरितम् - 16 - 3 ॥
नलस्य नासीरसृजां महीभुजां किरीटरत्नैः पुनरुक्तदीपया ।
अदीपि रात्रौ वरयात्रया तया चमूरजोमिश्रतमिस्रसम्पदा ॥ नैषधीयचरितम् - 16 - 4 ॥
विदर्भराजः क्षितिपाननुक्षणं शुभक्षणासन्नतरत्वसत्वरः ।
दिदेश दूतान्पथि यान्यथोत्तरं चमूममुष्य
उपचिकाय तच्चयः ॥ नैषधीयचरितम् - 16 - 5 ॥
हरिद्विपद्वीपिभिरांशुकैर्नभोनभस्वदाध्मापनपीनितैः
अभूत् ।
तरस्वदश्वध्वजिनीध्वजैर्वनं विचित्रचीनाम्बरवल्लिवेल्लिवेल्लितम् ॥ नैषधीयचरितम् - 16 - 6 ॥
भुवाह्वयन्तीं निजतोरणस्रजा गजालिकर्णानिलखेलया ततः ।
ददर्श दूतीमिव भीमजन्मनह् स तत्प्रतीहारमहीं महीपतिः ॥ नैषधीयचरितम् - 16 - 7 ॥
श्लथैर्दलैः स्तम्भयुगस्य रम्भयोः
चकास्ति चण्डातकमण्डिता स्म सा ।
प्रियासखीवास्य मनःस्थितिस्फुरत्सुखागतप्रश्निततूर्यनिःस्वना ॥ नैषधीयचरितम् - 16 - 8 ॥
विनेतृभर्तृद्वयभीतिदान्तयोः परस्परस्मादनवाप्तवैशसः ।
अजायत द्वारि नरेन्द्रसेनयोः समागमः स्फारमुखारवोद्गमः ॥ नैषधीयचरितम् - 16 - 9 ॥
निर्दिश्य बन्धूनित इत्युदीरितं दमेन गत्वार्धपथे कृतार्हणम् ।
विनीतमा द्वारत एव पद्गतां गतं तम्
ऐक्षिष्ट मुदा विदर्भराट् ॥ नैषधीयचरितम् - 16 - 10 ॥
अथायमुत्थाय विसार्य दोर्युगं मुदा
प्रतीयेष तमात्मजन्मनः ।
सुरस्रवन्त्या इव पात्रमागतं भृताभितोवीचिगतिः सरित्पतिः ॥ नैषधीयचरितम् - 16 - 11 ॥
यथावदस्मै पुरुषोत्तमाय तां स साधुलक्ष्मीं बहुवाहिनीश्वरः ।
शिवामथ स्वस्य शिवाय नन्दनां
ददे पतिः सर्वविदे महीभृताम् ॥ नैषधीयचरितम् - 16 - 12 ॥
असिस्वदद्यन्मधुपर्कमर्पितं स तद्व्यधात्तर्कमुदर्कदर्शिने ।
यदेष पास्यन्मधु भीमजाधरं मिषेण पुण्याहविधिं तदा
अकरोत् ॥ नैषधीयचरितम् - 16 - 13 ॥
वरस्य पाणिः परधातकौतुकी वधूकरः पङ्कजकान्तितस्करः ।
सुराज्ञि तौ तत्र विदर्भमण्डले ततो निबद्धौ किमु कर्कशैः कुशैः ॥ नैषधीयचरितम् - 16 - 14 ॥
विदर्भजायाः करवारिजेन यन्नलस्य पाणेरुपरि स्थितं किल ।
विशङ्क्य सूत्रं पुरुषायितस्य तद्भविष्यतः
अस्मायि तदा तदालिभिः ॥ नैषधीयचरितम् - 16 - 15 ॥
सखा यदस्मै किल भीमसंज्ञया स यक्षसख्याधिगतं
ददौ भवः ।
ददे तदेष श्वशुरः सुरोचितं नलाय चिन्तामणिदाम कामदम् ॥ नैषधीयचरितम् - 16 - 16 ॥
बहोर्दुरापस्य वराय वस्तुनश्चितस्य दातुं प्रतिबिम्बकैतवात् ।
बभौतरामन्तरवस्थितं दधद्यदर्थमभ्यर्थितदेयमर्थिने ॥ नैषधीयचरितम् - 16 - 17 ॥
असिं भवान्याः क्षतकासरासुरं वराय भीमः स्म
ददाति भासुरम् ।
ददे हि तस्मै धवनामधारिणे स शंभुसम्भोगनिमग्नयानया ॥ नैषधीयचरितम् - 16 - 18 ॥
अधारि यः प्राङ्नहिषासुरद्विषा कृपाणमस्मै तम्
अदत्त कूकुदः ।
अहायि तस्या हि धवार्धमज्जिना स दक्षिणार्धेन पराङ्गदारणः ॥ नैषधीयचरितम् - 16 - 19 ॥
उवाह यः सान्द्रतराङ्गकाननः स्वशौर्यसूर्योदयपर्वतव्रतम्।
सनिर्झरः शाणनधौतधारया समूढसन्ध्यः क्षतशत्रुजासृजा ॥ नैषधीयचरितम् - 16 - 20 ॥
यमेन जिह्वा प्रहितेव या निजा तमात्मजां याचितुमर्थिना भृशम् ।
स तां
ददे अस्मै परिवारशोभिनीं करग्रहार्हामसिपुत्रिकामपि ॥ नैषधीयचरितम् - 16 - 21 ॥
यदङ्गभूमी
बभतुः स्वयोषितामुरोजपत्त्रावलिनेत्रकज्जले ।
रणस्थलस्थण्डिलशायिताव्रतैर्गृहीतदीक्षैरिव दक्षिणीकृते ॥ नैषधीयचरितम् - 16 - 22 ॥
पुरैव तस्मिन्
समदेशि तत्सुताभिकेन यः सौहृदनाटिनाग्निना ।
नलाय
विश्राणयति स्म तं रथं नृपः सुलङ्घ्याद्रिसमुद्रकापथम् ॥ नैषधीयचरितम् - 16 - 23 ॥
प्रसूतवत्ता नलकूबरान्वयप्रकाशितास्यापि महारथस्य यत् ।
कुबेरदृष्टान्तबलेन पुष्पकप्रकृष्टतैतस्य ततः
अनुमीयते ॥ नैषधीयचरितम् - 16 - 24 ॥
महेन्द्रमुच्चैःश्रवसा प्रतार्य यन्निजेन पत्या
अकृत सिन्धुरन्वितम् ।
स तद्
ददे अस्मै हयरत्नमर्पितं पुराऽनुबन्धुं वरुणेन बन्धुताम् ॥ नैषधीयचरितम् - 16 - 25 ॥
जवादवारीकृतदूरदृक्पथस्तथाक्षियुग्माय
ददे मुदं न यः ।
ददद्दिदृक्षादरदासतां यथा तयैव तत्पांसुलकण्ठनालताम् ॥ नैषधीयचरितम् - 16 - 26 ॥
दिवस्पतेरादरदर्शिनादराद्
अढौकि यस्तं प्रति विश्वकर्मणा ।
तमेकमाणिक्यमयं महोन्नतं पतद्ग्रहं ग्राहितवान्नलेन सः ॥ नैषधीयचरितम् - 16 - 27 ॥
नलेन ताम्बूलविलासितोज्झितैर्मुखस्य यः पूगकणैर्भृतो न वा ।
इति
व्यवेचि स्वमयूखमण्डलादुदञ्चदुच्चारुणचारुणश्चिरात् ॥ नैषधीयचरितम् - 16 - 28 ॥
मयेन भीमं भगवन्तमर्चता नृपेति पूजा प्रभुनाम्नि या कृता ।
अदत्त भीमोऽपि स नैषधाय तां हरिन्मणेर्भोजनभाजनम् महत् ॥ नैषधीयचरितम् - 16 - 29 ॥
छदे सदैव च्छविमस्य बिभ्रतां न केकिनां सर्पविषं
प्रसर्पति ।
न नीलकण्ठत्वम्
अधास्यत् अत्र चेत् स कालकूटं भगवान्
अभोक्ष्यत ॥ नैषधीयचरितम् - 16 - 30 ॥
विराध्य दुर्वाससम्
अस्खलत् दिवः स्रजं त्यजन्नस्य किमिन्द्रसिन्धुरः ।
अदत्त तस्मै स मदच्छलात्सदा यमभ्रमातङ्गतयैव वर्षुकम् ॥ नैषधीयचरितम् - 16 - 31 ॥
मदान्मदग्रे भवताथवा भिया परं दिगन्तादपि
यात जीवत ।
इति स्म यो दिक्करिणः स्वकर्णयोर्विना
आह वर्णस्रजमागतैर्गतैः ॥ नैषधीयचरितम् - 16 - 32 ॥
अधत्त बीजं निजकीर्तये रदौ द्विषामकीर्त्यै खलु दानविप्लुषः ।
श्रवःश्रमैः कुम्भकुचां शिरःश्रियं मुदे मदस्वेदवतीम्
उपास्त यः ॥ नैषधीयचरितम् - 16 - 33 ॥
न तेन वाहेषु विवाहदक्षिणीकृतेषु सङ्ख्यानुभवे
अभवत् क्षमः ।
न शातकुम्भेषु न मत्तकुम्भिषु प्रयत्नवान्कोऽपि न रत्नराशिषु ॥ नैषधीयचरितम् - 16 - 34 ॥
करग्रहे वाम्यम्
अधत्त यस्तयोः प्रसाद्य भैम्यानु च दक्षिणीकृतः ।
कृतः पुरस्कृत्य ततो नलेन स प्रदक्षिणस्तत्क्षणमाशुशुक्षणिः ॥ नैषधीयचरितम् - 16 - 35 ॥
स्थिरा त्वमश्मेव भवेति मन्त्रवाग्
अनेशत् आशास्य किमाशु तां ह्रिया ।
शिला
चलेत् प्रेरणया नृणामपि स्थितेस्तु न अचालि बिडौजसापि सा ॥ नैषधीयचरितम् - 16 - 36 ॥
प्रियांशुकग्रन्थिनिबद्धवाससं तदा पुरोधा विदधत् विदर्भजाम् ।
जगाद विच्छिद्य पटं प्रयास्यतो नलादविश्वासमिवैष विश्ववित् ॥ नैषधीयचरितम् - 16 - 37 ॥
ध्रुवावलोकाय तदुन्मुखभुवा निर्दिश्य पत्याभिदधे विदर्भजा ।
किमस्य न
स्यात् अणिमाक्षिसाक्षिकस्तथापि तथ्यो महिमागमोदितः ॥ नैषधीयचरितम् - 16 - 38 ॥
धवेन सा
अदर्शि वधूररुन्धतीं सतीमिमां
पश्य गतामिवाणुताम् ।
कृतस्य पूर्वं हृदि भूपतेः कृते तृणीकृतस्वर्गपतेर्जनादिति ॥ नैषधीयचरितम् - 16 - 39 ॥
प्रसूनता तत्करपल्लवस्थितैरुडुच्छविर्व्योमविहारिभिः पथि ।
मुखेऽमराणामनले रदावलेः
अभाजि लाजैरनयोज्झितैर्द्युतिः ॥ नैषधीयचरितम् - 16 - 40 ॥
तया प्रतीष्टाहुतिधूमपद्धतिर्गता कपोले मृगनाभिशोभिताम् ।
ययौ दृशोरञ्जनतां श्रुतौ श्रिता तमाललीलामलिकेऽलकायिता ॥ नैषधीयचरितम् - 16 - 41 ॥
अपह्नुतः स्वेदभरः करे तयोस्त्रपाजुषोर्दानजलैर्मिलन्मुहुः ।
दृशोरपि प्रस्रुतमस्रु सात्त्विकं घनैः
समाधीयत धूमलङ्घनैः ॥ नैषधीयचरितम् - 16 - 42 ॥
बहूनि भीमस्य वसूनि दक्षिणां प्रयच्छतः सत्त्वमवेक्ष्य तत्क्षणम् ।
जनेषु रोमाञ्चमितेषु मिश्रतां
ययुः तयोः कण्टककुड्मलश्रियः ॥ नैषधीयचरितम् - 16 - 43 ॥
बभूव न स्तम्भविजित्वरी तयोः श्रुतिक्रियारम्भपरम्परात्वरा ।
न कम्पसम्पत्तिमलुम्पदग्रतः स्थितोऽपि वह्निः समिधा समेधितः ॥ नैषधीयचरितम् - 16 - 44 ॥
दमस्वसुः पाणिममुष्य गृह्णतः पुरोधसा संविदधेतरां विधेः ।
महर्षिणेवाङ्गिरसेन साङ्गता पुलोमजामुद्वहतः शतक्रतोः ॥ नैषधीयचरितम् - 16 - 45 ॥
सकौतुकागारम्
अगात् पुरन्ध्रिभिः सहस्ररन्ध्रीकृतमीक्षितुं ततः ।
अधात् सहस्राक्षतनुत्रमित्रतामधिष्ठितं यत्खलु जिष्णुनामुना ॥ नैषधीयचरितम् - 16 - 46 ॥
तथाशनाय
निरशेषि नो ह्रिया न सम्यक्
आलोकि परस्परक्रिया ।
विमुक्तसम्भोगम्
अशायि सस्पृहं वरेण वध्वा च यथाविधि त्र्यहम् ॥ नैषधीयचरितम् - 16 - 47 ॥
कटाक्षणाज्जन्यजनैर्निजप्रजाः क्वचित्परीहारसमचीकर्त्तराम् ।
धराप्सरोभिर्वरयात्रयागतान
अभोजयत् भोजकुलाङ्कुरः क्वचित् ॥ नैषधीयचरितम् - 16 - 48 ॥
स कञ्चिद्
ऊचे रचयन्तु तेमनोपहारमत्राङ्गरुचेर्यथोचितम् ।
पिपासतः काश्चन सर्वतोमुखं तव
अर्पयन्ताम् अपि काममोदनम् ॥ नैषधीयचरितम् - 16 - 49 ॥
मुखेन तेत्र
उपविशतु असाविति प्रयाच्य सृष्टानुमतिं खला
अहसत् ।
वराङ्गभागः स्वमुखं मतोऽधुना स हि स्फुटं येन किल
उपविश्यते ॥ नैषधीयचरितम् - 16 - 50 ॥
युवामिमे मे स्त्रितमे इतीरिणौ गले तथोक्ता निजगुच्छमेकिका ।
न
भासि अदस्तुच्छगलो वदन्निति न्यधत्त जन्यस्य ततः परा
आकृषत् ॥ नैषधीयचरितम् - 16 - 51 ॥
नलाय वालव्यजनं विधुन्वती दमस्य दास्या निभृतं पदेऽर्पितात् ।
अहासि लोकैः सरटात्पटोज्झिनी भयेन जङ्घायतिलङ्घिरंहसः ॥ नैषधीयचरितम् - 16 - 52 ॥
पुरःस्थलाङ्गूलम्
अदात् खला वृसीम्
उपाविशत् तत्र ऋजुर्वरद्विजः ।
पुनस्तदुत्थाप्य निजामतेर्वदा
अहसत् च पश्चात्कृतपुच्छतत्प्रदा ॥ नैषधीयचरितम् - 16 - 53 ॥
स्वयं कथाभिर्वरपक्षसुभ्रुवः स्थिरीकृतायाः पदयुग्ममन्तरा ।
परेण पश्चान्निभृतं न्यधापयद्
ददर्श चादर्शतलं हसन्खलु ॥ नैषधीयचरितम् - 16 - 54 ॥
अथोपचारोद्धुरचारुलोचना विलासनिर्वासितधैर्यसम्पदः ।
स्मरस्य शिल्पं वरवर्गविक्रिया विलोककं लोकम्
अहासयन् मुहुः ॥ नैषधीयचरितम् - 16 - 55 ॥
तिरोवलद्वक्त्रसरोजनालया स्मिते स्मितं यत्खलु यूनि बालया ।
तया तदीये हृदये निखाय तद्
व्यधीयत असंमुखलक्ष्यवेधिता ॥ नैषधीयचरितम् - 16 - 56 ॥
कृतं यदन्यत्करणोचितत्यजा दिदृक्षु चक्षुर्यदवारि बालया ।
हृदस्तदीयस्य तदेव कामुके
जगाद वार्तामखिलां खलुं खलु ॥ नैषधीयचरितम् - 16 - 57 ॥
जलं ददत्याः कलितानतेर्मुखं व्यवस्यता साहसिकेन चुम्बितम् ।
पदे पतद्वारिणि मन्दपाणिना प्रतीक्षितोऽन्येक्षणवञ्चनक्षणः ॥ नैषधीयचरितम् - 16 - 58 ॥
युवानमालोक्य विदग्धशीलया स्वपाणिपाथोरुहनालनिर्मितः ।
श्लथोऽपि सख्यां परिधिः कलानिधौ
दधौ अहो तं प्रति गाढबन्धताम् ॥ नैषधीयचरितम् - 16 - 59 ॥
नतभ्रुवः स्वच्छनखानुबिम्बनच्छलेन कोऽपि स्फुटकम्पकण्टकः ।
पयो ददत्याश्चरणे भृशं क्षतः स्मरस्य बाणैः शरणे
न्यविक्षत ॥ नैषधीयचरितम् - 16 - 60 ॥
मुखं यत्
अस्मायि विभुज्य सुभ्रुवा ह्रियं यदालम्ब्य नतास्यमासितम् ।
अवादि वा यन्मृदु गद्गदं युवा तदेव
जग्राह तदाप्तिलग्नकम् ॥ नैषधीयचरितम् - 16 - 61 ॥
विलोक्य यूना व्यजनं विधुन्वतीमवाप्तसत्त्वेन भृशं
प्रसिष्विदे ।
उदस्तकण्ठेन मृषोष्मनाटिना विजित्य लज्जां
ददृशे तदाननम् ॥ नैषधीयचरितम् - 16 - 62 ॥
स तत्कुचस्पृष्टकचेष्टिदोर्लताचलद्दलाभव्यजनानिलाकुलः ।
अवाप नानानलजालशृङ्खलानिबद्धनीडोद्भवविभ्रमं युवा ॥ नैषधीयचरितम् - 16 - 63 ॥
अवच्छटा कापि कटाक्षणस्य सा तथैव भङ्गी वचनस्य काचन ।
यथा युवभ्यामनुनाथने मिथः कृशोऽपि दूतस्य न शेषितः श्रमः ॥ नैषधीयचरितम् - 16 - 64 ॥
पपौ न कोऽपि क्षममास्यमेलितं जलस्य गण्डूषमुदीतसंमदः ।
चुचुम्ब तत्र प्रतिबिम्बितं मुखं पुरः स्फुरत्याः स्मरकार्मुकभ्रुवः ॥ नैषधीयचरितम् - 16 - 65 ॥
हरिन्मणेर्भोजनभाजनेऽर्पिते गताः प्रकोपं किल वारयात्रिकाः ।
भृतं न शाकैः प्रवितीर्णम्
अस्ति वस्त्विषेदमेवं हरितेति बोधिताः ॥ नैषधीयचरितम् - 16 - 66 ॥
ध्रुवं विनीतः स्मितपूर्ववाग्युवा किमपि
अपृच्छत् न विलोकयन्मुखम् ।
स्थितां पुरः स्फाटिककुट्टिमे वधूं तदङ्घ्रियुग्मावनिमध्यबद्धदृक् ॥ नैषधीयचरितम् - 16 - 67 ॥
अमी लसद्बाष्पमखण्डिताखिलं वियुक्तमन्योन्यममुक्तमार्दवम् ।
रसोत्तरं गौरमपीवरं रसाद्
अभुञ्जत आमोदनमोदनं जनाः ॥ नैषधीयचरितम् - 16 - 68 ॥
वयोवशस्तोकविकस्वरस्तनीं तिरस्तिरः
चुम्बति सुन्दरे दृशा ।
स्वयं किल स्रस्तमुरःस्थमम्बरं गुरुस्तनी ह्रीणतरा परा
आदधे ॥ नैषधीयचरितम् - 16 - 69 ॥
यदादिहेतुः सुरभिः समुद्भवे भवेद्यदाज्यं सुरभिर्ध्रुवं ततः ।
वधूभिरेभ्यः प्रवितीर्य पायसं तदोघकुल्यातटसैकतं कृतम् ॥ नैषधीयचरितम् - 16 - 70 ॥
यदष्यपीता वसुधालयैः सुधा तदप्यदः स्वादु ततः
अनुमीयते ।
अपि क्रतूषर्बुधदग्धगन्धिने स्पृहां यदस्मै
दधते सुधान्धसः ॥ नैषधीयचरितम् - 16 - 71 ॥
अबोधि नो ह्रीनिभृतं मदिङ्गितं प्रतीत्य वा नादृतवत्यसाविति ।
लुनाति यूनः स्म धियं कियद्गता निवृत्य बालादरदर्शनेषुणा ॥ नैषधीयचरितम् - 16 - 72 ॥
न राजिकाराद्धम्
अभोजि तत्र कैर्मुखेन सीत्कारकृता दधद्दधि ।
धुतोत्तमाङ्गैः कटुभावपाटवादकाण्डकण्डूयितमूर्धतालुभिः ॥ नैषधीयचरितम् - 16 - 73 ॥
वियोगिदाहाय कटूभवत्त्विषस्तुषारभानोरिव खण्डमाहृतम् ।
सितं मृदु प्रागथ दाहदायि तत्खलः सुहृत्पूर्वमिवाहितस्ततः ॥ नैषधीयचरितम् - 16 - 74 ॥
नवौ युवानौ निजभावगोपिनावभूमिषु प्राग्विहितभ्रमिक्रमः ।
दृशोः
विधत्तः स्म यदृच्छया किल त्रिभागमन्योन्यमुखे पुनः पुनः ॥ नैषधीयचरितम् - 16 - 75 ॥
व्यधुस्तमां ते मृगमांससाधितं रसादशित्वा मृदु तेमनं मनः ।
निशाधवोत्सङ्गकुरङ्गजैरदः पलैः सपीयूषजलैः किम् अश्रपि ॥ नैषधीयचरितम् - 16 - 76 ॥
परस्पराकूतजदूतकृत्ययोरनङ्गमाराद्धुमपि क्षणं प्रति ।
निमेषणेनैव कियच्चिरायुषा जनेषु यूनोः
उदपादि निर्णयः ॥ नैषधीयचरितम् - 16 - 77 ॥
अहर्निशा वेति रताय
पृच्छति क्रमोष्णशीतान्नकरार्पणाद्विटे ।
ह्रिया विदग्धा किल तन्निषेधिनी
अधत्त सन्ध्यामधुरेऽधरेऽङ्गुलिम् ॥ नैषधीयचरितम् - 16 - 78 ॥
क्रमेण कूरं स्पृशतोष्मणः पदं सितां च शीतां चतुरेण वीक्षिता ।
दधौ विदग्धारुणितेऽधरेऽङ्गुलीमनौचितीचिन्तनविस्मिता किल ॥ नैषधीयचरितम् - 16 - 79 ॥
कियत्त्यजन्नोदनमानयन्कियत्करस्य
पप्रच्छ गतागतेन याम् ।
अहं किम्
एष्यामि किम्
एष्यसि इति सा
व्यधत्त नम्रं किल लज्जयाननम् ॥ नैषधीयचरितम् - 16 - 80 ॥
यथामिषे
जग्मुः अनामिषभ्रमं निरामिषे चामिषमोहमूहिरे ।
तथा विदग्धैः परिकर्मनिर्मितं विचित्रमेते परिहस्य भोजिताः ॥ नैषधीयचरितम् - 16 - 81 ॥
नखेन कृत्वाधरसन्निभां निभाद्युवा मृदुव्यञ्जनमांसफालिकाम् ।
ददंश दन्तैः
प्रशशंस तद्रसं विहस्य पश्यन्परिवेषिकाधरम् ॥ नैषधीयचरितम् - 16 - 82 ॥
अनेकसंयोजनया तथाकृतेर्निकृत्य निष्पिष्य च तादृगर्जनात् ।
अमी कृताकालिकवस्तुविस्मयं जना बहु व्यञ्जनम्
अभ्यवाहरन् ॥ नैषधीयचरितम् - 16 - 83 ॥
पिपासुः
अस्मि इति विबोधिता मुखं निरीक्ष्य बाला सुहितेन वारिणः ।
पुनः कर् कर्तुमना गलन्तिकां हसात्सखीनां सहसा
न्यवर्तत ॥ नैषधीयचरितम् - 16 - 84 ॥
युवा समादित्सुरमत्रगं घृतं विलोक्य तत्रैणदृशोऽनुबिम्बनम् ।
चकार तन्नीविनिवेशिनं करं
बभूव तच्च स्फुटकण्टकोत्करम् ॥ नैषधीयचरितम् - 16 - 85 ॥
प्रलेहजस्नेहधृतानुबिम्बनां
चुचुम्ब कोऽपि श्रितभोजनच्छलः ।
मुहुः परिस्पृश्य कराङ्गुलीमुखैस्ततो नु रक्तैः स्वमवापितैर्मुखम् ॥ नैषधीयचरितम् - 16 - 86 ॥
अराधि यन्मीनमृगाजपत्त्रिजैः पलैर्मृदु स्वादु सुगन्धि तेमनम् ।
अशाकि लोकैः कुत एव जेमितुं न तत्तु सङ्ख्यातुमपि स्म
शक्यते ॥ नैषधीयचरितम् - 16 - 87 ॥
कृतार्थनश्चाटुभिरिङ्गितैः पुरा परासि यः किञ्चनकुञ्चितभुवा ।
क्षिपन्मुखे भोजनलीलयाङ्गुलीः पुनः प्रसन्नाननया
अन्वकम्पि सः ॥ नैषधीयचरितम् - 16 - 88 ॥
अकारि नीहारनिभं प्रभञ्जनात्
अधूपि यच्चागुरुसारदारुभिः ।
निपीय भृङ्गारकसङ्गि तत्र तैः
अवर्णि वारि प्रतिवारमीदृशम् ॥ नैषधीयचरितम् - 16 - 89 ॥
त्वया विधातर्यत्
अकारि चामृतं कृतं च यज्जीवनमम्बु साधु तत् ।
वृथेदमा
आरम्भि तु सर्वतोमुखस्तथोचितः कर्तुमिदं पिबस्तव ॥ नैषधीयचरितम् - 16 - 90 ॥
सरोजकोशाभिनयेन पाणिना स्थितेऽपि कूरे मुहुरेव
याचते ।
सखि त्वमस्मै वितर त्वमित्युभे मिथो न वादाद्
ददतुः किलौदनम् ॥ नैषधीयचरितम् - 16 - 91 ॥
इयं कियच्चारुकुचेति पश्यते पयःप्रदाया हृदयं समावृतम् ।
ध्रुवं मनोज्ञा
व्यतरत् उत्तरं भिषेण भृङ्गारधृते करद्वयी ॥ नैषधीयचरितम् - 16 - 92 ॥
अमीभिराकण्ठम्
अभोजि तद्गृहे तुषारधारामृदितेव शर्करा ।
हयद्विषद्बष्कयणीपयःसुतं सुधाह्रदात्पङ्कमिवोद्धृतं दधि ॥ नैषधीयचरितम् - 16 - 93 ॥
तदन्तरन्तः सुषिरस्य बिन्दुभिः करम्बितं कल्पयता जगत्कृता ।
इतस्ततः स्पष्टम्
अचोरि मायिना निरीक्ष्य तृष्णाचलजिह्वताभृता ॥ नैषधीयचरितम् - 16 - 94 ॥
ददासि मे तन्न रुचेर्यदास्पदं न यत्र रागः सितयापि किं तया ।
इतीरिणे बिम्बफलं फलेच्छलाददायि बिम्बाधरया
अरुचत् च तत् ॥ नैषधीयचरितम् - 16 - 95 ॥
समं ययोरिङ्गितवान्वयस्ययोस्तयोर्विहायोपहृतप्रतीङ्गिताम् ।
अकारि नाकूतम्
अवारि सा यया विदग्धया
अरञ्जि तयैव भाववित् ॥ नैषधीयचरितम् - 16 - 96 ॥
सखीं प्रति स्म
आह युवेङ्गितेक्षिणी क्रमेण तेऽयं
क्षमते न दित्सुताम् ।
विलोम तद्व्यञ्जनमर्प्यते त्वया वरं किमस्मै न नितान्तमर्थिने ॥ नैषधीयचरितम् - 16 - 97 ॥
समाप्तिलिप्येव भुजिक्रियाविधेर्दलोदरं वर्तुलयालयीकृतम् ।
अलङ्कृतं क्षीरवटैस्तदश्नतां
रराज पाकार्पितगैरिकश्रिया ॥ नैषधीयचरितम् - 16 - 98 ॥
चुचुम्ब नोर्वीवलयोर्वशीं परं पुरोऽधिपारि प्रतिबिम्बितां विटः ।
पुनःपुनः पानकपानकैतवाच्
चकार तच्चुम्बनचुङ्कृतान्यपि ॥ नैषधीयचरितम् - 16 - 99 ॥
घनैरमीषां परिवेषकैर्जनैः
अवर्षि वर्षोपलगोलकावली ।
चलद्भुजाभूषणरत्नरोचिषा धृतेन्द्रचापैः श्रितचान्द्रसौरभा ॥ नैषधीयचरितम् - 16 - 100 ॥
कियद्बहु व्यञ्जनमेतद्
अर्प्यते ममेति तृप्तेर्वदतां पुनःपुनः ।
अमूनि सङ्ख्यातुमसौ
अढौकि तैश्छलेन तेषां कठिनीव भूयसी ॥ नैषधीयचरितम् - 16 - 101 ॥
विदग्धबालेङ्गितगुप्तिचातुरी प्रवह्लिकोत्पाटनपाटवे हृदः ।
निजस्य टीकां
प्रबबन्ध कामुकः स्पृशद्भिराकूतशतैस्तदौचितीम् ॥ नैषधीयचरितम् - 16 - 102 ॥
घृतप्लुते भोजनभाजने पुरः स्फुरत्पुरन्ध्रिप्रतिबिम्बिताकृतेः ।
युवा निधायोरसि लड्डुकद्वयं नखैर्लिलेखाथ
ममर्द निर्दयम् ॥ नैषधीयचरितम् - 16 - 103 ॥
विलोकिते रागितरेण सस्मितं ह्रियाथ वैमुख्यमिते सखीजने ।
तदालिरानीय कुतोऽपि शार्करीं करे
ददौ तस्य विहस्य पुत्रिकाम् ॥ नैषधीयचरितम् - 16 - 104 ॥
निरीक्ष्य रम्याः परिवेषिका ध्रुवं न भुक्तमेवैभिरवाप्ततृप्तिभिः ।
अशक्नुविद्भिर्बहुभुक्तवत्तया यदुज्झिता व्यञ्जनपुञ्जराशयः ॥ नैषधीयचरितम् - 16 - 105 ॥
पृथक्प्रकारेङ्गितशंसिताशयो युवा यया
उदासि तयापि तापितः ।
ततो निराशः परिभावयन्परामये तया
अतोषि सरोषायैव सः ॥ नैषधीयचरितम् - 16 - 106 ॥
पयः स्मिता मण्डकमण्डनाम्बरा वटाननेन्दुः पृथुलड्डुकस्तनी ।
पदं रुचेर्भोज्यभुजां भुजिक्रिया प्रिया
बभूव उज्ज्वलकूरहारिणी ॥ नैषधीयचरितम् - 16 - 107 ॥
चिरं युवाकूतशतैः कृतार्थनश्चिरं सरोषेङ्गितया च निर्धुतः ।
सृजन्करक्षालनलीलयाञ्जली
न्यसेचि किञ्चिद्विधुताम्बुधारया ॥ नैषधीयचरितम् - 16 - 108 ॥
न षड्विधः षिङ्गजनस्य भोजने तथा यथा यौवतविभ्रमोद्भवः ।
अपारशृङ्गारमयः समुन्मिषन्भृशं रसस्तोषम्
अधत्त सप्तमः ॥ नैषधीयचरितम् - 16 - 109 ॥
मुखे निधाय क्रमुकं नलानुगैरथौज्झि पर्णालिरवेक्ष्य वृश्चिकम् ।
दमार्पितान्तर्मुखवासनिर्मितं भयाविलैः स्वभ्रमहासिताखिलैः ॥ नैषधीयचरितम् - 16 - 110 ॥
अमीषु तथ्यानृतरत्नजातयोर्वराटराट्चारुनितान्तचारुणोः ।
स्वयं गृहाणैकमिहेत्युदीर्य तद्द्वयं
ददौ शेषजिघृक्षवे हसन् ॥ नैषधीयचरितम् - 16 - 111 ॥
इति द्विकृत्वः शुचिमृष्टभोजिनां दिनानि तेषां कतिचिन्मुदा
ययुः ।
द्विरष्टसंवत्सरवारसुन्दरीपरीष्टिभिस्तुष्टिमुपेयुषां निशि ॥ नैषधीयचरितम् - 16 - 112 ॥
उवास वैदर्भगृहेषु पञ्चषा निशाः कृशाङ्गीं परिणीय तां नलः ।
अथ
प्रतस्थे निषधान्सहानया रथेन वार्ष्णेयगृहीतरश्मिना ॥ नैषधीयचरितम् - 16 - 113 ॥
परस्य न स्प्रष्टुमिमामधिक्रिया प्रिया शिशुः प्रांशुरसाविति ब्रुवन् ।
रथे स भैमीं स्वयम्
अध्यरूरुहत् न तत्किल
आश्लिक्षत् इमां जनेक्षितः ॥ नैषधीयचरितम् - 16 - 114 ॥
इति स्मरः शीघ्रमतिः
चकार तं वधूं च रोमाञ्चभरेण कर्कशौ ।
स्खलिष्यति स्निग्धतनुः प्रियादियं म्रदीयसी पीडनभीरुदोर्युगात् ॥ नैषधीयचरितम् - 16 - 115 ॥
तथा किमाजन्मनिजाङ्कवर्धितां प्रहित्य पुत्रीं पितरौ
विषेदतुः ।
विसृज्य तौ तं दुहितुः पतिं यथा विनीततालक्षगुणीभवद्गुणम् ॥ नैषधीयचरितम् - 16 - 116 ॥
निजादनुव्रज्य स मण्डलावधेर्नलं निवृत्तौ चटुलापतां गतः ।
तडागकल्लोल इवानिलं तटाद्धृतानतिः
व्याववृते वराटराट् ॥ नैषधीयचरितम् - 16 - 117 ॥
पितात्मनः पुण्यमनापदः क्षमा धनं मनस्तुष्टिरथाखिलं नलः ।
अतः परं पुत्रि न कोऽपि तेऽहमित्युदस्रुरेष
व्यसृजत् निजौरसीम् ॥ नैषधीयचरितम् - 16 - 118 ॥
प्रियः प्रियैकाचरणाच्चिरेण तां पितुः स्मरन्तीमचिकित्सदाधिषु ।
शशाम तन्मातृवियोगवाडवः स तु प्रियप्रेममहाम्बुधावपि ॥ नैषधीयचरितम् - 16 - 119 ॥
असौ महीभृद्बहुधातुमण्डितस्तया निजोपत्यकयेव कामपि ।
भुवा कुरङ्गक्षणदन्तिचारयोः
बभार शोभां कृतपादसेवया ॥ नैषधीयचरितम् - 16 - 120 ॥
तदेकतानस्य नृपस्य रक्षितुं चिरोढया भावमिवात्मनि श्रिया ।
विहाय सापत्न्यम्
अरञ्जि भीमजा समग्रतद्वाञ्छितपूर्तिवृत्तिभिः ॥ नैषधीयचरितम् - 16 - 121 ॥
मसारमालावलितोरणां पुरं निजाद्वियोगादिव लम्बितालकाम् ।
ददर्श पश्यामिव नैषधः प्रियामथाश्रितोद्ग्रीविकमुन्नतैर्गृहैः ॥ नैषधीयचरितम् - 16 - 122 ॥
पुरीनिरीक्षान्यमना मनागिति प्रियाय भैम्या निभृतं विसर्जितः ।
ययौ कटाक्षः सहसा निवर्तिना तदीक्षणेनार्धपथे समागमम् ॥ नैषधीयचरितम् - 16 - 123 ॥
अथ नगरधृतैरमात्यरत्नैः पथि
समियाय स जाययाभिरामः ।
मधुरिव कुसुमश्रिया सनाथः क्रममिलितैरलिभिः कुतूहलोत्कैः ॥ नैषधीयचरितम् - 16 - 124 ॥
कियदपि कथयन्स्ववृत्तजातं श्रवणकुतूहलचञ्चलेषु तेषु ।
कियदपि निजदेशवृत्तमेभ्यः श्रवणपथं स नयन्पुरीं
विवेश ॥ नैषधीयचरितम् - 16 - 125 ॥
अथ पथि पथि लाजैरात्मनो बाहुवल्लीमुकुलकुलसकुल्यैः पूजयन्त्यो जयेति ।
क्षितिपतिम्
उपनेमुः तं दधाना जनानाममृतजलमृणालीसौकुमार्यं कुमार्यः ॥ नैषधीयचरितम् - 16 - 126 ॥
अभिनवदमयन्तीकान्तिजालावलोकप्रवणपुरपुरन्ध्रीवक्त्रचन्द्रान्वयेन ।
निखिलनगरसौधाट्टावलीचन्द्रशालाःक्षाणमिव निजसंज्ञांसान्वयाम्
अन्वभूवन् ॥ नैषधीयचरितम् - 16 - 127 ॥
निषधनृपमुखेन्दुश्रीसुधां सौधवातायनविवरगरश्मिश्रेणिनालोपनीताम् ।
पपुः समपिपासापांसुलत्वोत्परागाण्यखिलपुरपुरन्ध्रीनेत्रनीलोत्पलानि ॥ नैषधीयचरितम् - 16 - 128 ॥
अवनिपतिपथाट्टस्त्रैणपाणिप्रवालस्खलितसुरभिलाजव्याजभाजःप्रतीच्छन् ।
उपरि कुसुमवृष्टीरेष वैमानिकानामभिनवकृतभैमीसौधभूमिं
विवेश ॥ नैषधीयचरितम् - 16 - 129 ॥
इति परिणयमित्थं यानमेकत्र याने दरचकितकटाक्षप्रेक्षणं चानयोस्तत् ।
दिवि दिविषदधीशाःकौतुकेनावलोक्य
प्रणिदधुः अथ गन्तुं नाकमानन्दसान्द्राः ॥ नैषधीयचरितम् - 16 - 130 ॥
श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः
सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
काश्मीरैर्महिते चतुर्दशतयीं विद्यां विदद्भिर्महाकाव्ये तद्भुवि नैषधीयचरिते सर्गोऽगमत्षोडशः ॥ नैषधीयचरितम् - 16 - 131 ॥
।। इति नैषधीयचरितमहाकाव्ये षोडशसर्गः ।।
सप्तदशसर्गः
अथारभ्य वृथाप्रायं धरित्रीधावनश्रमम् ।
सुराः सरस्वदुल्लोललीला
जग्मुः यथागतम् ॥ नैषधीयचरितम् - 17 - 1 ॥
भैमीं पत्ये भुवस्तस्मै चिरं चित्ते धृतामपि ।
विद्यामिव विनीताय न
विषेदुः प्रदाय ते ॥ नैषधीयचरितम् - 17 - 2 ॥
कान्तिमन्ति विमानानि
भेजिरे भासुराः सुराः ।
स्फटिकाद्रेस्तटानीव प्रतिबिम्बा विवस्वतः ॥ नैषधीयचरितम् - 17 - 3 ॥
जवाज्जातेन वातेन बलाकृष्टबलाहकैः ।
श्वसनात्स्वस्य शीघ्रत्वं रथैरेषामिव
अकथि ॥ नैषधीयचरितम् - 17 - 4 ॥
कमाद्दवीयसां तेषां तदानीं
समदृश्यत ।
स्पष्टमष्टगुणैश्वर्यात्पर्यवस्यन्निवाणिमा ॥ नैषधीयचरितम् - 17 - 5 ॥
ततान विद्युता तेषां रथे पीतपताकताम् ।
लब्धकेतुशिखोल्लेखा लेखा जलमुचः क्वचित् ॥ नैषधीयचरितम् - 17 - 6 ॥
पुनःपुनर्मिलन्तीषु पथि पाथोदपङ्क्तिषु ।
नाकनाथरथालम्बि
बभूव आभरणं धनुः ॥ नैषधीयचरितम् - 17 - 7 ॥
जले जलदजालानां वज्रितज्रानुबिम्बनैः ।
जाने तत्कालजैस्तेषां जाताशनिसनाथता ॥ नैषधीयचरितम् - 17 - 8 ॥
स्फुटं सावर्णिवंश्यानां कुलच्छत्रं महीभुजाम् ।
चक्रे दण्डभृतश्चुम्बन्दण्डश्चण्डरुचिं क्वचित् ॥ नैषधीयचरितम् - 17 - 9 ॥
नलभीमभुवोः प्रेम्णि विस्मिताया
दधौ दिवः ।
पाशिपाशः शिरःकम्पस्रस्तभूषश्रवःश्रियम् ॥ नैषधीयचरितम् - 17 - 10 ॥
पवनस्कन्धमारुह्य नृत्यत्तरकरः शिखी ।
अनेन प्रापि भैमीति भ्रमं
चक्रे नभःसदाम् ॥ नैषधीयचरितम् - 17 - 11 ॥
तत्कर्णौ भारती दूनौ विरहाद्भीमजागिराम् ।
अध्वनि ध्वनिभिर्वैणिरनुकल्पैः
व्यनोदयत् ॥ नैषधीयचरितम् - 17 - 12 ॥
अथायान्तम्
अवैक्षन्त ते जनौघमसित्विषम् ।
तेषां प्रत्युद्गमप्रीत्या मिलद्व्योमेव मूर्तिमत् ॥ नैषधीयचरितम् - 17 - 13 ॥
अद्राक्षुः आजिहानं ते स्मरमग्रेसरं सुराः ।
अक्षाविनयशिक्षार्थं कलिनेव पुरस्कृतम् ॥ नैषधीयचरितम् - 17 - 14 ॥
अगम्यार्थं तृणप्राणाः पृष्ठस्थीकृतभीह्रियः ।
शम्भलीभुक्तसर्वस्वा जना यत्पारिपार्श्विकाः ॥ नैषधीयचरितम् - 17 - 15 ॥
बिभर्ति लोकजिद्भावं बुद्धस्य स्पर्धयेव यः ।
यस्येशतुलयेवात्र कर्तृत्वमशरीरिणः ॥ नैषधीयचरितम् - 17 - 16 ॥
ईश्वरस्य जगत्कृत्स्नं सृष्टिमाकुलयन्निमाम् ।
अस्ति योऽस्त्रीकृतस्त्रीकस्तस्य वैरं स्मरन्निव ॥ नैषधीयचरितम् - 17 - 17 ॥
चक्रे शक्रादिनेत्राणां स्मरः पीतनलश्रियाम् ।
अपि दैवतवैद्याभ्यामचिकित्स्यमरोचकम् ॥ नैषधीयचरितम् - 17 - 18 ॥
यत्तत्क्षिपन्तमुत्कम्पमुत्थायुकमथारुणम् ।
बुबुधुः विबुधाः क्रोधमाक्रोशाक्रोशघोषणम् ॥ नैषधीयचरितम् - 17 - 19 ॥
यम्
उपासत दन्तौष्ठक्षतासृक्शिष्यचक्षुषः ।
भ्रुकुटीफणिनीनादनिभनिश्वासफूत्कृतः ॥ नैषधीयचरितम् - 17 - 20 ॥
दुर्गं कामाशुगेनापि दुर्लङ्घ्यमवलम्ब्य यः ।
दुर्वासोहृदयं लोकान्सेन्द्रानपि दिधक्षति ॥ नैषधीयचरितम् - 17 - 21 ॥
वैराग्यं यः
करोति उच्चै रञ्जनं जनयन्नपि ।
सूते सर्वेन्द्रियाच्छादि प्रज्वलन्नपि यस्तमः ॥ नैषधीयचरितम् - 17 - 22 ॥
पञ्चेषुविजयाशक्तौ भवस्य क्रुध्यतो जयात् ।
येनान्यविगृहीतारिजयकालनयः श्रितः । नैषधीयचरितम् - 17 - 23 ॥
हस्तौ विस्तारयन्निभ्ये बिभ्यदर्धपथस्थवाक् ।
सूचयन्काकुमाकूतैर्लोभस्तत्र
व्यलोकि तैः ॥ नैषधीयचरितम् - 17 - 24 ॥
दैन्यस्तैन्यमया नित्यमत्याहारामयाविनः ।
भुञ्जानजनसाकूतपश्या यस्यानुजीविनः ॥ नैषधीयचरितम् - 17 - 25 ॥
धनिदानाम्बुवृष्टेर्यः पात्रपाणाववग्रहः ।
स्वान्दासानिव हा निःस्वान्
विक्रीणीते अर्थवत्सु यः ॥ नैषधीयचरितम् - 17 - 26 ॥
एकद्विकरणे हेतू महापातकपञ्चके ।
न तृणे
मन्यते कोपकामौ यः पञ्च कारयन् ॥ नैषधीयचरितम् - 17 - 27 ॥
यः सर्वेन्द्रियसद्मापि जिह्वां बह्ववलम्बते ।
तस्यामाचार्यकं याञ्जाबटवे पाटवेऽर्जितुम् ॥ नैषधीयचरितम् - 17 - 28 ॥
पथ्यां तथ्यामगृह्णन्तमन्धं बन्धुप्रबोधनाम् ।
शून्यमाश्लिष्य नोज्झन्तं मोहम्
ऐक्षन्त हन्त ते ॥ नैषधीयचरितम् - 17 - 29 ॥
श्वःश्वः प्राणप्रयाणेऽपि न
स्मरन्ति स्मरद्विषाः ।
मग्नाः कुटुम्बजम्बाले बालिशा यदुपासिनः ॥ नैषधीयचरितम् - 17 - 30 ॥
पुंसामलब्धनिर्वाणज्ञानदीपमयात्मनाम् ।
अन्तर्म्लापयति व्यक्तं यः कज्जलवदुज्ज्वलम् ॥ नैषधीयचरितम् - 17 - 31 ॥
ब्रह्मचारिवनस्थायियतयो गृहिणं यथा ।
त्रयो यम्
उपजीवन्ति क्रोधलोभमनोभवाः ॥ नैषधीयचरितम् - 17 - 32 ॥
जाग्रतामपि निद्रा यः पश्यतामपि योऽन्धता ।
श्रुते सत्यपि जाड्यं यः प्रकाशेऽपि च यस्तमः ॥ नैषधीयचरितम् - 17 - 33 ॥
कुरुसैन्यं हरेणेव प्राग्
अलज्जत नार्जुनः ।
हतं येन जयन्कामस्तमोगुणजुषा जगत् ॥ नैषधीयचरितम् - 17 - 34 ॥
चिह्निताः कतिचिद्देवैः प्राचः परिचयादमी ।
अन्ये न केचनाचूडमेनः कञ्चुकमेचकाः ॥ नैषधीयचरितम् - 17 - 35 ॥
तत्रोद्गूर्ण इवार्णोधौ सैन्येऽभ्यर्णमुपेयुषि ।
कस्यापि
आकर्णयामासुः ते वर्णान्कर्णकर्कशान् ॥ नैषधीयचरितम् - 17 - 36 ॥
ग्रावोन्मज्जनवद्यज्ञफलेति श्रुतिसत्यता ।
का श्रद्धा तत्र धीवृद्धाः कामाध्वा यत्खिलीकृतः ॥ नैषधीयचरितम् - 17 - 37 ॥
केनापि बोधिसत्त्वेन जातं सत्त्वेन हेतुना ।
यद्वेदमर्मभेदाय
जगदे जगदस्थिरम् ॥ नैषधीयचरितम् - 17 - 38 ॥
अग्निहोत्रं त्रयीतन्त्रं त्रिदण्डं भस्मपुण्ड्रकम् ।
प्रज्ञापौरुषानिःस्वानां जीवो
जल्पति जीविका ॥ नैषधीयचरितम् - 17 - 39 ॥
शुद्धिर्वंशद्वयीशुद्धौ पित्रोः पित्रोर्यदेकशः ।
तदानन्तकुलादोषाददोषा जातिः
अस्ति का ॥ नैषधीयचरितम् - 17 - 40 ॥
कामिनीवर्गसंसर्गैर्न कः सङ्क्रान्तपातकः ।
न
अश्नाति स्नाति हा मोहात्कामक्षामव्रतं जगत् ॥ नैषधीयचरितम् - 17 - 41 ॥
ईर्ष्यया रक्षतो नारीर्धिक्कुलस्थितिदाम्भिकान् ।
स्मरान्धत्वाविशेषेऽपि तथा नरमरक्षतः ॥ नैषधीयचरितम् - 17 - 42 ॥
परदारनिवृत्तिर्या सोऽयं स्वयमनादृतः ।
अहल्याकेलिलोलेन दम्भो दम्भोलिपाणिना ॥ नैषधीयचरितम् - 17 - 43 ॥
गुरुतल्पगतौ पापकल्पनां
त्यजत द्विजाः ।
येषां वः पत्युरत्युच्चैर्गुरुदारग्रहे ग्रहः ॥ नैषधीयचरितम् - 17 - 44 ॥
पापात्तापा मुदः पुण्यात्परासोः
स्युः इति श्रुतिः ।
वैपरीत्यं द्रुतं साक्षात्तत्
आख्यात बलाबले ॥ नैषधीयचरितम् - 17 - 45 ॥
सन्देहेऽप्यन्यदेहाप्तेर्विवर्ज्यं वृजिनं यदि ।
त्यजत श्रोत्रियाः सत्त्रं हिंसादूषणसंशयात् ॥ नैषधीयचरितम् - 17 - 46 ॥
यस्त्रिवेदीविदां वन्द्यः स व्यासोऽपि
जजल्प वः ।
रामाया जातकामायाः प्रशस्ता हस्तधारणा ॥ नैषधीयचरितम् - 17 - 47 ॥
सुकृते वः कथं श्रद्धा सुरते च कथं न सा ।
तत्कर्म पुरुषः
कुर्यात् येनान्ते सुखम्
एधते ॥ नैषधीयचरितम् - 17 - 48 ॥
बालात्
कुरुत पापानि
सन्तु तान्यकृतानि वः ।
सर्वान्बलकृतान्दोषानकृतान्मनुः
अब्रवीत् ॥ नैषधीयचरितम् - 17 - 49 ॥
स्वागमार्थेऽपि मा स्थास्मिंस्तीर्थिका विचिकित्सवः ।
तं तम्
आचरत आनन्दं स्वच्छन्दं यं यमिच्छथ ॥ नैषधीयचरितम् - 17 - 50 ॥
श्रुतिस्मृत्यर्थबोधेषु क्वैकमत्यं महाधियाम् ।
व्याख्या बुद्धिबलापेक्षा सा नोपेक्ष्य सुखोन्मुखी ॥ नैषधीयचरितम् - 17 - 51 ॥
यस्मिन्
अस्मि इति धीर्देहे तद्दाहे वः किमेनसा ।
क्वापि तत्किं फलं न
स्यात् आत्मेति परसाक्षिके ॥ नैषधीयचरितम् - 17 - 52 ॥
मृतः
स्मरति जन्मानि मृते कर्मफलोर्मयः ।
अन्यभुक्तैर्मृते तृप्तिरित्यलं धूर्तवार्तया ॥ नैषधीयचरितम् - 17 - 53 ॥
जनेन जनता
अस्मि इति कायं नायं त्वमित्यसौ ।
त्याज्यते ग्राह्यते चान्यदहो श्रुत्यातिधूर्तया ॥ नैषधीयचरितम् - 17 - 54 ॥
एकं सन्दिग्धयोस्तावद्भावि तत्रेष्टजन्मनि ।
हेतुम्
आहुः स्वमन्त्रादीनसङ्गानन्यथा विटाः ॥ नैषधीयचरितम् - 17 - 55 ॥
एकस्य विश्वपापेन तापेऽनन्ते निमज्जतः ।
कः श्रौतस्यात्मनो भीरो भारः
स्यात् दूरितेन ते ॥ नैषधीयचरितम् - 17 - 56 ॥
किं ते वृन्तहृतात्पुष्पात्तन्मात्रे हि
फलति अदः ।
न्यस्य तन्मूर्ध्न्यनन्यस्य न्यास्यमेवाश्मनो यदि ॥ नैषधीयचरितम् - 17 - 57 ॥
तृणानीव घृणावादान्
विधूनय वधूरनु ।
तवापि तादृशस्यैव का चिरं जनवञ्चना ॥ नैषधीयचरितम् - 17 - 58 ॥
कुरुध्वं कामदेवाज्ञां ब्रह्माद्यैरप्यलङ्घिताम् ।
वेदोऽपि देवकीयाज्ञा तत्राज्ञाः काधिकार्हणा ॥ नैषधीयचरितम् - 17 - 59 ॥
प्रलापमपि वेदस्य भागं
मन्यध्वम् एव चेत् ।
केनाभग्येन दुःखान्न विधीनपि तथा
इच्छथ ॥ नैषधीयचरितम् - 17 - 60 ॥
श्रुतिं श्रद्
धद्ध्वं विक्षिप्ताः प्रक्षिप्तां
ब्रूथ च स्वयम् ।
मीमांसामांसलप्रज्ञास्तां यूपद्विपदापिनीम् ॥ नैषधीयचरितम् - 17 - 61 ॥
को हि वेत्ता
अस्ति अमुष्मिन्वा लोक इति
आह या श्रुतिः ।
तत्प्रामाण्यादमुं लोकं लोकः
प्रत्येति वा कथम् ॥ नैषधीयचरितम् - 17 - 62 ॥
धर्माधर्मौ मनुर्जल्पन्नशक्यार्जनवर्जनौ ।
व्याजान्मण्डलदण्डार्थी श्रद्दधायि मुधा बुधैः ॥ नैषधीयचरितम् - 17 - 63 ॥
व्यासस्यैव गिरा तस्मिञ्श्रद्धेत्यद्धा स्थ तान्त्रिकाः ।
मत्स्यस्याप्युपदेश्यान्वः को मत्स्यानपि
भाषताम् ॥ नैषधीयचरितम् - 17 - 64 ॥
पण्डितः पाण्डवानां स व्यासश्चाटुपटुः कविः ।
निनिन्द तेषु निन्दत्सु स्तुवत्सु स्तुतवान्न किम् ॥ नैषधीयचरितम् - 17 - 65 ॥
न भ्रातुः किल देव्यां स व्यासः कामात्
समासजत् ।
दासीरतस्तद्
आसीद् यन्मात्रा तत्रापि
अदेशि किम् ॥ नैषधीयचरितम् - 17 - 66 ॥
देवैर्द्विजैः कृता ग्रन्थाः पन्था येषां तदादृतौ ।
गां नतैः किं न तैर्व्यक्तं ततोऽप्यात्माधरीकृतः ॥ नैषधीयचरितम् - 17 - 67 ॥
साधुकामुकतामुक्ता शान्तस्वान्तैर्मखोन्मुखैः ।
सारङ्गलोचनासारां दिवं प्रेत्यापि लिप्सुभिः ॥ नैषधीयचरितम् - 17 - 68 ॥
कः शमः क्रियतां प्राज्ञाः प्रियाप्रीतौ परिश्रमः ।
भस्मीभूतस्य भूतस्य पुनरागमनं कुतः ॥ नैषधीयचरितम् - 17 - 69 ॥
उभयी प्रकृतिः कामे
सज्जेत् इति मुनेर्मनः ।
अपवर्गे तृतीयेति भणतः पाणिनेरपि ॥ नैषधीयचरितम् - 17 - 70 ॥
बिभ्रति उपरियानाय जना जनितमज्जनाः ।
विग्रहायाग्रतः पश्चाद्गत्वरोरभ्रविभ्रमम् ॥ नैषधीयचरितम् - 17 - 71 ॥
एनसानेन तिर्यक्स्यादित्यादिः का बिभीषिका ।
राजिलोऽपि हि राजेव स्वैः सुखी सुखहेतुभिः ॥ नैषधीयचरितम् - 17 - 72 ॥
हताश्चेद्दिवि
दीव्यन्ति दैत्या दैत्यारिणा रणे ।
तत्रापि तेन
युध्यन्तां हता अपि तथैव ते ॥ नैषधीयचरितम् - 17 - 73 ॥
स्वं च ब्रह्म च संसारे मुक्तौ तु ब्रह्म केवलम् ।
इति स्वोच्छित्तिमुक्त्युक्तिवैदग्धी वेदवादिनाम् ॥ नैषधीयचरितम् - 17 - 74 ॥
मुक्तये यः शिलात्वाय शास्त्रम्
ऊचे सचेतसाम् ।
गोतमं तम्
अवेत एव यथा
वित्थ तथैव सः ॥ नैषधीयचरितम् - 17 - 75 ॥
दारा हरिहरादीनां तन्मग्नमनसो भृशम् ।
किं न मुक्ताःकुतः
सन्ति कारागारे मनोभुवः ॥ नैषधीयचरितम् - 17 - 76 ॥
देवश्चेत्
अस्ति सर्वज्ञः करुणाभागवन्ध्यवाक् ।
तत्किं वाग्व्ययमात्रान्नः कृतार्थयति नार्थिनः ॥ नैषधीयचरितम् - 17 - 77 ॥
भविनां भावयन्दुःखं स्वकर्मजमपीश्वरः ।
स्यात् अकारणवैरी नः कारणादपरे परे ॥ नैषधीयचरितम् - 17 - 78 ॥
तर्काप्रतिष्ठया साम्यादन्योन्यस्य व्यतिघ्नताम् ।
नाप्रामाण्यं मतानां
स्यात् केषां सत्प्रतिपक्षवत् ॥ नैषधीयचरितम् - 17 - 79 ॥
अक्रोधं
शिक्षयन्ति अन्यैः क्रोधना ये तपोधनाः ।
निर्धनास्ते धनायैव धातुवादोपदेशिनः ॥ नैषधीयचरितम् - 17 - 80 ॥
किं वित्तं
दत्त तुष्टेयमदातरि हरिप्रिया ।
दत्त्वा सर्वं धनं मुग्धो बन्धनं लब्धवान्बलिः ॥ नैषधीयचरितम् - 17 - 81 ॥
दोग्धा द्रोग्धा च सर्वोऽयं धनिनश्चेतसा जनः ।
विसृज्य लोभसंक्षोभमेकद्वा यदि
उदासते ॥ नैषधीयचरितम् - 17 - 82 ॥
दैन्यस्यायुष्यमस्तैन्यमभक्ष्यं कुक्षिवञ्चना ।
स्वाच्छन्द्यम्
ऋच्छत आनन्दकन्दलीकन्दमेककम् ॥ नैषधीयचरितम् - 17 - 83 ॥
इत्थमाकर्ण्य दुर्वर्णं शक्रः सक्रोधतां
दधे ।
अवोचत् उच्चैः कस्कोयं धर्ममर्माणि
कृन्तति ॥ नैषधीयचरितम् - 17 - 84 ॥
लोकत्रयीं त्रयीनेत्रां वज्रवीर्यस्फुरत्करे ।
क इत्थं
भाषते पाकशासने मयि
शासति ॥ नैषधीयचरितम् - 17 - 85 ॥
वर्णासङ्कीर्णतायां वा जात्यलोपोऽन्यथापि वा ।
ब्रह्महादेः परीक्षासु भङ्गमङ्ग
प्रमाणय ॥ नैषधीयचरितम् - 17 - 86 ॥
ब्राह्मण्यादिप्रसिद्धाया गन्ता यन्न
ईक्षते जयम् ।
तद्विशुद्धिमशेषस्य वर्णवंशस्य
शंसति ॥ नैषधीयचरितम् - 17 - 87 ॥
जलानलपरीक्षादौ संवादो वेदवेदिते ।
गलहस्तितनास्तिक्यां धिग्धियं
कुरुते अनते ॥ नैषधीयचरितम् - 17 - 88 ॥
सत्येव पतियोगादौ गर्भादेरध्रुवोदयात् ।
आक्षिप्तं नास्तिकाः कर्म न किं मर्म
भिनत्ति वः ॥ नैषधीयचरितम् - 17 - 89 ॥
याचतः स्वगयाश्राद्धं प्रेतस्याविश्य कञ्चन ।
नानादेशजनोपज्ञाः
प्रत्येषि न कथाः कथम् ॥ नैषधीयचरितम् - 17 - 90 ॥
नीतानां यमदूतेन नामभ्रान्तेरुपागतौ ।
श्रद्
धत्से संवदन्तीं न परलोककथां कथम् ॥ नैषधीयचरितम् - 17 - 91 ॥
जज्वाल ज्वलनः क्रोधादाचख्यौ चाक्षिपन्नमुम् ।
किम्
आत्थ रे किम्
आत्थ इदमस्मदग्रे निरर्गलम् ॥ नैषधीयचरितम् - 17 - 92 ॥
महापराकिणः श्रौतधर्मैकबलजीविनः ।
क्षणाभक्षणमूर्च्छाल स्मरन्
विस्मयसे न किम् ॥ नैषधीयचरितम् - 17 - 93 ॥
पुत्रेष्टिश्येनकारीरीमुखा दृष्टफला मखाः ।
न वः किं धर्मसन्देहमन्देहजयभानवः ॥ नैषधीयचरितम् - 17 - 94 ॥
दण्डताण्डवनैः कुर्वन्स्फुलिङ्गालिङ्गितं नभः ।
निर्ममे अथ गिरामूर्मीर्भिन्नमर्मेव धर्मराट् ॥ नैषधीयचरितम् - 17 - 95 ॥
तिष्ठ भोः
तिष्ठ कण्ठोष्ठं कुण्ठयामि हठादयम् ।
अपष्ठु पठतः पाठ्यमधिगोष्ठि शठस्य ते ॥ नैषधीयचरितम् - 17 - 96 ॥
वेदैस्तद्वेषिभिस्तद्वत्स्थिरं मतशतैः कृतम् ।
परं कस्ते परं वाचा लोकं लोकायत
त्यजेत् ॥ नैषधीयचरितम् - 17 - 97 ॥
समज्ञानाल्पभूयिष्ठपान्थवैमत्यमेत्य यम् ।
लोके
प्रयासि पन्थानं परलोके न तं कुतः ॥ नैषधीयचरितम् - 17 - 98 ॥
स्वकन्यामन्यसात्कर्तुं विश्वानुमतिदृश्वनः ।
लोके परत्र लोकस्य कस्य न
स्यात् दृढं मनः ॥ नैषधीयचरितम् - 17 - 99 ॥
कस्मिन्नपि मते सत्ये हताः सर्वमतत्यजः ।
तद्दृष्ट्या व्यर्थतामात्रमनर्थस्तु न धर्मजः ॥ नैषधीयचरितम् - 17 - 100 ॥
क्वापि सर्वैरवैमत्यात्पातित्यादन्यथा क्वचित् ।
स्थातव्यं श्रौत एव स्याद्धर्मे शेषेऽपि तत्कृतेः ॥ नैषधीयचरितम् - 17 - 101 ॥
बभाण वरुणः क्रोधादरुणः करुणोज्झितम् ।
किं न प्रचण्डात्पाखण्डपाश पाशाद्बि
बिभेषि नः ॥ नैषधीयचरितम् - 17 - 102 ॥
मानवाशक्यनिर्माणा कूर्माद्यङ्कबिला शिला ।
न श्रद्धापयते मुग्धास्तीर्थिकाध्वनि वः कथम् ॥ नैषधीयचरितम् - 17 - 103 ॥
शतक्रतूरुजाद्याख्याविख्यातिर्नास्तिकाः कथम् ।
श्रुतिवृत्तान्तसंवादैर्न वः चमद्
अचीकरत् ॥ नैषधीयचरितम् - 17 - 104 ॥
तत्तज्जनकृतावेशान्गयाश्राद्धादियाचिनः ।
भूताननुभवन्तोऽपि कथं श्रद्
धत्थ न श्रुतीः ॥ नैषधीयचरितम् - 17 - 105 ॥
नामभ्रमाद्यमं नीतानथ स्वतनुमागतान् ।
संवादवादिनो जीवान्वीक्ष्य मा
त्यजत श्रुतीः ॥ नैषधीयचरितम् - 17 - 106 ॥
संरम्भैर्जम्भजैत्रादेस्तभ्यमानाद्बलाद्वलन् ।
मूर्धबद्धाञ्जलिर्देवानथैवं कश्चिदूचिवान् ॥ नैषधीयचरितम् - 17 - 107 ॥
नापराधी पराधीनो जनोऽयं नाकनायकाः ।
कालस्याहं कलेर्बन्दी तच्चाटुचटुलाननः ॥ नैषधीयचरितम् - 17 - 108 ॥
इति तस्मिन्
वदति एव देवाः स्यन्दनमन्दिरम् ।
कलिम् आकलयां
चक्रुः द्वापरं चापरं पुरः ॥ नैषधीयचरितम् - 17 - 109 ॥
सन्ददर्श उन्नमद्ग्रीवः श्रीबहुत्वकृताद्भुतान् ।
तत्तत्पापपरीतस्तान्नाकीयान्नारकीव सः ॥ नैषधीयचरितम् - 17 - 110 ॥
गुरुरीढावलीढः प्राग्
अभूत् नमितमस्तकः ।
स त्रिशङ्कुरिवाक्रान्ततेजसेव बिडौजसः ॥ नैषधीयचरितम् - 17 - 111 ॥
विमुखान्द्रष्टुमप्येनं जनङ्गम इव द्विजान् ।
एष मत्तः सहेलं तानुपेत्य
समभाषत ॥ नैषधीयचरितम् - 17 - 112 ॥
स्वस्ति वास्तोष्पते तुभ्यं शिखिन् न
अस्ति न खिन्नता ।
सखे काल सुखेन
असि पाशहस्त मुदस्तव ॥ नैषधीयचरितम् - 17 - 113 ॥
स्वयंवरमहे भैमीवरणाय
त्वरामहे ।
तदस्मान्
अनुमन्यध्वम् अध्वने तत्र धाविने ॥ नैषधीयचरितम् - 17 - 114 ॥
तेऽवज्ञाय तमस्योच्चैरहङ्कारमकारणम् ।
ऊचिरे अतिचिरेणैनं स्मित्वा दृष्टमुखा मिथः ॥ नैषधीयचरितम् - 17 - 115 ॥
पुनः
वक्ष्यसि मा मैवं कथम्
उद्वक्ष्यसे तु सः ।
सृष्टवान्परमेष्ठी यं नैष्ठिकब्रह्मचारिणम् ॥ नैषधीयचरितम् - 17 - 116 ॥
द्रोहिणं द्रुहिणो
वेत्तु त्वामाकर्ण्यावकीर्णिनम् ।
त्वज्जनैरपि वा धातुः सेतुर्लङ्घ्यस्त्वया न किम् ॥ नैषधीयचरितम् - 17 - 117 ॥
अतिवृत्तः स वृत्तान्तस्त्रिजगद्युवगर्वनुत् ।
आगच्छतामपादानं स स्वयंवर एव नः ॥ नैषधीयचरितम् - 17 - 118 ॥
नागेषु सानुरागेषु पश्यत्सु दिविषत्सु च ।
भूमिपालं नरं भैमी वरं सा
अववरद् वरम् ॥ नैषधीयचरितम् - 17 - 119 ॥
भुजगेशानसद्वेशान्वानरानितरान्नरान् ।
अमरान्पामरान्भैमी नलं
वेद गुणोज्ज्वलम् ॥ नैषधीयचरितम् - 17 - 120 ॥
इति श्रुत्वा स रोषान्धः परमश्चरमं युगम् ।
जगन्नाशनिशारुद्रमुद्रस्तानुक्तवानदः ॥ नैषधीयचरितम् - 17 - 121 ॥
कयापि
क्रीडतु ब्रह्मा दिव्याः स्त्रीः
दीव्यत स्वयम् ।
कलिस्तु
चरतु ब्रह्म
प्रैतु वातिप्रियाय वः ॥ नैषधीयचरितम् - 17 - 122 ॥
चर्येव कतमेयं वः परस्मै धर्मदेशिनाम् ।
स्वयं तत्कुर्वतां सर्वं श्रोतुं यद्बिभितः श्रुती ॥ नैषधीयचरितम् - 17 - 123 ॥
तत्र स्वयंवरे
अलम्भि भुवः श्रीर्नैषाधेन सा ।
जगतो ह्रीस्तु युष्माभिर्लाभस्तुल्याभ एव वः ॥ नैषधीयचरितम् - 17 - 124 ॥
दूरान्नः प्रेक्ष्य यौष्माकी युक्तेयं वक्त्रवक्रणा ।
लज्जयैवासमर्थानां मुखमास्माकमीक्षितुम् ॥ नैषधीयचरितम् - 17 - 125 ॥
स्थितं भवद्भिः पश्यद्भिः कथं भोस्तदसांप्रतम् ।
निर्दग्धा दुर्विदग्धा किं सा दृशा न ज्वलत्क्रुधा ॥ नैषधीयचरितम् - 17 - 126 ॥
महावंशाननादृत्य महान्तमभिलाषुका ।
स्वी
चकार कथङ्कारमहो सा तरलं नलम् ॥ नैषधीयचरितम् - 17 - 127 ॥
भवादृशैर्दिशामीशैर्मृग्यमाणां मृगेक्षणाम् ।
स्वीकुर्वाणः कथं सोढः कृतरीढस्तृणं नलः ॥ नैषधीयचरितम् - 17 - 128 ॥
दारुणः कूटमाश्रित्य शिखी साक्षीभवन्नपि ।
न
अवहत् किं तदुद्वाहे कूटसाक्षिक्रियामयम् ॥ नैषधीयचरितम् - 17 - 129 ॥
अहो महःसहायानां सम्भूता भवतामपि ।
क्षमैवास्मै कलङ्काय देवस्येवामृतद्युतेः ॥ नैषधीयचरितम् - 17 - 130 ॥
सा
वव्रे यं तमुत्सृज्य मह्यमीर्ष्याजुषाः स्थ किम् ।
ब्रूत आगः सद्मनस्तस्माच्छद्मनाद्या
छिनद्मि तान् ॥ नैषधीयचरितम् - 17 - 131 ॥
यतध्वं सहकर्तुं मां पाञ्चाली पाण्डवैरिव ।
सापि पञ्चभिरस्माभिः संविभज्यैव
भुज्यताम् ॥ नैषधीयचरितम् - 17 - 132 ॥
अथापरिवृढा सोढुं मूर्खतां मुखरस्य ताम् ।
चक्रे गिरा शराघातं भारती सारतीव्रया ॥ नैषधीयचरितम् - 17 - 133 ॥
कीर्तिं भैमीं वरं चास्मै दातुमेवागमन्नमी ।
न
लीढे धीरवैदग्धीं धीरगम्भीरगाहिनी ॥ नैषधीयचरितम् - 17 - 134 ॥
वाग्ग्मिनीं जडजिह्वस्तां प्रतिवक्तुमशक्तिमान् ।
लीलावहेलितां कृत्वा देवानेव
अवदत् कलिः ॥ नैषधीयचरितम् - 17 - 135 ॥
प्रौञ्छि वाञ्छितमस्माभिरपि तां प्रति सम्प्रति ।
तस्मिन्नले न लेशोऽपि कारुण्यस्य
अस्ति नः पुनः ॥ नैषधीयचरितम् - 17 - 136 ॥
वृत्ते कर्मणि कुर्मः किं तदा न
अभूम तत्र यत् ।
कालोचितमिदानीं यः
शृणुत आलोचितं पुनः ॥ नैषधीयचरितम् - 17 - 137 ॥
प्रतिज्ञेयं नले विज्ञाः कलेर्विज्ञायतां मम ।
तेन भैमीं च भूमिं च
त्याजयामि जयामि तम् ॥ नैषधीयचरितम् - 17 - 138 ॥
नैषधेन विरोधं मे चण्डतामण्डितैजसः ।
जगन्ति हन्त
गायन्तु रवेः कैरववैरवत् ॥ नैषधीयचरितम् - 17 - 139 ॥
द्वापरः साधुकारेण तद्विकारम् अदीदिपत् ।
प्रणीय श्रवणे पाणिम्
अवोचत् नमुचे रिपुः ॥ नैषधीयचरितम् - 17 - 140 ॥
विस्मेयमतिरस्मासु साधु वैलक्ष्यमीक्षसे ।
यद्
दत्ते अल्पमनल्पाय तद्
दत्ते ह्रियमात्मनः ॥ नैषधीयचरितम् - 17 - 141 ॥
फलसीमां चतुर्वर्गं यच्छतांशोऽपि
यच्छति ।
नलस्यास्मदुपघ्ना सा भक्तिर्भूतावकेशिनी ॥ नैषधीयचरितम् - 17 - 142 ॥
भव्यो न व्यवसायस्ते नले साधुमतौ कले ।
लोकपालविशालोऽयं निषाधानां सुधाकरः ॥ नैषधीयचरितम् - 17 - 143 ॥
न
पश्यामः कलेस्तस्मिन्नवकाशं क्षामाभृति ।
निचिताखिलधर्मे च द्वापरस्योदयं वयम् ॥ नैषधीयचरितम् - 17 - 144 ॥
सा विनीततमा भैमी व्यर्थानर्थग्रहैरहो ।
कथं भवद्विधैर्बाध्या प्रमितिर्विभ्रमैरिव ॥ नैषधीयचरितम् - 17 - 145 ॥
तं नासत्ययुगं तां वा त्रेता स्पर्धितुम्
अर्हति ।
एकप्रकाशधर्माणं न कलिद्वापरौ युवाम् ॥ नैषधीयचरितम् - 17 - 146 ॥
करिष्ये अवश्यमित्युक्तिः करिष्यन्नपि
दुष्यसि ।
दृष्टादृष्टा हि नायत्ताः कार्यीया हेतवस्तव ॥ नैषधीयचरितम् - 17 - 147 ॥
द्रोहं मोहेन यस्तस्मिन्न
आचरेत् अचिरेण सः ।
तत्पापसम्भवं तापम्
आप्नुयात् अनयात्ततः ॥ नैषधीयचरितम् - 17 - 148 ॥
युगशेष तव द्वेषस्तस्मिन्नेष न सांप्रतम् ।
भविता न हितायैतद्वैरं ते वैरसेनिना ॥ नैषधीयचरितम् - 17 - 149 ॥
तत्र
यामि इत्यसज्ज्ञानं राजसं सदिहास्यताम् ।
इति तर गतो मा
गाः राजसंसदि हास्यताम् ॥ नैषधीयचरितम् - 17 - 150 ॥
गत्वान्तरा नलं भैमीं नाकस्मात्त्वं
प्रवेक्ष्यसि ।
षण्णां चक्रमसंयुक्तं पठ्यमानं डकारवत् ॥ नैषधीयचरितम् - 17 - 151 ॥
अपरेऽपि दिशामीशा वाचमेतां शचीपतेः ।
अन्वमन्यन्त किंत्वेनां न
अदत्त युगयोर्युगम् ॥ नैषधीयचरितम् - 17 - 152 ॥
कलिं प्रति कलिं देवा देवान्प्रत्येकशः कलिः ।
सोपहासं समैर्वर्णैरित्थं
व्यरचयन् मिथः ॥ नैषधीयचरितम् - 17 - 153 ॥
तवाऽगमनमेवार्हं वैरसेनौ तया वृते ।
उद्वेगेन विमानेन किमनेनापि धावता ॥ नैषधीयचरितम् - 17 - 154 ॥
पुरा यासि वरीतुं यामग्र एव तया वृते ।
अन्यस्मिन्भवतो हास्यं वृत्तमेतत्त्रपाकरम् ॥ नैषधीयचरितम् - 17 - 155 ॥
पत्यौ तया वृतेऽन्यस्मिन्यदर्थं गतवानसि ।
भवतः कोपरोधः
स्तात् अक्षमस्य वृथारुषः ॥ नैषधीयचरितम् - 17 - 156 ॥
यासि स्मरञ्जयन्कान्त्या योजनौघं महार्वता ।
समूढस्तं वृतेऽन्यस्मिन्किं न हीस्तेऽत्र पामर ॥ नैषधीयचरितम् - 17 - 157 ॥
नलं प्रत्यनपेतार्ति तार्तीयीकतुरीययोः ।
युगयोर्युगलं बुद्ध्वा दिवि देवा धियं
दधुः ॥ नैषधीयचरितम् - 17 - 158 ॥
द्वापरैकपरीवारः कलिर्मत्सरमूर्च्छितः ।
नलनिग्राहिणीं यात्रां
जग्राह ग्रहिलः किल ॥ नैषधीयचरितम् - 17 - 159 ॥
नलेष्टापूर्तसम्पूर्तेर्दूरं दुर्गानमुं प्रति ।
निषेधन्निषधान्गन्तुं विघ्नः
सञ्जघटे घनः ॥ नैषधीयचरितम् - 17 - 160 ॥
मण्डलं निषाधेन्द्रस्य चन्द्रस्येवामलं कलिः ।
प्राप म्लापयितुं पापः स्वर्भानुरिव सङ्ग्रहात् ॥ नैषधीयचरितम् - 17 - 161 ॥
कियतापि च कालेन कालः कलिरुपेयिवान् ।
भैमीभर्तुरहंमानी राजधानीं महीभुजः ॥ नैषधीयचरितम् - 17 - 162 ॥
वेदानुद्धरतां तत्र मुखादाकर्णयन्पदम् ।
न प्रसारयितुं कालः कलिः पदम्
अपारयत् ॥ नैषधीयचरितम् - 17 - 163 ॥
श्रुतिपाठकवक्त्रेभ्यस्तत्राकर्णयतः क्रमम् ।
क्रमः सङ्कुचितस्तस्य पुरे दूरम्
अवर्तत ॥ नैषधीयचरितम् - 17 - 164 ॥
तावद्गतिर्धृताटोपा पादयोस्तेन संहिता ।
न वेदपाठिकण्ठेभ्यो यावदश्रावि संहिता ॥ नैषधीयचरितम् - 17 - 165 ॥
तस्य होमाज्यगन्धेन नासा नाशमिव
अगमत् ।
तथा
अतत दृशौ नासौ क्रतुधूमकदर्थितः ॥ नैषधीयचरितम् - 17 - 166 ॥
अतिथीनां पदाम्भोभिरिमं प्रत्यतिपिच्छिले ।
अङ्गणे गृहिणां तत्र खलेनानेन
चस्खले ॥ नैषधीयचरितम् - 17 - 167 ॥
पुटपाकमसौ
प्राप क्रतुशुष्ममहोष्मभिः ।
तत्प्रत्यङ्गमिव
अकर्ति पूर्तोर्मिव्यजनानिलैः ॥ नैषधीयचरितम् - 17 - 168 ॥
पितॄणां तर्पणे वर्णैः कीर्णाद्वेश्मनि वेश्मनि ।
कालादिव तिलात्कालाद्दूरम्
अत्रसत् अत्र सः ॥ नैषधीयचरितम् - 17 - 169 ॥
स्नातॄणां तिलकैः
मेने स्वमन्तर्दीर्णमेव सः ।
कृपाणीभूय हृदयं प्रविष्टैरिव तत्र तैः ॥ नैषधीयचरितम् - 17 - 170 ॥
पुमांसं
मुमुदे तत्र विदन्मिथ्यावदावदम् ।
स्त्रियं प्रति तथा वीक्ष्य तमथ म्लानवानयम् ॥ नैषधीयचरितम् - 17 - 171 ॥
यज्ञयूपघनां
जज्ञौ स पुरं शङ्कुसङ्कुलाम् ।
जनैर्धर्मधनैः कीर्णां व्यालक्रोडीकृतां च ताम् ॥ नैषधीयचरितम् - 17 - 172 ॥
स पार्श्वम्
अशकत् गन्तुं न वराकः पराकिणाम् ।
मासोपवासिनां छायालङ्घने घनम्
अस्खलत् ॥ नैषधीयचरितम् - 17 - 173 ॥
आवाहितां द्विजैस्तत्र गायत्रीमर्कमण्डलात् ।
स संनिदधतीं पश्यन्दृष्टनष्टः
अभवद् भिया ॥ नैषधीयचरितम् - 17 - 174 ॥
स गृहे गृहिभिः पूर्णे वने वैखानसैर्घने ।
यत्याधारेऽमरागारे क्वापि न स्थानम्
आनशे ॥ नैषधीयचरितम् - 17 - 175 ॥
क्वापि न
अपश्यत् अन्विष्यन्हिंसामात्मप्रियामसौ ।
स्वमित्त्रं तत्र न
प्राप्नोत् अपि मूर्खमुखे कलिम् ॥ नैषधीयचरितम् - 17 - 176 ॥
हिंसागवीं मखे वीक्ष्य रिरंसुः
धावति स्म सः ।
सा तु सौम्यवृषासक्ता खरं दूरात्
निरास तम् ॥ नैषधीयचरितम् - 17 - 177 ॥
मौनेन व्रतनिष्ठानां स्वाक्रोशं
मन्यते स्म सः ।
वन्द्यवन्दारुभिः
जज्ञौ स्व शिरश्च पदाहतम् ॥ नैषधीयचरितम् - 17 - 178 ॥
ऋषीणां स बृसीः पाणौ पश्यन्नाचामतामपः ।
मेने घनैरमी हन्तुं शप्तुं मामद्भिरुद्यताः ॥ नैषधीयचरितम् - 17 - 179 ॥
मौञ्जीधृतो धृताषाढान्
आशशङ्के स वर्णिनः ।
रज्ज्वामी बन्द्धुम्
आयान्ति हन्तुं दण्डेन मां ततः ॥ नैषधीयचरितम् - 17 - 180 ॥
दृष्ट्वा पुरः पुरोडाशम्
आसीत् उत्त्रासदुर्मनाः ।
मन्वानः फणिनीस्तत्र स
मुमोच अस्रु च स्रुचः ॥ नैषधीयचरितम् - 17 - 181 ॥
आनन्दत् मदिरादानं विन्दन्नेष द्विजन्मनः ।
दृष्ट्वा सौत्रामणीमिष्टिं तं कुर्वन्तम्
अदूयत ॥ नैषधीयचरितम् - 17 - 182 ॥
अपश्यत् यावतो वेदविदां ब्रह्माञ्जलीनसौ ।
उदडीयन्त तावन्तस्तस्यास्राञ्जलयो हृदः ॥ नैषधीयचरितम् - 17 - 183 ॥
स्नातकं घातकं
जज्ञे जज्ञौ दान्तं कृतान्तवत् ।
वाचंयमस्य दृष्ट्येव यमस्येव बिभाय सः ॥ नैषधीयचरितम् - 17 - 184 ॥
स पाखण्डजनान्वेषी प्राप्नुवन्वेदपण्डितान् ।
जलार्थीवानलं प्राप्य पापस्तापाद्
अपासरत् ॥ नैषधीयचरितम् - 17 - 185 ॥
तत्र ब्रह्महणं पश्यन्नतिसंतोषामानशे ।
निर्वर्ण्य सर्वमेधस्य यज्वानं
ज्वलति स्म सः ॥ नैषधीयचरितम् - 17 - 186 ॥
यतिहस्तस्थितैस्तस्य राम्भैः
आरम्भि तर्जना ।
दुर्जनस्य
अजनि क्लिष्टिर्गृहिणां वेदयष्टिभिः ॥ नैषधीयचरितम् - 17 - 187 ॥
मण्डलत्यागमेव
ऐच्छद् वीक्ष्य स्थण्डिलशायिनः ।
पवित्रालोकनादेष पवित्रासम्
अविन्दत ॥ नैषधीयचरितम् - 17 - 188 ॥
अपश्यत् जिनमन्विष्यन्नजिनं ब्रह्मचारिणा ।
क्षपणार्थी सदीक्षस्य स चाक्षपणम्
ऐक्षत ॥ नैषधीयचरितम् - 17 - 189 ॥
जपतामक्षमालासु बीजाकर्षणदर्शनात् ।
स जीवाकृष्टिकष्टानि विपरीतदृग्
अन्वभूत् ॥ नैषधीयचरितम् - 17 - 190 ॥
त्रिसन्ध्यं तत्र विप्राणां स पश्यन्नघमर्षणम् ।
वरम्
ऐच्छद् दृशोरेव निजयोरपकर्षणम् ॥ नैषधीयचरितम् - 17 - 191 ॥
अद्राक्षीत् तत्र किञ्चिन्न कलिः परिचितं क्वचित् ।
भैमीनलव्यलीकाणुप्रश्नकामः परिभ्रमन् ॥ नैषधीयचरितम् - 17 - 192 ॥
तपः स्वाध्याययज्ञानामकाण्डद्विष्टतापसः ।
स्वविद्विषां श्रियं तस्मिन्पश्यन्
उपतताप सः ॥ नैषधीयचरितम् - 17 - 193 ॥
कम्रं तत्रोपनम्राया विश्वस्या वीक्ष्य तुष्टवान् ।
स
मम्लौ तं विभाव्याथ वामदेव्याभ्युपासकम् ॥ नैषधीयचरितम् - 17 - 194 ॥
वैरिणी शुचिता तस्मै न प्रवेशं
ददौ भुवि ।
न वेदध्वनिरालम्बमम्बरे
विततार वा ॥ नैषधीयचरितम् - 17 - 195 ॥
दर्शस्य दर्शनात्कष्टमग्निष्टोमस्य च
आनशे ।
जुघूर्णे पौर्णमासेक्षी सोमं सः
अमन्यत अन्तकम् ॥ नैषधीयचरितम् - 17 - 196 ॥
तेन
अदृश्यन्त वीरघ्ना न तु वीरहणो जनाः ।
न
अपश्यत् सोऽभिनिर्मुक्ताञ्जीवन्मुक्तान्
अवैक्षत ॥ नैषधीयचरितम् - 17 - 197 ॥
स
तुतोष अश्नतो विप्रान्दृष्ट्वा स्पृष्टपरस्परान् ।
होमशेषीभवत्सोमभुजस्तान्वीक्ष्य दूनवान् ॥ नैषधीयचरितम् - 17 - 198 ॥
श्रुत्वा जनं रजोजुष्टं तुष्टिं
प्राप्नोत् झटित्यसौ ।
तं पश्यन्पावनस्नानावस्थं दुःस्थस्ततः
अभवत् ॥ नैषधीयचरितम् - 17 - 199 ॥
अधावत् क्वापि गां वीक्ष्य हन्यमानामयं मुदा ।
अतिथिभ्यस्तथा बुद्ध्वा मन्दो मन्दं
न्यवर्तत ॥ नैषधीयचरितम् - 17 - 200 ॥
हृष्टवान्स द्विजं दृष्ट्वा नित्यनैमित्तिकत्यजम् ।
यजमानं निरूप्यैनं दूरं दीनमुखः
अद्रवत् ॥ नैषधीयचरितम् - 17 - 201 ॥
आननन्द निरीक्ष्यायं पुरे तरात्मघातिनम् ।
सर्वस्वारस्य यज्वानमेनं दृष्ट्वाथ
विव्यथे ॥ नैषधीयचरितम् - 17 - 202 ॥
क्रतौ महाव्रते पश्यन्ब्रह्मचारीत्वरीरतम् ।
जज्ञौ यज्ञक्रियामज्ञः स भण्डाकाण्डताण्डवम् ॥ नैषधीयचरितम् - 17 - 203 ॥
यज्वभार्याश्वमेधाश्वलिङ्गालिङ्गिवराङ्गताम् ।
दृष्ट्वा
आचष्ट स कर्तारं श्रुतेर्भण्डमपण्डितः ॥ नैषधीयचरितम् - 17 - 204 ॥
अथ भीमजया जुष्टं
व्यलोकत कलिर्नलम् ।
दुष्टदृग्भिर्दुरालोकं प्रभयेव प्रभाप्रभुम् ॥ नैषधीयचरितम् - 17 - 205 ॥
तयोः सौहार्दसान्द्रत्वं पश्यन् शल्यमिव
आनशे ।
मर्मच्छेदमिव
आनर्च्छ स तन्नर्मोर्मिभिर्मिथः ॥ नैषधीयचरितम् - 17 - 206 ॥
अमर्षादात्मनो दोषात्तयोस्तेजस्वितागुणात् ।
स्प्रष्टुं दृशाप्यनीशस्तौ तस्मादपि
अचलत् कलिः ॥ नैषधीयचरितम् - 17 - 207 ॥
अगच्छत् आश्रयान्वेषी नलद्वेषी स निःश्वसन् ।
अभिरामं गृहारामं तस्य रामसमश्रियः ॥ नैषधीयचरितम् - 17 - 208 ॥
रक्षिलक्षवृतत्वेन बाधनं न तपोधनैः ।
मेने मानी मनाक्तत्र स्वानुकूलं कलिः किल ॥ नैषधीयचरितम् - 17 - 209 ॥
दलपुष्पफलैर्देवद्विजपूजाभिसन्धिना ।
स नलेनार्जितान्
प्राप तत्र नाक्रमितुं द्रुमान् ॥ नैषधीयचरितम् - 17 - 210 ॥
अथ सर्वोद्भिदासत्तिपूरणाय स रोपितम् ।
बिभीतकं
ददर्श एकं कुटं धर्मेऽप्यकर्मठम् ॥ नैषधीयचरितम् - 17 - 211 ॥
स तं नैषधसौधस्य निकटं निष्कुटध्वजम् ।
बहु
मेने निजं तस्मिन्कलिरालम्बनं वने ॥ नैषधीयचरितम् - 17 - 212 ॥
निष्पदस्य कलेस्तत्र स्थानदानाद्बिभीतकम् ।
कलिद्रुमः परं न
आसीत् आसीत् कल्पद्रुमोऽपि सः ॥ नैषधीयचरितम् - 17 - 213 ॥
ददौ पदेन धर्मस्य स्थातुमेकेन यत्कलिः ।
एकः सोऽपि तदा तस्य पदं
मन्ये अमिलत् ततः ॥ नैषधीयचरितम् - 17 - 214 ॥
उद्भिद्विरचितावासः कपोतादिव तत्र सः ।
राज्ञः साग्रेर्द्विजादस्मात्सन्तापं
प्राप दीक्षितात् ॥ नैषधीयचरितम् - 17 - 215 ॥
बिभीतकमधिष्ठाय तथाभूतेन तिष्ठता ।
तेन भीमभुवोऽभीकः स राजर्षिः
अधर्षि न ॥ नैषधीयचरितम् - 17 - 216 ॥
तमालम्बनमासाद्य वैदर्भीनिषाधेशयोः ।
कलुषं कलिरन्विष्यन्
अवात्सीत् वत्सरान्बहून् ॥ नैषधीयचरितम् - 17 - 217 ॥
यथा
आसीत् कानने तत्र विनिद्रकलिका लता ।
तथा नलच्छलासक्तिविनिद्रकलिकालता ॥ नैषधीयचरितम् - 17 - 218 ॥
दोषं नलस्य जिज्ञासुः
बभ्राम द्वापरः क्षितौ ।
अदोषः कोऽपि लोकस्य मुखेऽस्तीति दुराशया ॥ नैषधीयचरितम् - 17 - 219 ॥
अमुष्मिन्नारामे सततनिपतद्दोहदतया प्रसूनैरुन्निद्रैरनिशममृतांशुप्रतिभटे ।
असौ बद्धालम्बः कलिः
अजनि कादम्बविहगच्छदच्छायाभ्यङ्गोचितरुचितया लाञ्छनमृगः ॥ नैषधीयचरितम् - 17 - 220 ॥
स्फारे तादृशि वैरसेनिनगरे पुण्यैः प्रजानां घनं विघ्नं लब्धवतश्चिरादुपनतिस्तस्मिन्किला
आसीत् कलेः ।
एतस्मिन्पुनरन्तरेऽन्तरमितानन्दः स भैमीनलावाराद्धुं
व्यधित स्मरः श्रुतिशिखावन्दारुचूडं धनुः ॥ नैषधीयचरितम् - 17 - 221 ॥
श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः
सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
यातः सप्तदशः स्वसुः सुसदृशि छिन्दप्रशस्तेर्महाकाव्ये तद्भुवि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः ॥ नैषधीयचरितम् - 17 - 222 ॥
।। इति नैषधीयचरितमहाकाव्ये सप्तदशसर्गः ।।
अष्टादशसर्गः
सोऽयमित्थमथ भीमनन्दिनीं दारसारमधिगम्य नैषधः ।
तां तृतीयपुरुषार्थवारिधेः पारलम्भनतरीम्
अरीरमत् ॥ नैषधीयचरितम् - 18 - 1 ॥
आत्मवित्सह तया दिवानिशं भोगभागपि न पापमाप सः ।
आहृता हि विषयैकतानता ज्ञानधौतमनसं न
लिम्पति ॥ नैषधीयचरितम् - 18 - 2 ॥
न्यस्य मन्त्रिषु स राज्यमादराद्
आरराध मदनं प्रियासखः ।
नैकवर्णमणिकोटिकुट्टिमे हेमभूमिभृति सौधभूधरे ॥ नैषधीयचरितम् - 18 - 3 ॥
वीरसेनसुतकण्ठभूषणीभूतदिव्यमणिपङ्क्तिशक्तिभिः ।
कामनोपनमदर्थतागुणाद्यस्तृणीकृतसुपर्वपर्वतः ॥ नैषधीयचरितम् - 18 - 4 ॥
धूपितं यदुदरान्तरं चिरं मेचकैरगरुसारदारुभिः ।
जालजालधृतचन्द्रचन्दनक्षोदमेदुरसमीरशीतलम् ॥ नैषधीयचरितम् - 18 - 5 ॥
क्वापि कामशरवृत्तवर्तयो यं महासुरभितैलदीपिकाः ।
तेनिरे वितिमिरं स्मरस्फुरद्दोःप्रतापनिकराङ्कुरश्रियः ॥ नैषधीयचरितम् - 18 - 6 ॥
कुङ्कुमैणमदपङ्कलेपिताः क्षलिताश्च हिमवालुकाम्बुभिः ।
रेजुः अध्वततशैलजस्रजो यस्य मुग्धमणिकुट्टिमा भुवः ॥ नैषधीयचरितम् - 18 - 7 ॥
नैषधाङ्गपरिमर्दमेदुरामोदमार्दवमनोज्ञवर्णया ।
यद्भुवः क्वचन सूनशय्यया
अभाजि भालतिलकप्रगल्भता ॥ नैषधीयचरितम् - 18 - 8 ॥
क्वापि यन्निकटनिष्कुटस्फुरत्कोरकप्रकरसौरभोर्मिभिः ।
सान्द्रम्
आध्रियत भीमनन्दनानासिकापुटकुटीकुटुम्बिता ॥ नैषधीयचरितम् - 18 - 9 ॥
ऋद्धसर्वर्तुवृक्षवाटिकाकीरकृत्तसहकारशीकरैः ।
यज्जुषः स्म कुलमुख्यमाशुगः प्राणवातमुपदाभिः
अञ्चति ॥ नैषधीयचरितम् - 18 - 10 ॥
कुत्रचित्कनकनिर्मिताखिलः क्वापि यो विमलरत्नजः किल ।
कुत्रचिद्रचितचित्रशालिकः क्वापि चास्थिरविधैन्द्रजालिकः ॥ नैषधीयचरितम् - 18 - 11 ॥
चित्रतत्तदनुकार्यविभ्रमाधाय्यनेकविधरूपरूपकम् ।
वीक्ष्य यं बहु धुवञ्शिरो जरावातकी विधिः
अकल्पि शिल्पिराट् ॥ नैषधीयचरितम् - 18 - 12 ॥
भित्तिगर्भगृहगोपितैर्जनैर्यः कृताद्भुतकथादिकौतुकः ।
सूत्रयन्त्रजविशिष्टचेष्टयाश्चर्यसञ्जिबहुशालभञ्जिकः ॥ नैषधीयचरितम् - 18 - 13 ॥
तामसीष्वपि तमीषु भित्तिगै रत्नरश्मिभिरमन्द्रचन्द्रिकः ।
यस्तपेपि जलयन्त्रपातुकासारदूरधुततापतन्द्रिकः ॥ नैषधीयचरितम् - 18 - 14 ॥
यत्र पुष्पशरशास्त्रकारिकासारिकाध्युषितनागदन्तिका ।
भीमजानिषधसार्वभौमयोः
प्रत्यवैक्षत रते कृताकृते ॥ नैषधीयचरितम् - 18 - 15 ॥
यत्र मत्तकलविङ्कशीलिताश्लीलकेलिपुनरुक्तवत्तयोः ।
क्वापि दृष्टिभिः
अवापि वापिकोत्तंसहंसमिथुनस्मरोत्सवः ॥ नैषधीयचरितम् - 18 - 16 ॥
यत्र वैणरववैणवस्वरैर्हुङ्कृतैरुपवनीपिकालिनाम् ।
कङ्कणालिकलहैश्च नृत्यतां कुब्जितं सुरतकूजितं तयोः ॥ नैषधीयचरितम् - 18 - 17 ॥
सीत्कृतानि
अशृणुतां विशङ्कयोर्यत्प्रतिष्ठितरतिस्मरार्चयोः ।
जालकैरपवरान्तरेऽपि तौ त्याजितैः कपटकुड्यतां निशि ॥ नैषधीयचरितम् - 18 - 18 ॥
कृष्णसारमृगशृङ्गभङ्गुरा स्वादुरुज्ज्वलरसैकसारिणी ।
नानिशं
त्रुटति यन्मुखे पुरा किन्नरीविकटगीतिझङ्कृतिः ॥ नैषधीयचरितम् - 18 - 19 ॥
भित्तिचित्रलिखिताखिलक्रमा यत्र
तस्थुः इतिहाससङ्कथाः ।
पद्मनन्दनसुतारिरंसुतामन्दसाहसहसन्मनोभुवः ॥ नैषधीयचरितम् - 18 - 20 ॥
पुष्पकाण्डजयडिण्डिमायितं यत्रगौतमकलत्रकामिनः ।
पारदारिकविलाससाहसं देवभर्तुः
उदटङ्कि भित्तिषु ॥ नैषधीयचरितम् - 18 - 21 ॥
उच्चलत्कलरवालिकैतवाद्वैजयन्तविजयार्जिता जगत् ।
यस्य कीर्तिः
अवदायति स्म सा कार्तिकीतिथिनिशीथिनीस्वसा ॥ नैषधीयचरितम् - 18 - 22 ॥
गौरभानुगुरुगेहिनीस्मरोद्वृत्तभावमितिवृत्तमाश्रिताः ।
रेजिरे यदजिरेऽभिनीतिभिर्नाटिका भरतभारतीसुधा ॥ नैषधीयचरितम् - 18 - 23 ॥
शम्भुदारुवनसम्भुजिक्रियामाधवव्रजवधूविलासयोः ।
गुम्फितैरुशनसा सुभाषितैर्यस्य हाटकविटङ्कमङ्कितम् ॥ नैषधीयचरितम् - 18 - 24 ॥
अह्नि भानुभुवि दाशदारिकां यच्चरः परिचरन्तम्
उज्जगौ ।
कालदेशविषायासहात्स्मरादुत्सुकं शुकपितामहं शुकः ॥ नैषधीयचरितम् - 18 - 25 ॥
नीतमेव करलभ्यपारतामप्रतीर्य मुनयस्तपोर्णवम् ।
अप्सरःकुचघटावलम्बनात्स्थायिना क्वचन यत्र चित्रगाः ॥ नैषधीयचरितम् - 18 - 26 ॥
स्वामिना च वहता च तं मया स स्मरः सुरतवर्जनाज्जितः ।
योऽयमीदृगिति
नृत्यते स्म यत्केकिना मुरजनिस्वनैर्घनैः ॥ नैषधीयचरितम् - 18 - 27 ॥
यत्र वीक्ष्य नलभीमसं भवे मह्यतो रतिरतीशयोरपि ।
स्पर्धयेव जयतोर्जयाय ते कामकामरमणी
बभूवतुः ॥ नैषधीयचरितम् - 18 - 28 ॥
तत्र सौधसुरभूधरे तयोराविरासुरथ कामकेलयः ।
ये महाकविभिरप्यवीक्षिताः पांसुलाभिरपि ये न शिक्षिताः ॥ नैषधीयचरितम् - 18 - 29 ॥
पौरुषं दधति योषिता नले स्वामिनि श्रिततदीयभावया ।
यूनि शैशवमतीर्णया कियत्
प्रापि भीमसुतया न साध्वसम् ॥ नैषधीयचरितम् - 18 - 30 ॥
दूत्यसङ्गतिगतं यदात्मनः प्रागशिश्रवदियं प्रियं गिरः ।
तं विचिन्त्य विनयव्ययं ह्रिया न स्म
वेद करवाणि कीदृशम् ॥ नैषधीयचरितम् - 18 - 31 ॥
यत्तया सदसि नैषाधः स्वयं प्राग्वृतः सपदि वीतलज्जया ।
तन्निजं मनसिकृत्य चापलं सा
शशाक न विलोकितुं नलम् ॥ नैषधीयचरितम् - 18 - 32 ॥
आसने मणिमरीचिमांसले यां दिशं स परिरभ्य तस्थिवान् ।
तामसूयितवतीव मानिनी न
व्यलोकयत् इयं मनागपि ॥ नैषधीयचरितम् - 18 - 33 ॥
ह्रीसरन्निजनिमज्जनोचितं मौलिदूरनमनं दधानया ।
द्वारि चित्रयुवतिश्रिया तया भर्तृहूतिशतमश्रुतीकृतम् ॥ नैषधीयचरितम् - 18 - 34 ॥
वेश्म पत्युः
अविशत् न साध्वसाद्वेशितापि शयनं
बभाज न ।
भाजितापि सविधं न सा
अस्वपत् स्वापितापि न च संमुखा
अभवत् ॥ नैषधीयचरितम् - 18 - 35 ॥
केवलं न खलु भीमनन्दिनी दूरम्
अत्रपत नैषधं प्रति ।
भीमजाहृदि जितः स्त्रिया ह्रिया मन्मथोऽपि नियतं स लज्जितः ॥ नैषधीयचरितम् - 18 - 36 ॥
आत्मनापि हरदारसुन्दरी यत्किमपि
अभिललाष चेष्टितुम् ।
स्वामिना यदि तदर्थमर्थिता मुद्रितस्तदनया तदुद्यमः ॥ नैषधीयचरितम् - 18 - 37 ॥
ह्रीभराद्विमुखया तया भियं सञ्जितामननुरागशङ्किनि ।
स स्वचेतसि
लुलोप संस्मरन्दूत्यकालकलितं तदाशयम् ॥ नैषधीयचरितम् - 18 - 38 ॥
पार्श्वम् आगमि निजं सहालिभिस्तेन पूर्वमथ सा तयैकया ।
क्वापि तामपि नियुज्य मायिना स्वात्ममात्रसचिवावशेषिता ॥ नैषधीयचरितम् - 18 - 39 ॥
संनिधावपि निजे निवेशितामालिभिः कुसुमशस्त्रशास्त्रवित् ।
आनयत् व्यवधिमानिव प्रियामङ्कपालिवलयेन संनिधिम् । नैषधीयचरितम् - 18 - 40 ॥
प्राग्
अचुम्बद् अलिके ह्रियानतां तां क्रमाद्दरनतां कपोलयोः ।
तेन विश्वसितमानसां झटित्यानने स परिचुम्ब्य
सिष्मिये ॥ नैषधीयचरितम् - 18 - 41 ॥
लज्जया प्रथममेत्य हुङ्कृतः साध्वसेन बलिनाथ तर्जितः ।
किञ्चिदुच्छ्वसित एव तद्धृदि न्यग्
बभूव पुनरर्भकः स्मरः ॥ नैषधीयचरितम् - 18 - 42 ॥
वल्लभस्य भुजयोः स्मरोत्सवे दित्सतोः प्रसभमङ्कपालिकाम् ।
एककश्चिरम्
अरोधि बालया तल्पयन्त्रणनिरन्तरालया ॥ नैषधीयचरितम् - 18 - 43 ॥
हारचारिमविलोकने मृषाकौतुकं किमपि नाटयन्नयम् ।
कण्ठमूलमदसीयम्
अस्पृशत् पाणिनोपकुचधाविना धवः ॥ नैषधीयचरितम् - 18 - 44 ॥
यत्त्वया
अस्मि सदसि स्रजाञ्चितस्तन्मयापि भवदर्हणा
अर्हति ।
इत्युदीर्य निजहारमर्पयन्
अस्पृशत् स तदुरोजकोरकौ ॥ नैषधीयचरितम् - 18 - 45 ॥
नीविसीम्नि निहितं स निद्रया सुभ्रुवो निशि निषिद्धसंविदः ।
कम्पितं शयम् अपासयत् अयं दोलनैर्जनितबोधयाऽनया ॥ नैषधीयचरितम् - 18 - 46 ॥
स प्रियोरुयुगकञ्चुकांशुके न्यस्य दृष्टिमथ
सिष्मिये नृपः ।
आववार तदथाम्बराञ्चलैः सा निरावृतिरिव त्रपावृता ॥ नैषधीयचरितम् - 18 - 47 ॥
बुद्धिमान्व्यधित तां क्रमादयं किञ्चिदित्थमपनीतसाध्वसाम् ।
किञ्च तन्मनसि चित्तजन्मना ह्रीः
अनामि धनुषा समं मनाक् ॥ नैषधीयचरितम् - 18 - 48 ॥
सिष्मिये हसति न स्म तेन सा प्रीणितापि परिहासभाषणैः ।
स्वे हि
दर्शयति ते परेण कानर्ध्यदन्तकुरुविन्दमालिके ॥ नैषधीयचरितम् - 18 - 49 ॥
वीक्ष्य भीमतनयास्तनद्वयं मग्नहारमणिमुद्रयाङ्कितम् ।
सोढकान्तपरिरम्भगाढता सा तु
अमानि सुमुखी सखीजनैः ॥ नैषधीयचरितम् - 18 - 50 ॥
याचते स्म परिधापिकाः सखीः सा स्वनीविनिबिडक्रियां यदा ।
अन्वमिन्वत तदा विहस्य ता वृत्तमत्र पतिपाणिचापलम् ॥ नैषधीयचरितम् - 18 - 51 ॥
कुर्वती निचुलितं ह्रिया कियत्सौहृदाद्विवृतसौरभं कियत् ।
कुड्नलोन्मिषितसूनसेविनीं पद्मिनीं
जयति सा स्म पद्मिनी ॥ नैषधीयचरितम् - 18 - 52 ॥
नाविलोक्य नलमासितुं स्मरो ह्रीर्न वीक्षितुम्
अदात् मृगीदृशः।
तद्दृशः पतिदिशा
अचलन् अथ व्रीडिताः
समकुचन् मुहुः पथः ॥ नैषधीयचरितम् - 18 - 53 ॥
नाऽनया पतिः
अनायि नेत्रयोर्लक्ष्यतामपि परोक्षतामपि ।
वीक्ष्यते स खलु यद्विलोकने तत्र तत्र नयते ददानया ॥ नैषधीयचरितम् - 18 - 54 ॥
वासरे विरहनिःसहा निशां कान्तसङ्गसमयं
समैहत ।
सा ह्रिया निशि पुनर्दिनोदयं
वाञ्छति स्म पतिकेलिलज्जिता ॥ नैषधीयचरितम् - 18 - 55 ॥
तत्
करोमि परम्
अभ्युपैषि यन्मा ह्रियं
व्रज भियं
परित्यज ।
आलिवर्ग इव तेऽहमित्यमूं शश्वदाश्वसनमूचिवान्नलः ॥ नैषधीयचरितम् - 18 - 56 ॥
येन तन्मदनवह्निना स्थितं ह्रीमहौषधिनिरुद्धशक्तिना ।
सिद्धिमद्भिः
उदतेजि तैः पुनः स प्रियप्रियवचोभिमन्त्रणैः ॥ नैषधीयचरितम् - 18 - 57 ॥
यद्विधूय दयितार्पितं करं दोर्द्वयेन पिदधे कुचौ दृढम् ।
पार्श्वगं प्रियमपास्य सा ह्रिया तं हृदिस्थितमिव
आलिलिङ्ग तत् ॥ नैषधीयचरितम् - 18 - 58 ॥
अन्यद्
अस्मि भवतीं न याचिता वारमेकमधरं
धयामि ते ।
इति
असिस्वदत् उपांशुकाकुवाक्सोपमर्दहठवृत्तिरेव तम् ॥ नैषधीयचरितम् - 18 - 59 ॥
पीततावकमुखासवोऽधुना भृत्य एष निजकृत्यम्
अर्हति ।
तत्
करोमि भवदूरुमित्यसौ तत्र
संन्यधित पाणिपल्लवम् ॥ नैषधीयचरितम् - 18 - 60 ॥
चुम्बनादिषु
बभूव नाम किं तद्वृथा भियमिहापि मा
अकृथाः ।
इत्युदीर्य रसनावलिव्ययं
निर्ममे मृगदृशोऽयमादिमम् ॥ नैषधीयचरितम् - 18 - 61 ॥
अस्ति वाम्यभरम्
अस्ति कौतुकं सा
अस्ति घर्मजलम् अस्ति वेपथु ।
अस्ति भीति रतम्
अस्ति वाञ्छितं
प्रापत् अस्ति सुखम् अस्ति पीडनम् । नैषधीयचरितम् - 18 - 62 ॥
ह्रीस्तवेयमुचितैव यन्नवस्तावके मनसि मत्समागमः ।
तत्तु निस्त्रपमजस्रसङ्गमाद्वीडम्
आवहति मामकं मनः ॥ नैषधीयचरितम् - 18 - 63 ॥
इति
उपालभत सम्भुजिक्रियारम्भविघ्नघनलज्जितैर्जिताम् ।
तां तथा स चतुरोऽथ सा यथा त्रप्तुमेव तमनु त्रपाम्
अयात् ॥ नैषधीयचरितम् - 18 - 64 ॥
बाहुवक्त्रजघनस्तनाङ्घ्रितद्बन्धगन्धरतसङ्गतानतीः ।
इच्छुरुत्सुकजने दिने
अस्मि ते वीक्षिते ति
समकेति तेन सा ॥ नैषधीयचरितम् - 18 - 65 ॥
प्रातरात्मशयनाद्विनिर्यतीं संनिरुध्य यदसाध्यमन्यदा ।
तन्मुखार्पणमुखं सुखं भुवो जम्भजित्क्षितिशचीम्
अचीकरत् ॥ नैषधीयचरितम् - 18 - 66 ॥
नायकस्य शयनादहर्मुखे निर्गता मुदमुदीक्ष्य सुभ्रुवाम् ।
आत्मना निजनवस्मरोत्सवस्मारिणीयम् अहृणीयत स्वयम् ॥ नैषधीयचरितम् - 18 - 67 ॥
तां मिथोऽभिदधतीं सखीं प्रियस्यात्मनश्च स निशाविचेष्टितम् ।
पार्श्वगः सुरवरात्पिधां दधद्दृश्यतां श्रुतकथो हसन्गतः ॥ नैषधीयचरितम् - 18 - 68 ॥
चक्रदारविरहेक्षणक्षणे बिभ्यती धवहसाय सा
अभवत् ।
क्वापि वस्तुनि
वदति अनागतं चित्तमुद्यदनिमित्तवैकृतम् ॥ नैषधीयचरितम् - 18 - 69 ॥
चुम्बितं न मुखम्
आचकर्ष यत्पत्युरन्तरमृतं
ववर्ष तत् ।
सा
नुनोद न भुजं तदर्पितं तेन तस्य किम्
अभूत् न तर्पितम् ॥ नैषधीयचरितम् - 18 - 70 ॥
नीतयोः स्तनपिधानतां तया दातुम्
आप भुजयोः करं परम् ।
वीतबाहुनि ततो हृदंशुके केवलेऽप्यथ स तत्कुचद्वये ॥ नैषधीयचरितम् - 18 - 71 ॥
याचनान्न ददतीं नखक्षतं तां विधाय कथयाऽन्यचेतसम् ।
वक्षसि न्यसितुमात्ततत्करः स्वं
बिभेद मुमुदे स तन्नखैः ॥ नैषधीयचरितम् - 18 - 72 ॥
स प्रसह्य हृदयापवारकं हर्तुमक्षमत सुभ्रुवो बहिः ।
ह्रीमयं तु न तदीयमान्तरं तद्विनेतुम्
अभवत् प्रभुः प्रभुः ॥ नैषधीयचरितम् - 18 - 73 ॥
सा स्मरेण बलिनाऽप्यहापिता ह्रीक्षमे भृशम्
अशोभत अबला ।
भाति चापि वसनं विना नतु व्रीडधैर्यपरिवर्जनैर्जनः ॥ नैषधीयचरितम् - 18 - 74 ॥
आत्थ नेति रतयाचिनं न यन्मामतोऽनुमतवती
असि स्फुटम् ।
इत्यमुं तदभिलापनोत्सुकं धूनितेन शिरसा
निरास सा ॥ नैषधीयचरितम् - 18 - 75 ॥
या शिरोविधुतिः
आह नेति ते सा मया न किमियं
समाकलि ।
तन्निषेधसमसङ्ख्यता विधिं व्यक्तमेव तव
वक्ति वाञ्छितम् ॥ नैषधीयचरितम् - 18 - 76 ॥
न
आत्थ न
आत्थ शृणवानि ते न किं तेन वाचमिति तां निगद्य सः ।
सा स्म दूत्यगतम्
आह तं यथा तज्
जगाद मृदुभिस्तदुक्तिभिः ॥ नैषधीयचरितम् - 18 - 77 ॥
नीविसीम्नि निबिडं पुराऽरुणत्पाणिनाऽथ शिथिलेन तत्करम् ।
सा क्रमेण नननेति वादिनी विघ्नम्
आचरत् अमुष्य केवलम् ॥ नैषधीयचरितम् - 18 - 78 ॥
रूपवेषवसनाङ्गवासनाभूषणादिषु पृथग्विदग्धताम् ।
सान्यदिव्ययुवतिभ्रमक्षमां नित्यमेत्य तम्
अगात् नवा नवा ॥ नैषधीयचरितम् - 18 - 79 ॥
इङ्गितेन निजरागनीरधिं संविभाव्य चटुभिर्गुणज्ञताम् ।
भक्ततां च परिचर्ययाऽनिशं साधिकाधिकवशं
व्यधत्त तम् ॥ नैषधीयचरितम् - 18 - 80 ॥
स्वाङ्गमर्पयितुमेत्य वामतां रोषितं प्रियमथानुनीय सा ।
आतदीयहठसंबुभुक्षुतां न
अन्वमन्यत पुनस्तमर्थिनम् ॥ नैषधीयचरितम् - 18 - 81 ॥
आद्यसङ्गमसमादराणि
अधात् वल्लभाय ददती कथञ्चन ।
अङ्गकानि घनमानवामताव्रीडलम्भितदुरापतानि सा ॥ नैषधीयचरितम् - 18 - 82 ॥
पत्युरागिरिशमातरु क्रमात्स्वस्य चागिरिजमालतं वपुः ।
तस्य चार्हमखिलं पतिव्रता
क्रीडति स्म तप्सा विधाय सा ॥ नैषधीयचरितम् - 18 - 83 ॥
न स्थली न जलधिर्न काननं नाद्रिभूर्न विषायो न विष्टपम् ।
क्रीडिता न सह यत्र तेन सा सा विधैव न यया यया न वा ॥ नैषधीयचरितम् - 18 - 84 ॥
नम्रयांशुकविकर्षिणि प्रिये वक्त्रवातहतदीप्तदीपया ।
भर्तृमौलिमणिदीपितास्तया विस्मयेन ककुभो निभालिताः ॥ नैषधीयचरितम् - 18 - 85 ॥
कान्तमूर्ध्नि ददती पिधित्सया तन्मणेः श्रवणपूरमुत्पलम् ।
रन्तुमर्चनमिव
आचरत् पुरः सा स्ववल्लभतनोर्मनोभुवः ॥ नैषधीयचरितम् - 18 - 86 ॥
तं पिधाय मुदिताथ पार्श्वयोर्वीक्ष्य दीपमुभयत्र सा स्वयोः ।
चित्तम्
आप कुतुकाद्भुतत्रपातङ्कसङ्कटनिवेशितस्मरम् ॥ नैषधीयचरितम् - 18 - 87 ॥
एककस्य शमने परं पुनर्जाग्रतं शमितमप्यवेक्ष्य तम् ।
जातवह्निवरसंस्मृतिः शिरः सा विधूय
निमिमील केवलम् ॥ नैषधीयचरितम् - 18 - 88 ॥
पश्य भीरु न मयापि
दृश्यसे यन्निमीलितवती दृशावसि ।
इत्यनेन परिहस्य सा तमः संविधाय
समभोजि लज्जिता ॥ नैषधीयचरितम् - 18 - 89 ॥
चुम्ब्यसे अयमयम्
अङ्क्यसे नखैः
श्लिष्यसे अयमयम्
अर्प्यसे हृदि ।
नो पुनर्न
करवाणि ते गिरं हुं
त्यज त्यज तव
अस्मि किङ्करा ॥ नैषधीयचरितम् - 18 - 90 ॥
इत्यलीकरतकातरा प्रियं विप्रलभ्य सुरते ह्रियं च सा ।
चुम्बनादि
विततार मायिनी किं विदग्धमनसामगोचरः ॥ नैषधीयचरितम् - 18 - 91 ॥
स्वेप्सितोद्गमितमात्रलुप्तया दीपिकाचपलया तमोघने ।
निर्विशङ्करतजन्मतन्मुखाकूतदर्शनसुखानि
अभुङ्क्त सः ॥ नैषधीयचरितम् - 18 - 92 ॥
यद्भ्रुवौ कुटिलिते तया रते मन्मथेन तद्
अनामि कार्मुकम् ।
यत्तु हुंहुमिति सा तदा व्यधात्तत्स्मरस्य शरमुक्तिहुङ्कृतम् ॥ नैषधीयचरितम् - 18 - 93 ॥
ईक्षितोपदिशतीव नर्तितुं तत्क्षणोदितमुदं मनोभुवम् ।
कान्तदन्तपरिपीडिताधरा पाणिधूननमियं वितन्वती ॥ नैषधीयचरितम् - 18 - 94 ॥
सा
शशाक परिरम्भदायिनी गाहितुं बृहदुरः प्रियस्य न ।
चक्षमे च स न भङ्गुरभ्रुवस्तुङ्गपीनकुचदूरतां गतम् ॥ नैषधीयचरितम् - 18 - 95 ॥
बाहुवल्लिपरिरम्भमण्डली या परस्परम्
अपीडयत् तयोः ।
आस्त हेमनलिनीमृणालजः पाश एव हृदयेशयस्य सः ॥ नैषधीयचरितम् - 18 - 96 ॥
वल्लभेन परिरम्भपीडितौ प्रेयसीहृदि कुचौ
अवापतुः ।
केलतीमदनयोरुपाश्रये तत्र वृत्तमिलितोपधानताम् ॥ नैषधीयचरितम् - 18 - 97 ॥
भीमजोरुयुगलं नलार्पितैः पाणिजस्य मृदुभिः पदैः
बभौ ।
तत्प्रशस्ति रतिकामयोर्जयस्तम्भयुग्ममिव शातकुम्भजम् ॥ नैषधीयचरितम् - 18 - 98 ॥
बहु
अमानि विधिनापि तावकं नाभिमूरुयुगमन्तराङ्गकम् ।
स
व्यधाद् अधिकवर्णकैरिदं काञ्चनैर्यदिति तां पुरा
आह सः ॥ नैषधीयचरितम् - 18 - 99 ॥
पीडनय मृदुनी विगाह्य तौ कान्तपाणिनलिने स्पृहावती ।
तत्कुचौ कलशपीननिष्थुरौ हारहासविहते
वितेनतुः ॥ नैषधीयचरितम् - 18 - 100 ॥
यौ कुरङ्गमदकुङ्कुमाञ्चितौ नीललोहितरुचौ बधूकुचौ ।
स प्रियोरसि तयोः स्वयम्भुवोः
आचचार नखकिंशुकार्चनम् ॥ नैषधीयचरितम् - 18 - 101 ॥
अम्बुधेः कियदनुत्थितं विधुं स्वानुबिम्बमिलितं व्यडम्बयत् ।
चुम्बदम्बुजमुखीमुखं तदा नैषधस्य वदनेन्दुमण्डलम् ॥ नैषधीयचरितम् - 18 - 102 ॥
पूगभागबहुताकषायितैर्वासितैरुदयभास्करेण तौ ।
चक्रतुः निधुवनेऽधरामृतैस्तत्र साधुमधुपानविभ्रमम् ॥ नैषधीयचरितम् - 18 - 103 ॥
आह नाथवदनस्य चुम्बतः सा स्म शीतकरतामनक्षरम् ।
सीत्कृतानि सुदती वितन्वती सत्त्वदत्तपृथुवेपथुस्तदा ॥ नैषधीयचरितम् - 18 - 104 ॥
चुम्बनाय कलितप्रियाकुचं वीरसेनसुतवक्त्रमण्डलम् ।
प्राप भर्तुममृतैः सुधांशुना सक्तहाटकघटेन मित्त्रताम् ॥ नैषधीयचरितम् - 18 - 105 ॥
वीक्ष्य वीक्ष्य पुनः
ऐक्षि सा मुदा पर्यरम्भि
पर्यरम्भि चासकृत् ।
चुम्बिता पुनः
अचुम्बि चादरात्तृप्तिः
आपि न कथञ्चनापि च ॥ नैषधीयचरितम् - 18 - 106 ॥
छिन्नमप्यतनु हारमण्डलं मुग्धया सुरतलास्यकेलिभिः ।
न
व्यतर्कि सुदृशा चिरादपि स्वेदबिन्दुकितवक्षसा हृदि ॥ नैषधीयचरितम् - 18 - 107 ॥
यत्तदीयहृदि हारमौक्तिकैः
आसि तत्र गुण एव कारणम् ।
अन्यथा कथममुत्र वर्तितुं तैः
अशाकि न तदा गुणच्युतैः ॥ नैषधीयचरितम् - 18 - 108 ॥
एकवृत्तिरपि मौक्तिकावलिश्छिन्नहारविततौ तदा तयोः ।
छाययाऽन्यहृदये विभूषणं श्रान्तिवारिभरभाविते
अभवत् ॥ नैषधीयचरितम् - 18 - 109 ॥
वामपादतललुप्तमन्मथश्रीमदेन मुखवीक्षिणानिशम् ।
भुज्यमाननवयौवनामुना पारसीमनि
चचार सा मुदाम् ॥ नैषधीयचरितम् - 18 - 110 ॥
आन्तरानपि तदङ्गसङ्गमैस्तर्पितानवयवान्
अमन्यत ।
नेत्रयोरमृतसारपारणां तद्विलोकनम्
अचिन्तयत् नलः ॥ नैषधीयचरितम् - 18 - 111 ॥
बहु
अमन्यत विदर्भजन्मनो भूषणानि स दृशा न चेतसा ।
तैः
अभावि कियदङ्गदर्शने यत्पिधानमयविघ्नकारिभिः ॥ नैषधीयचरितम् - 18 - 112 ॥
योजनानि परिरम्भणेऽन्तरं रोमहर्षजमपि स्म
बोधतः ।
तौ निमेषमपि वीक्षणे मिथो वत्सरव्यवधिम्
अध्यगच्छताम् ॥ नैषधीयचरितम् - 18 - 113 ॥
वीक्ष्य भावमधिगन्तुमुत्सुकां पूर्वमच्छमणिकुट्टिमे मृदुम् ।
कोऽयमित्युदितसम्भ्रमीकृतां स्वानुबिम्बं
ददर्श तैष ताम् ॥ नैषधीयचरितम् - 18 - 114 ॥
तत्क्षणावहितभावभावितद्वादशात्मसितदीधितिस्थितिः ।
स्वां प्रियामभिमतक्षणोदयां भावलाभलघुतां
नुनोद सः ॥ नैषधीयचरितम् - 18 - 115 ॥
स्वेन भावजनने स तु प्रियां बाहुमूलकुचनाभिचुम्बनैः ।
निर्ममे रतरहःसमापनाशर्मसारसमसंविभागिनीम् ॥ नैषधीयचरितम् - 18 - 116 ॥
विश्लथैरवयवैर्निमीलया लोमभिर्द्रुतमितैर्विनिद्रताम् ।
सूचितं श्वसितसीत्कृतैश्च तौ भावमक्रमकम्
अध्यगच्छताम् ॥ नैषधीयचरितम् - 18 - 117 ॥
आस्त भावमधिगच्छतोस्तयोः संमदेषु करजक्षतार्पणा ।
फाणितेषु मरिचावचूर्णना सा स्फुटं कटुरपि स्पृहावहा ॥ नैषधीयचरितम् - 18 - 118 ॥
अर्धमीलितविलोलतारके सा दृशौ निधुवनक्लमालसा ।
यन्मुहूर्तम्
अवहत् न तत्पुनस्तृप्तिः
आस्त दयितस्य
पश्यतः ॥ नैषधीयचरितम् - 18 - 119 ॥
तत्क्लमस्तमदिदीक्षत क्षणं तालवृन्तचलनाय नायकम् ।
तद्विधा हि भवदैवतं प्रिया वेधसोऽपि
विदधाति चापलम् ॥ नैषधीयचरितम् - 18 - 120॥
स्वेदबिन्दुकितनासिकाशिखं तन्मुखं
सुखयति स्म नैषधम् ।
प्रोषिताधरशयालुयावकं सामिलुप्तपुलकं कपोलयोः ॥ नैषधीयचरितम् - 18 - 121 ॥
ह्रीणमेव पृथु सस्मरं कियत्क्लान्तमेव बहुनिर्वृतं मनाक् ।
कान्तचेतसि तदीयमाननं तत्तदा
अलभत लक्षमादरात् ॥ नैषधीयचरितम् - 18 - 122 ॥
स्वेदवारिपरिपूरितं प्रियारोमकूपनिवहं यथायथा ।
नैषधस्य दृग्
अपात् तथातथा चित्रम्
आपद् अपतृष्णतां न सा ॥ नैषधीयचरितम् - 18 - 123 ॥
वान्माल्यकचहस्तसंयमव्यस्तहस्तयुगया स्फुटीकृतम् ।
बाहुमूलमनया तदुज्ज्वलं वीक्ष्य सौख्यजलधौ
ममज्ज सः ॥ नैषधीयचरितम् - 18 - 124 ॥
वीक्ष्य पत्युरधरं कृशोदरी बन्धुजीवमिव भृङ्गसङ्गतम् ।
मञ्जुलं नयनकज्जलैर्निजैः संवरीतुम्
अशकत् स्मितं न सा ॥ नैषधीयचरितम् - 18 - 125 ॥
तां विलोक्य विमुखश्रितस्मितां पृच्छतः हसितहेतुमीशितुः ।
ह्रीमती
व्यतरद् उत्तरं वधूः पाणिपङ्करुहि दर्पणार्पणाम् ॥ नैषधीयचरितम् - 18 - 126 ॥
लाक्षयात्मचरणस्य चुम्बनाच्चारुभालमवलोक्य तन्मुखम् ।
सा ह्रिया नतनतानना
अस्मरत् शेषरागमुदितं पतिं निशः ॥ नैषधीयचरितम् - 18 - 127 ॥
स्वेदभाजि हृदयेऽनुबिम्बितं वीक्ष्य मूर्तमिव हृद्गतं प्रियम् ।
निर्ममे धुतरतश्रमं निजैर्ह्रीनतातिमृदुनासिकानिलैः ॥ नैषधीयचरितम् - 18 - 128 ॥
सूननायकनिदेशविभ्रमैरप्रतीतचरवेदनोदयम् ।
दन्दतंशमधरेऽधिगामुका सा
अस्पृशत् मृदु चमत्
चकार च ॥ नैषधीयचरितम् - 18 - 129 ॥
वीक्ष्य वीक्ष्य करजस्य विभ्रमं प्रेयसार्जितमुरोजयोरियम् ।
कान्तम्
ऐक्षत हसस्पृशं कियत्कोपकुञ्चितविलोचनाञ्चला ॥ नैषधीयचरितम् - 18 - 130 ॥
रोषरूषितमुखीमिव प्रियां वीक्ष्य भीतिदरकम्पिताक्षराम् ।
तां
जगाद स न
वेद्मि तन्वि तं ब्रूहि
शास्मि तव कोपरोपणाम् ॥ नैषधीयचरितम् - 18 - 131 ॥
रोषकुङ्कुमविलेपनान्मनाङ्गन्ववाचि कृशतन्ववाचि ते ।
अभूद् युक्तसमयैव रञ्जनामानने विधुबिधेयमानने ॥ नैषधीयचरितम् - 18 - 132 ॥
क्षिप्रम्
अस्यतु रुजा नखादिजास्तावकीरमृतसीकरं किरत् ।
एतदर्थमिदमर्थितं मया कण्ठचुम्बि मणिदाम कामदम् ॥ नैषधीयचरितम् - 18 - 133 ॥
स्वापराधम्
अलुपत् पयोधरे मत्करः सुरधनुष्करस्तव ।
सेवया व्यजनचालनाभुवा भूय एव चरणौ
करोतु वा ॥ नैषधीयचरितम् - 18 - 134 ॥
आननस्य मम चेदनौचिती निर्दयं दशनदंशदायिनः ।
शोध्यते सुदति वैरमस्य तत्किं त्वया
वद विदश्य नाधरम् ॥ नैषधीयचरितम् - 18 - 135 ॥
दीपलोपमफलं
व्यधत्त यस्त्वत्पटाहृतिषु मच्छिखामणिः ।
नो तदागसि परं समर्थना सोऽयम्
अस्तु पदपातुकस्तव ॥ नैषधीयचरितम् - 18 - 136 ॥
इत्थमुक्तिमुपहृत्य कोमलां तल्पचुम्बिचिकुरः
चकार सः ।
आत्ममौलिमणिकान्तिभङ्गिनीं तत्पदारुणसरोजसङ्गिनीम् ॥ नैषधीयचरितम् - 18 - 137 ॥
तत्पदाखिलनखानुबिम्बनैः स्वैः समेत्य समताम्
इयाय सः ।
रुद्रभूमविजिगीषया रतिस्वामिनोपदशमूर्तिताभृता ॥ नैषधीयचरितम् - 18 - 138 ॥
आख्यतैष
कुरु कोपलोपनं
पश्य नश्यति कृशा मधर्निशा ।
एतमेव तु निशान्तरे वरं रोषशेषम्
अनुरोत्स्यसि क्षणम् ॥ नैषधीयचरितम् - 18 - 139 ॥
साथ नाथम्
अनयत् कृतार्थतां पाणिगोपितनिजाङ्घ्रिपङ्कजा ।
तत्प्रणामधुतमानमाननं स्मेरमेव सुदती वितन्वती ॥ नैषधीयचरितम् - 18 - 140 ॥
तौ मिथो रतिरसायनात्पुनः संबुभुक्षुमनसौ
बभूवतुः ।
चक्षमे नतु तयोर्मनोरथं दुर्जनी रजनिरल्पजीवना ॥ नैषधीयचरितम् - 18 - 141 ॥
स्वप्नुमाप्तशयनीययोस्तयोः स्वैरम्
आख्यत वचः प्रियां प्रियः ।
उत्सवैरधरदानपानजैः सान्तरायपदमन्तरान्तरा ॥ नैषधीयचरितम् - 18 - 142 ॥
देवदूत्यमुपगम्य निर्दयं धर्मभीतिकृततादृशागसः ।
अस्तु सेयमपराधमार्जना जीवितावधि नलस्य वश्यता ॥ नैषधीयचरितम् - 18 - 143 ॥
स क्षाणः सुमुखि यत्त्वदीक्षणं तच्चराज्यमुरु येन रज्यसि ।
तन्नलस्य सुधयाभिषेचनं यत्त्वदङ्गपरिरम्भविभ्रमः ॥ नैषधीयचरितम् - 18 - 144 ॥
शर्म किं हृदि हरेः प्रियार्पणं किं शिवार्धघटने शिवस्य वा ।
कामये तव महेषु तन्वि तं नन्वयं सरिदुदन्वदन्वयम् ॥ नैषधीयचरितम् - 18 - 145 ॥
दीयतां मयि दृढा ममेति धीर्वक्तुमेवमवकाश एव कः ।
यद्विधूय तृणवद्दिवस्पतिं क्रीतवती
असि दयापणेन माम् ॥ नैषधीयचरितम् - 18 - 146 ॥
शृण्वता निभृतमालिभिर्भवद्वाग्विलासमसकृन्मया किल ।
मोघराघवविवर्ज्यजानकीश्राविणी भयचला
असि वीक्षिता ॥ नैषधीयचरितम् - 18 - 147 ॥
छुप्तपत्रविनिमीलितात्क्षुपात्कच्छपस्य धृतचापलात्पलात् ।
त्वत्सखीषु सरटाच्छिरोधुतः स्वं भियोऽभिदधतीषु वैभवम् ॥ नैषधीयचरितम् - 18 - 148 ॥
त्वं मदीयविरहान्मया निजां भीतिमीरितवती रहःश्रुता ।
नोज्झित
अस्मि भवतीं तदित्ययं
व्याहरद् वरमसत्यकातरः ॥ नैषधीयचरितम् - 18 - 149 ॥
सङ्गमय्य विरहे
अस्मि जीविका यैव वामथ रताय तत्क्षणम् ।
हन्त
दत्थः इति रुष्टयावयोर्निद्रयाऽद्य किमु न
उपसद्यते ॥ नैषधीयचरितम् - 18 - 150 ॥
ईदृशं
निगदति प्रिये दृशं संमदात्कियदियं
न्यमीमिलत् ।
प्रातः
आलपति कोकिले कलं जागरादिव निशः कुमुद्वती ॥ नैषधीयचरितम् - 18 - 151 ॥
मिश्रितोरु मिलिताधरं मिथः स्वप्नवीक्षितपरस्परक्रियम् ।
तौ ततोऽनु परिरम्भसंपुटैः पीडनां विदधतौ
निदद्रतुः ॥ नैषधीयचरितम् - 18 - 152 ॥
तद्यातायातरंहच्छलकलितरतश्रान्तिनिश्वासधाराजस्रव्यामिश्रभावस्फुटकथितमिथःप्राणभेदव्युदासम् ।
बालावक्षोजपत्राङ्कुरकरिमकरीं मुद्रितोर्वीन्द्रवक्षश्चिह्नाख्यातैकभावोभयहृदयम्
अगात् द्वन्द्वमानन्दनिद्राम् ॥ नैषधीयचरितम् - 18 - 153 ॥
श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः
सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
यातोऽस्मिन् शिवशक्तिसिद्धिभगिनीसौभ्रात्रभव्ये महाकाव्ये तस्य कृतौ नलीयचरिते सर्गोऽयमष्टादशः ॥ नैषधीयचरितम् - 18 - 154 ॥
।। इति नैषधीयचरितमहाकाव्ये अष्टादशसर्गः ।।
एकोनविंशसर्गः
निशि दशमितामालिङ्गन्त्यां विबोधविधित्सुभिर्निषधवसुधामीनाङ्कस्य प्रियाङ्कमुपेदुषः ।
श्रुतिमधुपदस्रग्वैदग्धीविभावितभाविकस्फुटरसभृशाभ्यक्ता वैतालिकैः
जगिरे गिरः ॥ नैषधीयचरितम् - 19 - 1 ॥
जय जय महाराज प्राभातिकीं सुषमामिमां सफलयत मां दानाडक्ष्णोर्दरालसपक्ष्मणी ।
प्रथमशकुनं शय्योत्थायं तव
अस्तु विदर्भजा प्रियजनमुखाम्भोजात्तुङ्गं यदङ्ग न मङ्गलम् ॥ नैषधीयचरितम् - 19 - 2 ॥
वरुणगृहिणीमाशामासादयन्तममुं रुचीनिचयसिचयांशांशभ्रंशक्रमेण निरंशुकम् ।
तुहिनमहसं पश्यन्तीव प्रसादमिषादसौ निजमुखमितः स्मेरं
धत्ते हरेर्महिषीहरित् ॥ नैषधीयचरितम् - 19 - 3 ॥
अमहतितरास्तादृक्तारा न लोचनगोचरास्तरणिकिरणा द्याम्
अञ्चन्ति क्रमादपरस्पराः ।
कथयति परिश्रातिं रात्री तमस्सहयुध्वनामयमपि दरिद्राणप्राणस्तमीदयितस्त्विषाम् ॥ नैषधीयचरितम् - 19 - 4 ॥
स्फुरति तिमिरस्तोमः पङ्कप्रपञ्च इवोच्चकैः पुरुसितगरुच्चञ्चच्चञ्चच्चञ्चूपुटस्फुटचुम्बितः ।
अपि मधुकरी कालिंमन्या
विराजति धूमलच्छविरिव रवेर्लाक्षालक्ष्मीं करैरतिपातुकैः ॥ नैषधीयचरितम् - 19 - 5 ॥
रजनिवमथुप्रालेयाम्भःकणक्रमसम्भृतैः कुशकिसलयस्याच्छैरग्रेशयैरुदबिन्दुभिः ।
सुषिरकुशलेनायःसूचीशिखाङ्कुरसङ्करं किमपि गमितान्यन्तर्मुक्ताफलानि
अनुमेनिरे ॥ नैषधीयचरितम् - 19 - 6 ॥
रविरुचिर्चामोकारेषु स्फुटामलबिन्दुतां गमयितुममूः
उच्चीयन्ते विहायसि तारकाः ।
स्वरविरचनायासामुच्चैरुदात्ततया हृताः शिशिरमहसो बिम्बादस्मादसंशयमंशवः ॥ नैषधीयचरितम् - 19 - 7 ॥
व्रजति कुमुदे दृष्ट्वा मोहं दृशोरपिधायके
भवति च नले दूरं तारापतौ च हतौजसि ।
लघु रघुपतेर्जायां मायामयीमिव रावणिस्तिमिरचिकुरग्राहं रात्रिं
हिनस्ति गभस्तिराट् ॥ नैषधीयचरितम् - 19 - 8 ॥
त्रिदशमिथुनक्रीडातल्पे विहायसि
गाहते निधुवनधुतस्रग्भागश्रीभरं ग्रहसङ्ग्रहः ।
मृदुतरकराकारैस्तूलोत्करैरुदरम्भरिः
परिहरति नाखण्डो गण्डोपधानविधां विधुः ॥ नैषधीयचरितम् - 19 - 9 ॥
दशशतचतुर्वेदीशाखाविवर्तनमूर्तयः सविधमधुना अलं
कुर्वन्ति ध्रुवं रविरश्मयः ।
वदनकुहरेऽप्यध्येतॄणामयं तद्
उदञ्चति श्रुतिपदभयस्तेषामेव प्रतिध्वनिरध्वनि ॥ नैषधीयचरितम् - 19 - 10 ॥
नयति भगवानम्भोजस्याऽनिबन्धनबान्धवः किमपि मघवप्रासादस्य प्रघाणमुपघ्नताम् ।
अपसरदरिध्वान्तप्रत्यग्वियत्पथमण्डलीलगनफलदश्रान्तस्वर्णाचलभ्रमविभ्रमः ॥ नैषधीयचरितम् - 19 - 11 ॥
नभसि महसां ध्वान्तध्वाङ्क्षप्रमापणपत्त्रिणामिह विहरणैः श्यैनम्पातां रवेरवधारयन् ।
शशविशसनत्रासादाशाम्
अगात् चरमां शशी तदधिगमनात्तारापारापतैः
उदडीयत ॥ नैषधीयचरितम् - 19 - 12 ॥
भृशम्
अबिभरुः तारा हाराच्च्युता इव मौक्तिकाः सुरसुरतजक्रीडालूनाद्द्युसद्वियदङ्गणम् ।
बहुकरकृतात्प्रातःसंमार्जनादधुना पुनर्निरुपधिनिजावस्थालक्ष्मीविलक्षणम्
ईक्ष्यते ॥ नैषधीयचरितम् - 19 - 13 ॥
प्रथममुपहृत्यार्घं तारैरखन्डिततण्डुलैस्तिमिरपरिषद्दूर्वापर्वावलीशबलीकृतैः ।
अथ रविरुचां ग्रासातिथ्यं नभः स्वविहारिभिः
सृजति शिशिरक्षोदश्रेणीमयैरुदसक्तुभिः ॥ नैषधीयचरितम् - 19 - 14 ॥
असुरहितमप्यादित्योत्थां विपत्तिमुपागतं दितिसुतगुरुः प्राणैर्योक्तुं न किं कचवत्तमः ।
पठति लुठतीं कण्ठे विद्यामयं मृतजीवनीं यदि न
वहते संध्यामौनव्रतव्ययभीरुताम् ॥ नैषधीयचरितम् - 19 - 15 ॥
उदयशिखरिप्रस्थान्यह्ना रणेऽत्र निशः क्षणे
दधति विहरत्पूषाण्यूष्मद्रुताश्मजतुस्रवान् ।
उदयदरुणप्रह्वीभावादरादरुणानुजे
मिलति किमु तत्सङ्गाच्छङ्क्या नवेष्टकवेष्टना ॥ नैषधीयचरितम् - 19 - 16 ॥
रविरथहयान् अश्वस्यन्ति ध्रुवं वडवा बलप्रतिबलबलावस्थायिन्यः समीक्ष्य समीपगान् ।
निजपरिवृढं गाढप्रेमा रथाङ्गविहङ्गमी स्मरशरपराधीनस्वान्ता वृषस्यति सम्प्रति ॥ नैषधीयचरितम् - 19 - 17 ॥
निशि निरशनाः क्षीरस्यन्तः क्षुधाऽश्वकिशोरका मधुरमधुरं
ह्रेषन्ते ते विलोलितवालधि ।
तुरगसमजः स्थानोत्थायं क्वणन्मणिमन्थभूधरभवशिलालेहायेहाचणो लवणस्यति ॥ नैषधीयचरितम् - 19 - 18 ॥
उडुपरिषदः किं नार्हत्वं निशः किमु नौचिती पतिरिह न यद्दृष्टस्ताभ्यां गणेयरुचीगणः ।
स्फुटमुडुपतेराश्मं वक्षः स्फुरन्मलिनाश्मनश्छवि यदनयोर्विच्छेदेऽपि द्रुतं बत न द्रुतम् ॥ नैषधीयचरितम् - 19 - 19 ॥
अरुणकिरणे वह्नौ लाजानुदूनि
जुहोति या
परिणयति तां सन्ध्यामेताम्
अवैमि मणिर्दिवः ।
इयमिव स एवाग्निभ्रान्तिं
करोति पुरा यतः करमपि न कस्तस्यैवोत्कः सकौतुकमीक्षितुम् ॥ नैषधीयचरितम् - 19 - 20 ॥
रतिरतिपतिद्वैतश्रीकौ धुरं बिभृमस्तरां प्रियवचसि यन्नग्नाचार्या वदामतमां ततः ।
अपि विरचितो विद्मः पुण्यद्रुहः खलु नर्मणः परुषमरुषे नैकस्यै वाम्
उदेतु मुदेऽपि तत् ॥ नैषधीयचरितम् - 19 - 21 ॥
भव लघुयुताकान्तः सन्ध्याम्
उपास्स्व तपोमल
त्वरयति कथं सन्ध्येयं त्वां न नाम निशानुजा ।
द्युतिपतिरथावश्यङ्कारी दिनोदयम्
आसिता हरिपतिहरित्पूर्णभ्रूणायिता कियतः क्षनान् ॥ नैषधीयचरितम् - 19 - 22 ॥
मुषितमनसश्चित्रं भैमि त्वयाद्य कलागृहैर्निषाधवसुधानाथस्यापि श्लथश्लथता विधौ ।
अजगणद् अयं सन्ध्यां वन्ध्यां विधाय न दूषणं नमसितुमना यन्नाम
स्यात् न सम्प्रति पूषणम् ॥ नैषधीयचरितम् - 19 - 23 ॥
न विदुषितरा कापि त्वतस्ततो नियतक्रियापतनदुरिते हेतुर्भर्तुर्मनस्विनि मा स्म
भूः ।
अनिशभवदत्यागादेनं जनः खलु कामुकीसुभगम्
अभिधास्यति उद्दामा पराङ्कवदावदः ॥ नैषधीयचरितम् - 19 - 24 ॥
रह सहचरीमेतां राजन्नपि स्त्रितमां क्षाणं तरणिकिरणैः स्तोकान्मुक्तैः
समालभते नभः ।
उदधिनिरयद्भास्वत्स्वर्णोदकुम्भदिदृक्षुतां
दधति नलिनं प्रस्थायिन्यः श्रियः कुमुदान्मुदा ॥ नैषधीयचरितम् - 19 - 25 ॥
प्रथमककुभः पान्थत्वेन स्फुटेक्षितवृत्रहाण्यनुपदमिह
द्रक्ष्यन्ति त्वां महांसि महस्पतेः ।
पटिमवहनादूहापोहक्षमाणि
वितन्वताम् अहह युवयोस्तावल्लक्ष्मीविवेचनचातुरीम् ॥ नैषधीयचरितम् - 19 - 26 ॥
अनतिशिथिले पुंभावेन प्रगल्भबलाः खलु प्रसभमलयः पाथोजास्ये निविश्य निरित्वराः ।
किमपि मुखतःकृत्वानीतं वितीर्य सरोज्नीमधुरसमुषोयोगे जायां नवान्नम्
अचीकरन् ॥ नैषधीयचरितम् - 19 - 27 ॥
मिहिरकिरणाभोगं भोक्तुं प्रवृत्ततया पुरः कलितचुलुकापोशानस्य ग्रहार्थमियं किमु ।
इति विकसितेनैकेन प्राग्दलेन सरोजिनी
जनयति मतिं साक्षात्कर्तुर्जनस्य दिनोदये ॥ नैषधीयचरितम् - 19 - 28 ॥
तटतरुखगश्रेणीसांराविणैरिव साम्प्रतं सरसि विगलन्निद्रामुद्रा
अजनिष्ट सरोजिनी ।
अधरसुधया मध्ये मध्ये वधूमुखलब्धया
धयति मधुपः स्वादुङ्कारं मधूनि सरोरुहाम् ॥ नैषधीयचरितम् - 19 - 29 ॥
गतचरदिनस्यायुर्भ्रंशे दयोदयसङ्कुचत्कमलमुकुलक्रोडान्नीडप्रवेशमुपेयुषाम् ।
इह मधुलिहां भिन्नेष्वम्भोरुहेषु समायतां सह सहचरैः
आलोक्यन्ते अधुना मधुपारणाः ॥ नैषधीयचरितम् - 19 - 30 ॥
तिमिरविरहात् पाण्डूयन्ते दिशः कृशतारकाः कमलहसितैः श्येनीव
उन्नीयते सरसी न का ।
शरणमिलितध्वान्तध्वंसिप्रभादरधारणाद्गगनशिखरं
नीलति एकं निजैरयशोभरैः ॥ नैषधीयचरितम् - 19 - 31 ॥
सरसिजवनान्युद्यत्पक्षार्यमाणि
हसन्तु न क्षतरुचिसुहृच्चन्द्रं तन्द्राम्
उपैतु न कैरवम् ।
हिमगिरिदृषद्दायादश्रि प्रतीतमदः स्मितं कुमुदविपिनस्याथो पाथोरुहैर्निजनिद्रया ॥ नैषधीयचरितम् - 19 - 32 ॥
धयतु नलिने माध्वीकं वा न वाभिनवागतः कुमुदमकरन्दौघैः कुक्षिम्भरिर्भ्रमरोत्करः ।
इह तु
लिहते रात्रीतर्षं रथाङ्गविहङ्गमा मधु निजवधूवक्त्राम्भोजेऽधुनाधरनामकम् ॥ नैषधीयचरितम् - 19 - 33 ॥
जगति मिथुने चक्रावेव स्मरागमपारगौ नवमिव मिथः
सम्भुञ्जाते वियुज्य वियुज्य यौ ।
सततममृतादेवाहाराद्युदापदरोचकं तदमृतभुजां भर्ता शम्भुर्विषां
बुभुजे विभुः ॥ नैषधीयचरितम् - 19 - 34 ॥
विशति युवतित्यागे रात्रीमुचं मिहिकारुचं दिनमणिमणिं तापे चित्तान्निजाच्च यियासति ।
विरहतरलज्जिह्वा बहु
आह्वयन्ति अतिविह्वलामिह सहचरीं नामग्राहं रथाङ्गविहङ्गमाः ॥ नैषधीयचरितम् - 19 - 35 ॥
स्वमुकुलमयैर्नेत्रैरन्धम्भविष्णुतया जनः किमु कुमुदिनीं
दुर्व्याचष्टे रवेरनवेक्षिकाम् ।
लिखितपठिता राज्ञो दाराः कविप्रतिभासु ये
शृणुत शृणुतासूर्यंपश्या न सा किल भाविनी ॥ नैषधीयचरितम् - 19 - 36 ॥
चुलुकिततमःसिन्धोर्भृङ्गैः करादिव
शुभ्यते नभसि बिसिनीबन्धोरन्ध्रच्युतैरुदविन्दुभिः ।
शतदलमधुस्रोतःकच्छद्वयीपरिरम्भणादनुपदमदःपङ्काशङ्काममी मम
तन्वते ॥ नैषधीयचरितम् - 19 - 37 ॥
घुसृणसुमनःश्रेणीश्रीणामनादरिभिः सरःपरिसरचरैर्भासां भर्तुः कुमारतरैः करैः ।
अजनि जलजामोदानन्दोत्पतिष्णुमधुव्रता बलिशबलनाद्गुञ्जापुञ्जश्रियं हृगयालुभिः ॥ नैषधीयचरितम् - 19 - 38 ॥
रचयति रुचिः शोणीमेतां कुमारितरा रवेर्यदलिपटली नीलीकर्तुं
व्यवस्यति पातुका ।
अजनि सरसी कल्माषी तद्ध्रुवं धवलस्फुटत्कवलकलिकाषण्डैः पाण्डूकृतोदरमण्डला ॥ नैषधीयचरितम् - 19 - 39 ॥
कमलकुशलाधाने भानोरहो पुरुषाव्रतं यदुपकुरुते नेत्राणि श्रीगृहत्वविवक्षुभिः ।
कविभिरुपमानादप्यम्भोजतां गमितान्यसावपि यदतथाभावान्
मुञ्चति उलूकविलोचने ॥ नैषधीयचरितम् - 19 - 40 ॥
यदतिमहती भक्तिर्भानौ तदेनमुदित्वरं त्वरितम्
उपतिष्ठस्व अध्वन्य त्वमध्वरपद्धतेः ।
इह हि समये मन्देहेषु
व्रजन्ति उदवज्रतामभि रविमुपस्थानोत्क्षिप्ता जलाञ्जलयः किल ॥ नैषधीयचरितम् - 19 - 41 ॥
उदयशिखरिप्रस्थावस्थायिनी खनिरक्षाया शिशुतरमहोमाणिक्यानामहर्मणिमण्डली ।
रजनिदृषदं ध्वान्तश्यामां विधूय पिधायिकां न खलु कतमेनेयं
जाने जनेन विमुद्रिता ॥ नैषधीयचरितम् - 19 - 42 ॥
सुरपरिवृढः कर्णात्
प्रत्यग्रहीत् किल कुण्डलद्वयमथ खलु प्राच्यै
प्रादात् मुदा स हि तत्पतिः ।
विधुरुदयभागेकं तत्र
व्यलोकि विलोक्यते नवतरकरस्वर्णस्रावि द्वितीयमहर्मणिः ॥ नैषधीयचरितम् - 19 - 43 ॥
दहनम्
अविशद् दीप्तिर्यास्तं गते गतवासरप्रशमसमयप्राप्ते पत्यौ विवस्वति रागिणि ।
अधरभुवनात्सोद्धृत्यैषा हठात्तरणेः कृतामरपतिपुरप्राप्तिः
धत्ते सतीव्रतमूर्तिताम् ॥ नैषधीयचरितम् - 19 - 44 ॥
बधुजनकथा तथ्यैवेयं तनौ तनुजन्मनः पितृशितिहरिद्वर्णाद्याहारजः किल कालिमा ।
शमनयमुनाक्रोडैः कालैरितस्तमसां पिबादपि यदमलच्छायात्कायाद्
अभूयत भास्वतः ॥ नैषधीयचरितम् - 19 - 45 ॥
अभजत चिराभ्यासं देवः प्रतिक्षणदात्यये दिनमयमयं कालं भूयः प्रसूय तथा रविः ।
न खलु शकिता शीलं कालप्रसूतिरसौ पुरा यमयमुनयोर्जन्माधानेष्यनेन यथोज्झितुम् ॥ नैषधीयचरितम् - 19 - 46 ॥
रुचिरचरणः सूतोरुश्रीसनाथरथः शनिं शमनमपि स त्रातुं लोकानसूत सुताविति ।
रथपदकृपासिन्धुर्बन्धुर्दृशामपि दुर्जनैर्यदुपहसितो भास्वान्नास्मान्
हसिष्यति कः खलः ॥ नैषधीयचरितम् - 19 - 47 ॥
शिशिरजरुजां घर्मं शर्मोदयाय तनूभृतामथ खरकरश्यानास्यानां
प्रयच्छति यः पयः ।
जलभयजुषां तापं तापस्पृशां हिममित्ययं परहितमिलत्कृत्यावृत्तिः स भानुः
उदञ्चति ॥ नैषधीयचरितम् - 19 - 48 ॥
इह न कतमश्चित्रं
धत्ते तमिस्रततीर्दिशामपि चतसृणामुत्सङ्गेषु श्रिता धयतां क्षणात् ।
तरुशरणतामेत्य च्छायामयं निवसत्तमः शमयितुम्
अभूत् आनैश्वर्यं यदर्यमरोचिषाम् ॥ नैषधीयचरितम् - 19 - 49 ॥
जगति तिमिरं मूर्च्छामब्जव्रजेऽपि चिकित्सतः पितुरिव निजाद्दस्रावस्मादधीत्य भिषाज्यतः ।
अपिच शमनस्यासौ तातस्ततः किमु नौचिती यदयमदयः कह्लाराणाम्
उदेति अपमृत्यवे ॥ नैषधीयचरितम् - 19 - 50 ॥
उडुपरिवृढः पत्या मुक्तामयं यदपीडयद्यदपि बिसिनीं भानोर्जायां
जहास कुमुद्वती ।
तदुभयमतः
शङ्के सङ्कोचितं निजशङ्कया
प्रसरति नवार्के कर्कन्धूफलारुणरोचिषि ॥ नैषधीयचरितम् - 19 - 51 ॥
श्रुतिमयतनोर्भानोर्जानेऽवनेरधराढ्वना विहरणकृतः शाखा साक्षाच्छतानि दश त्विषाम् ।
निशि निशि सहस्राभ्यां दृग्भिः
शृणोति सहस्वराः पृथगहिपतिः
पश्यति अस्याक्रमेण च भास्वराः ॥ नैषधीयचरितम् - 19 - 52 ॥
बहुनखरता येषामग्रे खलु
प्रतिभासते कमलसुहृदस्तेऽमी भानोः प्रवालरुचः कराः ।
उचितमुचितं जालेष्वन्तःप्रवेशिभिरायतैः कियदवयवैरेषामालिङ्गिताङ्गुलिलङ्गिमा ॥ नैषधीयचरितम् - 19 - 53 ॥
नय नयनयोर्द्राक्पेयत्वं प्रविष्टवतीरमूर्भवनवलभीजालान्नाला इवार्ककराङ्गुलीः ।
भ्रमदणुगणक्रान्ता
भान्ति भ्रमन्त्य इवाशु याः पुनरपि धृता कुन्दे किंवा न वर्धकिना दिवः ॥ नैषधीयचरितम् - 19 - 54 ॥
दिनमिव दिवाकीर्तिस्तीक्ष्णैः क्षुरैः सवितु करैः स्तिमिरकबरीलूनां कृत्वा निशां
निरदीधरत् ।
स्फुरति परितः केशस्तोमैस्ततः पतयालुभिर्ध्रुवमधवलं तत्तच्छायच्छलादवनीतलम् ॥ नैषधीयचरितम् - 19 - 55 ॥
ब्रूमः शङ्खं तव नल यशः श्रेयसे सृष्टशब्दं यत्सोदर्यं स दिवि लिखितः स्पष्टमस्ति द्विजेन्द्रः ।
अद्धा श्रद्धाकरमिह करच्छेदमप्यस्य पश्य म्लानिस्थानं तदपि नितरां हारिणो यः कलङ्कः ॥ नैषधीयचरितम् - 19 - 56 ॥
ताराशङ्खविलोपकस्य जलजं तीक्ष्णत्विषो भिन्दतः सारम्भं चलता करेण निबिडां निष्पीडनां लम्भितः ।
छेदार्थापहृताम्बुकम्बुजरजोजम्बालपाण्डुभवच्छङ्खच्छित्करपत्त्रतामिह
वहति अस्तङ्गतार्धो विधुः ॥ नैषधीयचरितम् - 19 - 57 ॥
जलजभिदुरीभावं प्रेप्सुः करेण
निपीडयति अशिशिरकरस्ताराशङ्खप्रपञ्चविलोपकृत् ।
रजनिरमणस्यास्तक्षोणीधरार्धपिधावशाद्दधतमधुना बिम्बं कम्बुच्छिदः करपत्रताम् ॥ नैषधीयचरितम् - 19 - 58 ॥
यत्पाथोजविमुद्रणप्रकरणे निर्निद्रयति अंशुमान्दृष्टीः
पूरयति स्म यज्जलरुहामक्ष्णा सहस्रं हरिः ।
साजात्यं सरसीरुहामपि दृशामपि
अस्ति तद्वास्तवं यन्मूलाद्रियतेतरां कविनृभिः पद्मोपमा चक्षुषः ॥ नैषधीयचरितम् - 19 - 59 ॥
अवैमि कमलाकरे निखिलयामिनीयामिकश्रियं
श्रयति यत्पुरा विततपत्त्रनेत्रोदरम् ।
तदेव कुमुदं पुनर्दिनमवाप्य नर्भभ्रमद्द्विरेफरवघोरणाघनम्
उपैति निद्रामुदम् ॥ नैषधीयचरितम् - 19 - 60 ॥
इह किमुषसि पृच्छाशंसिकिंशब्दरूपप्रतिनियमितवाचा वायसेनैष पृष्टः ।
भण फणिभवशास्त्रे तातणः स्थानिनौ काविति विहिततुहीवागुत्तरः कोकिलः
अभूत् ॥ नैषधीयचरितम् - 19 - 61 ॥
दाक्षीपुत्रस्य तन्त्रे ध्रुवमयम्
अभवत् कोऽप्यधीती कपोतः कण्ठे शब्दौघसिद्धिक्षतबहुकठिनीशेषभूषानुयातः ।
सर्वं विस्मृत्य दैवात्स्मृतिमुषसि गतां घोषयन्यो घुसंज्ञां प्राक्संस्कारेण सम्प्रत्यपि
धुवति शिरः पट्टिकापाठजेन ॥ नैषधीयचरितम् - 19 - 62 ॥
पौरस्त्यायां घुसृणमसृणश्रीजुषो वैजयन्त्याः स्तोमैश्चित्तं हरिति
हरति क्षीरकण्ठैर्मयूखैः ।
भानुर्जाम्बूनदतनुरसौ शक्रसौधस्य कुम्भः स्थाने पानं तिमिरजलधेर्भाभिरेतद्भवाभिः ॥ नैषधीयचरितम् - 19 - 63 ॥
द्वित्रेरेव तमस्तमालगहनग्रासे दवीभावुकैरुस्रैरस्य सहस्रपत्त्रसदसि
व्यश्राणि घस्रोत्सवः ।
घर्माणां रयचुम्बितं
वितनुते तत्पिष्टपिष्टीकृतक्ष्मादिग्व्योमतमोघमोघमधुना मोघं निदाघद्युतिः ॥ नैषधीयचरितम् - 19 - 64 ॥
दूरारूढस्तिमिरजलधेर्वाडवश्चित्रभानुर्भानुस्ताम्यद्वनरुहवनीकेलिवैहासिकोऽयम् ।
न स्वात्मीयं किमिति
दधते भास्वरश्वेतिमानं द्यामद्यापि द्युमणिकरणश्रेणयः शोणयन्ति ॥ नैषधीयचरितम् - 19 - 65 ॥
प्रातर्वर्णनयानया निजवपुर्भूषाप्रसादान्
अदात् देवी वः परितोषितेति निहितामान्तःपुरीभिः पुरः ।
सूता मण्डनमण्डलीं
परिदधुः माणिक्यरोचिर्मयक्रोधावेगसरागलोचनरुचा दारिद्र्यविद्राविणीम् ॥ नैषधीयचरितम् - 19 - 66 ॥
आगच्छन् भणतामुषाः क्षाणमथातिथ्यं दृशोः
आनशे स्वर्गङ्गाम्बुनि बन्दिनी कृतदिनारम्भाप्लुतिर्भूपतिः ।
आनन्दादतिपुष्पकं रथमधिष्ठाय प्रियायौतके प्राप्तं तैरवरागतैरविदितप्रासादतो निर्गमः ॥ नैषधीयचरितम् - 19 - 67 ॥
श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः
सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
एकामत्यजतो नवार्थघटनामेकान्नविंशो महाकाव्ये तस्य कृतौ नलीयचरिते सर्गोऽयमस्मिन्
अगात् ॥ नैषधीयचरितम् - 19 - 68 ॥
।। इति नैषधीयचरितमहाकाव्ये एकोनविंशसर्गः ।।
विंशसर्गः
सौधाद्रिकुट्टिमानेकधातुकाधित्यकातटम् ।
स
प्राप रथपाथोभृद्वातजातजवो दिवः ॥ नैषधीयचरितम् - 20 - 1 ॥
ततः
प्रत्युदगाद् भैमी कान्तमायान्तमन्तिकम् ।
प्रतीचीसिन्धुवीचीव दिनोङ्कारे सुधाकरम् ॥ नैषधीयचरितम् - 20 - 2 ॥
स दूरमादरं तस्या वदने मदनैकदृक् ।
दृष्टमन्दाकिनीहेमारविन्दश्रीः
अविन्दत ॥ नैषधीयचरितम् - 20 - 3 ॥
तेन स्वर्देशसन्देशमर्षितं सा करोदरे ।
बभ्राजे बिभ्रती पद्मं पद्मेवोन्निद्रपद्मदृक् ॥ नैषधीयचरितम् - 20 - 4 ॥
प्रियेणाल्पमपि प्रत्तं बहु मेनेतरामसौ ।
एकलक्षतया
दध्यौ यत्तमेकवराटकम् ॥ नैषधीयचरितम् - 20 - 5 ॥
प्रेयसावादि सा तन्वि त्वदालिङ्गनविघ्नकृत् ।
समाप्यतां विधिः शेषः क्लेशश्चेतसि चेन्न ते ॥ नैषधीयचरितम् - 20 - 6 ॥
क्वैतावान्नर्ममर्माविद्
विद्यते विधिरद्य ते ।
इति तं मनसा रोषाद्
अवोचत् वचसा न सा ॥ नैषधीयचरितम् - 20 - 7 ॥
क्षणविच्छेदकादेव विधेर्मुग्धे
विरज्यसि ।
विच्छेत्ताहे न चिरं त्वेति हृदा
आह स्म तदा कलिः ॥ नैषधीयचरितम् - 20 - 8 ॥
सावज्ञेवाथ सा राज्ञः सखीं पद्ममुखीम्
अगात् ।
लक्ष्मीः कुमुदकेदारादारादम्भोजिनीमिव ॥ नैषधीयचरितम् - 20 - 9 ॥
ममासावपि मा सम्भूत्कलिद्वापरवत्परः ।
इतीव नित्यसत्रेतां स त्रेतां
पर्यतूतुषत् ॥ नैषधीयचरितम् - 20 - 10 ॥
क्रियां प्राह्णेतनीं कृत्वा निषेधन्पाणिना सखीम् ।
कराभ्यां पृष्ठगस्तस्या
न्यमिमीलद् असौ दृशौ ॥ नैषधीयचरितम् - 20 - 11 ॥
दमयन्त्या वयस्याभिः सहास्याभिः समीक्षितः ।
प्रसृतिभ्यामिवायामं मापयन्प्रेयसीदृशोः ॥ नैषधीयचरितम् - 20 - 12 ॥
तर्कितालि त्वमित्यर्धवाणीका पाणिमोचनात् ।
ज्ञातस्पर्शान्तरा मौनम्
आनशे मानसेविनी ॥ नैषधीयचरितम् - 20 - 13 ॥
सा
अवाचि सुतनुस्तेन कोपस्ते नायमौचिती ।
त्वां प्रापं यत्प्रसादेन प्रिये तन्न
आद्रिये तपः ॥ नैषधीयचरितम् - 20 - 14 ॥
निशि दास्यं गतोऽपि त्वां स्नात्वा यन्नाभ्यवीवदम् ।
तं प्रवृत्ता
असि मन्तुं चेन्मन्तुं तद्
वद वन्द्यसे ॥ नैषधीयचरितम् - 20 - 15 ॥
इत्येतस्याः पदासत्त्यै पत्यैष प्रेरितौ करौ ।
रुद्ध्वा सकोपं सातङ्कं तं कटाक्षैः
अमूमुहत् ॥ नैषधीयचरितम् - 20 - 16 ॥
अवोचत ततस्तन्वीं निषधानामधीश्वरः ।
तदपाङ्गचलत्तारझलत्कारवशीकृतः ॥ नैषधीयचरितम् - 20 - 17 ॥
कटाक्षकपटारब्धदूरलङ्घनरंहसा ।
दृशा भीत्या निवृत्तं ते कर्णकूपं निरूप्य किम् ॥ नैषधीयचरितम् - 20 - 18 ॥
सरोषापि सरोजाक्षि त्वम्
उदेषि मुदे मम ।
तप्तापि शतपत्रस्य सौरभायैव सौरभा ॥ नैषधीयचरितम् - 20 - 19 ॥
छेत्तुमिन्दौ भवद्वक्त्रबिम्बविभ्रमविभ्रमम् ।
शङ्के शशाङ्कम्
आनङ्के भिन्नभिन्नविधिर्विधिः ॥ नैषधीयचरितम् - 20 - 20 ॥
ताम्रपर्णीतटोत्पन्नैर्मौक्तिकैरिन्दुकुक्षिजैः ।
बद्धस्पर्धतरा वर्णाः प्रसन्नाः स्वादवस्तव ॥ नैषधीयचरितम् - 20 - 21 ॥
त्वद्गिरः क्षीरपाथोधेः सुधयैव सहोत्थिताः ।
अद्ययावदहो धावद्दुग्धलेपलवस्मिताः ॥ नैषधीयचरितम् - 20 - 22 ॥
पूर्वपर्वतमाश्लिष्टचन्द्रिकश्चन्द्रमा इव ।
अलं
चक्रे स पर्यङ्कमङ्कसङ्क्रमिताप्रियः ॥ नैषधीयचरितम् - 20 - 23 ॥
प्रावृडारम्भणाम्भोदः स्निग्धां द्यामिव स प्रियाम् ।
परिरभ्य चिराय
आस विश्लेषायासमुक्तये ॥ नैषधीयचरितम् - 20 - 24 ॥
चुचुम्ब अस्यमसौ तस्या रसमग्नः श्रितस्मितम् ।
नभोमणिरिवाम्भोजं मधुमध्यानुबिम्बितः ॥ नैषधीयचरितम् - 20 - 25 ॥
अथाहूय कलां नाम पाणिना स प्रियासखीम् ।
पुरस्ताद्वेशिताम्
ऊचे कर्तुं नर्मणि साक्षिणीम् ॥ नैषधीयचरितम् - 20 - 26 ॥
कस्मादस्माकमब्जास्य वयस्या
दयते न ते ।
आसक्ता भवतीष्वन्यं
मन्ये न बहु
मन्यते ॥ नैषधीयचरितम् - 20 - 27 ॥
अन्वग्राहि मया प्रेयान्निशि स्वोपनयादिति ।
न
विप्रलभते तावदालीरियमलीकवाक् ॥ नैषधीयचरितम् - 20 - 28 ॥
आह स्मैषा नलादन्यं न
जुषे मनसेति यत् ।
यौवनानुमितेनास्यास्तन्मृषा
अभूत् मनोभुवा ॥ नैषधीयचरितम् - 20 - 29 ॥
आस्यसौन्दर्यमेतस्याः
शृणुमः यदि
भाषसे ।
तद्धि लज्जानमन्मौलेः परोक्षमधुनापि नः ॥ नैषधीयचरितम् - 20 - 30 ॥
पूर्णयैव द्विलोचन्या सैषालीरवलोकते ।
द्राग्दृगन्ताणुना मां तु मन्तुमन्तमिव
ईक्षते ॥ नैषधीयचरितम् - 20 - 31 ॥
न
आलोकते यथेदानीं मामियं तेन
कल्पये ।
योऽहं दूत्येऽनया दृष्टः सोऽपि
व्यस्मारिषि ईदृशा ॥ नैषधीयचरितम् - 20 - 32 ॥
रागं
दर्शयते सैषा वयस्याः सूनृतामृतैः ।
मम त्वमिति वक्तुं मां मौनिनी मानिनी पुनः ॥ नैषधीयचरितम् - 20 - 33 ॥
कां न
आमन्त्रयते नाम नामग्राहमियं सखीम् ।
कले नलेति नास्माकीं
स्पृशति आह्वां न जिह्वया ॥ नैषधीयचरितम् - 20 - 34 ॥
अस्याः पीनस्तनव्याप्ते हृदयेऽस्मासु निर्दये ।
अवकाशलवोऽपि
अस्ति नात्र कुत्र
बिभर्तु नः ॥ नैषधीयचरितम् - 20 - 35 ॥
अधिगत्येदृगेतस्या हृदयं मृदुतामुचोः ।
प्रतीम एव वैमुख्यं कुचयोर्युक्तवृत्तयोः ॥ नैषधीयचरितम् - 20 - 36 ॥
इति मुद्रितकण्ठेऽस्मिन्सोल्लुण्ठमभिधाय ताम् ।
दमयन्तीमुखाधीतस्मितयाऽसौ तया
जगे ॥ नैषधीयचरितम् - 20 - 37 ॥
भावितेयं त्वया साधु नवरागा खलु त्वयि ।
चिरन्तनानुरागार्हं
वर्तते नः सखीः प्रति ॥ नैषधीयचरितम् - 20 - 38 ॥
स्मरशास्त्रविदा सेयं नवोढा नस्त्वया सखी ।
कथं
सम्भुज्यते बाला कथम्स्मासु
भाषताम् ॥ नैषधीयचरितम् - 20 - 39 ॥
नासत्यवदनं देव त्वां
गायन्ति जगन्ति यम् ।
प्रिया तस्य सरूपा
स्याद् अन्यथालपना न ते ॥ नैषधीयचरितम् - 20 - 40 ॥
मनोभूः
अस्ति चित्तेऽस्याः किन्तु देव त्वमेव सः ।
त्वदवस्थितिभूर्यस्मान्मनः सख्या दिवानिशम् ॥ नैषधीयचरितम् - 20 - 41 ॥
सतस्तेऽथ सखीचित्ते प्रतिच्छाया स मन्मथः ।
त्वयास्य समरूपत्वमतनोरन्यथा कथम् ॥ नैषधीयचरितम् - 20 - 42 ॥
कः स्मरः कस्त्वमत्रेति सन्देहे शोभयोभयोः ।
त्वय्येवार्थितया सेयं
धत्ते चित्तेऽथवा युवाम् ॥ नैषधीयचरितम् - 20 - 43 ॥
त्वयि न्यस्तस्य चित्तस्य दुराकर्षत्वदर्शनात् ।
शाङ्कया पङ्कजाक्षी त्वां दृगंशेन
स्पृशति असौ ॥ नैषधीयचरितम् - 20 - 44 ॥
विलोकनात्प्रभृत्यस्या लग्न एव
असि चक्षुषोः ।
स्वेन
आलोकय शङ्का चेत्प्रत्ययः परवाचि कः ॥ नैषधीयचरितम् - 20 - 45 ॥
परीरम्भेऽनयारभ्य कुचकुङ्कुमसङ्क्रमम् ।
त्वयि मे हृदयस्यैवं राग इत्युदितैव वाक् ॥ नैषधीयचरितम् - 20 - 46 ॥
मनसायं भवन्नामकामसूक्तजपव्रती ।
अक्षसूत्रं सखीकण्ठश्चु
चुम्बति एकावलिच्छलात् ॥ नैषधीयचरितम् - 20 - 47 ॥
अध्यासिते वयस्याया भवता महता हृदि ।
स्तनावन्तरसंमान्तौ निष्क्रान्तौ
ब्रूमहे बहिः ॥ नैषधीयचरितम् - 20 - 48 ॥
कुचौ दोषोज्झितावस्याः पीडितौ व्रणितौ त्वया ।
कथं
दर्शयताम् आस्यं बृहन्तावावृतौ ह्रिया ॥ नैषधीयचरितम् - 20 - 49 ॥
इत्यसौ कलया सूक्तैः सिक्तः पीयूषवर्षिभिः ।
ईदृगेवेति
पप्रच्छ प्रियामुन्नमिताननाम् ॥ नैषधीयचरितम् - 20 - 50 ॥
बभौ च प्रेयसीवक्त्रं पत्युरुन्नमयन्करः ।
चिरेण लब्धसन्धानमरविन्दमिवेन्दुना ॥ नैषधीयचरितम् - 20 - 51 ॥
ह्रीणा च स्मयमाना च नमयन्ती पुनर्मुखम् ।
दमयन्ती मुदे पत्युरुच्चैरपि
अभवत् तदा ॥ नैषधीयचरितम् - 20 - 52 ॥
भूयोऽपि भूपतिस्तस्याः सखीम्
आह स्म सस्मितम् ।
परिहासविलासाय स्पृहयालुः सहप्रियः ॥ नैषधीयचरितम् - 20 - 53 ॥
क्षन्तुं मन्तुं दिनस्यास्य वयस्येयं व्यवस्यतात् ।
निशीव निशिधात्वर्थं यद्
आचरति नात्र नः ॥ नैषधीयचरितम् - 20 - 54 ॥
दिनेनास्या नुखस्येन्दुः सखा यदि तिरस्कृतः ।
तत्कृता शतपत्त्राणां तन्मित्त्राणामपि श्रियः ॥ नैषधीयचरितम् - 20 - 55 ॥
लज्जितानि जितान्येव मयि क्रीडितयाऽनया ।
प्रत्यावृत्तानि तत्तानि
पृच्छ सम्प्रति कं प्रति ॥ नैषधीयचरितम् - 20 - 56 ॥
निशि दष्टाधरायापि सैषा मह्यं न
रुष्यति ।
क्व फलं दशते बिम्बीलता कीराय
कुप्यति ॥ नैषधीयचरितम् - 20 - 57 ॥
सृणीपदसुचिह्ना श्रीश्चोरिता कुम्भिकुम्भयोः ।
पश्य एतस्याः कुचाभ्यां तन्नृपस्तौ
पीडयामि न ॥ नैषधीयचरितम् - 20 - 58 ॥
अधरामृतपानेन ममास्यम्
अपराध्यतु ।
मूर्ध्ना किमपराद्धं यः पादौ न
आप्नोति चुम्बितुम् ॥ नैषधीयचरितम् - 20 - 59 ॥
अपराद्धं भवद्वाणीश्राविणा
पृच्छ किं मया ।
वीणा
आह परुषं यन्मां कलकण्ठी च निष्ठुरम् ॥ नैषधीयचरितम् - 20 - 60 ॥
सेयमालिजने स्वस्य त्वयि विश्वस्य
भाषताम् ।
ममताऽनुमताऽस्मासु पुनः
प्रस्मर्यते कुतः ॥ नैषधीयचरितम् - 20 - 61 ॥
अथोपवदने भैम्याः स्वकर्णोपनयच्छलात् ।
संनिधाप्य श्रुतौ तस्या निजास्यं सा
जगाद ताम् ॥ नैषधीयचरितम् - 20 - 62 ॥
अहो मयि रहोवृत्तं धूर्ते किमपि न
अभ्यधाः ।
आस्स्व सभ्यमिमं तत्ते भूपमेव
अभिधापये ॥ नैषधीयचरितम् - 20 - 63 ॥
स्मरशास्त्रमधीयाना शिक्षिता
असि मयैव यम् ।
अगोपि सोऽपि कृत्वा किं दाम्पत्यव्यत्ययस्त्वया ॥ नैषधीयचरितम् - 20 - 64 ॥
मौनिन्यामेव सा तस्यां तदुक्तीरिव शृण्वती ।
वादं वादं मुहुः
चक्रे हुंहुमित्यन्तरान्तरा ॥ नैषधीयचरितम् - 20 - 65 ॥
अथासावभिसृत्यास्था रतिप्रागल्भ्यशंसिनी ।
सख्या लीलाम्बुजाघातमनुभूय
आलपत् नृपम् ॥ नैषधीयचरितम् - 20 - 66 ॥
दृष्टं दृष्टं महाराज त्वदर्थाभ्यर्थनकुधा ।
यत्
ताडयति मामेवं यद्वा
तर्जयति भ्रुवा ॥ नैषधीयचरितम् - 20 - 67 ॥
वदति अचिह्नि चिह्नेन त्वया केनैष नैषधः ।
शङ्के शक्रः स्वयं कृत्वा मायामायातवानियम् ॥ नैषधीयचरितम् - 20 - 68 ॥
स्वर्णदीस्वर्णपद्मिन्याः पद्मदानं निदानताम् ।
नयति इयं त्वदिन्द्रत्वे दिवश्चागमनं च ते ॥ नैषधीयचरितम् - 20 - 69 ॥
भाषते नैषधच्छायामायामायि मया हरेः ।
आह चाहमहल्यायां तस्याकर्णितदुर्नया ॥ नैषधीयचरितम् - 20 - 70 ॥
सम्भावयति वैदर्भी दर्भाग्राभमतिस्तव ।
जम्भारित्वं कराम्भोजाद्दम्भोलिपरिरम्भिणः ॥ नैषधीयचरितम् - 20 - 71 ॥
अनन्यसाक्षिकाः साक्षात्तदाख्याय रहःक्रियाः ।
शङ्कातङ्कं
नुद ऐतस्या यदि त्वं तत्त्वनैषधः ॥ नैषधीयचरितम् - 20 - 72 ॥
इति तत्सुप्रयुक्तत्वनिह्नुतीकृतकैतवाम् ।
वाचमाकर्ण्य तद्भावे संशयालुः
शशंस सः ॥ नैषधीयचरितम् - 20 - 73 ॥
स्मरसि छद्मनिद्रालुर्मया नाभौ शयार्पणात् ।
यदानन्दोल्लसल्लोमा पद्मनाभी
भविष्यसि ॥ नैषधीयचरितम् - 20 - 74 ॥
जानासि ह्रीभयव्यग्रा यन्नवे मन्मथोत्सवे ।
सामिभुक्तैव मुक्ता
असि मृद्वि खेदभयान्मया ॥ नैषधीयचरितम् - 20 - 75 ॥
स्मर जित्वाजिमेतस्त्वां करे मत्पदधाविनि ।
अङ्गुलीयुगयोगेन यदाश्लिक्षं जने घने ॥ नैषधीयचरितम् - 20 - 76 ॥
वेत्थ मानेपि मत्त्यागदूनां स्वं मां च यन्मिथः ।
मद्दृष्टालिख्य पश्यन्ती व्यबाधा रेखयाऽन्तरा ॥ नैषधीयचरितम् - 20 - 77 ॥
प्रस्मृतं न त्वया तावद्यन्मोहनविमोहितः ।
अतृप्तोऽधरपानेषु रसनाम्
अपिबं तव ॥ नैषधीयचरितम् - 20 - 78 ॥
त्वत्कुचार्द्रनखाङ्कस्य मुद्रामालिङ्गनोत्थिताम् ।
स्मरेः स्वहृदि यत्स्मेरसखीः शिल्पं तव
अब्रवम् ॥ नैषधीयचरितम् - 20 - 79 ॥
त्वयान्याः क्रीडयन्मध्येमधुगोष्ठि रुषेक्षितः ।
वेत्सि तासां पुरो मूर्ध्ना त्वत्पादे यत्किलास्खलम् ॥ नैषधीयचरितम् - 20 - 80 ॥
वेत्थ मय्यागते प्रोष्य यत्त्वां पश्यति हार्दिनि ।
अचुम्बीः आलिमालिङ्ग्य तस्यां केलिमुदा किल ॥ नैषधीयचरितम् - 20 - 81 ॥
जागर्ति तत्र संस्कारः स्वमुखाद्भवदानने ।
विक्षिप्यायाचिषं यत्ता न्यायात्ताम्बूलफालिकाः ॥ नैषधीयचरितम् - 20 - 82 ॥
चित्ते तद्
अस्ति कच्चित्ते नखजं यत्क्रुधा क्षतम् ।
प्राग्भावाधिगमागस्स्थे त्वया शम्बाकृतं क्षतम् ॥ नैषधीयचरितम् - 20 - 83 ॥
स्वदिग्विनिमयेनैव निशि पार्श्वविवर्तिनोः ।
स्वप्नेष्वप्यस्तवैमुख्ये सख्ये सौख्यं
स्मर आवयोः ॥ नैषधीयचरितम् - 20 - 84 ॥
क्षणं प्राप्य सदस्येव नृणां विमनितेक्षणम् ।
दर्शिताधरमद्दंशा
स्मर यन्मामतर्जयः ॥ नैषधीयचरितम् - 20 - 85 ॥
तथावलोक्य लीलाब्जनालभ्रमणविभ्रमात् ।
करौ योजयता
अधीहि यन्मया
असि प्रसादिता ॥ नैषधीयचरितम् - 20 - 86 ॥
ताम्बूलदानमन्यस्तकरजं करपङ्कजे ।
मम न
स्मरसि प्रायस्तव नैव
स्मरामि तत् ॥ नैषधीयचरितम् - 20 - 87 ॥
तद्
अधीहि मृषोद्यं मां हित्वा यत्त्वं गता सखीः ।
तत्रापि मे गतस्याग्रे लीलयैवाच्छिनस्तृणम् ॥ नैषधीयचरितम् - 20 - 88 ॥
स्मरसि प्रेयसि प्रायस्तद् द्वितीयरतासहा ।
शुचिरात्रीत्युपालब्धा त्वं मया पिकनादिनी ॥ नैषधीयचरितम् - 20 - 89 ॥
भुञ्जानस्य नवं निम्बं परिवेविषती मधौ ।
सपत्नीष्वपि मे रागं सम्भाव्य स्वरुषः
स्मरेः ॥ नैषधीयचरितम् - 20 - 90 ॥
स्मर शार्करमास्वाद्य त्वया राद्धमिति स्तुवन् ।
स्वनिन्दारोषरक्तात्तु यद्
अभैषं तवाधरात् ॥ नैषधीयचरितम् - 20 - 91 ॥
मुखादारभ्य नाभ्यन्तं चुम्बं चुम्बमतृप्तवान् ।
न
प्रापं चुम्बितुं यत्ते धन्या तत्
चुम्बतु स्मृतिः ॥ नैषधीयचरितम् - 20 - 92 ॥
कमपि स्मरकेलिं तं
स्मर यत्र भवन्निति ।
मया विहितसम्बुद्धिर्वीडिता स्मितवति
असि ॥ नैषधीयचरितम् - 20 - 93 ॥
नीलदाचिबुकं यत्र मदाक्तेन श्रमाम्बुना ।
स्मर हारमणौ दृष्टं स्वमास्यं तत्क्षणोचितम् ॥ नैषधीयचरितम् - 20 - 94 ॥
स्मर तन्नखमत्रोरौ कस्ते
अधात् इति ते मृषा ।
ह्रीदैवतम्
अलुम्पं यद्व्रतं रतपरोक्षणम् ॥ नैषधीयचरितम् - 20 - 95 ॥
वनकेलौ
स्मर अश्वत्थदलं भूपतितं प्रति ।
देहि मह्यमुदस्येति मद्गिरा व्रीडिता
असि यत् ॥ नैषधीयचरितम् - 20 - 96 ॥
इति तस्या रहस्यानि प्रिये
शंसति सान्तरा ।
पाणिभ्यां
पिदधे सख्याः श्रवसी ह्रीवशीकृता ॥ नैषधीयचरितम् - 20 - 97 ॥
कर्णौ पीडयती सख्या वीक्ष्य नेत्रासितोत्पले ।
अपि
आसादयतां भैमीकरकोकनदे तु (नु) तौ ॥ नैषधीयचरितम् - 20 - 98 ॥
तत्प्रविष्टं सखीकर्णौ पत्युरालपितं ह्रिया ।
पिदधौ इव वैदर्भी स्वरहस्याभिसन्धिना ॥ नैषधीयचरितम् - 20 - 99 ॥
तमालोक्य प्रियाकेलिं नले सोत्प्रासहासिनि ।
आरात्तत्त्वमबुद्ध्वापि सख्यः
सिष्मियिरे अपराः ॥ नैषधीयचरितम् - 20 - 100 ॥
दम्पत्योरुपरि प्रीत्या ता धराप्सरसस्तयोः ।
ववृषुः स्मितपुष्पाणि सुरभीणि मुखानिलैः ॥ नैषधीयचरितम् - 20 - 101 ॥
तदास्यहसिताज्जातं स्मितमासाम्
अभासत ।
आलोकादिव शीतांशोः कुमुदश्रेणिजृम्भणम् ॥ नैषधीयचरितम् - 20 - 102 ॥
प्रत्यभिज्ञाय विज्ञाथ स्वरं हासविकस्वरम् ।
सख्यास्तासु स्वपक्षायाः कला जातबला
अजनि ॥ नैषधीयचरितम् - 20 - 103 ॥
साहूयोच्चैरथ
ऊचे तामेहि स्वर्गेण वञ्चिते ।
पिब वाणी सुधावेणीर्नृपचन्द्रस्य सुन्दरि ॥ नैषधीयचरितम् - 20 - 104 ॥
सा
अशृणोत् तस्य वाग्भागमनत्यासत्तिमत्यपि ।
कल्पग्रामाल्पनिर्घोषं बदरीव कृशोदरी ॥ नैषधीयचरितम् - 20 - 105 ॥
अथ स्वपृष्ठनिष्ठायाः शृण्वत्या निषधाभिधाः ।
नलमौलिमणौ तस्या भावम्
आकलयत् कला ॥ नैषधीयचरितम् - 20 - 106 ॥
प्रतिबिम्बेक्षितैः सख्या मुखाकूतैः कृतानुमा ।
तद्द्रीडाद्यनुकुर्वाणा शृण्वतीव
अन्वमायि सा ॥ नैषधीयचरितम् - 20 - 107 ॥
कारं कारं तथाकारम्
ऊचे साऽशृणवन्तमाम् ।
मिथ्या
वेत्थ गिरश्चैतद्व्यर्थाः
स्युः मम देवताः ॥ नैषधीयचरितम् - 20 - 108 ॥
मत्कर्णभूषणानां तु राजन्निबिडपीडनात् ।
व्यथिष्यमाणपाणिस्ते निषेद्धुमुचिता प्रिया ॥ नैषधीयचरितम् - 20 - 109 ॥
इति सा
मोचयाञ्चक्रे कर्णौ सख्याः करग्रहात् ।
पत्युराश्रवतां यान्त्यामुधायासनिषेधिनः ॥ नैषधीयचरितम् - 20 - 110 ॥
श्रुतिसंरोधजध्वानसन्ततिच्छेदतालताम् ।
जगाम झटिति त्यागस्वनस्तत्कर्णयोस्ततः ॥ नैषधीयचरितम् - 20 - 111 ॥
सापसृत्य कियद्दूरं
मुमुदे सिष्मिये ततः ।
इदं च तां सखीमेत्य
ययाचे काकुभिः कला ॥ नैषधीयचरितम् - 20 - 112 ॥
अभिधास्ये रहस्यं ते यद्
अश्रावि मयानयोः ।
वर्णय अकर्णितं मह्यम्
एहि आलि विनिर्मीयताम् ॥ नैषधीयचरितम् - 20 - 113 ॥
वयस्याभ्यर्थनेनास्याः प्राक्कूटश्रूतिनाटने ।
विस्मितौ
कुरुतः स्मैतौ दम्पती कम्पितं शिरः ॥ नैषधीयचरितम् - 20 - 114 ॥
तथालिमालपन्तीं तामभ्यधान्निषधाधिपः ।
आस्स्व तद्वञ्चितौ स्वश्चेन्मिथ्याशपथसाहसात् ॥ नैषधीयचरितम् - 20 - 115 ॥
प्रति
अलापीत् कलापीमं कलङ्कः शङ्कितः कुतः ।
प्रियापरिजनोक्तस्य त्वयैवाद्य मृषोद्यता ॥ नैषधीयचरितम् - 20 - 116 ॥
सत्यं खलु तदा
अश्रौषं परं गुमुगुमारवम् ।
शृणोमि इत्येव च
अवोचं नतु त्वद्वाचमित्यपि ॥ नैषधीयचरितम् - 20 - 117 ॥
आमन्त्र्य तेन देव त्वां तद्वैयर्थ्यं
समर्थये ।
शपथः कर्कशोदर्कः सत्यं सत्योपि दैवतः ॥ नैषधीयचरितम् - 20 - 118 ॥
असम्भोगकथारम्भैः
वञ्चयेथे कथं नु माम् ।
हन्त सेयमनर्हन्ती यन्न
विप्रलभे युवाम् ॥ नैषधीयचरितम् - 20 - 119 ॥
कर्णे कर्णे ततः सख्यौ श्रुतम्
आचख्यतुः मिथः ।
मुहुर्विस्मयमाने च स्मयमाने च ते बहु ॥ नैषधीयचरितम् - 20 - 120 ॥
अथ
आख्यायि कलासख्या
कुप्य मे दमयन्ति मा ।
कर्णाद्द्वितीयतोऽप्यस्याः सङ्गोप्यैव यद्
अब्रवम् ॥ नैषधीयचरितम् - 20 - 121 ॥
प्रियः प्रियामथ
आचष्ट दृष्टं कपटपाटवम् ।
वयस्ययोरिदं तेऽस्मान्मा सखीष्वेव
विश्वसीः ॥ नैषधीयचरितम् - 20 - 122 ॥
आलापि कलयापीयं पतिर्न
आलपति क्वचित् ।
रहस्येऽसौ रहस्यं तत्सभ्ये विस्रभ्यमीदृशि ॥ नैषधीयचरितम् - 20 - 123 ॥
इति व्युत्तिष्ठमानायां तस्याम्
ऊचे नलः प्रियाम् ।
भण भैमि बहिः
कुर्वे दुर्विनीते गृहादमुम् ॥ नैषधीयचरितम् - 20 - 124 ॥
शिरःकम्पानुमत्याथ सुदत्या प्रीणितः प्रियः ।
चुलुकं तुच्छमुत्सर्प्य सख्योः सलिलम्
अक्षिपत् ॥ नैषधीयचरितम् - 20 - 125 ॥
तच्चित्रदत्ताचित्ताभ्यामुच्चैः सिचयसेचनम् ।
ताभ्याम्
अलम्भि दूरेऽपि नलेच्छापूरिभिर्जलैः ॥ नैषधीयचरितम् - 20 - 126 ॥
वरेण वरुणस्यायं सुलभैरम्भसां भरैः ।
एतयोः स्तिमिती
चक्रे हृदयं विस्मयैरपि ॥ नैषधीयचरितम् - 20 - 127 ॥
तेनापि नापसर्पन्त्यौ दमयन्तीमयं ततः ।
हर्षेणादर्शयत्
पश्य नन्विमे तन्वि मे पुरः ॥ नैषधीयचरितम् - 20 - 128 ॥
क्लिन्नीकृत्याम्भसा वस्त्रं जैनप्रव्रजितीकृते ।
सख्यौ सक्षौमभावेऽपि निर्विघ्नस्तनदर्शने ॥ नैषधीयचरितम् - 20 - 129 ॥
अम्बुनः शम्बरत्वेन मायैव आविः
अभूत् इयम् ।
यत्पटावृतमप्यङ्गमनयोः
कथयति अदः ॥ नैषधीयचरितम् - 20 - 130 ॥
वाससो वाम्बरत्वेन दृश्यतेयम्
उपागमत् ।
चारुहारमणिश्रेणितारवीक्षणलक्षणा ॥ नैषधीयचरितम् - 20 - 131 ॥
ते निरीक्ष्य निजावस्थां ह्रीणे
निर्ययतुः ततः ।
तयोर्वीक्षारसात्सख्यः सर्वां
निश्चक्रमुः क्रमात् ॥ नैषधीयचरितम् - 20 - 132 ॥
ता बहिर्भूय वैदर्भीम्
ऊचुः नीतावधीतिनि ।
उपेक्ष्ये ते पुनः सख्यौ मर्मज्ञे नाधुनाप्यमू ॥ नैषधीयचरितम् - 20 - 133 ॥
उच्चैः
ऊचे अथ ता राजा सखीयमिदम्
आह वः ।
श्रुतं मर्म ममैताभ्यां दृष्टं तत्तु मयानयोः ॥ नैषधीयचरितम् - 20 - 134 ॥
मद्विरोधितयोर्वाचि न श्रद्धातव्यमेतयोः ।
अभ्यषिञ्चद् इमे मायामिथ्यासिंहासने विधिः ॥ नैषधीयचरितम् - 20 - 135 ॥
घौतेऽपि कीर्तिधाराभिश्चरिते चारुणि द्विषः ।
मृषामषीलवैर्लक्ष्म लेखितुं के न शिल्पिनः ॥ नैषधीयचरितम् - 20 - 136 ॥
ते सख्यौ
आचचक्षाते न किञ्चिद्
ब्रूवहे बहु ।
वक्ष्यावः तत्परं यस्मै सर्वा निर्वासिता वयम् ॥ नैषधीयचरितम् - 20 - 137 ॥
स्थापत्यैर्न स्म
वित्तः ते वर्षीयस्त्वचलत्करैः ।
कृतामपि तथावाचि करकम्पेन वारणाम् ॥ नैषधीयचरितम् - 20 - 138 ॥
अपयातमितो धृष्टे धिग्वामश्लीलशीलताम् ।
इत्युक्ते चोक्तवन्तश्च
व्यतिद्राते स्म ते भिया ॥ नैषधीयचरितम् - 20 - 139 ॥
आह स्म तद्गिरा ह्रीणां प्रियां नतमुखीं नलः ।
ईदृग्भण्डसखी कापि निस्त्रपा न मनागपि ॥ नैषधीयचरितम् - 20 - 140 ॥
अहो नापत्रपाकं ते जातरूपमिदं मुखम् ।
नातितापार्जनेऽपि
स्यात् इतो दुर्वर्णनिर्गमः ॥ नैषधीयचरितम् - 20 - 141 ॥
तामथैष हृदि न्यस्य
ददौ तल्पतले तनुम् ।
निमिष्य च तदीयाङ्गसौकुमार्यम्
असिस्वदत् ॥ नैषधीयचरितम् - 20 - 142 ॥
न्यस्य तस्याः कुचद्वन्द्वे मध्येनीवि निवेश्य च ।
स पाणेः सफलं
चक्रे तत्करग्रहणश्रमम् ॥ नैषधीयचरितम् - 20 - 143 ॥
स्थापितामुपरि स्वस्य तां मुदा
मुमुदे वहन् ।
तदुद्वहनकर्तृत्वम्
आचष्ट स्पष्टमात्मनः ॥ नैषधीयचरितम् - 20 - 144 ॥
स्विद्यत्कराङ्गुलीलुप्तकस्तूरीलेपमुद्रया ।
पूत्कार्यपीडनौ
चक्रे स सखीषु प्रियास्तनौ ॥ नैषधीयचरितम् - 20 - 145 ॥
तत्कुचे नखमारोप्य चमत्कुर्वंस्तयेक्षितः ।
सः
अवादीत् तां हृदिस्थं ते किं माम्
अभिनत् एष न ॥ नैषधीयचरितम् - 20 - 146 ॥
अहो अनौचितीयं ते हृदि शुद्धेऽप्यशुद्धवत् ।
अङ्कः खलैरिव
अकल्पि नखैस्तीक्ष्णमुखैर्मम ॥ नैषधीयचरितम् - 20 - 147 ॥
यत्
चुम्बति नितम्बोरु यदालिङ्गति च स्तनौ ।
भुङ्क्ते गुणमयं तत्ते वासः शुभदशोचितम् ॥ नैषधीयचरितम् - 20 - 148 ॥
लीनचीनांशुकं स्वेदि दरालोक्यं विलोकयन् ।
तन्नितम्बं स निश्वस्य
निनिन्द दिनदीर्घताम् ॥ नैषधीयचरितम् - 20 - 149 ॥
देशमेव
ददंश असौ प्रियादन्तच्छदान्तिकम् ।
चकार अधरपानस्य तत्रैवालीकचापलम् ॥ नैषधीयचरितम् - 20 - 150 ॥
न
क्षमे चपलापाङ्गि सोढुं स्मरशरव्यथाम् ।
तत्प्रसीद
प्रसीद इति स तां प्रीताम्
अकोपयत् ॥ नैषधीयचरितम् - 20 - 151 ॥
नेत्रे निषधनाथस्य प्रियाया वदनाम्बुजम् ।
ततः स्तनतटौ ताभ्यां जघनं घनम्
ईयतुः ॥ नैषधीयचरितम् - 20 - 152 ॥
इत्यधीरतया तस्य हठवृत्तिविशङ्किनी ।
झटित्युत्थाय सोत्कण्ठमसौ
अन्वसरत् सखीः ॥ नैषधीयचरितम् - 20 - 153 ॥
न्यवारि इव यथाशक्ति स्पन्दं मन्दं वितन्वता ।
भैमीकुचनितम्बेन नलसम्भोगलोभिना ॥ नैषधीयचरितम् - 20 - 154 ॥
अपि श्रोणिभरस्वैरां धर्तुं ताम
अशकत् न सः ।
तदङ्गसङ्गजस्तम्भो गजस्तम्भोरुदोरपि ॥ नैषधीयचरितम् - 20 - 155 ॥
आलिङ्ग आलिङ्ग तन्वङ्गि मामित्यर्धगिरं प्रियम् ।
स्मित्वा निवृत्य पश्यन्ती द्वारपारम्
अगाद् असौ ॥ नैषधीयचरितम् - 20 - 156 ॥
प्रियस्याप्रियमारभ्य तमन्तर्दूनयाऽनया ।
शेके शालीनयालीभ्यो न गन्तुं न निवर्तितुम् ॥ नैषधीयचरितम् - 20 - 157 ॥
अकथयद् बन्दिसुन्दरी द्वाःसविधमुपेत्य नलाय मध्यमह्नः ।
जय नृप दिनयौवनोष्मतप्ताप्लवनजलानि पिपासति क्षितिस्ते ॥ नैषधीयचरितम् - 20 - 158 ॥
उपहृतमधिगङ्गमम्बु कम्बुच्छवि तव
वाञ्छति केशभङ्गिसङ्गात् ।
अनुभवितुमनन्तरं तरङ्गासमशमनस्वसृमिश्रभावशोभाम् ॥ नैषधीयचरितम् - 20 - 159 ॥
तपति जगत एव मूर्ध्नि भूत्वा रविरधुना त्वमिवाद्भुतप्रतापः ।
पुरमथनमुपास्य
पश्य पुण्यैरधरितमेनमनन्तरं त्वदीयैः ॥ नैषधीयचरितम् - 20 - 160 ॥
आनन्दं हठमाहरन्निव हरध्यानार्चनादीक्षणस्यासत्तावपि भूपतिः प्रियतमाविच्छेदखेदालसः ।
पक्षद्वारदिशं प्रति प्रति मुहुर्द्राङ्गिर्गतप्रेयसीप्रत्यासत्तिधिया दिशन्दृशमसौ निर्गन्तुमुत्तस्थिवान् ॥ नैषधीयचरितम् - 20 - 161 ॥
श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः
सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
अन्याक्षुण्णरसप्रमेयभणितौ विंशस्तदीये महाकाव्येऽयं
व्यगलत् नलस्य चरिते सर्गो निसर्गोज्ज्वलः ॥ नैषधीयचरितम् - 20 - 162 ॥
।। इति नैषधीयचरितमहाकाव्ये विंशसर्गः ।।
एकविंशसर्गः
तं विदर्भरमणीमणिसौधादुज्जिहानमनुदर्शितसेवैः ।
अपर्णान्निजकरस्य नरेन्द्रैरात्मनः करदता पुनः
ऊचे ॥ नैषधीयचरितम् - 21 - 1 ॥
तस्य चीनसिचयैरपि बद्धा पद्धतिः पदयुगात्कठिनेति ।
तां
प्यधत्त शिरसां खलु माल्यैराजराजिरभितः प्रणमन्ती ॥ नैषधीयचरितम् - 21 - 2 ॥
द्राग्
उपाह्रियत तस्य नृपैतद्दृष्टिदानबहुमानकृतार्थैः ।
स्वस्य दिश्यमथ रत्नमपूर्वं यत्नकल्पितगुणाधिकचित्रम् ॥ नैषधीयचरितम् - 21 - 3 ॥
अङ्गुलीचलनलोचनभङ्गिभ्रूतरङ्गविनिवेदितदानम् ।
रत्नमन्यनृपढौकितमन्ये तत्प्रसादम्
अलभन्त नृपास्तत् ॥ नैषधीयचरितम् - 21 - 4 ॥
तानसौ कुशलसूनृतसेकैस्तर्पितानथ पितेव विसृज्य ।
अस्त्रशस्त्रखुरलीषु
विनिन्ये शैष्यकोपनमितानमितौजाः ॥ नैषधीयचरितम् - 21 - 5 ॥
मर्त्यदुष्प्रचरमस्त्रविचारं चारुशिष्यजनतामनुशिष्य ।
स्वेदबिन्दुकितगोधिरधीरं स श्वसन्
अभवत् आप्लवनेच्छुः ॥ नैषधीयचरितम् - 21 - 6 ॥
यक्षकर्दममृदून्मृदिताङ्गं प्राक्कुरङ्गमदमीलितमौलिम् ।
गन्धवार्भिरनुबन्धितभृङ्गैरङ्गना
सिषिचुः उच्चकुचास्तम् ॥ नैषधीयचरितम् - 21 - 7 ॥
भृभृतं पृथुतपोघनमाप्तस्तं शुचिः
स्नपयति स्म पुरोधाः ।
सन्दधज्जलधरस्खलदोघस्तीर्थवारिलहरीरुपरिष्टात् ॥ नैषधीयचरितम् - 21 - 8 ॥
प्रेयसीकुचवियोगहविर्भुग्जन्मधूमविततीरिव बिभ्रत् ।
स्नायिनः करसरोरुहयुग्मं तस्य गर्भधृतदर्भम्
अराजत् ॥ नैषधीयचरितम् - 21 - 9 ॥
कल्प्यमानममुनाचमनार्थं गाङ्गमम्बु चुलुकोदरचुम्बि ।
निर्मलत्वमिलितप्रतिबिम्बद्याम्
अयच्छत् उपनीय करे नु ॥ नैषधीयचरितम् - 21 - 10 ॥
मुक्तमाप्य दमनस्य भगिन्या भूमिरात्मदयितं धृतरागा ।
अङ्गमङ्गमनुकं
परिरेभे तं मृदो जलमृदूर्गृहयालुम् ॥ नैषधीयचरितम् - 21 - 11 ॥
मूलमध्यशिखरस्थितवेधःशौरिशम्भुकरकाङ्घ्रिशिरःस्थैः ।
तस्य मूर्ध्नि
चकरे शुचि दर्भैर्वारि वान्तमिव गाङ्गतरङ्गैः ॥ नैषधीयचरितम् - 21 - 12 ॥
प्राणमायतवतो जलमध्ये मञ्जिमानम्
अभजत् मुखमस्य ।
आपगापरिवृढोदरपूरे पूर्वकालमुषितस्य सितांशोः ॥ नैषधीयचरितम् - 21 - 13 ॥
मर्त्यलोकमदनः सदशत्वं बिभ्रदभ्रविशदद्युतितारम् ।
अम्बरं
परिदधे विधुमौलेः स्पर्धयेव दशदिग्वसनस्य ॥ नैषधीयचरितम् - 21 - 14 ॥
भीमजामनु चलत्प्रतिवेलं संयियंसुरिव राजर्षीन्द्रः ।
प्राववार हृदयं न समन्तादुत्तरीयपरिवेषमिषेण ॥ नैषधीयचरितम् - 21 - 15 ॥
स्नानवारिघटराजदुरोजा गौरमृत्तिलकबिन्दुमुखेन्दुः ।
केशशेषजलमौक्तिकदन्ता तं
बभाज सुभगाप्लवनश्रीः ॥ नैषधीयचरितम् - 21 - 16 ॥
श्वैत्यशैत्यजलदैवतमन्त्रस्वादुताप्रमुदितां चतुरक्षीम् ।
वीक्ष्य मोघधृतसौरभलोभं घ्राणमस्य सलिलघ्रमिव
अभूत् ॥ नैषधीयचरितम् - 21 - 17 ॥
राज्ञि भानुमदुपस्थितयेऽस्मिन्नात्तमम्बु
किरति स्वकरेण ।
भ्रान्तयः
स्फुरति तेजसि चक्रुः त्वष्टृतर्कुचलदर्कवितर्कम् ॥ नैषधीयचरितम् - 21 - 18 ॥
सम्यगस्य जपतः श्रुतिमन्त्राः संनिधानम्
अभजन्त कराब्जे ।
शुद्धबीजविशदस्फुटवर्णाः स्फाटिकाक्षवलयच्छलभाजः ॥ नैषधीयचरितम् - 21 - 19 ॥
पाणिपर्वणि यवः पुनः
आख्यत् देवतर्पणयवार्पणमस्य ।
न्युप्यमानजलयोगितिलौघैः स द्विरुक्तकरकालतिलोः
अभूत् ॥ नैषधीयचरितम् - 21 - 20 ॥
पूतपाणिचरणः शुचिनोच्चैरध्वनानितरपादहतेन ।
ब्रह्मचारिपरिचारि सुरार्चा वेश्म राजर्षिरेष
विवेश ॥ नैषधीयचरितम् - 21 - 21 ॥
क्वापि यन्नभसि धूपजधूमैर्मेचकागुरुभवैर्भ्रमराणाम् ।
भूयते स्म सुमनःसुमनःस्रग्दामधामपटले पटलेन ॥ नैषधीयचरितम् - 21 - 22 ॥
साङ्कुरेव रुचिपीततमा यैर्यैः पुरा
अस्ति रजनी रजनीव ।
ते धृता वितरितुं त्रिदशेभ्यो यत्र हेमतिलका इव दीपाः ॥ नैषधीयचरितम् - 21 - 23 ॥
यत्र मौक्तिकमणेर्विरहेण प्रीतिकामधृतवह्निपदेन ।
कङ्कुमेन परिपूरितमन्तः शुक्तयः
शुशुभिरे अनुभवन्त्यः ॥ नैषधीयचरितम् - 21 - 24 ॥
अङ्कचुम्बिधनचन्दनपङ्कं यत्र गारुडशिलाजममत्रम् ।
प्राप केलिकवलीभवदिन्दोः सिंहिकासुतमुखस्य सुखानि ॥ नैषधीयचरितम् - 21 - 25 ॥
गर्भमैणमदकर्दमसान्द्रं भाजनानि रजतस्य
भजन्ति ।
यत्र साम्यम्
अगमन् अमृतांशोरङ्करङ्कुकलुषीकृतकुक्षेः ॥ नैषधीयचरितम् - 21 - 26 ॥
उज्जिहानसुकृताङ्कुरशङ्का यत्र धर्मगहने खलु
तेने ।
भूरिशर्करकरम्भबलीनामालिभिः सुगतसौधसखानाम् ॥ नैषधीयचरितम् - 21 - 27 ॥
स्खर्वम्
आख्यद् अमरौघनिवासं पर्वतं क्वचन चम्पकसम्पत् ।
मल्लिकाकुसुमराशिः
अकार्षीद् यत्र च स्फटिकसानुमनुच्चम् ॥ नैषधीयचरितम् - 21 - 28 ॥
स्वात्मनः प्रियमपि प्रति गुप्तिं कुर्वती कुलवधूम्
अवजज्ञे ।
हृद्यदैवतनिवेद्यनिवेशाद्यत्र भूमिरवकाशदरिद्रा ॥ नैषधीयचरितम् - 21 - 29 ॥
यत्र कान्तकरपीडितनीलग्रावरश्मिचिकुरासु
विरेजुः ।
गातृमूर्धविधुतेरनुबिम्बात्कुट्टिमक्षितिषु कुट्टिमितानि ॥ नैषधीयचरितम् - 21 - 30 ॥
नैकवर्णमणिभूषणपूर्णे स क्षितीन्दुरनवद्यनिवेद्ये ।
अध्यतिष्ठद् अमलं मणिपीठं तत्र चित्रसिचयोच्चयचारौ ॥ नैषधीयचरितम् - 21 - 31 ॥
सम्यग्
अर्चति नलेऽर्कमतूर्णं भक्तिगन्धिरमुना
आकलि कर्णः ।
श्रद्दधानहृदयप्रति चातः साम्बमम्बरमणिः
निरचैषीत् ॥ नैषधीयचरितम् - 21 - 32 ॥
तत्तदर्यमरहस्यजपेषु स्रङ्नयः शयममुष्य
बभाज ।
रक्तिमानमिव शिक्षितुमुच्चै रक्तचन्दनजबीजसमाजः ॥ नैषधीयचरितम् - 21 - 33 ॥
हेमनामकतरुप्रसवेन त्र्यम्बकस्तदुपकल्पितपूजः ।
आत्तया युधि विजित्य रतीशं राजितः कुसुमकाहलयेव ॥ नैषधीयचरितम् - 21 - 34 ॥
अर्चयन्हरकरं स्मितभाजा नागकेसरतरोः प्रसवेन ।
सोयम्
आपयत् अतिर्यगवाग्दिक्पालपाण्डुरकपालविभूषाम् ॥ नैषधीयचरितम् - 21 - 35 ॥
नीलनीररुहमाल्यमयीं स न्यस्य तस्य गलनालविभूषाम् ।
स्फाटिकीमपि तनुं
निरमासीत् नीलकण्ठपदसान्वयतायै ॥ नैषधीयचरितम् - 21 - 36 ॥
प्रीतिम्
एष्यति कृतेन ममेदृक्कर्मणा पुररिपुर्मदनारिः ।
तत्पुरः पुरमतोयम्
अधाक्षीत् धूपरूपमथ कामशरं च ॥ नैषधीयचरितम् - 21 - 37 ॥
तन्मुहूर्तमपि भीमतनूजाविप्रयोगमसहिष्णुरिवायम् ।
शूलिमौलिशशिभीततया
अभूद् ध्यानमूर्च्छननिमीलितनेत्रः ॥ नैषधीयचरितम् - 21 - 38 ॥
दण्डवद्भुवि लुठन्स
ननाम त्र्यम्बकं शरणभागिव कामः ।
आत्मशस्त्रविशिखासनबाणान्न्यस्य तत्पदयुगे कुसुमानि ॥ नैषधीयचरितम् - 21 - 39 ॥
त्र्यम्बकस्य पदयोः कुसुमानि न्यस्य सैष निजशस्त्रनिभानि ।
दण्डवद्भुवि लुठन्किमु कामस्तं शरण्यमुपगम्य
ननाम ॥ नैषधीयचरितम् - 21 - 40 ॥
व्यापृतस्य शतरुद्रियजप्तौ पाणिमस्य नवपल्लवलीलम् ।
भृङ्गभङ्गिरिव रुद्रपराक्षश्रेणिः
आश्रयत रुद्रपरस्य ॥ नैषधीयचरितम् - 21 - 41 ॥
उत्तमं स
महति स्म महीभृत्पूरुषं पुरुषसूक्तविधानैः ।
द्वादशापि च स केशवमूर्तीर्द्वादशाक्षरमुदीर्य
ववन्दे ॥ नैषधीयचरितम् - 21 - 42 ॥
मल्लिकाकुसुमदुण्डुभकेन स भ्रामीवलयितेन कृते तम् ।
आसने निहितम्
ऐक्षत साक्षात्कुण्डलीन्द्रतनुकुण्डलभाजम् ॥ नैषधीयचरितम् - 21 - 43 ॥
मेचकोत्पलमयी बलिबन्द्धुस्तद्वलिस्रगुरसि
स्फुरति स्म ।
कौस्तुभाख्यमणिकुट्टिमवास्तुश्रीकटाक्षविकटायितकोटिः ॥ नैषधीयचरितम् - 21 - 44 ॥
स्वर्णकेतकशतानि स हेम्नः पुण्डरीकघटनां रजतस्य ।
मालयारुणमणेः करवीरं तस्य मूर्ध्नि पुनरुक्तम्
अकार्षीत् ॥ नैषधीयचरितम् - 21 - 45 ॥
नाल्पभक्तबलिरन्ननिवेद्यैस्तस्य हारिणमदेन स कृष्णः ।
शङ्खचक्रजलजातवदर्चः शङ्खचक्रजलपूजनया
अभूत् ॥ नैषधीयचरितम् - 21 - 46 ॥
राज्ञि कृष्णलघुधूपनधूमाः
पूजयति अहिरिपुध्वजमस्मिन् ।
निर्ययुः भवधृता भुजगा भीदुर्यशोमलिनिता इव जालैः ॥ नैषधीयचरितम् - 21 - 47 ॥
अर्घनिःस्वमणिमाल्यविमिश्रैः स्मेरजातिमयदामसहस्रैः ।
तं पिधाय
विदधे बहुरत्नक्षीरनीरनिधिमग्नमिवैषः ॥ नैषधीयचरितम् - 21 - 48 ॥
अक्षसूत्रगतपुष्करबीजश्रेणिरस्य करसङ्करमेत्य ।
शौरिमुक्तजपितुः पुनः
आपत् पद्मसद्मचिरवासविलासम् ॥ नैषधीयचरितम् - 21 - 49 ॥
कैटभारिपदयोर्नितमूर्ध्ना सञ्जिता विचकिलस्रगनेन ।
जह्नुजेव भुवनप्रभुणा
अभात् सेवितानुनयतायतमाना ॥ नैषधीयचरितम् - 21 - 50 ॥
स्वानुरागमनघः कमलायां सूचयन्नपि हृदि न्यसनेन ।
गौरवं व्यधित वागधिदेव्याः श्रीगृहोर्ध्वनिजकण्ठनिवेशात् ॥ नैषधीयचरितम् - 21 - 51 ॥
इत्यवेत्य वसुना बहुनापि प्राप्नुवन्न मुदमर्चनया सः ।
सूक्तिमौक्तिकमयैरथ हारैर्भक्तिम्
ऐहत हरेरुपहारैः ॥ नैषधीयचरितम् - 21 - 52 ॥
दूरतः स्तुतिरवाग्विषयस्ते रूपमस्मदभिधा तव निन्दा ।
तत्
क्षमस्व यदहं
प्रलपामि इत्युक्तिपूर्वमयमेतद्
अवोचत् ॥ नैषधीयचरितम् - 21 - 53 ॥
स्वप्रकाश जड एष जनस्ते वर्णनं यद्
अभिलष्यति कर्तुम् ।
नन्वहर्पतिमहः प्रति स
स्यात् न प्रकाशनरसस्तमसः किम् ॥ नैषधीयचरितम् - 21 - 54 ॥
मैव वाङ्मनसयोर्विषयो भूस्त्वां पुनर्न कथम्
उद्दिशतां ते ।
उत्कचातकयुगस्य घनः
स्यात् तृप्तये घनमनाप्नुवतोऽपि ॥ नैषधीयचरितम् - 21 - 55 ॥
छद्ममत्स्यवपुषस्तव पुच्छास्फालनाज्जलमिवोद्धतमब्धेः ।
श्वैत्यमेत्य गगनाङ्गणसङ्गाद् आविः
अस्ति विबुधालयगङ्गा ॥ नैषधीयचरितम् - 21 - 56 ॥
भूरिसृष्टिधृतभूवलयानां पृष्ठसीमनि किणैरिव चक्रैः ।
चुम्बिता
अवतु जगत्सितिरक्षाकर्मठस्य कमठस्तव मूर्तिः ॥ नैषधीयचरितम् - 21 - 57 ॥
दिक्षु यत्खुरचतुष्टयमुद्राम्
अभ्यवैमि चतुरोऽपि समुद्रान् ।
तस्य पोत्रिवपुषास्तव दंष्ट्रा तुष्टये
अस्तु मम वा
अस्तु जगत्याः ॥ नैषधीयचरितम् - 21 - 58 ॥
उद्धृतिस्खलदिलापरिरम्भाल्लोमभिर्बहिरितैर्बहुहृष्टैः ।
ब्राह्ममण्डम्
अभवद् वलिनीपं केलिकोल तव तत्र न मातः ॥ नैषधीयचरितम् - 21 - 59 ॥
दानवाद्यगहनप्रभवस्त्वं सिंह माम्
अव रवैर्घनघोरैः ।
वैरिदारिदिविषत्सुकृतास्त्रग्रामसम्भवभवन्मनुजार्धः ॥ नैषधीयचरितम् - 21 - 60 ॥
दैत्यभर्तुरुदरान्धुनिविष्टां शक्रसम्पदमिवोद्धरतस्ते ।
पातु पाणिशृणिपञ्चकमस्माञ्छिन्नरज्जुनिभलग्नतदन्त्रम् ॥ नैषधीयचरितम् - 21 - 61 ॥
स्वेन
पूर्यते इयं सकलाशा भो बले न मम किं भवतेति ।
त्वं बटुः कपटवाचि पटीयान्
देहि वामन मनःप्रमदं नः ॥ नैषधीयचरितम् - 21 - 62 ॥
दानवारिरसिकायविभूतेः
वश्मि तेऽस्मि सुतरां प्रतिपत्तिम् ।
इत्युदग्रपुलकं बलिनोक्तं त्वां
नमामि कृतवामनमायम् ॥ नैषधीयचरितम् - 21 - 63 ॥
भोगिभिः क्षितितले दिवि वासं बन्धम्
एष्यसि चिरं ध्रियमाणः ।
पाणिरेष भुवनं
वितर इति छद्मवाग्भिः
अव वामन विश्वम् ॥ नैषधीयचरितम् - 21 - 64 ॥
आशयस्य विवृतिः
क्रियते किं दित्सुः
अस्मि हि भवच्चरणेभ्यः ।
विश्वमित्यभिहितो बलिनास्मान्वामन प्रणतपावन
पायाः ॥ नैषधीयचरितम् - 21 - 65 ॥
क्षत्त्रजातिः
उदियाय भुजाभ्यां या तवैव भुवनं सृजतः प्राक् ।
जामदग्न्यवपुषस्तव तस्यास्तौ लयार्थमुचितौ
विजयेताम् ॥ नैषधीयचरितम् - 21 - 66 ॥
पांसुला बहुपतिर्नियतं या वेधसा
अरचि रुषा नवखण्डा ।
तां भुवं कृतवतो द्विजभुक्तां युक्तकारितरता तव
जीयात् ॥ नैषधीयचरितम् - 21 - 67 ॥
कार्तवीर्यभिदुरेण दशास्ये रैणुकेय भवता सुखनाश्ये ।
कालभेदविरहादसमाधिं
नौमि रामपुनरुक्तिमहं ते ॥ नैषधीयचरितम् - 21 - 68 ॥
हस्तलेखम्
असृजत् खलु जन्मस्थानरेणुकमसौ भवदर्थम् ।
राम राममधरीकृततत्तल्लेखकः प्रथममेव विधाता ॥ नैषधीयचरितम् - 21 - 69 ॥
उद्भव अजतनुजादज कामं विश्वभूषण न दूषणमत्र ।
दूषणप्रशमनाय समर्थं येन देव तव वैभवमेव ॥ नैषधीयचरितम् - 21 - 70 ॥
नो
ददासि यदि तत्त्वधियं मे
यच्छ मोहमपि तं रघुवीर ।
येन रावणचमूर्युधि मूढा त्वन्मयं जगद्
अपश्यत् अशेषम् ॥ नैषधीयचरितम् - 21 - 71 ॥
आज्ञया च पितुरज्ञभिया च श्रीः
अहीयत महीप्रभवा द्विः ।
लङ्घितश्च भवता किमु नद्विर्वारिराशिरुदकाङ्कगलङ्कः ॥ नैषधीयचरितम् - 21 - 72 ॥
कामदेवविशिखैः खलु नेशं मार्पयज्जनकजामिति रक्षः ।
दैवतादमरणे वरवाक्यं तथ्ययत्स्वम्
अपुनाद् भवदस्त्रैः ॥ नैषधीयचरितम् - 21 - 73 ॥
तद्यशो
हसति कम्बुकदम्बं शम्बुकस्य न किमम्बुधिचुम्बि ।
नामशेषितससैन्यदशास्यादस्तम्
आप यदसौ तव हस्तात् ॥ नैषधीयचरितम् - 21 - 74 ॥
मृत्युभीतिकरपुण्यजनेन्द्रत्रासदानजमुपार्ज्य यशस्तत् ।
ह्रीणवान्
असि कथं न विहाय क्षुद्रदुर्जनभिया निजदारान् ॥ नैषधीयचरितम् - 21 - 75 ॥
इष्टदारविरहौर्वपयोधिस्त्वं शरण्य शरणं स मम
एधि ।
लक्ष्मणक्षाणवियोगकृशानौ यः स्वजीविततृणाहुतियज्वा ॥ नैषधीयचरितम् - 21 - 76 ॥
क्रौञ्चदुःखमपि वीक्ष्य शुचा यः श्लोकमेकम्
असृजत् कविराद्यः ।
स त्वदुत्थकरुणः खलु काव्यं श्लोकसिन्धुमुचितं
प्रबबन्ध ॥ नैषधीयचरितम् - 21 - 77 ॥
विश्रवःपितृकयाप्तुमनर्हं सश्रवस्त्वमनयेत्युचितज्ञः ।
किं
चकर्तिथ न शूर्पणखाया लक्ष्मणेन वपुषा श्रवसी वा ॥ नैषधीयचरितम् - 21 - 78 ॥
ते
हरन्तु दुरितव्रततिं मे यैः स कल्पविटपी तव दोर्भिः ।
छद्मयादवतनोः
उदपाटि स्पर्धमान इव दानमदेन ॥ नैषधीयचरितम् - 21 - 79 ॥
बालकेलिषु तदा यद्
अलावीः कर्परीभिरभिहत्य तरङ्गान् ।
भाविबाणभुजभेदनलीलासूत्रपात्र इव
पातु तदस्मान् ॥ नैषधीयचरितम् - 21 - 80 ॥
कर्णशक्तिमफलां खलु कर्तुं सज्जितार्जुनरथाय नमस्ते ।
केतनेन कपिनोरसि शक्तिं लक्ष्मणं कृतवता हृतशल्यम् ॥ नैषधीयचरितम् - 21 - 81 ॥
नापगेयम्
अनयः सशरीरं द्यां वरेण नितरामपि भक्तम् ।
मा स
अभूत् सुरवधूसुरतज्ञो दिव्यपि व्रतविलोपभियेति ॥ नैषधीयचरितम् - 21 - 82 ॥
घातितार्कसुतकर्णदयालुर्जैत्रितेन्दुकुलपार्थकृतार्थः ।
अर्धदुःखसुखम्
अभ्यनयः त्वं सास्रुभानुविहसद्विधुनेत्रः ॥ नैषधीयचरितम् - 21 - 83 ॥
प्राणवत्प्रणयिराध न राधा पुत्रशत्रुसखिता सदृशी ते ।
श्रीप्रियस्य सदृगेव तवश्रीवत्समात्महृदि धर्तुमजस्रम् ॥ नैषधीयचरितम् - 21 - 84 ॥
तावकापरतनोः सितकेशस्त्वं हली किल स एव च शेषः ।
साध्वसाववतरस्तव
धत्ते तज्जरच्चिकुरनालविलासः ॥ नैषधीयचरितम् - 21 - 85 ॥
हृद्यगन्धवहभोगवतीशः शेषरूपमपि बिभ्रदशेषः ।
भोगभूतिमदिरारुचिरश्रीरुल्लसत्कुमुदबन्धुरुचिस्त्वम् ॥ नैषधीयचरितम् - 21 - 86 ॥
रेवतीशसुषमा किल नीलस्याम्बरस्य रुचिरा तनुभासा ।
कामपाल भवतः कुमुदाविर्भावभावितरुचेरुचितैव ॥ नैषधीयचरितम् - 21 - 87 ॥
एकचित्तततिरद्वयवादिन्नत्रयीपरिचितोऽथ बुधस्त्वम् ।
पाहि मां विधुतकोटिचतुष्कः पञ्चबाणविजयी षडभिज्ञः ॥ नैषधीयचरितम् - 21 - 88 ॥
तत्र मारजयिनि त्वयि साक्षात्कुर्वति क्षणिकतात्मनिषेधौ ।
पुष्पवृष्टिः
अपतत् सुरहस्तात्पुष्पशस्त्रशरसन्ततिरेव ॥ नैषधीयचरितम् - 21 - 89 ॥
तावके हृदि निपात्य कृतेयं मन्मथेन दृढधैर्यतनुत्रे ।
कुण्ठनादतितमां कुसुमानां छत्त्रमित्त्रमुखतैव शराणाम् ॥ नैषधीयचरितम् - 21 - 90 ॥
यत्तव स्तवविधौ विधिरास्ये चातुरीं
चरति तच्चतुरास्यः ।
त्वय्यशेषविदि जाग्रति शर्वः सर्वविद्ब्रुवतया शितिकण्ठः ॥ नैषधीयचरितम् - 21 - 91 ॥
भूमवत्कलयता युधि कालं म्लेच्छकल्पशिखिनां करवालम् ।
कल्किना दशतयं मम कल्कं त्वं व्युदस्य दशमावतरेण ॥ नैषधीयचरितम् - 21 - 92 ॥
देहिनेव यशसा भ्रमतोर्व्यां पाण्डुरेण रणरेणुभिरुच्चैः ।
विष्णुना जनयितुर्भवता
अभूत् नाम विष्णुयशसश्च सदर्थम् ॥ नैषधीयचरितम् - 21 - 93 ॥
सन्तमद्वयमयेऽध्वनि दत्तात्रेयमर्जुनयशोर्जनबीजम् ।
नौमि योगजयितानघसंज्ञं त्वामलर्कभवमोहतमोर्कम् ॥ नैषधीयचरितम् - 21 - 94 ॥
भानुसुनुमनुगृह्य
जय त्वं राममूर्तिहतवृत्रहपुत्रः ।
इन्द्रनन्दनसपक्षमपि त्वां
नौमि कृष्न निहतार्कतनूजम् ॥ नैषधीयचरितम् - 21 - 95 ॥
वामनादणुतमादनुजीयास्त्वं त्रिविक्रमतनूभृतदिक्कः ।
वीतहिंसनकथादथ बुद्धात्कल्किना हतसमस्त नमस्ते ॥ नैषधीयचरितम् - 21 - 96 ॥
मां त्रिविक्रम
पुनीहि पदे ते किं लगन्
अजनि राहुरुपानत् ।
किं प्रदक्षिणनकृद्भ्रमिपाशं जाम्बवान्
अदित ते बलिबन्धे ॥ नैषधीयचरितम् - 21 - 97 ॥
अर्धचक्रवपुषार्जुनबाहून्योऽलुनात्परशुनाथ सहस्रम् ।
तेन किं सकलचक्रविलूने बाणबाहुनिचये
अञ्चति चिक्रम् ॥ नैषधीयचरितम् - 21 - 98 ॥
पाञ्चजन्यमधिगत्य करेणापाञ्चजन्यमसुरानिति वक्षि ।
चेतनाः स्थ किल
पश्यत किं नाचेतनोऽपि मयि मुक्तविरोधः ॥ नैषधीयचरितम् - 21 - 99 ॥
तावकोरसि लसद्वनमाले श्रीफलद्विफलशाखिकयेव ।
स्थीयते कमलया त्वदजस्रस्पर्शकण्टकितयोत्कुचया च ॥ नैषधीयचरितम् - 21 - 100 ॥
त्यज्यते न जलजेन करस्ते शिक्षितुं सुभगभूयमिवोच्चैः ।
आननं च नयनायितबिम्बः
सेवते कुमुदहासकरांशुः ॥ नैषधीयचरितम् - 21 - 101 ॥
ये हिरण्यकशिपुं रिपुमुच्चै रावणं च कुरुवीरचयं च ।
हन्त हन्तुम्
अभवन् तव योगास्ते नरस्य च हरेश्च
जयन्ति ॥ नैषधीयचरितम् - 21 - 102 ॥
केयमर्धभवता भवता
ऊहे मायिना ननु भवः सकलस्त्वम् ।
शेषतामपि भजन्तमशेषं
वेद वेदनयनो हि जनस्त्वाम् ॥ नैषधीयचरितम् - 21 - 103 ॥
प्राग्भवैरुदगुदग्भवगुम्फान्मुक्तियुक्तिविहताविह तावत् ।
नापरः
स्फुरति कस्यचनापि त्वत्समाधिमवधूय समाधिः ॥ नैषधीयचरितम् - 21 - 104 ॥
ऊर्ध्वदिक्कदलनां द्विः
अकार्षीः किं तनुं हरिहरीभवनाय ।
किं च तिर्यगभिनो नृहरित्वे कः स्वतन्त्रमनु नन्वनुयोगः ॥ नैषधीयचरितम् - 21 - 105 ॥
आप्तकाम
सृजसि त्रिजगत्किं किं
भिनत्सि यदि निर्मितमेव ।
पासि चेदमवतीर्य मुहुः किं स्वात्मनापि यदवश्यविनाश्यम् ॥ नैषधीयचरितम् - 21 - 106 ॥
जाह्नवीजलजकौस्तुभचन्द्रान्पादपाणिहृदयेक्षणवृत्तीन् ।
उत्थिताब्धिसलिलात्त्वयि लोला श्रीःस्थिता परिचितान्परिचिन्त्य ॥ नैषधीयचरितम् - 21 - 107 ॥
वस्तु वास्तु
घटते न भिदानां यौक्तनैकविधबाधविरोधैः ।
तत्त्वदीहितविजृम्भिततत्तद्भेदमेतदिति तत्वनिरुक्तिः ॥ नैषधीयचरितम् - 21 - 108 ॥
वस्तु विश्वमुदरे तव दृष्ट्वा बाह्यवत्किल मृकण्डुतनूजः ।
स्वं विमिश्रमुभयं न विविञ्चन्निर्ययौ स कतमस्त्वम्
अवैषि ॥ नैषधीयचरितम् - 21 - 109 ॥
ब्रह्मणः
अस्तु तव शक्तिलतायां मूर्ध्नि विश्वमथ पत्युरहीनाम् ।
बालतां कलयतो जठरे वा सर्वथा
असि जगतामवलम्बः ॥ नैषधीयचरितम् - 21 - 110 ॥
धर्मबीजसलिला सरिदङ्घ्रावर्थमूलमुरसि
स्फुरति श्रीः ।
कामदैवतमपि प्रसवस्ते ब्रह्म मुक्तिदम्
असि स्वयमेव ॥ नैषधीयचरितम् - 21 - 111 ॥
लीलयापि तव नाम जना ये
गृह्णते नरकनाशकरस्य ।
तेभ्य एव नरकैरुचिता भीस्ते तु
बिभ्यतु कथं नरकेभ्यः ॥ नैषधीयचरितम् - 21 - 112 ॥
मृत्युहेतुषु न वज्रनिपाताद्भीतिम्
अर्हति जनस्त्वयि भक्तः ।
यत्तदा
उच्चरति वैष्णवकण्ठान्निष्प्रयत्नमपि नाम तव द्राक् ॥ नैषधीयचरितम् - 21 - 113 ॥
सर्वथापि शुचिनि क्रियमाणे मन्दिरोदर इवावकरा ये ।
उद्भवन्ति भविनां हृदि तेषां शोधनी भवदनुस्मृतिधारा ॥ नैषधीयचरितम् - 21 - 114 ॥
अस्मदाद्यविषयेऽपि विशेषे रामनाम तव धाम गुणानाम् ।
अन्वबन्धि भवतैव तु कस्मादन्यथा ननु जनुस्त्रितयेऽपि ॥ नैषधीयचरितम् - 21 - 115 ॥
भक्तिभाजमनुगृह्य दृशा मां भाष्करेण
कुरु वीततमस्कम् ।
अर्पितेन मम नाथ न तापं लोचनेन विधुना
विधुनासि ॥ नैषधीयचरितम् - 21 - 116 ॥
लङ्घयन्नहरहर्भवदाज्ञाम्
अस्मि हा विधिनिषेधमयीं यः ।
दुर्लभं स तपसापि गिरैव त्वत्प्रसादमहमिच्छुरलज्जः ॥ नैषधीयचरितम् - 21 - 117 ॥
विश्वरूप कृतविश्व कियत्ते वैभवाद्भुतमणौ हृदि
कुर्वे ।
हेम
नह्यति कियन्निजचीरे काञ्चनाद्रिमधिगत्य दरिद्रः ॥ नैषधीयचरितम् - 21 - 118 ॥
इत्युदीर्य स हरिं प्रति संप्रज्ञातवासिततमः
समपादि ।
भावनाबलविलोकितविष्णौ प्रीतिभक्तिसदृशानि चरिष्णुः ॥ नैषधीयचरितम् - 21 - 119 ॥
विप्रपाणिषु भृशं वसुवर्षी पात्रसात्कृतपितृक्रतुकव्यः ।
श्रेयसा हरिहरं परिपूज्य प्रह्व एष शरणं
प्रविवेश ॥ नैषधीयचरितम् - 21 - 120 ॥
माध्यन्दिनादनु विधेर्वसुधाषुधांशुरास्वादितामृतमयौदनमोदमानः ।
प्राञ्चं स चित्रमविदूरितवैजयन्तं वेश्माचलं निजरुचीभिः अलं
चकार ॥ नैषधीयचरितम् - 21 - 121 ॥
भीमात्मजापि कृतदैवतभक्तिपूजा पत्यौ च भुक्तवति भुक्तवती ततोऽनु ।
तस्याङ्कमङ्कुरिततत्परिरिप्समध्यम्
अध्यास्त भूषणभरातिभरालसाङ्गी ॥ नैषधीयचरितम् - 21 - 122 ॥
ताम्
अन्वगात् अशितबिम्बविपाकचञ्चोः स्पष्टं शलाटुपरिणत्युचितच्छदस्य ।
कीरस्य कापि करवारिरुहे वहन्ती सौन्दर्यपुञ्जमिव पञ्जरमेकमाली ॥ नैषधीयचरितम् - 21 - 123 ॥
कूजायुजा बहुलपक्षशितिम्नि सीम्ना स्पष्टं कुहूपदपदार्थमिथोऽन्वयेन ।
तिर्यग्धृतस्फटिकदण्डकवर्तिनैका ताम्
अन्ववर्तत पिकेन मदाधिकेन ॥ नैषधीयचरितम् - 21 - 124 ॥
शिष्याः कलाविधिषु भीमभुवो वयस्या वीणामृदुक्वणनकर्मणि याः प्रवीणाः ।
आसीनमेनमुपवीणयितुं
ययुः ता गन्धर्वराजतनुजा मनुजाधिराजम् ॥ नैषधीयचरितम् - 21 - 125 ॥
तासाम्
अभासत कुरङ्गदृशां विपञ्ची किञ्चित्पुरः कलितनिष्कलकाकलीका ।
भैमीतथामधुरकण्ठलतोपकण्ठे शब्दायितुं प्रथममप्रतिभावतीव ॥ नैषधीयचरितम् - 21 - 126 ॥
सा यद्धृताखिलकलागुणभूमभूमीभैमीतुलाधिगतये स्वरसङ्गता
आसीत् ।
तं प्रागसावविनयं परिवादमेत्य लोकेऽधुनापि विदिता परिवादिनीति ॥ नैषधीयचरितम् - 21 - 127 ॥
नादं निषादमधुरं ततम्
उज्जगार साभ्यासभागवनिभृत्कुलकुञ्जरस्य ।
स्तम्बेरमीव कृतसश्रुतिमूर्धकम्पा वीणा विचित्रकरचापलमाभजन्ती ॥ नैषधीयचरितम् - 21 - 128 ॥
आकृष्य सारमखिलं किमु वल्लकीनां तस्या मृदुस्वरम्
असर्जि न कण्ठनालम् ।
तेनान्तरं तरलभावमवाप्य वीणा ह्रीणा न कोणम्
अमुचत् किमु वालयेषु ॥ नैषधीयचरितम् - 21 - 129 ॥
तद्दम्पतिश्रुतिमधून्यथ चाटुगाथा वीणास्तथा
जगुः अतिस्फुटवर्णबन्धम् ।
इत्थं यथा वसुमतीरतिगृह्यकस्ताः कीरः किरन्मुदम्
उदीरयति स्म विश्वाः ॥ नैषधीयचरितम् - 21 - 130 ॥
अस्माकमुक्तिभिः
अवैष्यथ एव बुद्धेर्गाधं युवामतिमती
स्तुमहे तथापि ।
ज्ञानं हि वागवसरावचनाद्भवद्भ्यामेतावदप्यनवधारितमेव न
स्यात् ॥ नैषधीयचरितम् - 21 - 131 ॥
भूभृद्भवाङ्कभुवि राजशिखामणेः सा त्वं चास्य भोगसुभगस्य समः क्रमोऽयम् ।
यन्नाकपालकलनाकलितस्य भर्तुरत्रापि जन्मनि सती भवती स भेदः ॥ नैषधीयचरितम् - 21 - 132 ॥
एषा रतिः
स्फुरति चेतसि कस्य यस्याः
सूते रतिं द्युतिरथ त्वयि वा
आतनोति ।
त्रैयक्षवीक्षणखिलीकृतनिर्जरत्वसिद्धायुरध्वमकरध्वजसंशयं कः ॥ नैषधीयचरितम् - 21 - 133 ॥
एतां धरामिव सरिच्छविहारिहारामुल्लासितस्वमिदमाननचन्द्रभासा ।
बिभ्रद्
विभासि पयसामिव राशिरन्तर्वेदिश्रियं जनमनः प्रियमध्यदेशाम् ॥ नैषधीयचरितम् - 21 - 134 ॥
दत्ते जयं जनितपत्त्रनिवेशनेयं साक्षीकृतेन्दुवदना मदनाय तन्वी ।
मध्यस्थदुर्बलतमत्वफलं किमेतद्भुक्तिर्यदत्र तव भर्त्सितमत्स्यकेतोः ॥ नैषधीयचरितम् - 21 - 135 ॥
चेतोभवस्य भवती कुचपत्त्रराजधानीयकेतुमकरा ननु राजधानी ।
अस्यां महोदयमहस्पृशिमीनकेतो के तोरणं तरुणि न
ब्रुवते भ्रुवौ ते ॥ नैषधीयचरितम् - 21 - 136 ॥
अस्या भवन्तमनिशं भवतस्तथैनां कामः श्रमं न कथम्
ऋच्छति नाम गच्छन् ।
छायैव वामथ गतागतमाचरिष्णोस्तस्याध्वजश्रमहरा मकरध्वजस्य ॥ नैषधीयचरितम् - 21 - 137 ॥
स्वेदाप्लवप्रणयिनी नवरोमराजी रत्यै यद्
आचरति जागरितव्रतानि ।
आभासि तेन नरनाथ मधूत्थसान्द्रमग्नासमेषुशरकेशरदन्तुराङ्गः ॥ नैषधीयचरितम् - 21 - 138 ॥
प्राप्ता तवापि नृप जीवितदेवतेयं घर्माम्बुशीकरकरम्बनमम्बुजाक्षी ।
ते ते यथा रतिपतेः कुसुमानि बाणाः स्वेदस्तथैव किमु तस्य शरक्षतास्रम् ॥ नैषधीयचरितम् - 21 - 139 ॥
रागं प्रतीत्य युवयोस्तमिमं प्रतीची भानुश्च किं द्वयम्
अजायत रक्तमेतत् ।
तद्वीक्ष्य वां किमिह केलिसरित्सरोजैःकामेषुतोचितमुखत्वमधीयमानम् ॥ नैषधीयचरितम् - 21 - 140 ॥
अन्योन्यरागवशयोर्युवयोर्विलासस्वच्छन्दताच्छिद्
अपयातु तदालिवर्गः ।
अत्याजयन्सिचयमाजिमकारयन्वा दन्तैर्नखैश्च मदनो मदनः कथं
स्यात् ॥ नैषधीयचरितम् - 21 - 141 ॥
इति पठति शुके मृषा
ययुः ताः बहु नृपकृत्यमवेत्य सान्धिवेलम् ।
कुपितनिजसखीदृशार्धदृष्टाः कमलतयेव तदा निकोचवत्यः ॥ नैषधीयचरितम् - 21 - 142 ॥
अकृत परभृतः
स्तुहि स्तुहि इति श्रुतवचनस्रगनूक्तिचुञ्चुचञ्चुः ।
पठितनलनुतिं प्रतीव कीरं तमिव नृपं प्रति जातनेत्ररागः ॥ नैषधीयचरितम् - 21 - 143 ॥
तुङ्गप्रासादवासादथ भृशकृशतामायतीं केलिकुल्याम्
अद्राक्षीत् अर्कबिम्बप्रतिकृतिमणिना भीमजा राजमानाम् ।
वक्रं वक्रं व्रजन्तीं फणियुवतिरिति त्रस्नुभिर्व्यक्तमुक्तान्योन्यं विद्रुत्य तीरे रथपदमिथुनैः सूचितामर्तिरुत्या ॥ नैषधीयचरितम् - 21 - 144 ॥
अथ रथचरणौ विलोक्य रक्तावतिविरहासहताहताविवास्रैः ।
अपि तमकृत पद्मसुप्तिकालं श्वसनविकीर्णसरोजसौरभं सा ॥ नैषधीयचरितम् - 21 - 145 ॥
अभिलपति पतिं प्रति स्म भैमी सदय विलोकय कोकयोरवस्थाम् ।
मम हृदयमिमौ च भिन्दतीं हा क इव विलोक्य नरो न
रोदिति इमाम् ॥ नैषधीयचरितम् - 21 - 146 ॥
कुमुदमुदमुदेष्यतीमसोढा रविरविलम्बितुकामताम्
अतानीत् ।
प्रतितरु
विरुवन्ति किं शकुन्ताः स्वहृदि निवेशितकोककाकुकुन्ताः ॥ नैषधीयचरितम् - 21 - 147 ॥
अपि विरहमनिष्टमाचरन्तावधिगमपूर्वकपूर्वसर्वचेष्टौ ।
इदमहह निदर्शनं विहङ्गौ विधिवशचेतनचेष्टनानुमाने ॥ नैषधीयचरितम् - 21 - 148 ॥
अङ्घ्रिस्थारुणिमेष्टकाविसरणैः शोणे कृपाणः स्फुटं कालोऽयं विधिना रथाङ्गमिथुनं विच्छेत्तुमन्विच्छता ।
रश्मिग्राहिगरुत्मदग्रजसमारब्धाविरामभ्रमौ दण्डभ्राजिनि भानुशाणवलये संसज्य किं
तिज्यते ॥ नैषधीयचरितम् - 21 - 149 ॥
इति स विधुमुखीमुखेन मुग्धालपितसुधासवमर्पितं निपीय ।
स्मितशबलवलन्मुखः
अवदत् तां स्फुटमिदमीदृशमीदृशं यथा
आत्थ ॥ नैषधीयचरितम् - 21 - 150 ॥
स्त्रीपुंसौ प्रविभज्य जेतुमखिलावालोचितौचित्ययोर्नम्रां
वेद्मि रतिप्रसूनशरयोश्चापद्वयीं त्वद्भ्रुवौ ।
त्वन्नासाच्छलनिह्नुतां द्विनलिकीं नालीकमुक्त्येषिणोस्त्वन्निश्वासलते मधुश्वसनजं वायव्यमस्त्रं तयोः ॥ नैषधीयचरितम् - 21 - 151 ॥
पीतो वर्णगुणः स चातिमधुरः कायेऽपि तेऽयं यथा यं बिभ्रत्कनकं सुवर्णमिति कैरादृत्य न
उत्कीर्त्यते ।
का वर्णान्तरवर्णना धवलिमा राजैव रूपेषु यस्तद्योगादपि यावद्
एति रजतं दुर्वर्णतादुर्यशः ॥ नैषधीयचरितम् - 21 - 152 ॥
खण्डक्षोदमृदि स्थले मधुपयःकादम्बिनीतर्पणात्कृष्टे
रोहति दोहदेन पयसां पिण्डेन चेत्पुण्ड्रकः ।
स द्राक्षाद्रवसेचनैर्यदि फलं
धत्ते तदा त्वद्गिरामुद्देशाय ततोऽपि
उदेति मधुराधारस्तमप्प्रत्ययः ॥ नैषधीयचरितम् - 21 - 153 ॥
उन्मीलद्गुडपाकतन्तुलतया रज्ज्वा भ्रमीरर्जयन्दानान्तःश्रुतशर्कराचलमथः स्वेनामृतान्धाः स्मरः ।
नव्यामिक्षुरसोदधेर्यदि सुधाम्
उत्थापयेत् सा भवज्जिह्वायाः कृतिम्
आह्वयेत परमां मत्कर्णयोः पारणाम् ॥ नैषधीयचरितम् - 21 - 154 ॥
आस्ये या तव भारती
वसति तल्लीलारविन्दोल्लसद्वासे तत्कलवैणनिक्वणमिलद्वाणीविलासामृते ।
तत्केलिभ्रमणार्हगैरिकसुधानिर्माणहर्म्याधरे तन्मुक्तामणिहार एव किमयं दन्तस्रजौ राजतः ॥ नैषधीयचरितम् - 21 - 155 ॥
वाणी मन्मथतीर्थमुज्ज्वलरसस्रोतस्वती कापि ते खण्डः खण्ड इतीदमीयपुलिनस्य
आलप्यते वालुका ।
एतत्तीरमृदैव किं विरचिताः पूताः सिताश्चक्रिकाः किं पीयूषमिदम्पयांसि किमिदं तीरे तवैवाधरौ ॥ नैषधीयचरितम् - 21 - 156 ॥
परभृतयुवतीनां सम्यग्
आयाति गातुं न तव तरुणि वाणी यं सुधासिन्धुवेणी ।
कति न रसिककण्ठे कर्तुम्
अभ्यस्यते असौ भवदुपविपिनाम्रे ताभिराम्रेडितेन ॥ नैषधीयचरितम् - 21 - 157 ॥
ऊर्ध्वस्ते रदनच्छदः स्मरधनुर्बन्धूकमालामयं मौर्वी तत्र तवाधराधरतटाधःसीमलेखालता ।
एषा वागपि तावकी ननु धनुर्वेदः प्रिये मान्मथः सोऽयं कोणधनुष्मतीभिरुचितं वीणाभिः
आरभ्यते ॥ नैषधीयचरितम् - 21 - 158 ॥
स ग्राम्यः स विदग्धसंसदि सदा
गच्छति अपाङ्क्तेयतां तं च स्प्रस्ष्टुमपि स्मरस्य विशिखा मुग्धे विगानोन्मुखाः ।
यः किं मध्विति नाधरं तव कथं हेमेति न त्वद्वपुः कीदृङ्नाम सुधेति
पृच्छति न ते
दत्ते गिरं चोत्तरम् ॥ नैषधीयचरितम् - 21 - 159 ॥
मध्ये बद्धाणिमा यत्सगरिममहिमश्रोणिवक्षोजयुग्मा जाग्रच्चेतोवशित्वा स्मितधृतलिघिमा मां प्रतीशित्वमेषि ।
सूक्तौ प्राकाम्यरम्या दिशि विदिशि यशोलब्धकामावसाया भूतीरष्टावपीशस्तद्
अदित मुदितः स्वस्य शिल्पाय तुभ्यम् ॥ नैषधीयचरितम् - 21 - 160 ॥
त्वद्वाचः स्तुतये वयं न पटवः पीयूषमेव
स्तुमः तस्यार्थे गरुडामरेन्द्रसमरः स्थाने स
जाने अजनि ।
द्राक्षापानकमानमर्दनसृजा क्षीरे दृढावज्ञया यस्मिन्नाम धृतोऽनया निजपदप्रक्षालनानुग्रहः ॥ नैषधीयचरितम् - 21 - 161 ॥
शोकश्चेत्कोकयोस्त्वां सुदति
तुदति तद्
व्याहर अज्ञाकरस्ते गत्वा कुल्यामनस्तं व्रजितुमनुनये भानुमेतज्जलस्थम् ।
बद्धे मय्यञ्जलावप्यनुनयविमुखः
स्यात् ममैकग्रहोऽयं दत्त्वैवाभ्यां तदम्भोञ्जलिमिह भवतीं
पश्य मामेष्यमाणम् ॥ नैषधीयचरितम् - 21 - 162 ॥
तदानन्दाय त्वत्परिहसितकन्दाय भवती निजालीनां लीनां स्थितिमिह मुहूर्तं
मृगयताम् ।
इतिव्याजात्कृत्वालिषु चलितचित्तां सहचरीं स्वयं सोयं सायन्तनविधिविधित्सुर्बहिः
अभूत् ॥ नैषधीयचरितम् - 21 - 163 ॥
श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः
सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
तस्य
अगात् अयमेकविंशगणनाकाव्येऽतिनव्ये कृतौ भैमीभर्तृचरित्रवर्णनमये सर्गो निसर्गोज्ज्वलः ॥ नैषधीयचरितम् - 21 - 164 ॥
।। इति नैषधीयचरितमहाकाव्ये एकविंशसर्गः ।।
द्वाविंशसर्गः
उपास्य सान्ध्यं विधिमन्तिमाशारागेण कान्ताधरचुम्बिचेताः ।
अवाप्तवान्सप्तमभूमिभागे भैमीधरं सौधमसौ धरेन्द्रः ॥ नैषधीयचरितम् - 22 - 1 ॥
प्रत्युद्व्रजन्त्या प्रियया विमुक्तं पर्यङ्कमङ्कस्थितसज्जशय्यम् ।
अध्यास्य तामप्यधिवास्य सोऽयं सन्ध्याम्
उपश्लोकयति स्म सायम् ॥ नैषधीयचरितम् - 22 - 2 ॥
विलोकनेन
अनुगृहाण तावद्दिशं जलानामधिपस्य दारान् ।
अक्षालि लाक्षापयसेव येयम्
अपूरि पङ्कैरिव कुङ्कुमस्य ॥ नैषधीयचरितम् - 22 - 3 ॥
उच्चैस्तरादम्बरशैलमौलेश्च्युतो रविर्गैरिकगण्डशैलः ।
तस्यैव पातेन विचूर्णितस्य सन्ध्यारजोराजिरिह
उज्जिहीते ॥ नैषधीयचरितम् - 22 - 4 ॥
अस्ताद्रिचूडालयपक्कणालिच्छेकस्य किं कुक्कुटपेटकस्य ।
यामान्तकूजोल्लसितैः शिखौघैर्दिग्वारुणी द्रागरुणीकृतेयम् ॥ नैषधीयचरितम् - 22 - 5 ॥
पश्य द्रुतास्तङ्गतसूर्यनिर्यत्करावलीहैङ्गुलवेत्रयात्र ।
निषिध्यमानाहनि सन्ध्ययापि रात्रिप्रतीहारपदेऽधिकारम् ॥ नैषधीयचरितम् - 22 - 6 ॥
महानटः किं नु सभानुरागे सन्ध्याय सन्ध्यां कुनटीमपीशाम् ।
तनोति तन्वावियतापि तारश्रेणिस्रजा सांप्रतमङ्ग हारम् ॥ नैषधीयचरितम् - 22 - 7 ॥
भूषास्थिदाम्नस्त्रुटितस्य नाट्यात्
पश्य उडुकोटीकपटं वहद्भिः ।
दिग्मण्डलं
मण्डयति इह खण्डैः सायंनटस्तारकराट्किरीटः ॥ नैषधीयचरितम् - 22 - 8 ॥
कालः किरातः स्फुटपद्मकस्य वधं व्यधाद्यस्य दिनद्विपस्य ।
तस्येव सन्ध्या रुचिरास्रधारा ताराश्च कुम्भस्थलमौक्तिकानि ॥ नैषधीयचरितम् - 22 - 9 ॥
संध्यासरागः ककुभो विभागः शिवाविवाहे विभुनायमेव ।
दिग्वाससा पूर्वम्
अवैमि पुष्पसिन्दूरिकापर्वणि पर्यधायि ॥ नैषधीयचरितम् - 22 - 10 ॥
सतीमुमामुद्वहता च पुष्पसिन्दूरिकार्थं वसने सुनेत्रे ।
दिशौ द्विसन्धीमभि रागशोभे दिग्वाससोभे किम्
अलम्भिषाताम् ॥ नैषधीयचरितम् - 22 - 11 ॥
आदाय दण्डं सकलासु दिक्षु योऽयं
परिभ्राम्यति भानुभिक्षुः ।
अब्धौ निमज्जन्निव तापसोऽयं सन्ध्याभ्रकाषायम्
अधत्त सायम् ॥ नैषधीयचरितम् - 22 - 12 ॥
अस्ताचलेऽस्मिन्निकषोपलाभे सन्ध्याकषोल्लेखपरीक्षितो यः ।
विक्रीय तं हेलिहिरण्यपिण्डं तारावराटानियम्
आदित द्यौः ॥ नैषधीयचरितम् - 22 - 13 ॥
पचेलिमं दाडिममर्कबिम्बमुत्तार्य सन्ध्या त्वगिवोज्झितास्य ।
तारामयं बीजभुजादसीयं कालेन निष्ठ्यूतमिवास्थियूथम् ॥ नैषधीयचरितम् - 22 - 14 ॥
ताराततिर्बीजमिवादमादमियं
निरष्ठेवि यदस्थियूथम् ।
तन्निष्कुलाकृत्य रविं त्वगेषा सन्ध्योज्झिता पाकिमदाडिमं वा ॥ नैषधीयचरितम् - 22 - 15 ॥
सन्ध्यावशेषे धृतताण्डवस्य चण्डीपतेः पत्पतनाभिघातात् ।
कैलासशैलस्फटिकाश्मखण्डैः
अमण्डि पश्य उत्पतयालुभिर्द्यौः ॥ नैषधीयचरितम् - 22 - 16 ॥
इत्थं ह्रिया वर्णनजन्मनेव सन्ध्यामपक्रान्तवतीं प्रतीत्य ।
तारातमोदन्तुरमन्तरिक्षं निरीक्षमाणः स पुनः
बभाषे ॥ नैषधीयचरितम् - 22 - 17 ॥
रामेषुमर्मव्रणनार्तिवेगाद्रत्नाकरः प्रागयम्
उत्पपात ।
ग्राहौघकिर्मीरितमीनकम्बु नभो न भोः कामशरासनभ्रु ॥ नैषधीयचरितम् - 22 - 18 ॥
मोहाय देवाप्सरसां विमुक्तास्ताराः शराः पुष्पशरेण
शङ्के ।
पञ्चास्यवत्पञ्चशरस्य नाम्नि प्रपञ्चवाची खलु पञ्चशब्दः ॥ नैषधीयचरितम् - 22 - 19 ॥
नभोनदीकूलकुलायचक्रीकुलस्य नक्तं विरहाकुलस्य ।
दृशोरपां
सन्ति पृषन्ति ताराः
पतन्ति तत्संक्रमणानि धाराः ॥ नैषधीयचरितम् - 22 - 20 ॥
अमूनि
मन्ये अमरनिर्झरिण्या यादांसि गोधा मकरः कुलीरः ।
तत्पूरखेलत्सुरभीतिदूरो मग्नान्यधः स्पष्टमितः प्रतीमः ॥ नैषधीयचरितम् - 22 - 21 ॥
स्मरस्य कम्बुः किमयं
चकास्ति दिवि त्रिलोकीजयवादनीयः ।
कस्यापरस्योडुमयैः प्रसूनैर्वादित्रशक्तिः
घटते भटस्य ॥ नैषधीयचरितम् - 22 - 22 ॥
किं योगिनीयं रजनी रतीशं याजीजिवत्पद्मम्
अमूमुहत् च ।
योगर्द्धिमस्या महतीमलग्नमिदं
वदति अम्बरचुम्बि कम्बु ॥ नैषधीयचरितम् - 22 - 23 ॥
प्रबोधकालेऽहनि बाधितानि ताराः खपुष्पाणि निदर्शयन्ती ।
निशा
आह शून्याध्वनि योगिनीयं मृषा जगद्दृष्टमपि स्फुटाभम् ॥ नैषधीयचरितम् - 22 - 24 ॥
एणः स्मरेणाङ्कमयः सपत्राकृतो भवद्भ्रूयुगधन्वना यः ।
मुखे तवेन्दौ लसता स तारा पुष्पालिबाणानुगतो गतोऽयम् ॥ नैषधीयचरितम् - 22 - 25 ॥
लोकाश्रयो मण्डपमादिसृष्टिब्रह्माण्डम्
आभाति अनुकाष्ठमस्य ।
स्वकान्तिरेणूत्करवान्तिमन्ति घुणव्रणद्वारनिभानि भानि ॥ नैषधीयचरितम् - 22 - 26 ॥
शचीसपत्न्यां दिशि
पश्य भैमी शक्रेभदानद्रवनिर्झरस्य ।
पोप्लूयते वासरसेतुनाशादुच्छृङ्खलः पूर इवान्धकारः ॥ नैषधीयचरितम् - 22 - 27 ॥
रामालिरोमावलिदिग्विगाहि ध्वान्तायते वाहनमन्तकस्य ।
यद्वीक्ष्य दूरादिव बिभ्यतः स्वानश्वान्गृहीत्वापसृतो विवस्वान् ॥ नैषधीयचरितम् - 22 - 28 ॥
पक्वं महाकालफलं किला
आसीत् प्रत्यग्गिरेः सानुनि भानुबिम्बम् ।
भिन्नस्य तस्यैव दृषन्निपाताद्बीजानि जानामितमां तमांसि ॥ नैषधीयचरितम् - 22 - 29 ॥
पत्युर्गिरीणामयशः सुमेरुप्रदक्षिणाद्भास्वदनादृतस्य ।
दिशस्तमश्चैत्ररथान्यनामपत्रच्छटाया मृगनाभिशेभि ॥ नैषधीयचरितम् - 22 - 30 ॥
ऊर्ध्वं धृतं व्योम सहस्ररश्मेर्दिवा सहस्रेण करैरिव
आसीत् ।
पतत्तदेवांशुमता विनेदं नेदिष्ठताम्
एति कुतस्तमिस्रम् ॥ नैषधीयचरितम् - 22 - 31 ॥
ऊर्ध्वार्पितन्युब्जकटाहकल्पे यद्व्योम्नि दीपेन दिनाधिपेन ।
न्यधायि तद्भूममिलद्गुरुत्वं भूमौ तमः कज्जलमस्खलत्किम् ॥ नैषधीयचरितम् - 22 - 32 ॥
ध्वान्तैणनाभ्या शितिनाम्बरेण दिशः शरैः सूनशरस्य तारैः ।
मन्दाक्षलक्ष्या निशि मामनिन्दौ सेर्ष्या
भव आयान्ति अभिसारिकाभाः ॥ नैषधीयचरितम् - 22 - 33 ॥
भास्वन्मयीं मीलयतो दृशं द्राङ्मिथोमिलद्व्यञ्चलमादिपुंसः ।
आचक्ष्महे तन्वि तमांसि पक्ष्म श्यामत्वलक्ष्मीविजितेन्दुलक्ष्म ॥ नैषधीयचरितम् - 22 - 34 ॥
विवस्वतानायिषतेव मिश्राः स्वगोसहस्रेण समं जनानाम् ।
गावोऽपि नेत्रापरनामधेयास्तेनेदमान्ध्यं खलु नान्धकारैः ॥ नैषधीयचरितम् - 22 - 35 ॥
ध्वान्तस्य वामोरु विचारणायां वैशेषिकं चारु मतं मतं मे ।
औलूकम्
आहुः खलु दर्शनं तत्क्षमं तमस्तत्त्वनिरूपणाय ॥ नैषधीयचरितम् - 22 - 36 ॥
म्लानिस्पृशः स्पर्शनिषेधभूमेः सेयं त्रिशङ्कोरिव सम्पदस्य ।
न किञ्चिदन्यत्प्रति कौशिकीये दृशौ विहाय प्रियम्
आतनोति ॥ नैषधीयचरितम् - 22 - 37 ॥
मूर्धाभिषिक्तः खलु यो ग्रहाणां तद्भासमास्कन्दत ऋक्षशोभम् ।
दिवान्धकारं स्फुटलब्धरूपम्
आलोकत आलोकमुलूकलोकः ॥ नैषधीयचरितम् - 22 - 38 ॥
दिने मम द्वेषिणि कीदृगेषां प्रचार इत्याकलनाय चारीः ।
छाया विधाय प्रतिवस्तुलग्नाः
प्रावेशयत् प्रष्टुमिवान्धकारः ॥ नैषधीयचरितम् - 22 - 39 ॥
ध्वान्तस्य तेन क्रियमाणयेत्थं द्विषाः शशी वर्णनयाऽथ रुष्टः ।
उद्यन्न
उपाश्लोकि जपारुणश्रीर्नराधिपेनानुनयेच्छयेव ॥ नैषधीयचरितम् - 22 - 40 ॥
पश्यन्वृतोऽप्येष निमेषमद्रेरधित्यकाभूमितिरस्करिण्या ।
प्रवर्षति प्रेयसि चन्द्रिकामिश्चकोरचञ्चूचुलुकप्रमिन्दुः ॥ नैषधीयचरितम् - 22 - 41 ॥
ध्वान्ते द्रुमान्तानभिसारिकास्त्वं
शङ्कस्व सङ्केतनिकेतमाप्ताः ।
छायाच्छलादुज्झितनीलचेला ज्योत्स्नानुकूलैश्चरिता दुकूलैः ॥ नैषधीयचरितम् - 22 - 42 ॥
त्वदास्यलक्ष्मीमुकुरं चकोरैः स्वकौमुदीमादयमानमिन्दुम् ।
दृशा निशेन्दीवरचारुभासा
पिब उरु रम्भातरुपीवरोरु ॥ नैषधीयचरितम् - 22 - 43 ॥
असंशयं सागरभागुदस्थात्पृथ्वीधरादेव मथः पुरायम् ।
अमुष्य यस्मादधुनापि सिन्धौ स्थितस्य शैलादुदयं प्रतीमः ॥ नैषधीयचरितम् - 22 - 44 ॥
निजानुजेनातिथितामुपेतः प्राचीपतेर्वाहनवारणेन ।
सिन्दूरसान्द्रे किम्
अकारि मूर्ध्नि तेनारुणश्रीरयम्
उज्जिहीते ॥ नैषधीयचरितम् - 22 - 45 ॥
यत्प्रीतिमद्भिर्वदनैः स्वसाम्याद्
अचुम्बि नाकाधिपनायिकानाम् ।
ततस्तदीयाधरयावयोगाद्
उदेति बिम्बारुणबिम्ब एषः ॥ नैषधीयचरितम् - 22 - 46 ॥
विलोमिताङ्कोत्किरणाद्दुरूहदृगादिना दृश्यविलोचनादि ।
विधिः
विधत्ते विधुना वधूनां किमाननं काञ्चनसञ्चकेन ॥ नैषधीयचरितम् - 22 - 47 ॥
अनेन वेधा विपरीतरूपविनिर्मिताङ्कोत्किरणाङ्गकेन ।
त्वदाननं दृश्यदृगाद्यलक्ष्यदृगादिनैव
अकृत सञ्चकेन ॥ नैषधीयचरितम् - 22 - 48 ॥
अस्याः सुराधीशदिशः पुरा
आसीत् यदम्बरं पीतमिदं रजन्या ।
चन्द्रांशुचूर्णव्यतिचुम्बितेन तेनाधुना नूनम् अलोहितायि ॥ नैषधीयचरितम् - 22 - 49 ॥
तानीव गत्वा पितृलोकमेनम् अरञ्जयन् यानि स जामदग्न्यः ।
छित्त्वा शिरोस्त्राणि सहस्रबाहोर्विस्राणि विश्राणितवान्पितृभ्यः ॥ नैषधीयचरितम् - 22 - 50 ॥
अकर्णनासः
त्रपते मुखं ते पश्यन्न सीतास्यमिवाभिरामम् ।
रक्तोस्रवर्षी बत लक्ष्मणाभिभूतः शशी शूर्पणखामुखाभः ॥ नैषधीयचरितम् - 22 - 51 ॥
आदत्त दीप्रं मणिमम्बरस्य दत्त्वा यदस्मै खलु सायधूर्तः ।
रज्यत्तुषारद्युतिकूटहेम तत्पाण्डु जातं रजतं क्षणेन ॥ नैषधीयचरितम् - 22 - 52 ॥
बालेन नक्तंसमयेन मुक्तं रौप्यं लसद्बिम्बमिवेन्दुबिम्बम् ।
भ्रमिक्रमादुज्झितपट्टसूत्रनेत्रावृतिं
मुञ्चति शोणिमानम् ॥ नैषधीयचरितम् - 22 - 53 ॥
ताराक्षरैर्यामसिते कठिन्या निशा
अलिखत् व्योम्नि तमःप्रशस्तिम् ।
विलुप्य तामल्पयतोऽरुणेऽपि जातः करे पाण्डुरिमा हिमांशोः ॥ नैषधीयचरितम् - 22 - 54 ॥
सितो यदात्रैष तदान्यदेशे
चकास्ति रज्यच्छविरुज्जिहानः ।
तदित्थमेतस्य निधेः कलानां को
वेद वा रागविरागतत्त्वम् ॥ नैषधीयचरितम् - 22 - 55 ॥
कश्मीरजै रश्मिभिरौपसन्ध्यैर्मृष्टं धृतध्वान्तकुरङ्गनाभि ।
चन्द्रांशुना चन्दनचारुणाङ्गं क्रमात्
समालम्भि दिगङ्गनाभिः ॥ नैषधीयचरितम् - 22 - 56 ॥
विधिस्तुषारर्तुदिनानि कर्तंकर्तं
विनिर्माति तदन्तभित्तैः ।
ज्योत्स्नीर्नचेत्तत्प्रतिमा इमा वा कथं कथं तानि च वामनानि ॥ नैषधीयचरितम् - 22 - 57 ॥
इत्युक्तिशेषे स वधूं
बभाषे सूक्तिश्रुतासक्तिनिबद्धमौनाम् ।
मुखाभ्यसूयानुशयादिवेन्दौ केयं तव प्रेयसि मूकमुद्रा ॥ नैषधीयचरितम् - 22 - 58 ॥
शृङ्गारभृङ्गारसुधाकरेण वर्णस्रजा अनूपय कर्णकूपौ ।
त्वच्चारुवाणीरसवेणितीरं तृणानुकारः खलु कोषकारः ॥ नैषधीयचरितम् - 22 - 59 ॥
अत्रैव वाणीमधुना तवापि श्रोतुं
समीहे मधुनः सनाभिम् ।
इति प्रियप्रेरितया तयाथ प्रस्तोतुम्
आरम्भि शशिप्रशस्तिः ॥ नैषधीयचरितम् - 22 - 60 ॥
पूरं विधुर्वर्धयितुं पयोधेः
शङ्के अयमेणाङ्कमणिं कियन्ति ।
पयांसि
दोग्धि प्रियविप्रयोगसशोककोकीनयने कियन्ति ॥ नैषधीयचरितम् - 22 - 61 ॥
ज्योत्स्नामयं रात्रिकलिन्दकन्यापूरानुकारेऽपसृतेऽन्धकारे ।
परिस्फुरन्निर्मलदीप्तिदीपं व्यक्तायते सैकतमन्तरीपम् ॥ नैषधीयचरितम् - 22 - 62 ॥
हासत्विषैवाखिलकैरवाणां विश्वं
विशङ्के अजनि दुघ्दमुग्धम् ।
यतो दिवा बद्धमुखेषु तेषु स्थितेऽपि चन्द्रे न तथा
चकास्ति ॥ नैषधीयचरितम् - 22 - 63 ॥
मृत्युंजयस्यैष वसञ्जटायां न
क्षीयते तद्भयदूरमृत्युः ।
न
वर्धते च स्वसुधाप्तजीवस्रग्मुण्डराहूद्भवभीरतीव ॥ नैषधीयचरितम् - 22 - 64 ॥
त्विषं चकोराय सुधां सुराय कलामपि स्वावयवं हराय ।
ददत्
जयति एष समस्तमस्य कल्पद्रुमभ्रातुरथाल्पमेतत् ॥ नैषधीयचरितम् - 22 - 65 ॥
अङ्केणनाभेर्विषकृष्णकण्ठः सुधाप्तशुद्धः कटभस्मपाण्डुः ।
अर्हन्नपीन्दोर्निजमौलिधानान्मृडः कलाम्
अर्हति षोडशीं न ॥ नैषधीयचरितम् - 22 - 66 ॥
पुष्पायुधस्यास्थिभिरर्धदग्धैः सितासितश्रीः
अघटि द्विजेन्द्रः ।
स्मरारिणा मूर्धनि यद्धृतोऽपि
तनोति तत्तौष्टिकपौष्टिकानि ॥ नैषधीयचरितम् - 22 - 67 ॥
मृगस्य लोभात्खलु सिंहिकायाः सूनुर्मृगाङ्कं कवली
करोति ।
स्वस्यापि दानादमुमङ्कसुप्तं नोज्झन्मुदा तेन च
मुच्यते अयम् ॥ नैषधीयचरितम् - 22 - 68 ॥
सुधाभुजो यत्परिपीय तुच्छमेतं
वितन्वन्ति तदर्हमेव ।
पुरा निपीयास्य पितापि सिन्धुः
अकारि तुच्छः कलशोद्भवेन ॥ नैषधीयचरितम् - 22 - 69 ॥
चतुर्दिगन्तीं परिपूरयन्ती ज्योत्स्नैव कृत्स्ना सुरसिन्धुबन्धुः ।
क्षीरोदपूरोदरवासहार्दवैरस्यमेतस्य
निरस्यति इयम् ॥ नैषधीयचरितम् - 22 - 70 ॥
पुत्री विधोस्ताण्डविका
अस्तु सिन्धोरश्या चकोरस्य दृशोर्वयस्या ।
तथापि सेयं कुमुदस्य कापि
ब्रवीति नामैव हि कौमुदीति ॥ नैषधीयचरितम् - 22 - 71 ॥
ज्योत्स्नापयःक्ष्मातटवास्तुवस्तुच्छायाछलच्छिद्रधरा धरायाम् ।
शुभ्रांशुशुभ्रांशकराः कलङ्कनीलप्रभामिश्रविभा
विभान्ति ॥ नैषधीयचरितम् - 22 - 72 ॥
कियान्यथानेन वियद्विभागस्तमोनिरासाद्विशदीकृतोयम् ।
अद्भिस्तथा लावणसैन्धवीभिरुल्लासिताभिः शितिरपि
अकारि ॥ नैषधीयचरितम् - 22 - 73 ॥
गुणौ पयोधेर्निजकारणस्य न हानिवृद्धी कथम्
एतु चन्द्रः ।
चिरेण सोऽयं
भजते तु यत्ते न नित्यमम्भोधिरिवात्र चित्रम् ॥ नैषधीयचरितम् - 22 - 74 ॥
आदर्शदृश्यत्वमपि श्रितोऽयमादर्शदृश्यां न
बिभर्ति मूर्तिम् ।
त्रिनेत्रभूरप्ययमत्रिनेत्रादुत्पादम्
आसादयति स्म चित्रम् ॥ नैषधीयचरितम् - 22 - 75 ॥
इज्येव देवव्रजभोज्यर्द्धिः शुद्धा सुधादीधितिमण्डलीयम् ।
हिंसां यथा सैव तथाङ्गमेषा कलङ्कमेकं मलिनं
बिभर्ति ॥ नैषधीयचरितम् - 22 - 76 ॥
एकः पिपासुः प्रवहानिलस्य च्युतो रथाद्वाहनरङ्कुरेषः ।
अस्ति म्बरेऽनम्बुनि लेलिहास्यः पिबन्नमुष्यामृतबिन्दुवृन्दम् ॥ नैषधीयचरितम् - 22 - 77 ॥
अस्मिञ्शिशौ न स्थित एव रङ्कुर्यूनि प्रियाभिर्विहितोपदायम् ।
आरण्यसंदेश इवौषधीभिरङ्के स
शङ्के विधुना
न्यधायि ॥ नैषधीयचरितम् - 22 - 78 ॥
अस्यैव सेवार्थमुपागतानामास्वादयन्पल्लवमोषधीनाम् ।
धयन्नमुष्यैव सुधाजलानि सुखं
वसति एष कलङ्करङ्कुः ॥ नैषधीयचरितम् - 22 - 79 ॥
रुद्रेषुविद्रावितमार्तमारात्तारामृगं व्योमनि वीक्ष्य बिभ्यत् ।
मन्ये अयमन्यः शरणं
विवेश मत्वेशचूडामणिमिन्दुमेणः ॥ नैषधीयचरितम् - 22 - 80 ॥
पृष्ठेऽपि किं
तिष्ठति नाथ रङ्कुर्विधोरङ्क इवेति शङ्का ।
तत्त्वाय
तिष्ठस्व मुखे स्व एवं यद्द्वैरथे पृष्ठम्
अपश्यत् अस्य ॥ नैषधीयचरितम् - 22 - 81 ॥
उत्तानमेवास्य वलक्षकुक्षिं देवस्य युक्तिः शशमङ्कम्
आह ।
तेनाधिकं देवगवेष्वपि
स्यां श्रद्धालुरुत्तानगतौ श्रुतायाम् ॥ नैषधीयचरितम् - 22 - 82 ॥
दूरस्थितैर्वस्तुनि रक्तनीले
विलोक्यते केवलनीलिमा यत् ।
शशस्य तिष्ठन्नपि पृष्ठलोम्नां तन्नः परोक्षः खलु रागभागः ॥ नैषधीयचरितम् - 22 - 83 ॥
भङ्क्तुं प्रभुर्व्याकरणस्य दर्पं पदप्रयोगाध्वनि लोक एषः ।
शशो यदस्य
अस्ति शशी ततोऽयमेवं मृगोऽस्य
अस्ति मृगीति नोक्तः ॥ नैषधीयचरितम् - 22 - 84 ॥
यावन्तमिन्दुं प्रतिपत्
प्रसूते प्रासावि तावानयमब्धिनापि ।
तत्कालमीशेन धृतस्य मूर्ध्नि विधोरणीयस्त्वमिह
अस्ति लिङ्गम् ॥ नैषधीयचरितम् - 22 - 85 ॥
आरोप्यते चेदिह केतकत्वमिन्दौ दलाकारकलाकलापे ।
तत्
संवदति अङ्कमृगस्य नाभिकस्तूरिक्रा सौरभवासनाभिः ॥ नैषधीयचरितम् - 22 - 86 ॥
आसीत् यथाज्यौतिषमेष गोलः शशी समक्षं चिपिटस्तथः
अभूत् ।
स्वर्भानुदंष्ट्रायुगयन्त्रकृष्टपीयूषपिण्याकदशावशेषः ॥ नैषधीयचरितम् - 22 - 87 ॥
असावसाम्याद्वितनोः सखा नो कर्पूरमिन्दुः खलु तस्य मित्रम् ।
दग्धौ हि तौ द्वावपि पूर्वरूपाद्यद्वीर्यवत्तामधिकां
दधाते ॥ नैषधीयचरितम् - 22 - 88 ॥
स्थाने विधोर्वा मदनस्य सख्यं स शम्भुनेत्रे ज्वलति प्रलीनः ।
अयं लयं
गच्छति दर्शभाजि भास्वन्मये चक्षुषि चादिपुंसः ॥ नैषधीयचरितम् - 22 - 89 ॥
नेत्रारविन्दत्वम्
अगात् मृगाङ्कः पुरा पुराणस्य यदेष पुंसः ।
अस्याङ्क एवायम्
अगात् तदानीं कनीनिकेन्दिन्दिरसुन्दरत्वम् ॥ नैषधीयचरितम् - 22 - 90 ॥
देवेन तेनैष च काश्यपिश्च साम्यं समीक्ष्योभयपक्षभाजौ ।
द्विजाधिराजौ हरिणाश्रितौ च युक्तं नियुक्तौ नयनक्रियायाम् ॥ नैषधीयचरितम् - 22 - 91 ॥
यैः
अन्वमायि ज्वलनस्तुषारे सरोजिनीदाहविकारहेतोः ।
तदीयधूमौघतया हिमांशौ
शङ्के कलङ्कोऽपि समर्थितस्तैः ॥ नैषधीयचरितम् - 22 - 92 ॥
स्वेदस्य धाराभिरिवापगाभिर्व्याप्ता जगद्भारपरिश्रमार्ता ।
छायापदेशाद्वसुधा निमज्ज्य सुधाम्बुधौ
उज्झति खेदमत्र ॥ नैषधीयचरितम् - 22 - 93 ॥
ममानुमैवं बहुकालनीलीनिपातनीलः खलु हेमशैलः ।
इन्दोर्जगच्छायमये प्रतीके पीतोऽपि भागः प्रतिबिम्बितः
स्यात् ॥ नैषधीयचरितम् - 22 - 94 ॥
मा
अवापत् उन्निद्रसरोजपूजा श्रियं शशी पद्मनिमीलितेजाः ।
अक्षिद्वयेनैव निजाङ्करङ्कोरलंकृतस्तामयम्
एति मन्ये ॥ नैषधीयचरितम् - 22 - 95 ॥
य एष
जागर्ति शशः शशाङ्के बुधो
विधत्ते क इवात्र चित्रम् ।
अन्तः किलैतत्पितुरम्बुराशेः
आसीत् तुरङ्गोऽपि मतङ्गजोऽपि ॥ नैषधीयचरितम् - 22 - 96 ॥
गौरे प्रिये भातितमां तमिस्रा ज्यौत्स्नी च नीले दयिता यदस्मिन् ।
शोभाप्तिलोभादुभयोस्तयोर्वा सितासितां मूर्तिमयं
बिभर्ति ॥ नैषधीयचरितम् - 22 - 97 ॥
वर्षातपानावरणं चिराय काष्ठौघमालम्ब्य समुत्थितेषु ।
बालेषु ताराकवकेष्विहैकं विकस्वरीभूतम्
अवैमि चन्द्रम् ॥ नैषधीयचरितम् - 22 - 98 ॥
दिनावसाने तरणेरकस्मान्निमज्जनाद्विश्वविलोचनानि ।
अस्य प्रसादादुडुपस्य नक्तं तमोविपद्द्वीपवतीं
तरन्ति ॥ नैषधीयचरितम् - 22 - 99 ॥
किं नाक्ष्णि नोऽपि क्षणिकोऽणुकोऽयं भान्
अस्ति तेजोमयबिन्दुरिन्दुः ।
अत्रेस्तु नेत्रे
घटते यद्
आसीत् मासेन नाशी महतो महीयान् ॥ नैषधीयचरितम् - 22 - 100 ॥
त्रातुं पतिं नौषधयः स्वशक्त्या मन्त्रेण विप्राः क्षयिणं न
शेकुः ।
एनं पयोधिर्मणिभिर्न पुत्रं सुधा प्रभावैर्न निजाश्रयं वा ॥ नैषधीयचरितम् - 22 - 101 ॥
मृषा निशानाथमहः सुधा वा
हरेत् असौ वा न जराविनाशौ ।
पीत्वा कथं नापरथा चकोरा विधोर्मरीचीनजरामराः
स्युः ॥ नैषधीयचरितम् - 22 - 102 ॥
वाणीभिराभिः परिपत्त्रिमाभिर्नरेन्द्रमानन्दजडं
चकार ।
मुहूर्तमाश्चर्यरसेन भैमी हैमीव वृष्टिः स्तिमितं च तं सा ॥ नैषधीयचरितम् - 22 - 103 ॥
इतो मुखाद्वागियमाविरासीत्पीयूषधारामधुरेति जल्पन् ।
अचुम्बत् अस्याः स मुखेन्दुबिम्बं संवावदूकश्रियमम्बुजानाम् ॥ नैषधीयचरितम् - 22 - 104 ॥
प्रियेण साथ प्रियमेवमुक्ता विदर्भभूमीपतिवंशमुक्ता ।
स्मितांशुजालं
विततार तारा दिवः स्फुरन्तीव कृतावतारा ॥ नैषधीयचरितम् - 22 - 105 ॥
स्ववर्णना न स्वयम्
अर्हति इति नियुज्य मां त्वन्मुखमिन्दुरूपम् ।
स्थानेऽति
उदास्ते शशिनः प्रशस्तौ धरातुरासाहमिति स्म सा
आह ॥ नैषधीयचरितम् - 22 - 106 ॥
तयेरितः प्राणसमः सुमुख्या गिरं परीहासरसोत्किरां सः ।
भूलोकसारः स्मितवाक् तुषारभानुं भणिष्यन्सुभगां
बभाण ॥ नैषधीयचरितम् - 22 - 107 ॥
तवानने जातचरीं निपीय गीतिं तदाकर्णनलोलुपोऽयम् ।
हातुं नु जातु
स्पृहयति अवैमि विधुं मृगस्त्वद्वदनभ्रमेण ॥ नैषधीयचरितम् - 22 - 108 ॥
इन्दोर्भ्रमेणोपगमाय योग्ये जिह्वा तवास्ये विधुवास्तुमन्तम् ।
गीत्या मृगं
कर्षतु भन्त्स्यता किं पाशी
बभूवे श्रवणद्वयेन ॥ नैषधीयचरितम् - 22 - 109 ॥
आप्यायनाद्वा रुचिभिः सुधांशोः शैत्यात्तमःकाननजन्मनो वा ।
यावन्निशायामथ घर्मदुःस्थस्तावद्
व्रजति अह्नि न शब्दपान्थः ॥ नैषधीयचरितम् - 22 - 110 ॥
दूरेऽपि तत्तावकगानपानाल्लब्धावधिः स्वादुरसोपभोगे ।
अवज्ञयैव
क्षिपति क्षपायाः पतिः खलु स्वान्यमृतानि भासः ॥ नैषधीयचरितम् - 22 - 111 ॥
अस्मिन्न विस्मापयते अयमस्मांश्चक्षुः
बभूव एष यदादिपुंसः ।
तदत्रिनेत्रादुदितस्य तन्वि कुलानुरूपं किल रूपमस्य ॥ नैषधीयचरितम् - 22 - 112 ॥
आभिर्मृगेन्द्रोदरि कौमुदीभिः क्षीरस्य धाराभिरिव क्षाणेन ।
अक्षालि नीली रुचिरम्बरस्था तमोमयीयं रजनीरजक्या ॥ नैषधीयचरितम् - 22 - 113 ॥
पयोमुचां मेचकिमानमुच्चैरुच्चाटयामास ऋतुः शरद्या ।
अपारि वामोरु तयापि किञ्चिन्न प्रोञ्छितुं लाञ्छनकालिमाष्य ॥ नैषधीयचरितम् - 22 - 114 ॥
एकादशैकादशरुद्रमौलीनस्तं यतो
यान्ति कलाः किमस्य ।
प्रविश्य शेषास्तु
भवन्ति पञ्चपञ्चेषुतूणीमिषवोऽर्धचन्द्राः ॥ नैषधीयचरितम् - 22 - 115 ॥
निरन्तरत्वेन निधाय तन्वि तारासहस्राणि यदि
क्रियेत ।
सुधांशुरन्यः स कलङ्कमुक्तस्तदा त्वदास्यश्रियम्
आश्रयेत ॥ नैषधीयचरितम् - 22 - 116 ॥
यत्पद्ममादित्सु तवाननीयां कुरङ्गलक्ष्मा च मृगाक्षि लक्ष्मीम् ।
एकार्थलिप्साकृत एष
शङ्के शशाङ्कपङ्केरुहयोर्विरोधः ॥ नैषधीयचरितम् - 22 - 117 ॥
लब्धं न लेखप्रभुणापि पातुं पीत्वा मुखेन्दोरधरामृतं ते ।
निपीय देवैर्विघसीकृतायां घृणां विधोरस्य
दधे सुधायाम् ॥ नैषधीयचरितम् - 22 - 118 ॥
एनं स बिभ्रद्विधुमुत्तमाङ्गे गिरीन्द्रपुत्रीपतिरोषधीशम् ।
अश्नाति घोरं विषमब्धिजन्म
धत्ते भुजङ्गं च विमुक्तशङ्कः ॥ नैषधीयचरितम् - 22 - 119 ॥
नास्य द्विजेन्द्रस्य
बभूव पश्य दारान्गुरोर्यातवतोऽपि पातः ।
प्रवृत्तयोऽप्यात्ममयप्रकाशात्
नहन्ति न ह्यन्तिमदेहमाप्तान् ॥ नैषधीयचरितम् - 22 - 120 ॥
स्वधाकृतं यत्तनयैः पितृभ्यः श्रद्धापवित्रं तिलचित्रमम्भः ।
चन्द्रं पितृस्थानतया
उपतस्थे तदङ्करोचिःखचिता सुधैव ॥ नैषधीयचरितम् - 22 - 121 ॥
पश्योच्चसौधस्थितिसौख्यलक्ष्ये त्वत्केलिकुल्याम्बुनि बिम्बमिन्दोः ।
चिरं निमज्ज्येह सतः प्रियस्य भ्रमेण यत्
चुम्बति राजहंसी ॥ नैषधीयचरितम् - 22 - 122 ॥
सौवर्गवर्गैरमृतं निपीय कृतोऽह्नि तुच्छः शशलाञ्छनोऽयम् ।
पूर्णोऽमृतानां निशि तेऽत्र नद्यां मग्नः पुनः
स्यात् प्रतिमाच्छलेन ॥ नैषधीयचरितम् - 22 - 123 ॥
समं समेते शशिनः करेण प्रसूनपाणाविह कैरविण्याः ।
विवाहलीलामनयोरिव
आह मधुच्छलत्यागजलाभिषेकः ॥ नैषधीयचरितम् - 22 - 124 ॥
विकासिनीलायतपुष्पनेत्रा मृगीयमिन्दीवरिणी वनस्था ।
विलोकते कान्तमिहोपरिष्टान्मृगं तवैषाननचन्द्रभाजम् ॥ नैषधीयचरितम् - 22 - 125 ॥
तपस्यतामम्बुनि कैरवाणां समाधिभङ्गे विबुधाङ्गनायाः ।
अवैमि रात्रेरमताधरोष्ठं मुखं मयूखस्मितचारुचन्द्रम् ॥ नैषधीयचरितम् - 22 - 126 ॥
अल्पाङ्कपङ्का विधुमण्डलीयं पीयूषानीरा सरसी स्मरस्य ।
पानात्सुधानामजलेऽप्यमृत्युं चिह्नं
बिभर्ति अत्रभवं स मीनम् ॥ नैषधीयचरितम् - 22 - 127 ॥
तारास्थिभूषा शशिजह्नुजाभृच्चन्द्रांशुपांशुच्छुरितद्युतिर्द्यौः ।
छायापथच्छद्मफणीन्द्रहारा स्वं मूर्तिम्
आह स्फुटमष्टमूर्तेः ॥ नैषधीयचरितम् - 22 - 128 ॥
एकैव तारा मुनिलोचनस्य जाता किलैतज्जनकस्य तस्य ।
ताताधिका सम्पद्
अभूत् इयं तु सप्तान्विता विंशतिरस्य यत्ताः ॥ नैषधीयचरितम् - 22 - 129 ॥
मृगाक्षि यन्मण्डलमेतदिन्दोः स्मरस्य तत्पाण्डुरमातपत्रम् ।
यः पूर्णिमानन्तरमस्य भङ्गः स च्छत्त्रभङ्गः खलु मन्मथस्य ॥ नैषधीयचरितम् - 22 - 130 ॥
दशाननेनापि जगन्ति जित्वा योऽयं पुरा
अपारि न जातु जेतुम् ।
म्लानिर्विधोर्मानिनि सङ्गतेयं तस्य त्वदेकानननिर्जितस्य ॥ नैषधीयचरितम् - 22 - 131 ॥
दृष्टो निजां तावदियन्त्यहानि जयन्नयं पूर्वदशां शशाङ्कः ।
पूर्णस्त्वदास्येन तुलां गतश्चेदनन्तरं
द्रक्ष्यसि भङ्गमस्य ॥ नैषधीयचरितम् - 22 - 132 ॥
क्षत्त्राणि रामः परिभूय रामात्क्षत्त्राद्यथा
अभज्यत स द्विजेन्द्रः ।
तथैव पद्मानभिभूय सर्वांस्त्वद्वक्त्रपद्मात्परिभूतिम्
एति ॥ नैषधीयचरितम् - 22 - 133 ॥
अन्तः सलक्ष्मीक्रियते सुधांशो रूपेण पश्ये हरिणेन
पश्य ।
इत्येष भैमीम् अददर्शद् अस्य कदाचिदन्तं स कदाचिदन्तः ॥ नैषधीयचरितम् - 22 - 134 ॥
सागरान्मुनिविलोचनोदराद्यद्द्वयाद्
अजनि तेन किं द्विजः ।
एवमेव च भवन्नयं द्विजः
पर्यवस्यति विधुः किमत्रिजः ॥ नैषधीयचरितम् - 22 - 135 ॥
ताराविहारभुवि चन्द्रमयीं
चकार यन्मण्डलीं हिमभुवं मृगनाभिवासम् ।
तेनैव तन्वि सुकृतेन मते जिनस्य स्वर्लोकलोकतिलकत्वम्
अवाप धाता ॥ नैषधीयचरितम् - 22 - 136 ॥
इन्दुं मुखाद्बहुतृणं तव यद्
गृणन्ति नैनं मृगः
त्यजति तन्मृगतृष्णयेव ।
अत्येति मोहमहिमा न हिमांशुबिम्बलक्ष्मीविडम्बिमुखि वित्तिषु पाशवीषु ॥ नैषधीयचरितम् - 22 - 137 ॥
स्वर्भानुना प्रसभपानविभीषिकाभिर्दुःखाकृतैनमवधूय सुधासुधांशुम् ।
स्वं
निह्नुते शितिमचिह्नममुष्य रागैस्ताम्बूलताम्रमवलम्ब्य तवाधरोष्ठम् ॥ नैषधीयचरितम् - 22 - 138 ॥
हर्यक्षीभवतः कुरङ्गमुदरे प्रक्षिप्य यद्वा शशं जातस्फीततनोरमुष्य हरिता सूतस्य पत्न्या हरेः ।
भङ्गस्त्वद्वदनाम्बुजाद्
अजनि यत्पद्मात्तदेकाकिनः
स्यात् एकः पुनरस्य स प्रतिभटो यः सिंहिकायाः सुतः ॥ नैषधीयचरितम् - 22 - 139 ॥
यत्पूजां नयनद्वयोत्पलमयीं वेधा
व्यधात् पद्मभूर्वाक्पारीणरुचिः स चेन्मुखमयं पद्मः प्रिये तावकम् ।
कः शीतांशुरसौ तदा मखमृगव्याधोत्तमाङ्गस्थलस्थास्नुस्वस्तटिनीतटावनिवनीवानीरवासी बकः ॥ नैषधीयचरितम् - 22 - 140 ॥
जातं शातक्रतव्यां हरिति विहरतः काकतालीयमस्यामश्यामत्वैकमत्यस्थितसकलकलानिर्मितेर्निर्मलस्य ।
इन्दोरिन्दीवराभं बलविजयिगजग्रामणीगण्डपिण्डद्वन्द्वापादानदानद्रवलवलगनादङ्कमङ्के
विशङ्के ॥ नैषधीयचरितम् - 22 - 141 ॥
अंशं षोडक्षम्
आमनन्ति रजनीभर्तुः कलां वृत्तयन्ति एनं पञ्चदशैव ताः प्रतिपदाद्याराकवर्धिष्णवः ।
या शेषा पुनरुद्धृता तिथिमृते सा किं हरालङ्कृतिस्तस्याः स्थानबिलं कलङ्कमिह किं
पश्यामि सश्यामिकम् ॥ नैषधीयचरितम् - 22 - 142 ॥
ज्योत्स्नामादयते चकोरशिशुना द्राघीयसी लोचने लिप्सुर्मूलमिवोपजीवितुमितः सन्तपर्णात्मीकृतात् ।
अङ्के रङ्कुमयं
करोति च परिस्प्रष्टुं तदेवादृतस्त्वद्वत्त्रं नयनश्रियाप्यनधिकं मुग्धे विधित्सुर्विधुः ॥ नैषधीयचरितम् - 22 - 143 ॥
लावण्येन तवास्यमेव बहुना तत्पात्रमात्रस्पृशा चन्द्रः प्रोञ्छनलब्धतार्धमलिनेनारम्भि शेषेण तु ।
निर्माय द्वयमेतदप्सु विधिना पाणी खलु क्षालितौ तल्लेशैरधुनापि नीरनिलयैरम्भोजम्
आरभ्यते ॥ नैषधीयचरितम् - 22 - 144 ॥
लावण्येन तवाखिलेन वदनं तत्पात्रमात्रस्पृशा चन्द्रः प्रोञ्छनलब्धतार्धमलिनेन
आरम्भि शेषेण यः ।
तल्लेखापि शिखामणिः सुषमयाहङ्कृत्य शभोः
अभूत् अब्जं तस्य पदं यदस्पृशदतः पद्मं च सन्न श्रियाः ॥ नैषधीयचरितम् - 22 - 145 ॥
सपीतेः संप्रीतेः
अजनि रजनीशः परिषदा परीतस्ताराणां दिनमणिमणिग्रावमणिकः ।
प्रिये
पश्य उत्प्रेक्षाकविभिरभिधानाय सुशकः सुधामभ्युद्धर्तुं धृतशशकनीलाश्मचषकः ॥ नैषधीयचरितम् - 22 - 146 ॥
आस्यं शीतमयूखमण्डलगुणानाकृष्य ते निर्मितं
शङ्के सुन्दरि शर्वरीपरिवृढस्तेनैष दोषाकरः ।
आदायेन्दुमृगादपीह निहिते
पश्यामि सारं दृशौ त्वद्वक्त्रे सति वा विधौ धृतिमयं
दध्यात् अनन्धः कुतः ॥ नैषधीयचरितम् - 22 - 147 ॥
शुचिरुचिमुडुगणमगणनममुम्
अतिकलयसि कृशतनु न गगनतटमनु ।
प्रतिनिशशशितलविगलदमृतभृतरविरथहयचयखुरबिलकुलमिव ॥ नैषधीयचरितम् - 22 - 148 ॥
उपनतमुडुपुष्पजातम्
आस्ते भवतु जनः परिचारकस्तवायम् ।
तिलतिलकितपर्पटाभमिन्दुं वितर निवेद्यम्
उपास्स्व पञ्चबाणम् ॥ नैषधीयचरितम् - 22 - 149 ॥
स्वर्भानुप्रतिवारपारणमिलद्दन्तौघयन्त्रोद्भवश्वभ्रालीपतयालुदीधितिसुधासारस्तुषारद्युतिः ।
पुष्पेष्वासनतत्प्रियापरिणयानन्दाभिषेकोत्सवे देवः प्राप्तसहस्रधारकलशश्रीः
अस्तु नस्तुष्टये ॥ नैषधीयचरितम् - 22 - 150 ॥
श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
द्वाविंशो नवसाहसाङ्कचरिते चम्पूकृतोऽयं महाकाव्ये तस्य कृतौ नलीयचरिते सर्गो निसर्गोज्ज्वलः ॥ नैषधीयचरितम् - 22 - 151 ॥
यथा यूनस्तद्वत्परमरमणीयापि रमणी कुमाराणामन्तःकरणहरणं नैव
कुरुते ।
मदुक्तिश्चेदन्तः
मदयति सुधीभूय सुधियः किमस्या नाम
स्यात् अरसपुरुषानादरभरैः ॥ नैषधीयचरितम् - 22 - 152 ॥
दिशि दिशि गिरिग्रावाणः स्वां
वमन्तु सरस्वतीं तुलयतु मिथस्तामापातस्फुरद्ध्वनिडम्बराम् ।
स परमपरः क्षीरोदन्वान्यदीयमुदीयते मथितुरमृतं खेदच्छेदि प्रमोदनमोदनम् ॥ नैषधीयचरितम् - 22 - 153 ॥
ग्रन्थग्रन्थिरिह क्वचित्क्वचिदपि
न्यासि प्रयत्नान्मया प्राज्ञंमन्यमना हठेन पठिती मास्मिन्खलः
खेलतु ।
श्रद्धाराद्धगुरुश्लथीकृतदृढग्रन्थिः
समासादयतु एतत्काव्यरसोर्मिमज्जनसुखव्यासज्जनं सज्जनः ॥ नैषधीयचरितम् - 22 - 154 ॥
ताम्बूलद्वयमासनं च
लभते यः कान्यकुब्जेश्वराद्यः साक्षात्
कुरुते समाधिषु परं ब्रह्म प्रमोदार्णवम् ।
यत्काव्यं मधुवर्षि धर्षितपरास्तर्केषु यस्योक्तयः श्रीश्रीहर्षकवेः कृतिः कृतिमुदे तस्य
अभ्युदीयात् इयम् ॥ नैषधीयचरितम् - 22 - 155 ॥
।। इति नैषधीयचरितमहाकाव्ये द्वाविंशसर्गः ।।