शिशुपालवधम्

The Verbs are highlighted in the text.
Click on the Verb to get the total form.

प्रथमसर्गः

श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि।
वसन् ददर्श अवतरन्तमम्बराद्धिरण्यगर्भाङ्गभुवं मुनिं हरिः ।। शिशुपालवधम् - 1 - 1 ।।
गतं तिरश्चीनमनूरुसारथेः प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः।
पतति अधो धाम विसारि सर्वतः किमेतदित्याकुलमीक्षितं जनैः ।। शिशुपालवधम् - 1 - 2 ।।
चयस्त्विषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिम्।
विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इति अबोधि सः ।। शिशुपालवधम् - 1 - 3 ।।
नवानधोऽधो बृहतः पयोधरान् समूढकर्पूरपरागपाण्डुरम्।
क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना स्फुटोपमं भूतिसितेन शम्भुना ।। शिशुपालवधम् - 1 - 4 ।।
दधानमम्भोरुहकेसरद्युतीर्जटाः शरच्चन्द्रमरीचिरोचिषम्।
विपाकपिङ्गास्तुहिनस्थलीरुहो धराधरेन्द्रं व्रततीततीरिव ।। शिशुपालवधम् - 1 - 5 ।।
पिशङ्गमौञ्जीयुजमर्जुनच्छविं वसानमेणाजिनमञ्जनद्युति।
सुवर्णसूत्राकलिताधराम्बरां विडम्बयन्तं शितिवाससस्तनुम् ।। शिशुपालवधम् - 1 - 6 ।।
विहङ्गराजाङ्गरुहैरिवायतैर्हिरण्मयोर्वीरुहवल्लितन्तुभिः।
कृतोपवीतं हिमशुभ्रमुच्चकैर्घनं घनान्ते तडिताङ्गणैरिव ।। शिशुपालवधम् - 1 - 7 ।।
निसर्गचित्रोज्ज्वलसूक्ष्मपक्ष्मणा लसद्बिसच्छेदसिताङ्गसङ्गिना।
चकासतं चारुचमूरुचर्मणा कुथेन नागेन्द्रमिवेन्द्रवाहनम् ।। शिशुपालवधम् - 1 - 8 ।।
अजस्रमास्फालितवल्लकीगुणक्षतोज्ज्वलाङ्‌गुष्ठनखांशुभिन्नया।
पुरः प्रवालैरिव पूरितार्धया विभान्तमच्छस्फटिकाक्षमालया ।। शिशुपालवधम् - 1 - 9 ।।
रणद्भिराघट्टनया नभस्वतः पृथग्विभिन्नश्रुतिमण्डलैः स्वरैः।
स्फुटीभवद्‌ग्रामविशेषमूर्च्छनामवेक्षमाणं महतीं मुहुर्मुहुः ।। शिशुपालवधम् - 1 - 10 ।।
निवर्त्य सोऽनुव्रजतः कृतानतीनतीन्द्रियज्ञाननिधिर्नभः सदः।
समासदत् सादितदैत्यसम्पदः पदं महेन्द्रालयचारु चक्रिणः ।। शिशुपालवधम् - 1 - 11 ।।
पतत्पतङ्गप्रतिमस्तपोनिधिः पुरोऽस्य यावन्न भुवि व्यलीयत
गिरेस्तडित्वानिव तावदुच्चकैर्जवेन पीठाद् उदतिष्ठत् अच्युतः ।। शिशुपालवधम् - 1 - 12 ।।
अथ प्रयत्नोन्नमितानमत्फणैर्धृते कथञ्चित्फणिनां गणैरधः।
न्यधायिषाताम् अभिदेवकीसुतं सुतेन धातुश्चरणौ भुवस्तले ।। शिशुपालवधम् - 1 - 13 ।।
तमर्घ्यमर्घ्यादिकयादिपूरुषः सपर्यया साधु स पर्यपूपुजत्
गृहानुपैतुं प्रणायादभीप्सवो भवन्ति नापुण्यकृतां मनीषिणः ।। शिशुपालवधम् - 1 - 14 ।।
न यावदेतौ उदपश्यत् उत्थितौ जनस्तुषाराञ्जनपर्वताविव।
स्वहस्तदत्ते मुनिमासने मुनिश्चिरन्तनस्तावत् अभिन्यवीविशत् ।। शिशुपालवधम् - 1 - 15 ।।
महामहानीलशिलारुचः पुरो निषेदिवान् कंसकृषः स विष्टरे।
श्रितोदयाद्रेरभिसायमुच्चकैः अचूचुरत् चन्द्रमसोऽभिरामताम् ।। शिशुपालवधम् - 1 - 16 ।।
विधाय तस्यापचितिं प्रसेदुषः प्रकाममप्रीयत यज्वनां प्रियः।
ग्रहीतुमार्यान् परिचर्यया मुहुर्महानुभावा हि नितान्तमर्थिनः ।। शिशुपालवधम् - 1 - 17 ।।
अशषतीर्थोपहृताः कमण्डलोर्निधाय पाणावृषिणाऽभ्युदीरिताः।
अघौघविध्वंसविधौ पटीयसीर्नतेन मूर्ध्ना हरिः अग्रहीत् अपः ।। शिशुपालवधम् - 1 - 18 ।।
स काञ्चने यत्र मुनेरनुज्ञया नवाम्बुदश्यायवपुः न्यविक्षत
जिगाय जम्बूजनितश्रियः श्रियं सुमेरुशृङ्गस्य तदा तदासनम् ।। शिशुपालवधम् - 1 - 19 ।।
स तप्तकार्तस्वरभास्वराम्बराः कठोरताराधिपलाञ्छनच्छविः।
विदिद्युते वाडवजातवेदसः शिखाभिराश्लिष्ट इवाम्भसां निधिः ।। शिशुपालवधम् - 1 - 20 ।।
रथाङ्गपाणेः पटलेन रोचिषामृषित्विषः संवलिता विरेजिरे
चलत्पलाशान्तरगोचरास्तरोस्तुषारमूर्तेरिव नक्तमंशवः ।। शिशुपालवधम् - 1 - 21 ।।
प्रफुल्लतापिच्छनिभैरभीषुभिः शुभैश्च सप्तच्छदपांशुपाण्डुभिः।
परस्परेण च्छुरितामलच्छवी तदैकवर्णाविव तौ बभूवतुः ।। शिशुपालवधम् - 1 - 22 ।।
युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकासम् आसत
तनौ ममुः तत्र न कैटभद्विषस्तपोधनाभ्यागमसम्भवा मुदः ।। शिशुपालवधम् - 1 - 23 ।।
निदाघधामानमिवाधिदीधितिं मुदा विकासं मुनिमभ्युपेयुषी।
विलोचने बिभ्रदधिश्रितश्रिणी स पुण्डरीकाक्ष इति स्फुटो अभवत् ।। शिशुपालवधम् - 1 - 24 ।।
सितं सितिम्ना सुतरां मुनेर्वपुर्विसारिभिः सौधमिवाथ लम्भयन्।
द्विजावलिव्याजनिशाकरांशुभिः शुचिस्मितां वाचम् अवोचत् अच्युतः ।। शिशुपालवधम् - 1 - 25 ।।
हरति अघं सम्प्रति हेतुरेष्यतः शुभस्य पूर्वाचरितैः कृतं शुभैः।
शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यताम् ।। शिशुपालवधम् - 1 - 26 ।।
जगत्यपर्याप्तसहस्रभानुना न यन्नियन्तुं समभावि भानुना।
प्रसह्य तेजोभिरसंख्यतां गतैरदस्त्वया नुन्नमनुत्तमं तमः ।। शिशुपालवधम् - 1 - 27 ।।
कृतः प्रजाक्षेमकृता प्रजासृजा सुपात्रनिक्षेपनिराकुलात्मना।
सदोपयोगेऽपि गुरुस्त्वमक्षयो निधिः श्रुतीनां धनसम्पदामिव ।। शिशुपालवधम् - 1 - 28 ।।
विलोकनेनैव तवामुना मुने कृतः कृतार्थो अस्मि निबर्हितांहसा।
तथापि शुश्रूषुरहं गरीयसीर्गिरोऽथवा श्रेयसि केन तृप्यते ।। शिशुपालवधम् - 1 - 29 ।।
गतस्पृहोऽप्यागमनप्रयोजनं वदेति वक्तुं व्यवसीयते यया।
तनोति नस्तामुदितात्मगौरवो गुरुस्तवैवागम एष धृष्टताम् ।। शिशुपालवधम् - 1 - 30 ।।
इति ब्रुवन्तं तम् उवाच स व्रती न वाच्यमित्थं पुरुषोत्तम! त्वया।
त्वमेव साक्षात्करणीय इत्यतः किमस्ति कार्यं गुरुयोगिनामपि ।। शिशुपालवधम् - 1 - 31 ।।
उदीर्णरागप्रतिरोधकं जनैरभीक्ष्णमक्षुण्णतयाऽतिदुर्गमम्।
उपेयुषो मोक्षपथं मनस्विनस्त्वमग्रभूमिर्निरपायसंश्रया ।। शिशुपालवधम् - 1 - 32 ।।
उदासितारं निगृहीतमानसैर्गृहीतमध्यात्मदृशा कथञ्चन।
बहिर्विकारं प्रकृतेः पृथग् विदुः पुरातनं त्वां पुरुषं पुराविदः ।। शिशुपालवधम् - 1 - 33 ।।
निवेशयामासिथ हेलयोद्‌धृतं फणाभृतां छादनमेकमोकसः।
जगत्त्रयैकस्थपतिस्त्वमुच्चकैरहीश्वरस्तम्भशिरःसु भूतलम् ।। शिशुपालवधम् - 1 - 34 ।।
अनन्यगुर्वास्तव केन केवलः पुराणमूर्तेर्महिमा अवगम्यते
मनुष्यजन्मापि सुराऽसुरान् गुणैर्भवान्भवच्छेदकरैः करोति अधः ।। शिशुपालवधम् - 1 - 35 ।।
लघूकरिष्यन्नतिभारभङ्गुराममूं किल त्वं त्रिदिवात् अवातरः
उदूढलोकत्रितयेन साम्प्रतं गुरुर्धरित्री क्रियतेतरां त्वया ।। शिशुपालवधम् - 1 - 36 ।।
निजौजसोज्जासयितुं जगद्‌द्रुहाम् उपाजिहीथा न महीतलं यदि।
समाहितैरप्यनिरूपितस्ततः पदं दृशः स्याः कथमीश! मादृशाम् ।। शिशुपालवधम् - 1 - 37 ।।
उपप्लुतं पातुमदो मदोद्धतैस्त्वमेव विश्वम्भर! विश्वमीश ईशिषे
ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमलीमसं नभः ।। शिशुपालवधम् - 1 - 38 ।।
करोति कंसादिमहीभृतां वधाज्जनो मृगाणामिव यत्तव स्तवम्।
हरे! हिरण्याक्षपुरःसरासुरद्विपद्विषः प्रत्युत सा तिरस्क्रिया ।। शिशुपालवधम् - 1 - 39 ।।
प्रवृत्त एव स्वयमुज्झितश्रमः क्रमेणा पेष्टुं भुवनद्विषाम् असि
तथापि वाचालतया युनक्ति मां मिथस्त्वदाभाषणलोलुपं मनः ।। शिशुपालवधम् - 1 - 40 ।।
तदिन्द्रसन्दिष्टमुपेन्द्र! यद्वचः क्षणं मया विश्वजनीनम् उच्यते
समस्तकार्येषु गतेन धुर्यतामहिद्विषस्तद् भवता निशम्यताम् ।। शिशुपालवधम् - 1 - 41 ।।
अभूत् अभूमिः प्रतिपक्षजन्मनां भियां तनूजस्तपनद्युतिर्दितेः।
यमिन्द्रशब्दार्थनिषूदनं हरेर्हिरण्यपूर्वं कशिपुं प्रचक्षते ।। शिशुपालवधम् - 1 - 42 ।।
समत्सरेणासुर इत्युपेयुषा चिराय नाम्नः प्रथमाभिधेयताम्।
भयस्य पूर्वावतरस्तरस्विना मनस्सु येन द्युसदां न्यधीयत ।। शिशुपालवधम् - 1 - 43 ।।
दिशामधीशांश्चतुरो यतः सुरानपास्य तं रागहृताः सिषेविरे
अवापुः आरभ्य ततश्चला इति प्रवादमुच्चैरयशस्करं श्रियः ।। शिशुपालवधम् - 1 - 44 ।।
पुराणि दुर्गाणि निशातमायुधं बलानि शूराणि घनाश्च कञ्चुकाः।
स्वरूपशोभैकफलानि नाकिनां गणैर्यमाशङ्क्य तदादि चक्रिरे ।। शिशुपालवधम् - 1 - 45 ।।
स सञ्चरिष्णुर्भुवनान्तरेषु यां यदृच्छया अशिश्रियत् आश्रयः श्रियः।
अकारि तस्यै मुकुटोपलस्खलत्करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः ।। शिशुपालवधम् - 1 - 46 ।।
सटाच्छटाभिन्नघने बिभ्रता नृसिंह! सैहीमतनुं तनुं त्वया।
स मुग्धकान्तास्तनसङ्गभङ्‌गुरैरुरोविदारं प्रतिचस्करे नखैः ।। शिशुपालवधम् - 1 - 47 ।।
विनोदमिच्छन्नथ दर्पजन्मनो रणेन कण्ड्वास्त्रिदशैः समं पुनः।
स रावणो नाम निकामभीषणं बभूव रक्षः क्षतरक्षणं दिवः ।। शिशुपालवधम् - 1 - 48 ।।
प्रभुर्बुभूषुर्भुवनत्रयस्य यः शिरोऽतिरागाद्‌ दशमं चिकर्तिषुः।
अतर्कयत् विघ्नमिवेष्टसाहसः प्रसादमिच्छासदृशं पिनाकिनः।। शिशुपालवधम् - 1 - 49 ।।
समुत्क्षिपन् यः पृथिवीभृतां वरं वरप्रदानस्य चकार शूलिनः।
त्रसत्तुषाराद्रिसुताससम्भ्रमस्वयंग्रहाश्लेषसुखेन निष्क्रयम् ।। शिशुपालवधम् - 1 - 50 ।।
पुरीम् अवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हर अमराङ्गनाः।
विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दिवः ।। शिशुपालवधम् - 1 - 51 ।।
सलीलयातानि न भर्तुरभ्रमोर्न चित्रमुच्चैःश्रवसः पदक्रमम्।
अनुद्रुती संयति येन केवलं बलस्य शत्रुः प्रशशंस शीघ्रताम् ।। शिशुपालवधम् - 1 - 52 ।।
अशक्नुवन् सोढुमधीरलोचनः सहस्ररश्मेरिव यस्य दर्शनम्।
प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय बिभ्यद्‌दिवसानि कौशिकः ।। शिशुपालवधम् - 1 - 53 ।।
बृहच्छिलानिष्ठुरकण्ठघट्टनाद्विकीर्णलोलाग्निकणं सुरद्विषः।
जगत्प्रभोरप्रसहिष्णु वैष्णवं न चक्रमस्य अक्रमत अधिकन्धरम् ।। शिशुपालवधम् - 1 - 54 ।।
विभिन्नशङ्खः कलुषीभवन्मुहुर्मदेन दन्तीव मनुष्यधर्मणः।
निरस्तगाम्भीर्यमपास्तपुष्पकं प्रकम्पयामास न मानसं न सः ।। शिशुपालवधम् - 1 - 55 ।।
रणेषु तस्य प्रहिताः प्रचेतसा सरोषहुङ्कारपराङ्मुखीकृताः।
प्रहर्तुरेवोरगराजरज्जवो जवेन कण्ठं सभयाः प्रपेदिरे ।। शिशुपालवधम् - 1 - 56 ।।
परेतभर्तुर्महिषोऽमुना धनुर्विधातुमुत्खातविषाणमण्डलः।
हृतेऽपि भारे महतस्त्रपाभरात् उवाह दुःखेन भृशानतं शिरः ।। शिशुपालवधम् - 1 - 57 ।।
स्पृशन् सशङ्कः समये शुचावपि स्थितः कराग्रैरसमग्रपातिभिः।
अघर्मघर्मोदकबिन्दुमौक्तिकः अलञ्चकार अस्य वधूरहस्करः ।। शिशुपालवधम् - 1 - 58 ।।
कलासमग्रेण गृहानमुञ्चता मनस्विनीरुत्कयितुं पटीयसा।
विलासिनस्तस्य वितन्वता रतिं न नर्मसाचिव्यम् अकारि नेन्दुना ।। शिशुपालवधम् - 1 - 59 ।।
विदग्धलीलोचितदन्तपत्रिकाविधित्सया नूनमनेन मानिना।
न जातु वेनायकमेकमुद्‌धृतं विषाणमद्यापि पुनः प्ररोहति ।। शिशुपालवधम् - 1 - 60 ।।
निशान्तनारीपरिधानधूननस्फुटागसाप्यूरुषु लोलचक्षुषः।
प्रियेण तस्यानपराधबाधिताः प्रकम्पनेन अनुचकम्पिरे सुराः ।। शिशुपालवधम् - 1 - 61 ।।
तिरस्कृतस्तस्य जनाभिभाविना मुहुर्महिम्ना महसां महीयसाम्।
बभार बाष्पैर्द्विगुणीकृतं तनुस्तनूनपाद्‌धूमवितानमाधिजैः ।। शिशुपालवधम् - 1 - 62 ।।
परस्य मर्माविधमुज्झतां निजं द्विजिह्वतादोषमजिह्मगामिभिः।
तामिद्धमाराधयितुं सकर्णकैः कुलैर्न भेजे फणिनां भुजङ्गता ।। शिशुपालवधम् - 1 - 63 ।।
तदीयमातङ्गघटाविघट्टितैः कटस्थलप्रोषितदानवारिभिः।
गृहीतदिक्कैरपुनर्निवर्तिभिश्चिराय याथार्थ्यम् अलम्भि दिग्गजैः ।। शिशुपालवधम् - 1 - 64 ।।
अभीक्ष्णमुष्णैरपि तस्य सोष्मणः सुरेन्द्रबन्दीश्वसितानिलैर्यथा।
सचन्दनाम्भःकणकोमलैस्तथा वपुर्जलार्द्रापवनैर्न निर्ववौ ।। शिशुपालवधम् - 1 - 65 ।।
तपेन वर्षाः शरदा हिमागमो वसन्तलक्ष्म्या शिशिरः समेत्य च।
प्रसूनक्लृप्तिं दधतः सदर्तवः पुरेऽस्य वास्तव्यकृटुम्बितां ययुः ।। शिशुपालवधम् - 1 - 66 ।।
अमानवं जातमजं कुले मनोः प्रभाविनं भाविनमन्तमात्मनः।
मुमोच जानन्नपि जानकीं न यः सदाभिमानैकधना हि मानिनः ।। शिशुपालवधम् - 1 - 67 ।।
स्मरति अदो दाशरथिर्भवन् भवानमुं वनान्ताद् वनितापहारिणम्।
पयोधिमाबद्धचलज्जलाविलं विलङ्घय लङ्कां निकषा हनिष्यति ।। शिशुपालवधम् - 1 - 68 ।।
अथोपपत्तिं छलनापरोऽपरामवाप्य शैलूष इवैष भूमिकाम्।
तिरोहितात्मा शिशुपालसंज्ञया प्रतीयते सम्प्रति सोऽप्यसः परैः ।। शिशुपालवधम् - 1 - 69 ।।
स बाल आसीत् वपुषा चतुर्भुजो मुखेन पूर्णेन्दुनिभस्त्रिलोचनः।
युवा कराक्रान्तमहीभृदुच्चकैरसंशयं सम्प्रति तेजसा रविः ।। शिशुपालवधम् - 1 - 70 ।।
स्वयं विधाता सुरदैत्यरक्षसामनुग्रहावग्रहयोर्यदृच्छया।
दशाननादीनभिराद्धदेवतावितीर्णवीर्यातिशयान् हसति असौ ।। शिशुपालवधम् - 1 - 71 ।।
बलावलेपादधुनाऽपि पूर्ववत् प्रबाध्यते तेन जगज्जिगीषुणा।
सतीव योषित्प्रकृतिः सुनिश्चला पुमांममभ्येति भवान्तरेष्वपि ।। शिशुपालवधम् - 1 - 72 ।।
तदेनमुल्लङ्घितशासनं विधेः विधेहि कीनाशनिकेतनातिथिम्।
शुभेतराचारविपक्त्रिमापदो निपातनीया हि सतामसाधवः।। शिशुपालवधम् - 1 - 73 ।।
हृदयमरिवधोदयादुदूढद्रढिम दधातु पुनः पुरन्दरस्य।
घनपुलकपुलोमजाकुचाग्रद्रुतपरिरम्भनिपीडनक्षमत्वम् ।। शिशुपालवधम् - 1 - 74 ।।
ओमित्युक्तवतोऽथ शार्ङ्गिण इति व्याहृत्य वाचं नभस्तस्मिन्नुत्पतिते पुरः सुरमुनाविन्दोः श्रियं बिभ्रति
शत्रूणामनिशं विनाशपिशुनः क्रुद्धस्य चैद्यं प्रति व्योम्नीव भ्रुकुटिच्छलेन वदने केतुः चकार आस्पदम् ।। शिशुपालवधम् - 1 - 75 ।।


।। इति शिशुपालवधमहाकाव्ये प्रथमसर्गः ।।

द्वितीयसर्गः

यियक्षमाणेनाहूतः पार्थेनाऽथ द्विषन्मुरम्।
अभिचैद्यं पतिष्ठासु आसीत् कार्यद्वयाकुलः ।। शिशुपालवधम् - 2 - 1 ।।
सार्द्धमुद्धवसीरिभ्यामथासौ आसदत् सदः।
गुरुकाव्यानुगां बिभ्रच्चान्द्रीमभिनभः श्रियम् ।। शिशुपालवधम् - 2 - 2 ।।
जाज्ज्वल्यमाना जगतः शान्तये समुपेयुषी।
व्यद्योतिष्ट सभावेद्यामसौ नरशिखित्रयी ।। शिशुपालवधम् - 2 - 3 ।।
रत्नस्तम्भेषु संक्रान्तप्रतिमास्ते चकाशिरे
एकाकिनोऽपि परितः पौरुषेयवृता इव ।। शिशुपालवधम् - 2 - 4 ।।
अध्यासामासुः उत्तुङ्गहेमपीठानि यान्यमी।
तैः ऊहे केसरिक्रान्तत्रिकूटशिखरोपमा ।। शिशुपालवधम् - 2 - 5 ।।
गुरुद्वयाय गुरुणोरुभयोरथ कार्ययोः।
हरिर्विप्रतिषेधं तम् आचचक्षे विचक्षणः।। शिशुपालवधम् - 2 - 6 ।।
द्योतितान्तःसभैः कुन्दकुड्मलाग्रदतः स्मितैः।
स्नपितेव अभवत् तस्य शुद्धवर्णा सरस्वती ।। शिशुपालवधम् - 2 - 7 ।।
भवद्‌गिरामवसरप्रदानाय वचांसि नः।
पूर्वरङ्गः प्रसङ्गाय नाटकीयस्य वस्तुनः ।। शिशुपालवधम् - 2 - 8 ।।
करदीकृतभूपालो भ्रातृभिर्जित्वरैर्दिशाम्।
विनाप्यस्मदलं भूष्णुरिज्यायै तपसः सुतः ।। शिशुपालवधम् - 2 - 9 ।।
उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता।
समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ।। शिशुपालवधम् - 2 - 10 ।।
न दूये सात्वतीसूनुर्यन्मह्नम् अपराध्यति
यत्तु दन्दह्यते लोकमदो दुःखाकरोति माम् ।। शिशुपालवधम् - 2 - 11 ।।
मम तावन्मतमिद श्रूयताम् अङ्ग वामपि।
ज्ञातसारोऽपि खल्वेकः सन्दिग्धे कार्यवस्तुनि ।। शिशुपालवधम् - 2 - 12 ।।
यावदर्थपदां वाचमेवमादाय माधवः।
विरराम महीयांसः प्रकृत्या मितभाषिणः ।। शिशुपालवधम् - 2 - 13 ।।
ततः सपत्नापनयस्मरणानुशयस्फुरा।
ओष्ठेन रामो रामोष्टबिम्बचुम्बनचुञ्चुना ।। शिशुपालवधम् - 2 - 14 ।।
विवक्षितामर्थविदस्तत्क्षणप्रतिसंहृतम्।
प्रापयन् पवनव्याधेर्गिरमुत्तरपक्षताम् ।। शिशुपालवधम् - 2 - 15 ।।
घूर्णयन् मदिरास्वादमदपाटलितद्युती।
रेवतीवदनोच्छिष्टपरिपूतपुटे दृशौ ।। शिशुपालवधम् - 2 - 16 ।।
आश्लेषलोलुपवधूस्तनकार्कश्यसाक्षिणीम्।
म्लापयन्नभिमानोष्णैर्वनमालां मखानिलैः ।। शिशुपालवधम् - 2 - 17 ।।
दधत्सन्ध्यारुणव्योमस्फुरत्तारानुकारिणीः।
द्विषद्‌द्वेषोपरक्ताङ्गसङ्गिनीः स्वेदविप्रुषः ।। शिशुपालवधम् - 2 - 18 ।।
प्रोल्लसत्कुण्डलप्रोतपद्मरागदलत्विषः।
कृष्णोत्तरासङ्गरुचं विदधच्चौतपल्लवीम् ।। शिशुपालवधम् - 2 - 19 ।।
ककुद्मिकन्यावक्त्रातर्न्वासलब्धाधिवासया।
मुखामोदं मदिरया कृतानुव्याधमुद्वमन् ।। शिशुपालवधम् - 2 - 20 ।।
जगाद वदनच्छद्‌मपद्‌मपर्यन्तपातिनः।
नयन् मधुलिहः श्वैत्यमुदग्रदशनांशुभिः ।। शिशुपालवधम् - 2 - 21 ।। (कुलकम्)
यद् वासुदेवेनाऽदीनमनादीनवमीरितम्।
वचसस्तस्य सपदि क्रिया केवलमुत्तरम् ।। शिशुपालवधम् - 2 - 22 ।।
नैतल्लघ्वपि भूयस्या वचो वाचा अतिशय्यते
इन्धनौघधगप्यग्निस्त्विषा न अत्येति पूषणम् ।। शिशुपालवधम् - 2 - 23 ।।
संक्षिप्तस्याप्यतोऽस्यैव वाक्यस्यार्थगरीयसः।
सुविस्तरतरा वाचो भाष्यभूता भवन्तु मे ।। शिशुपालवधम् - 2 - 24 ।।
विरोधिवचसो मूकान् वागीशानपि कुर्वते
जडानप्यनुलोमर्थान् प्रवाचः कृतिनां गिरः ।। शिशुपालवधम् - 2 - 25 ।।
षड्गुणाः शक्तयस्तिस्रः सिद्धयश्चोदयास्त्रयः।
ग्रन्थानधीत्य व्याकर्तुमिति दुर्मेधसोऽप्यलम् ।। शिशुपालवधम् - 2 - 26 ।।
अनिर्लोडितकार्यस्य वाग्जालं वाग्मिनो वृथा।
निमित्तादपराद्धेषोर्धानुष्कस्येव वल्गितम् ।। शिशुपालवधम् - 2 - 27 ।।
सर्वकार्यशरीरेषु मुक्त्वाऽङ्गस्कन्धपञ्चकम्।
सौगतानामिवात्मान्यो न अस्ति मन्त्रो महीभृताम् ।। शिशुपालवधम् - 2 - 28 ।।
मन्त्रो योध इवाधीरः सर्वाङ्गैः संवृतैरपि।
चिरं न सहते स्थातुं परेभ्यो भेदशङ्कया ।। शिशुपालवधम् - 2 - 29 ।।
आत्मोदयः परज्यानि र्द्वयं नीतिरितीयती।
तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतायते ।। शिशुपालवधम् - 2 - 30 ।।
तृप्तियोगः परेणाऽपि महिम्ना न महात्मनाम्।
पूर्णश्चन्द्रोदयाकाङ्‌क्षी दृष्टान्तोऽत्र महार्णवः ।। शिशुपालवधम् - 2 - 31 ।।
सम्पदा सुस्थिरंमन्यो भवति स्वल्पयाऽपि यः।
कृतकृत्यो विधिः मन्येवर्धयति तस्य ताम् ।। शिशुपालवधम् - 2 - 32 ।।
समूलघातमघ्नन्तः परान्न उद्यन्ति मानिनः।
प्रध्वंसितान्धतमसस्तत्रोदाहणं रविः ।। शिशुपालवधम् - 2 - 33 ।।
विपक्षमखिलीकृत्य प्रतिष्ठा खलु दुर्लभा।
अनीत्वा पङ्कतां धूलिमुदकं न अवतिष्ठते ।। शिशुपालवधम् - 2 - 34 ।।
ध्रियते यावदेकोऽपि रिपुस्तावत् कृतः सुखम्।
पुरः क्लिश्नाति सोमं हि सैहिकेयोऽसुरद्रुहाम् ।। शिशुपालवधम् - 2 - 35 ।।
सखा गरीयान् शत्रूश्च कृत्रिमस्तौ हि कार्यतः।
स्याताम् अमित्रौ मित्रे च सहजप्राकृतावपि ।। शिशुपालवधम् - 2 - 36 ।।
उपकर्त्राऽरिणा सन्धिर्न मित्रेणापकारिणा।
उपकारापकारौ हिं लक्ष्यं लक्षणमेतयोः ।। शिशुपालवधम् - 2 - 37 ।।
त्वया विप्रकृतश्चैद्यो रुक्मिणीं हरता हरे।
बद्धमूलस्य मूलं हि महद्वैरतरोः स्त्रियः ।। शिशुपालवधम् - 2 - 38 ।।
त्वयि भौमं गते जेतुम् अरौत्सीत् स पुरीमिमाम्।
प्रोषितार्यमणं मेरोरन्धकारस्तटीमिव ।। शिशुपालवधम् - 2 - 39 ।।
आलप्यालमिदं बभ्रोर्यत्स दारान् अपाहरत्
कथाऽपि खलु पापानामलमश्रेयसे यतः ।। शिशुपालवधम् - 2 - 40 ।।
विराद्ध एवं भवता विराद्धा बहुधा च नः।
निर्वर्त्यते अरिः क्रियया स श्रुतश्रवसः सुतः ।। शिशुपालवधम् - 2 - 41 ।।
विधाय वैरं सामर्ष नरोऽरौ य उदासते
प्रक्षिप्योदर्चिषं कक्षे शेरते तेऽभिमारुतम् ।। शिशुपालवधम् - 2 - 42 ।।
मनागनभ्यावृत्त्या वा कामं क्षाम्यतु यः क्षमी।
क्रियासमभिहारेण विराध्यन्तं क्षमेत कः ।। शिशुपालवधम् - 2 - 43 ।।
अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः।
पराक्रमः परिभवे वैयात्यं सुरतेष्विव ।। शिशुपालवधम् - 2 - 44 ।।
मा जीवन् यः परावज्ञादुःखदग्धोऽपि जीवति
तस्याजननिरेव अस्तु जननीक्लेशकारिणः ।। शिशुपालवधम् - 2 - 45 ।।
पादाहतं यदुत्थाय मूर्धानम् अधिरोहति
स्वस्थादेवापमानेऽपि देहिनस्तद्वरं रजः ।। शिशुपालवधम् - 2 - 46 ।।
असम्पादयतः कञ्चिदर्थं जातिक्रियागुणैः।
यदृच्छाशब्दवत् पुंसः संज्ञायै जन्म केवलम् ।। शिशुपालवधम् - 2 - 47 ।।
तुङ्गत्वमितरा नाद्रौ नेदं सिन्धावगाधता।
अलङ्‌घनीयताहेतुरुभयं तन्मनस्विनि ।। शिशुपालवधम् - 2 - 48 ।।
तुल्येऽपराधे स्वर्भानुर्भानुमन्तं चिरेण यत्।
हिमांशुमाशु ग्रसते तन्म्रदिम्नः स्फुटं फलम् ।। शिशुपालवधम् - 2 - 49 ।।
स्वयं प्रणमते अल्पेऽपि परवायावुपेयुषि।
निदर्शनमसाराणां लधुर्बहुतृणं नरः ।। शिशुपालवधम् - 2 - 50 ।।
तेजस्विमध्ये तेजस्वी दवीयानपि गण्यते
पञ्चमः पञ्चतपसस्तपनो जातवेदसाम् ।। शिशुपालवधम् - 2 - 51 ।।
अकृत्वा हेलया पादमुच्चैर्मूर्धसु विद्विषाम्।
कथङ्कारमनालम्बा कीर्तिर्द्याम् अधिरोहति ।। शिशुपालवधम् - 2 - 52 ।।
अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः।
केसरी निष्ठुराक्षिप्तमृगयूथो मृगाधिपः ।। शिशुपालवधम् - 2 - 53 ।।
चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया।
स्वेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति ।। शिशुपालवधम् - 2 - 54 ।।
सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः।
प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः ।। शिशुपालवधम् - 2 - 55 ।।
गुणानामायथातथ्यादर्थं विप्लावयन्ति ये।
अमात्यव्यञ्जना राज्ञां दूष्यास्ते शत्रुसंज्ञिताः ।। शिशुपालवधम् - 2 - 56 ।।
स्वशक्क्त्युपचये केचित्परस्य व्यसनेऽपरे।
यानमाहुस्तदासीनं त्वाम् उत्थापयति द्वयम् ।। शिशुपालवधम् - 2 - 57 ।।
लिलङ्घयिषतो लोकानलङ्घ्यानलघीयसः।
यादवाम्भोनिधीन् रुन्धे वेलेव भवतः क्षमा ।। शिशुपालवधम् - 2 - 58 ।।
विजयस्त्वयि सेनायाः साक्षिमात्र अपदिश्यताम्
फलभाजि समीक्ष्योक्ते बुद्धेर्भोग इवात्मनि ।। शिशुपालवधम् - 2 - 59 ।।
हते हिडिम्बरिपुणा राज्ञि द्वै मातुरे युधि।
चिरस्य मित्रव्यसनी सुदमो दमघोषजः ।। शिशुपालवधम् - 2 - 60 ।।
नीतिरापदि यद्‌ गम्यः परस्तन्मानिनो ह्रिये।
विधुर्विधुन्तुदस्येव पूर्णस्तस्योत्सवाय सः ।। शिशुपालवधम् - 2 - 61 ।।
अन्यदुच्छृङ्खलं सत्त्वमन्यच्छास्त्रनियन्त्रितम्।
सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः ।। शिशुपालवधम् - 2 - 62 ।।
इन्द्रप्रस्थगमस्तावत्कारि मा सन्तु चेदयः।
आस्माकदन्तिसान्निध्याद्वामनीभूतभूरुहः ।। शिशुपालवधम् - 2 - 63 ।।
निरुद्धवीवधासारप्रसारा गा इव व्रजम्।
उपरुन्धन्तु दाशार्हा पुरीं माहिष्मतीं द्विषः ।। शिशुपालवधम् - 2 - 64 ।।
यजतां पाण्डवः स्वर्गमवत्विन्द्रस्तपत्विनः।
वयं हनाम द्विषतः सर्वः स्वार्थं समीहते ।। शिशुपालवधम् - 2 - 65 ।।
प्राप्यतां विद्युतां सम्पत्सम्पर्कादर्करोचिषाम्।
शस्त्रैर्द्विषच्छिरश्छेदप्रोच्छलच्छोणितोक्षितैः ।। शिशुपालवधम् - 2 - 66 ।।
इति संरम्भिणो वाणीर्बलस्यालेख्यदेवताः।
सभाभित्तिप्रतिध्वानैर्भयादन्ववदन्निव ।। शिशुपालवधम् - 2 - 67 ।।
निशम्य ताः शेषगवीरभिधातुमधोक्षजः।
शिष्याय बृहतां पत्युः प्रस्तावम् अदिशत् दृशा ।। शिशुपालवधम् - 2 - 68 ।।
भारतीमाहितभरामथानुद्धतमुद्धवः।
तथ्यामुतथ्यानुजवजत् जगाद अग्रे गदाग्रजम् ।। शिशुपालवधम् - 2 - 69 ।।
सम्प्रत्यसाम्प्रतं वक्तुमुक्ते मुसलपाणिना।
निर्धारितेऽर्थे लेखेन खलूक्त्वा खलु वाचिकम् ।। शिशुपालवधम् - 2 - 70 ।।
तथापि यन्मय्यपि ते गुरुरित्यस्ति गौरवम्।
तत्प्रयोजककर्त्तृत्वम् उपैति मम जल्पतः ।। शिशुपालवधम् - 2 - 71 ।।
वर्णैः कतिपयैरेव ग्रथितस्य स्वरैरिव।
अनन्ता वाङ्‌मयस्याहो गेयस्येव विचित्रता ।। शिशुपालवधम् - 2 - 72 ।।
बह्वपि स्वेच्छया कामं प्रकीर्णम् अभिधीयते
अनुज्झितार्थसम्बन्धः प्रबन्धो दुरुदाहरः ।। शिशुपालवधम् - 2 - 73 ।।
म्रदीयसीमपि घनामनल्पगुणकल्पिताम्।
प्रसारयन्ति कुशलाश्चित्रां वाचं पटीमिव ।। शिशुपालवधम् - 2 - 74 ।।
विशेषविदुषः शास्त्रं यत्तव उद्ग्राह्यते पुरः।
हेतुः परिचयस्थैर्ये वक्तुर्गुणनिकैव सा ।। शिशुपालवधम् - 2 - 75 ।।
प्रज्ञोत्साहावतः स्वामी यतेत अधातुमात्मनि।
तौ हि मूलमुदेष्यन्त्या जिगीषोरात्मसाम्पदः ।। शिशुपालवधम् - 2 - 76 ।।
सोपधानां धियं धीराः स्थेयसीं खट्‌वयन्ति ये।
तत्रानिशं निषण्णास्ते जानते जातु न श्रमम् ।। शिशुपालवधम् - 2 - 77 ।।
स्पृशन्ति शरवत्तीक्ष्णाः स्तोकमन्तः विशन्ति च।
बहुस्पृशापि स्थूलेन स्थीयते बहिरश्मवत् ।। शिशुपालवधम् - 2 - 78 ।।
आरभन्ते अल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च।
महारम्भाः कृतधियः तिष्ठन्ति च निराकुलाः ।। शिशुपालवधम् - 2 - 79 ।।
उपायमास्थितस्यापि नश्यन्ति अर्थाः प्रमाद्यतः।
हन्ति नोपशयस्थोऽपि शयालुर्मृगयुर्मृगान् ।। शिशुपालवधम् - 2 - 80 ।।
उदेतुमत्यजन्नीहां राजसु द्वादशस्वपि।
जिगीषुरेको दिनकृदादित्येष्विव कल्पते ।। शिशुपालवधम् - 2 - 81 ।।
बुद्धिशस्त्रः प्रकृत्यङ्गो घनसंवृतिकञ्चुकः।
चारेक्षणो दूतमुखः पुरुषः कोऽपि पार्थिवः ।। शिशुपालवधम् - 2 - 82 ।।
तेजः क्षमा वा नैकन्तं कालज्ञस्य महीपतेः।
नैकमोजः प्रसादो वा रसभावविदः कवेः ।। शिशुपालवधम् - 2 - 83 ।।
कृतापचारोऽपि परैरनाविष्कृतविक्रियः।
असाध्यः कुरुते कोपं प्राप्ते काले गदो यथा ।। शिशुपालवधम् - 2 - 84 ।।
मृदुव्यवहितं तेजो भोक्तुमर्थान् प्रकल्पते
प्रदीपः स्नेहम् आदत्ते दशयाऽभ्यन्तरस्थया ।। शिशुपालवधम् - 2 - 85 ।।
आलम्बते दैष्टिकतां न निषीदति पौरुषे।
शब्दार्थौ सत्कविरिव द्वयं विद्वान् अपेक्षते ।। शिशुपालवधम् - 2 - 86 ।।
स्थायिनोऽर्थे प्रवर्तन्ते भावाः सञ्चारिणो यथा।
रसस्यैकस्य भूयांसस्तथा नेतुर्महीभृतः ।। शिशुपालवधम् - 2 - 87 ।।
तन्त्रावापविदा योगैर्मण्डलान्यधितिष्ठता।
सुनिग्रहा नरेन्द्रेण फणीन्द्रा इव शत्रवः ।। शिशुपालवधम् - 2 - 88 ।।
करप्रचेयामुत्तुङ्गः प्रभुशक्तिं प्रथीयसीम्।
प्रज्ञाबलबृहन्मूलः फलति उत्साहपादपः ।। शिशुपालवधम् - 2 - 89 ।।
अनल्पत्वात्प्रधानत्वाद् वंशस्येवेतरे स्वराः।
विजिगीषोर्नृपतयः प्रयान्ति परिवारताम् ।। शिशुपालवधम् - 2 - 90 ।।
अप्यनारम्भमाणस्य विभोरुत्पादिताः परैः।
व्रजन्ति गुणतामर्थाः शब्दा इव विहायसः ।। शिशुपालवधम् - 2 - 91 ।।
यातव्यपार्ष्णिग्राहादिमालायामधिकद्युतिः।
एकार्थतन्तुप्रोतायां नायको नायकायते ।। शिशुपालवधम् - 2 - 92 ।।
षाड्‌गुण्यम् उपयुञ्जीत शक्त्यपेक्षो रसायनम्।
भवन्ति अस्यैवमङ्गानि स्थास्नूनि बलवन्ति च ।। शिशुपालवधम् - 2 - 93 ।।
स्थाने शमवतां शक्त्या व्यायामे वृद्धिरङ्गिनाम्।
अयथाबलमारम्भो निदानं क्षयसम्पदः ।। शिशुपालवधम् - 2 - 94 ।।
तदीशितारं चेदीनां भवांस्तम् अवमंस्त मा।
निहन्ति एकपदे य उदात्तः स्वरानिव ।। शिशुपालवधम् - 2 - 95 ।।
मा वेदि यदसावेको जेतव्यश्चेदिराडिति।
राजयक्ष्मेव रोगाणां समूहः स महीभृताम् ।। शिशुपालवधम् - 2 - 96 ।।
सम्पादितफलस्तेन सपक्षः परभेदनः।
कार्मुकेणेव गुणिना बाणः सन्धानम् एष्यति ।। शिशुपालवधम् - 2 - 97 ।।
ये चान्ये कालयवनशाल्वरुक्मिद्रुमादयः।
तमःस्वभावास्तेऽप्येनं प्रदोषमनुयायिनः ।। शिशुपालवधम् - 2 - 98 ।।
उपजापः कृतस्तेन तानाकोपवतस्तवयि।
आशु दीपयिता अल्पोऽपि साग्नीनेधानिवानिलः ।। शिशुपालवधम् - 2 - 99 ।।
बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति
सम्भूयाम्भोधिम् अभ्येति महानद्या नगापगा ।। शिशुपालवधम् - 2 - 100 ।।
तस्य मित्राण्यमित्रास्ते ये च ये चोभये नृपाः।
अभियुक्तं त्वयैनं ते गन्तारस्त्वामतः परे ।। शिशुपालवधम् - 2 - 101 ।।
मखविघ्नाय सकलमित्थमुत्थाप्य राजकम्।
हन्त जातमजातारेः प्रथमेन त्वयाऽरिणा ।। शिशुपालवधम् - 2 - 102 ।।
सम्भाव्य त्वामतिभरक्षमस्कन्धं स बान्दवः।
सहायमध्वरधुरां धर्मराजो विवक्षते ।। शिशुपालवधम् - 2 - 103 ।।
महात्मानो अनुगृह्णन्ति भजमानान् रिपूनपि।
सपत्नीः प्रापयन्ति अब्धिं सिन्दवो नगनिम्नगाः ।। शिशुपालवधम् - 2 - 104 ।।
चिरादपि बलात्कारो बलिनः सिद्धयेऽरिषु।
छन्दानुवृत्तिदुःसाध्या सुहृदो विमनीकृताः ।। शिशुपालवधम् - 2 - 105 ।।
मन्यसे अरिवधः श्रेयान् प्रीतये नाकिनामिति।
पुरोडाशभुजामिष्टमिष्टं कर्तुमलन्तराम् ।। शिशुपालवधम् - 2 - 106 ।।
अमृतं नाम यत्सन्तो मन्त्रजिह्वेषु जुह्वति
शोभैव मन्दरक्षुब्धक्षुभिताम्बोधिवर्णना ।। शिशुपालवधम् - 2 - 107 ।।
सहिष्ये शतमागांसि सूनोस्त इति यत्वया।
प्रतीक्ष्यं तत्प्रतीक्ष्यायै पितृस्वस्रे प्रतिश्रुतम् ।। शिशुपालवधम् - 2 - 108 ।।
तीक्ष्णा नारुन्तुदा बुद्धिः कर्म शान्तं प्रतापवत्।
नोपतापि मनः सोष्म वागेका वाग्मिनः सतः ।। शिशुपालवधम् - 2 - 109 ।।
स्वयंकृतप्रसादस्य तस्याह्नो भानुमानिव।
समयावधिमप्राप्य नान्तायालं भवानपि ।। शिशुपालवधम् - 2 - 110 ।।
कृत्वा कृत्यविदस्तीर्थेष्वन्तः प्रणिधयः पदम्।
विदांकुर्वन्तु महतस्तलं विद्विषदम्भसः ।। शिशुपालवधम् - 2 - 111 ।।
अनुत्सूत्रपदन्यासा सद्‌वृत्तिः सन्निबन्धना।
शब्दविद्येव नो भाति राजनीतिरपस्पशा ।। शिशुपालवधम् - 2 - 112 ।।
अज्ञातदोषैर्दोषज्ञैरुद्‌दूष्योभयवेतनैः।
भेद्याः शत्रोरभिव्यक्तशासनैः सामबायिकाः ।। शिशुपालवधम् - 2 - 113 ।।
उपेयिवांसि कर्तारः पुरीमाजातशात्रवीम्।
राजन्यकान्युपायज्ञैरेकार्थानि चरैस्तव ।। शिशुपालवधम् - 2 - 114 ।।
सविशेषं सुते पाण्डोर्भक्तिं भवति तन्वति।
वैरायितारस्तरलाः स्वयं मत्सरिणः परे ।। शिशुपालवधम् - 2 - 115 ।।
य इहात्मविदो विपक्षमध्ये सहसम्वृद्धियुजो भूभुजः स्युः
बलिपुष्टकुलादिवान्यपुष्टैः पृथगस्मादचिरेण भविता तैः ।। शिशुपालवधम् - 2 - 116 ।।
महजचापलदोषसमुद्धतश्चलितदुर्बलपक्षपरिग्रहः।
नव दुरासदवीर्यविभावसौ शलभतां लभताम् सुहृद्‌गणः ।। शिशुपालवधम् - 2 - 117 ।।
इति विशकलितार्थामौद्धवीं वाचमेनामनुगतनयमार्गामर्गलां दुर्नयस्य।
जनितमुदम् उदस्थात् उच्चकैरुच्छ्रितोरस्थलनियतनिषण्णश्रीश्रुतां शुश्रुवान् सः ।। शिशुपालवधम् - 2 - 118 ।।


।। इति शिशुपालवधमहाकाव्ये द्वितीयसर्गः ।।

तृतीयसर्गः

कौबेरदिग्भागमपास्य मार्गमागस्त्यमुष्णांशुरिवावतीर्णः।
अपेतयुद्धाभिनिवेशसौम्यो हरिर्हरिप्रस्थमथ प्रतस्थे ।। शिशुपालवधम् - 3 - 1 ।।
जगत्पवित्रैरपि तं न पादैः स्प्रष्टुं जगत्पूज्यम् अयुज्यत अर्कः।
यतो बृहत्पार्वणचन्द्रचारु तस्यातपत्रं बिभराम्बभूवे ।। शिशुपालवधम् - 3 - 2 ।।
मृणालसूत्रामलमन्तरेण स्थितश्चलच्चामरयोर्द्वयं सः।
भेजे अभितः पातुकसिद्धसिन्धोरभूतपूर्वां रुचमम्बुराशेः ।। शिशुपालवधम् - 3 - 3 ।।
चित्राभिरस्योपरिमौलिभाजां भाभिर्मणीनामनणीयसीभिः।
अनेकधातुच्छुरिताश्मराशेर्गोवर्धनस्याकृतिः अन्वकारि ।। शिशुपालवधम् - 3 - 4 ।।
तस्योल्लसत्काञ्चनकुण्डलाग्रप्रत्युप्तगारुत्मतरत्नभासा।
अवाप बाल्योचितनीलकण्ठपिच्छानचूडाकलनामिवोरः ।। शिशुपालवधम् - 3 - 5 ।।
तमङ्गदे मन्दरकूटकोटिव्याघट्टनोत्तेजनया मणीनाम्।
बंहीयसा दीप्तिवितानकेन चकासयामासतुः उल्लसन्ती ।। शिशुपालवधम् - 3 - 6 ।।
निसर्गरक्तैर्वलयावनद्धताम्राश्मरश्मिरश्मिच्छुरितैर्नखाग्रैः।
व्यद्योतत अद्यापि सुरारिवक्षोविक्षोभजासृक्स्नपितैरिवासौ ।। शिशुपालवधम् - 3 - 7 ।।
उभौ यदि व्योम्नि पृथक् प्रवाहावाकाशगङ्गापयसः पतेताम्।
तेन उपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ।। शिशुपालवधम् - 3 - 8 ।।
तेनाम्भसां सारमयः पयोधे दध्रे मणिर्दीधितिदीपिताशः।
अन्तर्वसन्बिम्बगतस्तदङ्गे साक्षादिव अलक्ष्यत यत्र लोकः ।। शिशुपालवधम् - 3 - 9 ।।
मुक्तामयं सारसनावलम्बि भाति स्म दामाप्रपदीनमस्य।
अङ्गुष्ठनिष्यूय।तमिवोर्ध्वमुच्चैस्त्रिस्रोतसः सन्ततधारमम्भः ।। शिशुपालवधम् - 3 - 10 ।।
स इन्द्रनीलस्थलनीलमूर्ती रराज कर्चूरपिशङ्गवासाः।
विसृत्वरैरम्बुरुहां रजोभिर्यमस्वसुश्चित्र इवोदभारः ।। शिशुपालवधम् - 3 - 11 ।।
प्रसाधितस्यास्य मधुद्विषः अभूत् अन्यैव लक्ष्मीरिति युक्तमेतत्।
वपुष्यशेषेऽखिललोककान्ता सानन्यकान्ता ह्यु रसीतरा तु ।। शिशुपालवधम् - 3 - 12 ।।
कपाटविस्तीर्णमनोरमोरः स्थलस्थितश्रीललनस्य तस्य।
आनन्दिताशेषजना बभूव सर्वाङ्गसङ्गिन्यपरैव लक्ष्मीः ।। शिशुपालवधम् - 3 - 13 ।।
प्रायच्छिदां दैत्यपतेर्नखानामुपेयुषां भूषणतां क्षतेन।
प्रकाशकार्कश्यगुणौ दधानाः स्तनौ तरुण्यः परिवव्रुः एनम् ।। शिशुपालवधम् - 3 - 14 ।।
आकर्षतेवोर्ध्वमतिक्रशीयानत्युन्नतत्वात्कुचमण्डलेन।
ननाम मध्योऽतिगुरुत्वभाजा नितान्तमाक्रान्त इवाङ्गनानाम् ।। शिशुपालवधम् - 3 - 15 ।।
यां यां प्रियः प्रैक्षत कातराक्षी सा सा ह्रिया नम्रमुखी बभूव
निःशङ्कमन्याः सममाहितेर्ष्यास्तत्रान्तरे जघ्नुः अमुं कटाक्षैः ।। शिशुपालवधम् - 3 - 16 ।।
तस्यातसीसूनसमानभासो भ्राम्यन्मयूखावलिमण्डलेन।
चक्रेण रेजे यमुनाजलौघः स्फुरन्महावर्त इवैकबाहुः ।। शिशुपालवधम् - 3 - 17 ।।
विरोधिनां विग्रहभेददक्षा मूर्तेव शक्तिः क्वचिदस्खलन्ती।
नित्यं हरेः सन्निहिता निकामं कौमोदकी मोदयति स्म चेतः ।। शिशुपालवधम् - 3 - 18 ।।
न केवलं यः स्वतया मुरारेरनन्यसाधारणतां दधानः।
अत्यर्थमुद्वेजयिता परेषां नाम्नापि तस्यैव स नन्दको अभूत् ।। शिशुपालवधम् - 3 - 19 ।।
न नीतमन्येन नतिं कदाचित् कर्णान्तिकप्राप्तगुणं क्रियासु।
विधेयमस्य अभवत् अन्तिकस्थं शार्ङ्ग धनुर्मित्रमिव द्रढीयः ।। शिशुपालवधम् - 3 - 20 ।।
प्रवृद्धमन्द्राम्बुदधीरनादः कृष्णार्णवाभ्यर्णचरैकहंसः।
मन्दानिलापूरकृतं दधानो निध्वानम् अश्रूयत पाञ्चजन्यः ।। शिशुपालवधम् - 3 - 21 ।।
रराज सम्पादकमिष्टसिद्धेः सर्वासु दिक्ष्वप्रतिषिद्धमार्गम्।
महारथः पुष्यरथं रथाङ्गी क्षिप्रं क्षपानाथ इवाधिरूढः ।। शिशुपालवधम् - 3 - 22 ।।
ध्वजाग्रधामा ददृशे अथ शौरेः संक्रान्तमूर्तिर्मणिमेदिनीषु।
फणावतस्त्रासयितुं रसायास्तलं विविक्षन्निव पन्नगारिः ।। शिशुपालवधम् - 3 - 23 ।।
यियासितस्तस्य महीन्द्ररन्ध्रभिदापटीयान् पटहप्रणादः।
जलान्तराणीव महार्णवौघः शब्दान्तराणि अन्तरयाञ्चकार ।। शिशुपालवधम् - 3 - 24 ।।
यतः स भर्ता जगतां जगाम धर्त्रा धरित्र्याः फणिना ततोऽधः।
महाभराभुग्नशिरःसहस्रासाहायकव्यग्रभुजं प्रसस्रे ।। शिशुपालवधम् - 3 - 25 ।।
अथोच्चकैस्तोरणसङ्गभङ्गभयावनम्रीकृतकेतनानि।
क्रियाफलानीव सुनीतिभाजं सैन्यानि सोमान्वयम् अन्वयुः तम् ।। शिशुपालवधम् - 3 - 26 ।।
श्यामारुणैर्वारणदानतोयैरालोडिताः काञ्चनभूपरागाः।
आनेमिमग्नैः शितिकण्ठपिच्छक्षोदद्युतः चुक्षुदिरे रथौघैः ।। शिशुपालवधम् - 3 - 27 ।।
लङ्घयामास महाजनानां शिरांसि नैवोद्धतिम् आजगाम
अचेष्टत अष्टापदभूमिरेणुः पदाहतो यत्सदृशं गरिम्णः ।। शिशुपालवधम् - 3 - 28 ।।
निरुध्यमाना यदुभिः कथञ्चिन्मुहुर्यत् उच्चिक्षिपुः अग्रपादान्।
ध्रुवं गुरून् मार्गरुधः करीन्द्रानुलङ्घ्य गन्तुं तुरगास्तत् ईषुः ।। शिशुपालवधम् - 3 - 29 ।।
अवेक्षितानायतवल्गमग्रे तुरङ्गिभिर्यत्ननिरुद्धवाहैः।
प्रक्रीडितान् रेणुभिरेत्य तूर्णँ निन्युः जनन्यः पृथूकान् पथिभ्यः ।। शिशुपालवधम् - 3 - 30 ।।
दिदृक्षमाणाः प्रतिरथ्यम् ईयुः मुरारिमारादनघं जनौघाः।
अनेकशः संस्तुतमप्यनल्पा नवं नवं प्रीतिरहो करोति ।। शिशुपालवधम् - 3 - 31 ।।
उपेयुषो वर्त्म निरन्तराभिरसौ निरुच्छ्वासमनीकिनीभिः।
रथस्य तस्यां पुरि दत्तचक्षुर्विद्वान् विदामास शनैर्न यातम् ।। शिशुपालवधम् - 3 - 32 ।।
मध्येसमुद्रं ककुभः पिशङ्गीर्या कुर्वती काञ्चनवप्रभासा।
तुरङ्गकान्तामुखहव्यवाहज्वालेव भित्त्वा जलम् उल्ललास ।। शिशुपालवधम् - 3 - 33 ।।
कृतस्पदा भूमिभृतां सहस्रैरुदन्वदम्भःपरिवीतमूर्तिः।
अनिर्विदा या विदधे विधात्रा पृथ्वी पृथिव्याः प्रतियातनेव ।। शिशुपालवधम् - 3 - 34 ।।
त्वष्टुः सदाभ्यासगृहीतशिल्पविज्ञानसम्पत्प्रसरस्य सीमा।
अदृश्यत आदर्शतलामलेषु छायेव या स्वर्जलधेर्जलेषु ।। शिशुपालवधम् - 3 - 35 ।।
रथाङ्गभर्त्रेऽभिनवं वराय यस्याः पितेव प्रतिपादितायाः।
प्रेम्णोपकण्ठं मुहुरङ्कभाजो रत्नावलीरम्बुधिः आबबन्ध ।। शिशुपालवधम् - 3 - 36 ।।
यस्याश्चलद्वारिधिवारिवीचिच्छटोच्छलच्छङ्खकुलाकुलेन।
वप्रेण पर्यन्तचरोडुचक्रं सुमेरुवप्रोऽन्वहम् अन्वकारि ।। शिशुपालवधम् - 3 - 37 ।।
वणिक्पथे पूगकृतानि यत्र भ्रमागतैरम्बुभिरम्बुराशिः।
लोलैरलोलद्युतिभाञ्जिमुष्णन् रत्नानि रत्नाकरताम् अवाप ।। शिशुपालवधम् - 3 - 38 ।।
अम्भश्च्युतः कोमलरत्नराशीनपांनिधिः फेनपिनद्धभासः।
यत्रातपे दातुमिवाधितल्पं विस्तारयामास तरङ्गहस्तैः ।। शिशुपालवधम् - 3 - 39 ।।
यच्छालमुत्तुङ्गतया विजेतुं दूरात् उदस्थीयत सागरस्य।
महोर्मिभिर्व्याहतवाञ्छितार्थैर्व्रीडादिवाभ्याशगतैः विलिल्ये ।। शिशुपालवधम् - 3 - 40 ।।
कुतूहलेनेव जवादुपेत्य प्राकारभित्त्या सहसा निषिद्धः।
रसन् अरोदीत् भृशमम्बुवर्षव्याजेन यस्या बहिरम्बुवाहः ।। शिशुपालवधम् - 3 - 41 ।।
यदङ्गनारूपसरूपतायाः कञ्चिद् गुणं भेदकमिच्छतीभिः।
आराधितोऽद्धा मनुरप्सरोभिः चक्रे प्रजाः स्वाः सनिमेषचिह्नाः ।। शिशुपालवधम् - 3 - 42 ।।
स्फुरत्तुषारांशुमरीचिजालैर्विनिह्नुताः स्फाटिकसौधपङ्क्तीः।
आरुह्य नार्यः क्षणादासु यत्र नभोगता देव्य इव व्यराजन् ।। शिशुपालवधम् - 3 - 43 ।।
कान्तेन्दुकान्तोपलकुट्टिमेषु प्रतिक्षपं हर्म्यतलेषु यत्र।
उच्चैरधःपातिपयोमुचोऽपि समूहम् ऊहुः पयसां प्रणाल्यः ।। शिशुपालवधम् - 3 - 44 ।।
रतौ ह्रिया यत्र निशाम्य दीपाञ्जालागताभ्योऽधिगृहं गृहिण्यः।
बिभ्युः बिडालेक्षणभीषणाभ्यो वैदूर्यकुड्येषु शशिद्युतिभ्यः ।। शिशुपालवधम् - 3 - 45 ।।
यस्यामतिश्लक्ष्णतया गृहेषु विधातुमालेख्यमशक्नुवन्तः।
चक्रुः युवानः प्रतिबिम्बिताङ्गाः सजीवचित्रा इव रत्नभित्तीः ।। शिशुपालवधम् - 3 - 46 ।।
सावर्ण्यभाजां प्रतिमागतानां लक्ष्यैः स्मरापाण्डुतयाङ्गनानाम्।
यस्यां कपोलैः कलधौतधामस्तम्भेषु भेजे मणिदर्पणश्रीः ।। शिशुपालवधम् - 3 - 47 ।।
शुकाङ्गनीलोपलनिर्मितानां लिप्तेषु भासा गृहदेहलीनाम्।
यस्यामलिन्देषु न चक्रुः एव मुग्धाङ्गना गोमयगोमुखानि ।। शिशुपालवधम् - 3 - 48 ।।
गोपानसीषु क्षणमास्थितानामालम्बिभिश्चन्द्रकिणां कलापैः।
हरिन्मणिश्यामतृणाभिरामैर्गृहाणि नीध्रैरिव यत्र रेजुः ।। शिशुपालवधम् - 3 - 49 ।।
बृहत्तुलैरप्यतुलैर्वितानमालापिनद्धैरपि चावितानैः।
रेजे विचित्रैरपि या सचित्रैर्गुहैर्विशालैरपि भूरिशालैः ।। शिशुपालवधम् - 3 - 50 ।।
चिक्रंसया कृत्रिमपत्रिपङ्‌क्तेः कपोलपालीषु निकेतनानाम्।
मार्जारमप्यायतनिश्चलाङ्गं यस्यां जनः कृत्रिममेव मेने ।। शिशुपालवधम् - 3 - 51 ।।
क्षितिप्रतिष्ठोऽपि मुखारविन्दैर्वधूजनश्चन्द्रम् अधः चकार
अतीतनक्षत्रपथानि यत्र प्रसादशृङ्गाणि वृथा अध्यरुक्षत् ।। शिशुपालवधम् - 3 - 52 ।।
रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्धयन्तीः।
यस्याम् असेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः ।। शिशुपालवधम् - 3 - 53 ।।
सुगन्धितामप्रतियत्नपूर्वां बिभ्रन्ति यत्र प्रमदाय पुंसाम्।
मधूनि वक्त्राणि च कामिनीनामामोदकर्मव्यतिहारम् ईयुः ।। शिशुपालवधम् - 3 - 54 ।।
रतान्तरे यत्र गृहान्तरेषु वितर्दिनिर्यूहविटङ्कनीडः।
रुतानि शृण्वन् वयसां गणोऽन्तेवासित्वम् आप स्फुटमङ्गनानाम् ।। शिशुपालवधम् - 3 - 55 ।।
छन्नेष्वपि स्पष्टतरेषु यत्र स्वच्छानि नारीकुचमण्डलेषु।
आकाशसाम्यं दधुः अम्बराणि न नामतः केवलमर्थतोऽपि ।। शिशुपालवधम् - 3 - 56 ।।
यस्यामजिह्ना महतीमपङ्काः सीमानमत्यायतयोऽत्यजन्तः।
जनैरजातस्खलनैर्न जातु द्वयेऽपि अमुच्यन्त विनीतमार्गाः ।। शिशुपालवधम् - 3 - 57 ।।
परस्परस्पर्धिपरार्ध्यरूपाः पौरस्त्रियो यत्र विधाय वेधाः।
श्रीनिर्मितप्राप्तघुणक्षतैकवर्णोपमावाच्यमलं ममार्ज ।। शिशुपालवधम् - 3 - 58 ।।
क्षुण्णं यदन्तःकरणेन वृक्षाः फलन्ति कल्पोपपदास्तदेव।
अध्यूषुषो याम् अभवन् जनस्य याः सम्पदस्ता मनसोऽप्यगम्याः ।। शिशुपालवधम् - 3 - 59 ।।
कला दधानः सकलाः स्वभाभिरुद्भासयन्सौधसिताभिराशाः।
यां रेवतीजानिः इयेष हातुं न रौहिणेयो न च रोहिणीशः ।। शिशुपालवधम् - 3 - 60 ।।
बाणाहवव्याहतशम्भुशक्तेरासत्तिमासाद्य जनार्दनस्य।
शरीरिणा जैत्रशरेण यत्र निःशङ्कम् ऊषे मकरध्वजेन ।। शिशुपालवधम् - 3 - 61 ।।
निषेव्यमाणेन शिवैर्मरुद्भिरध्यास्यमाना हरिणा चिराय।
उद्रश्मिरत्नाङ्कुरधाम्नि सिन्धौ आह्वास्त मेरावमरावतीं या ।। शिशुपालवधम् - 3 - 62 ।।
स्निग्धाञ्जनश्यामरुचिः सुवृत्तो वध्वा इवाध्वंसितवर्णकान्तेः ।
विशेषको वा विशिशेष यस्याः श्रियं त्रिलोकीतिलकः स एव ।। शिशुपालवधम् - 3 - 63 ।।
तामीक्षमाणः स पुरं पुरस्तात् प्रापत् प्रतोलीमतुलप्रतापः ।
वज्रप्रभोद्भासिसुरायुधश्रीर्या देवसेनेव परैरलङ्घ्या ।। शिशुपालवधम् - 3 - 64 ।।
प्रजा इवाङ्गादरविन्दनाभेः शम्भोर्जटाजूटतटादिव आप
मखादिवाथ श्रुतयो विधातुः पुरात् निरीयुः मुरजिद्धवजिन्यः ।। शिशुपालवधम् - 3 - 65 ।।
श्लिष्यद्भिरन्योन्यमुखाग्रसङ्गस्खलत्खलीनं हरिभिर्विलोलैः ।
परस्परोत्पीडितजानुभागा दुःखेन निष्चक्रमुः अश्ववाराः ।। शिशुपालवधम् - 3 - 66 ।।
निरन्तरालेपि विमच्यमाने दूरं पथि प्राणभृतां गणेन ।
तेजोमहद्भिस्तमसेव दीपैर्द्विपैरसम्बाधम् अयाम्बभूवे ।। शिशुपालवधम् - 3 - 67 ।।
शनैः अनीयन्त रयात्पतन्तो रथाः क्षितिं हस्तिनखादखेदैः ।
सयत्नसूतायतरश्मिभुग्नग्रीवाग्रसंसक्तयुगैस्तुरङ्गैः ।। शिशुपालवधम् - 3 - 68 ।।
बलोर्मिभिस्तत्क्षणहीयमानरथ्याभुजाया वलयैरिवास्याः ।
प्रायेण निष्क्रामति चक्रपाणौ नेष्टं पुरो द्वारवतीत्वम् आसीत् ।। शिशुपालवधम् - 3 - 69 ।।
पारेजलं नीरनिधेः अपश्यत् मुरारिरानीलपलाशराशीः ।
वनावलीरुत्कलिकासहस्रप्रतिक्षणोत्कूलितशैवलाभाः ।। शिशुपालवधम् - 3 - 70 ।।
लक्ष्मीभृतोऽम्भोधितटाधिवासान् द्रुमानसौ नीरदनीलभासः ।
लतावधूसम्प्रयुजोऽधिवेलं बहूकृतान् स्वानिव पश्यति स्म ।। शिशुपालवधम् - 3 - 71 ।।
आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्भुजाकारबृहत्तरङ्गम् ।
फेनायमानं पतिमापगानामसावपस्मारिणम् आशशङ्के ।। शिशुपालवधम् - 3 - 72 ।।
पीत्वा जलानां निधिनातिगार्ध्याद् वृद्धिं गतेऽप्यात्मनि नैव मान्तीः ।
क्षिप्ता इवेन्दोः स रुचोऽधिवेलं मुक्तावलीः आकलयाञ्चकार ।। शिशुपालवधम् - 3 - 73 ।।
साटोपमुर्वीमनिशं नदन्तो यैः प्लावयिष्यन्ति समन्ततोऽमी ।
तान्येकदेशान्निभृतं पयोधेः सोऽम्भांसि मेघान्पिबतो ददर्श ।। शिशुपालवधम् - 3 - 74 ।।
उद्धृत्य मेघैस्तत एव तोयमर्थं मुनीन्द्रैरिव सम्प्रणीताः ।
आलोकयामास हरिः पतन्तीर्नदीः स्मृतीर्वेदमिवाम्बुराशिः ।। शिशुपालवधम् - 3 - 75 ।।
विक्रीय दिश्यानि धनान्युरूणि द्वैप्यानसावुत्तमलाभभाजः ।
तरीषु तत्रत्यमफल्गु भाण्डं सांयात्रिकानावपतः अभ्यनन्दत् ।। शिशुपालवधम् - 3 - 76 ।।
उत्पिसवोऽन्तर्नदभर्तुरुच्चैर्गरीयसा निःश्वसितानिलेन ।
पयांसि भक्त्या गरुडध्वजस्य ध्वजानिव उच्चिक्षिपिरे फणीन्द्राः ।। शिशुपालवधम् - 3 - 77 ।।
तमागतं वीक्ष्य युगान्तबन्धुमुत्सङ्गशय्याशयमम्बुराशिः ।
प्रत्युज्जगाम इव गुरुप्रमोदप्रसारितोत्तुङ्गतरङ्गबाहुः ।। शिशुपालवधम् - 3 - 78 ।।
उत्सङ्गिताम्भःकणको नभस्वानुदन्वतः स्वेदलवान् ममार्ज
तस्यानुवेलं व्रजतोऽधिवेलमेलालतास्फालनलब्धगन्धः ।। शिशुपालवधम् - 3 - 79 ।।
उत्तालतालीवनसम्प्रवृत्तसमीरसीमन्तितकेतकीकाः ।
आसेदिरे लावणसैन्धवीनां चमूचरैः कच्छभुवां प्रदेशाः ।। शिशुपालवधम् - 3 - 80 ।।
लवङ्गमालाकलितावतंसास्ते नारिकेलान्तरपः पिबन्तः ।
आस्वादितार्द्रक्रमुकाः समुद्रादभ्यागतस्य प्रतिपत्तिम् ईयुः ।। शिशुपालवधम् - 3 - 81 ।।
तुरगशताकुलस्य परितः परमेकतुरङ्गजन्मनः प्रमथितभूभृतः प्रतिपथं मथितस्य भृशं महीभृता ।
परिचलतो बलानुजबलस्य पुरः सततं धृतश्रियश्चिरविगतश्रियो जलनिधेश्च तदा अभवत् अन्तरं महत् ।। शिशुपालवधम् - 3 - 82 ।।


।। इति शिशुपालवधमहाकाव्ये तृतीयसर्गः ।।

चतुर्थसर्गः

निःश्वासधूमं सहरत्नभाभिर्भित्वोत्थितं भूमिमिवोरगाणाम् ।
नीलोपलस्यूतविचित्रधातुमसौ गिरिं रैवतकं ददर्श ॥शिशुपालवधम् - 4 -1॥
गुर्वीरजस्रं दृषदः समन्तादुपर्युपर्यम्बुमुचां वितानैः ।
विन्ध्यायमानं दिवसस्य भर्तुर्मार्गं पुनः रोद्धुमिवोन्नमद्भिः ॥शिशुपालवधम् - 4 - 2॥
क्रान्तं रुचा काञ्चनवप्रभाजा नवप्रभाजालभृतां मणीनाम् ।
श्रितं शिलाश्यामलताभिरामं लताभिरामन्त्रितषट्पदाभिः ॥शिशुपालवधम् - 4 -3॥
सहस्रसङ्ख्यैर्गगनं शिरोभिः पादैर्भुवं व्याप्य वितिष्ठमानम् ।
विलोचनस्थानगतोष्णरश्मिनिशाकरं साधुहिरण्यगर्भम् ॥शिशुपालवधम् - 4 -4 ॥
क्वचिज्जलापायविपाण्डुराणि धौतोत्तरीयप्रतिमच्छवीनि ।
अभ्राणि बिभ्राणमुमाङ्गसङ्गविभक्तभस्मानमिव स्मरारिम् ॥शिशुपालवधम् - 4 - 5॥
छायां निजस्त्रीचटुलालसानां मदेन किञ्चिच्चटुलालसानाम् ।
कुर्वाणमुत्पिञ्जलजातपत्रैर्विहङ्गमानां जलजातपत्रैः॥शिशुपालवधम् - 4 - 6॥
स्कन्धाधिरूढोज्ज्वलनीलकण्ठानुर्वीरुहः श्लिष्टतनूनहीन्द्रैः ।
प्रनर्तितानेकलताभुजाग्रान् रुद्राननेकानिव धारयन्तम् ॥शिशुपालवधम् - 4 - 7॥
विलम्बिनीलोत्पलकर्णपूराः कपोलभित्तीरिव लोध्रगौरीः ।
नवोलपालङ्कृतसैकताभाः शुचीरपः शैवलिनीर्दधानम् ॥शिशुपालवधम् - 4 - 8॥
राजीवराजीवशलोलभृङ्गं मुष्णन्तमुष्णं ततिभिस्तरूणाम् ।
कान्तालकान्ता ललनाः सुराणां रक्षोभिरक्षोभितमुद्वहन्तम् ॥शिशुपालवधम् - 4 - 9॥
मुदे मुरारेरमरैः सुमेरोरानीय यस्योपचितस्य श्रृङ्गैः ।
भवन्ति नोद्दामगिरां कवीनामुच्छ्रायसौन्दर्यगुणा मृषोद्याः ॥शिशुपालवधम् - 4 - 10॥
यतः परार्ध्यानि भृतान्यनूनैः प्रस्थैर्मुहुर्भूरिभिरुच्छिखानि ।
आढ्यादिव प्रापणिकादजस्त्रं जग्राह रत्नान्यमितानि लोकः ॥शिशुपालवधम् - 4 -11 ॥
अखिद्यत आसन्नमुदग्रतापं रविं दधानेऽप्यरविन्दधाने ।
भृङ्गावलिर्यस्य तटे निपीतरसा नमत्तामरसा न मत्ता ।। शिशुपालवधम् - 4 -12 ॥
यत्राधिरूढेन महीरुहोच्चैरुन्निद्रपुष्पाक्षिसहस्रभाजा ।
सुराधिपाधिष्ठितहस्तिमल्ललीलां दधौ राजतगण्डशैलः ।। शिशुपालवधम् - 4 -13 ॥
विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या ।
रत्नैः पुनर्यत्र रुचा रुचं स्वाम् आनिन्यिरे वंशकरीरनीलैः ।। शिशुपालवधम् - 4 -14 ॥
यत्रोज्झिताभिर्मुहुरम्बुवाहैः समुन्नमद्भिः न समुन्नमद्भिः ।
वनं बबाधे विषपावकोत्था विपन्नगानामविपन्नगानाम् ।। शिशुपालवधम् - 4 -15 ॥
फलद्भिरुष्णांशुकराभिमर्शात्कार्शानवं धाम पतङ्गकान्तैः ।
शशंस यः पात्रगुणाद्गुणानां सङ्क्रान्तिमाक्रान्तगुणातिरेकाम् ।। शिशुपालवधम् - 4 -16 ॥
दृष्टोऽपि शैलः स मुहुर्मुरारेरपूर्ववद्विस्मयम् आततान
क्षणे क्षणे यन्नवताम् उपैति तदेव रूपं रमणीयतायाः ।। शिशुपालवधम् - 4 -17 ॥
उच्चारणज्ञोऽथ गिरां दधानमुच्चारणत्पक्षिगणास्तटीस्तम् ।
उत्कं धरं द्रष्टुमवेक्ष्य शौरिमुत्कन्धरं दारुक इति उवाच ।। शिशुपालवधम् - 4 -18 ॥
आच्छादितायतदिगम्बरमुच्चकैर्गामाक्रम्य संस्थितमुदग्रविशालश्रृङ्गम् ।
मूर्ध्नि स्फुरत्तुहिनदीधितिकोटिमेनमुद्बीक्ष्य को भुवि न विस्मयते नगेशम् ।। शिशुपालवधम् - 4 -19 ॥
उदयति विततोर्ध्वरश्मिरज्जावहिमरुचौ हिमधाम्नि याति चाऽस्तम् ।
वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ।। शिशुपालवधम् - 4 -20 ॥
वहति यः परितः कनकस्थलीः सहरिता लसमाननवांशुकः ।
अचल एष भवानिव राजते स हरितालसमाननवांशुकः ।। शिशुपालवधम् - 4 -21 ॥
पाश्चात्यभागमिह सानुषु सन्निषण्णाः पश्यन्ति शान्तमलसान्द्रतरांशुजालम् ।
सम्पूर्णलब्धललनालपनोपमानमुत्सङ्गसङ्गिहरिणस्य मृगाङ्कमूर्तेः ।। शिशुपालवधम् - 4 -22 ॥
कृत्वा पुंवत्त्पातमुच्चैर्भृगुभ्यो मूर्ध्नि ग्राव्णां जर्जरा निर्झरौघाः ।
कुर्वन्ति द्यामुत्पतन्तः स्मरार्तस्वर्लोकस्त्रीगात्रनिर्वाणमत्र ।। शिशुपालवधम् - 4 -23॥
स्थगयन्त्यमूः शमितचातकार्तस्वरा जलदास्तडिततुलितकान्तकार्तस्वराः ।
जगतीरिह स्फुरितचारुचामीकराः सवितुः क्वचित् कपिशयन्ति चामी कराः ।। शिशुपालवधम् - 4 -24 ॥
उत्क्षिप्तमुच्छ्रितसितांशुकरावलम्बैरुत्तम्भितोडुभिरतीवतरां शिरोभिः ।
श्रद्धेयनिर्झरजलव्यपदेशमस्य विष्वक् तटेषु पतति स्फुटमन्तरिक्षम् ।। शिशुपालवधम् - 4 -25 ॥
एकत्र स्फटिकतटांशुभिन्ननीरा नीलाश्मद्युतिभिदुराम्भसोऽपरत्र ।
कालिन्दीजलजनितश्रियः श्रयन्ते वैदग्धीमिह सरितः सुरापगायाः ।। शिशुपालवधम् - 4 -26 ॥
इतस्ततोऽस्मिन् विलसन्ति मेरोः समानवप्रे मणिसानुरागाः ।
स्त्रियश्च पत्यौ सुरसुन्दरीभिः समा नवप्रेमणि सानुरागाः ।। शिशुपालवधम् - 4 -27 ॥
उच्चैर्महारजतराजिविराजिताऽसौ दुर्वर्णभित्तिरिह सान्द्रसुधासवर्णा ।
अभ्येति भस्मपरिपाण्डुरितस्मरारेरुद्वह्निलोचनललामललाटलीलाम् ।। शिशुपालवधम् - 4 -28 ॥
अयमतिजरठाः प्रकामगुर्वीरलघुविलम्बि पयोधरोपरुद्धाः ।
सततमसुमतामगम्यरूपाः परिणतदिक्करिकास्तटी बिभर्ति ।। शिशुपालवधम् - 4 -29 ॥
धूमाकरं दधति पुरःसौवर्णे वर्णेनाग्नेः सदृशि तटे पश्य अमी ।
श्यामीभूताः कुसुमसमूहेऽलीनां लीनामालीमिह तरवो बिभ्राणाः ।। शिशुपालवधम् - 4 -30 ॥
व्योमस्पृशः प्रथयता कलधौतभित्तीरुन्निद्रपुष्पचणचम्पकपिङ्गभासः ।
सौमेरवीमधिगतेन नितम्बशोभामेतेन भारतमिलावृतवत् विभाति ।। शिशुपालवधम् - 4 -31 ॥
रुचिरचित्रतनूरुहशालिभिर्विचलितैः परितः प्रियकव्रजैः ।
विविधरत्नमयैः अभिभाति असाववयवैरिव जङ्गमतां गतैः ।। शिशुपालवधम् - 4 -32 ॥
कुशेशयैरत्र जलाशयोषिता मुदा रमन्ते कलभा विकस्वरैः ।
प्रगीयते सिद्धगणैश्च योषितामुदारमन्ते कलभाविकस्वरैः ।। शिशुपालवधम् - 4 -33 ॥
आसादितस्य तमसा नियतेर्नियोगादाङ्क्षतः पुनरपक्रमणेन कालम् ।
पत्युस्त्विषामिह महौषधयः कलत्रस्थानं परैरनभिभूतममूः वहन्ति ।। शिशुपालवधम् - 4 -34 ॥
वनस्पतिस्कन्धनिषण्णबालप्रवालहस्ताः प्रमदा इवात्र ।
पुष्पेक्षणैर्लम्भितलोचकैर्वा मधुव्रतव्रातवृतैर्व्रतत्यः ।। शिशुपालवधम् - 4 -35 ॥
विहगाः कदम्बसुरभाविह गाः कलयन्ति अनुक्षणमनेकलयम् ।
भ्रमयन् उपैति मुहुरभ्रंमयं पवनश्च धूतनवनीपवनः ।। शिशुपालवधम् - 4 -36 ॥
विद्वद्भिरागमपरैर्विवृतं कथञ्चिच्छ्रुत्वाऽपि दुर्ग्रहमनिश्चितधीभिरन्यैः ।
श्रेयान्द्विजातिरिव हन्तुमघानि दक्षं गूढार्थमेष निधिमन्त्रगणं बिभर्ति ।। शिशुपालवधम् - 4 -37 ॥
बिम्बोष्ठं बहु मनुते तुरङ्गवक्त्रश्चुम्बन्तं मुखमिह किन्नरं प्रियायाः ।
श्लिष्यन्तं मुहुरितरोऽपि तं निजस्त्रीमुत्तुङ्गस्तनभरभङ्गभीरुमध्याम् ।। शिशुपालवधम् - 4 -38 ॥
यदेतदस्यानुतटं विभाति वनं ततानेकतमालतालम् ।
न पुष्पिताऽत्र स्थगितार्करश्मावनन्तताने कतमा लताऽलम् ।। शिशुपालवधम् - 4 -39 ॥
दन्तोज्ज्वलासु विमलोपलमेखलान्ताः सद्रत्नचित्रकटकासु बृहन्नितम्बाः ।
अस्मिन् भजन्ति घनकोमलगण्डशैला नार्योऽनुरूपमधिवासमधित्यकासु ।। शिशुपालवधम् - 4 -40 ॥
अनतिचिरोज्झितस्य जलदेन चिरस्थितबहुबुद्बुदस्य पयसोऽनुकृतिम् ।
विरलविकीर्णवज्रशकला सकलामिह विदधाति धौतकलधौतमही ।। शिशुपालवधम् - 4 -41 ॥
वर्जयन्त्या जनैः सङ्गमेकान्ततस्तर्कयन्त्या सुखं सङ्गमेकान्ततः ।
योषयैष स्मरासन्नतापाङ्गया सेव्यते अनेकया सन्नतापाङ्गया ।। शिशुपालवधम् - 4 -42 ॥
सङ्कीर्णकीचकवनस्खलितैकबालविच्छेदकातरधियश्चलितुं चमर्यः ।
अस्मिन् मृदुश्वसनगर्भतदीयरन्ध्रनिर्यत्स्वनश्रुतिसुखादिव न उत्सहन्ते ।। शिशुपालवधम् - 4 -43 ॥
मुक्तं मुक्तागौरमिह क्षीरमिवाभ्रैर्वापीष्वन्तर्लीनमहानीलदलासु ।
शस्त्रीश्यामैरंशुभिराशु द्रुतमम्भश्छायामच्छाम् ऋच्छति नीलीसलिलस्य ।। शिशुपालवधम् - 4 -44 ॥
या न ययौ प्रियमन्यवधूभ्यः सारतरागमना यतमानम् ।
तेन सहेह बिभर्ति रहः स्त्री सा रतरागमनायतमानम् ।। शिशुपालवधम् - 4 -45 ॥
भिन्नेषु रत्नकिरणैः किरणेष्विहेन्दोरुच्चावचैरुपगतेषु सहस्रसङ्ख्याम् ।
दोषाऽपि नूनमहिमांशुरसौ किलेति व्याकोशकोकनदतां दधते नलिन्यः ।। शिशुपालवधम् - 4 -46 ॥
अपशङ्कमङ्कपरिवर्तनोचिताश्चलिताः पुरः पतिमुपैतुमात्मजाः ।
अनुरोदिति इव करुणेन पत्रिणां विरुतेन वत्सलतयैष निम्नगाः ।। शिशुपालवधम् - 4 -47 ॥
मधुकरविटपानमितास्तरुपङ्क्तीर्बिभ्रतोऽस्य विटपानमिताः ।
परिपाकपिशङ्गलतारजसा रोधः चकास्ति कपिशं गलता ।। शिशुपालवधम् - 4 -48 ॥
प्राग्भागतः पतदिहेदमुपत्यकासु श्रृङ्गारितायतमहेभकराभमम्भः ।
संलक्ष्यते विविधरत्नकरानुविद्धमूर्ध्वप्रसारितसुराधिपचापचारु ।। शिशुपालवधम् - 4 -49 ॥
दधति च विकसद्विचित्रकल्पद्रुमकुसुमैरभिगुम्फितानिवैताः ।
क्षणमलघुविलम्बिपिच्छदाम्नः शिखरशिखाः शिखशेखरानमुष्य ।। शिशुपालवधम् - 4 -50 ॥
सवधूकाः सुखिनोऽस्मिन्ननवरतममन्दरागतामरसदृशः।
आसेवन्ते रसवन्न नवरतममन्दरागतामरसदृशः ।। शिशुपालवधम् - 4 -51 ॥
आच्छाद्य पुष्पपटमेष महान्तमन्तरावर्तिभिर्गृहकपोतशिरोधराभैः ।
स्वाङ्गानि धूमरुचिमागुरवीं दधानै धूपायति इव पटलैर्नवनीरदानाम् ।। शिशुपालवधम् - 4 -52 ॥
अन्योऽन्यव्यतिकरचारुभिर्विचित्रैरत्रस्यन्नवमणिजन्मभिर्मयूखैः ।
विस्मेरान् गगनसदः करोति अमुष्मिन्नाकाशे रचितमभित्तिचित्रकर्म ।। शिशुपालवधम् - 4 -53 ॥
समीरशिशिर शिरःसु वसतां सतां जवनिका निकामसुखिनाम् ।
बिभर्ति जनयन्नयं मुदमपामपायधवला बलाहकततीः।। शिशुपालवधम् - 4 -54 ॥
मैत्र्यादिचित्तपरिकर्मविदो विधाय क्लेशप्रहाणमिह लब्धसबीजयोगाः ।
ख्यातिं च सत्त्वपुरुषान्यतयाधिगम्य वाञ्छन्ति तामपि समाधिभृतौ निरोद्धुम् ।। शिशुपालवधम् - 4 -55 ॥
मरकतमयमेदिनीषु भानोस्तरुविटपान्तरपातिनो मयूखाः ।
अवनतशितिकण्ठकण्ठलक्ष्मीमिह दधति स्फुरिताणुरेणुजालाः ।। शिशुपालवधम् - 4 -56 ॥
या बिभर्ति कलवल्लकीगुणस्वानमानमतिकालिमालया ।
नात्र कान्तमुपगीतया तया स्वानमा नमति कालिमालया ।। शिशुपालवधम् - 4 -57 ॥
सायं शशाङ्ककिरणाहतचन्द्रकान्तनिस्यन्दिनीरनिकरेण कृताभिषेकाः ।
अर्कोपलोल्लसितवह्निभिरह्नि तप्तास्तीव्रं महाव्रतमिवात्र चरन्ति वप्राः ।। शिशुपालवधम् - 4 -58 ॥
एतस्मिन्नधिकपयःश्रियं वहन्त्यः संक्षोभं पवनभुवा जवेन नीताः ।
वाल्मीकेररहितरामलक्ष्मणानां साधर्म्यं दधति गिरां महासरस्यः ।। शिशुपालवधम् - 4 -59 ॥
इह मुहुर्मुदितैः कलभैः रवः प्रतिदिशं क्रियते कलभैरवः ।
स्फुरति चानुवनं चमरीचयः कनकरत्नभुवां च मरीचयः ।। शिशुपालवधम् - 4 -60 ॥
त्वक्साररन्ध्रपरिपूरणलब्धगीतिरस्मिन्नसौ मृदितपक्ष्मलरल्लकाङ्गः ।
कस्तूरिकामृगविमर्दसुगन्धिः एति रागीव सक्तिमधिकां विषयेषु वायुः ।। शिशुपालवधम् - 4 -61 ॥
प्रीत्यै यूनां व्यवहिततपनाः प्रौढध्वान्तं दिनमिह जलदाः ।
दोषामन्यं विदधति सुरतक्रीडायासश्रमशमपटवः ।। शिशुपालवधम् - 4 -62 ॥
भग्नो निवासोऽयमिहास्य पुष्पैः सदानतो येन विषाणिनाऽगः ।
तीव्राणि तेन उज्झति कोऽपितोऽसौ सदानतोयेन विषाणि नागः ।। शिशुपालवधम् - 4 -63 ॥
प्रालेयशीतमचलेश्वरमीश्वरोऽपि सान्द्रेभचर्मवसनावरणः अधिशेते
सर्वर्तुनिर्वृतिकरे निवसन् उपैति न द्वन्द्वदुःखमिह किञ्चिदकिञ्चनोऽपि ।। शिशुपालवधम् - 4 -64 ॥
नवनगवनलेखाश्याममध्याभिराभिः स्फटिककटकभूभि नाटयति ष शैलः ।
अहिपरिकरभाजो भास्मनैरङ्गरागैरधिगतधवलिम्नः शूलपाणेरभिख्याम् ।। शिशुपालवधम् - 4 -65 ॥
दधद्भिरभितस्तटौ विकचवारिजाम्बू नदैर्विनोदितदिनक्लमाः कृतरुचश्च जाम्बूनदैः ।
निषेव्य मधु माधवाः सरसमत्र कादम्बरं हरन्ति रतये रहः प्रियतमाङ्गकादम्बरम् ।। शिशुपालवधम् - 4 -66 ॥
दर्पणनिर्मलासु पतिते घनतिमिरमुषि ज्योतिषि रौप्यभित्तिषु पुरः प्रतिफलति मुहुः ।
व्रीडमसम्मुखोऽपि रमणैरपहृतवसनाः काञ्चनकन्दरासु तरुणीरिह नयति रविः ।। शिशुपालवधम् - 4 -67 ॥
अनुकृतशिखरौघश्रीभिरभ्यागतोऽसौ त्वयि सरभसम् अभ्युत्तिष्ठति इवाद्रिरुच्चैः ।
द्रुतमरुदुपपन्नैरुन्नमद्भिः सहेलं हलधरपरिधानश्यामलैरम्बुवाहैः ।। शिशुपालवधम् - 4 -68 ॥


।। इति शिशुपालवधमहाकाव्ये चतुर्थसर्गः ।।

पञ्चमसर्गः

इत्थं गिरः प्रियतमा इव सोऽव्यलीकाः शुश्राव सूततनयस्य तदा व्यलीकाः।
रन्तुं निरन्तरम् इयेष ततोऽवसाने तासां गिरौ च वनराजिपटं वसाने ।। शिशुपालवधम् - 5 - 1 ।।
तं स द्विपेन्द्रतुलितातुलतुङ्गश्रृङ्गमभ्युल्लसत्कदलिकावनराजिरुच्चैः ।
विस्ताररुद्धवसुधोऽन्वचलं चचाल लक्ष्मीं दधत्प्र तिगिरेरलघुर्बलौघः ।। शिशुपालवधम् - 5 - 2 ।।
भास्वत्करव्यतिकरोल्लसिताम्बरान्ताः सापत्रपा इव महाजनदर्शनेन ।
संविव्युः म्बरविकाशि चमूसमुत्थं पृथ्वीरजः करभकण्ठकडारमाशाः ।। शिशुपालवधम् - 5 - 3 ।।
आवर्तिनः शुभफलप्रदशुक्तियुक्ताः सम्पन्नदेवमणयो भृतरन्ध्रभागाः ।
अश्वाः अप्यधुः वसुमतीमतिरोचमानास्तूर्णं पयोधय इवोर्मिभिरापतन्तः ।। शिशुपालवधम् - 5 - 4 ।।
आरक्षमग्नमवमत्य सृणिं शिताग्रमेकः पलायत जवेन कृतार्तनादः ।
अन्यः पुनर्मुहुः उदप्लवत अस्तभारमन्योऽन्यतः पथि बताबिभितामिभोष्ट्रौ ।। शिशुपालवधम् - 5 - 5 ।।
आयस्तम् ऐक्षत जनश्चटुलाग्रपादं गच्छन्तमुच्चलितचामरचारुमश्वम् ।
नागं पुनर्मृदु सलीलनिमीलिताक्षं सर्वः प्रियः खलु भवति अनुरूपचेष्टः ।। शिशुपालवधम् - 5 - 6 ।।
त्रस्तः समस्तजनहासकरः करेणोस्तावत्खरः प्रखरम् उल्ललयाञ्चकार ।
यावच्चलासनविलोलनितम्बबिम्बविस्रस्तवस्त्रमवरोधवधूः पपात ।। शिशुपालवधम् - 5 - 7 ।।
शैलोपशल्यनिपतद्रथनेमिधारानिष्पिष्टनिष्ठुरशिलातलचूर्णगर्भाः ।
भूरेणवो नभसि नद्धपयोदचक्राश्चक्रीवदङ्गरुहधूम्ररुचो विसस्रुः ।। शिशुपालवधम् - 5 - 8 ।।
उद्यत्कृशानुशकलेषु खुराभिघाताद् भूमीसमायतशिलाफलकाचितेषु ।
पर्यन्तवर्त्मसु विचक्रमिरे महाश्वाः शैलस्य दर्दुरपुटानिव वादयन्तः ।। शिशुपालवधम् - 5 - 9 ।।
तेजोनिरोधसमतावहितेन यन्त्रा सम्यक्कशात्रयविचारवता नियुक्तः ।
आरट्टजश्चटुलनिष्ठुरपादमुच्चैश्चित्रं चकार पदमर्धपुलायितेन ।। शिशुपालवधम् - 5 - 10 ।।
नीहारजालमलिनः पुनरुक्तसान्द्राः कुर्वन् वधूजनविलोचनपक्ष्ममालाः ।
क्षुण्णः क्षणं यदुबलैर्दिवमातितांसुः पांशुर्दिशां मुखम् अतुत्थयत् उत्थितोऽद्रेः ।। शिशुपालवधम् - 5 - 11 ।।
उच्छिद्य विद्विष इव प्रसभं मृगेन्द्रानिन्द्रानुजानुचरभूपतय¬ अध्यवात्सुः
वन्येभमस्तकनिखातनखाग्रमुक्तमुक्ताफलप्रकरभाञ्जि गुहागृहाणि ।। शिशुपालवधम् - 5 - 12 ।।
बिभ्राणया बहलयावकपङ्कपिङ्गपिच्छावचूडमनुमाधवधाम जग्मुः
चञ्च्वग्रदष्टचटुलाहिपताकयाऽन्ये स्वावासभागमुरगाशनकेतुयष्ट्या ।। शिशुपालवधम् - 5 - 13 ।।
छायामपास्य महतीमपि वर्तमानामागामिनीं जगृहिरे जनतास्तरूणाम् ।
सर्वो हि नोपगतमप्यपचीयमानं वर्धिष्णुमाश्रयमनागतमपि उपैति ।। शिशुपालवधम् - 5 - 14 ।।
अग्रे गतेन वसतिं परिगृह्य रम्यामापात्यसैनिकनिराकरणाकृलेन ।
यान्तोऽन्यतः प्लुतकृतस्वरमाशु दूरादुद्बाहुना आजुहुविरे मुहुरात्मवर्ग्याः ।। शिशुपालवधम् - 5 - 15 ।।
सिक्ता इवामृतरसेन मुहुर्जनानां क्लान्तिच्छिदो वनवनस्पतयस्तदानीम् ।
शाखावसक्तवसनाभरणाभिरामाः कल्पद्रुमैः सह विचित्रफलैः विरेजुः ।। शिशुपालवधम् - 5 - 16 ।।
यानाज्जनः परिजनैरवरोप्यमाणा राज्ञीर्नरापनयनाकुलसौविदल्लाः ।
स्रस्तावगुण्ठनपटाः क्षणलक्ष्यमाणवक्त्रश्रियः सभयकौतुकम् ईक्षते स्म ।। शिशुपालवधम् - 5 - 17 ।।
कण्ठावसक्तमृदुबाहुलतास्तुरङ्गाद्राजावरोधनवधूरवतारयन्तः ।
आलिङ्गनान्यधिकृताः स्फुटम् आपुः एव गण्डस्थलीः शुचितया न चुचुम्बुः आसाम् ।। शिशुपालवधम् - 5 - 18 ।।
दृष्ट्वैव निर्जितकलापभरामधस्ताद् व्याकीर्णमाल्यकबरां कबरीं तरुण्याः ।
प्रादुद्रुवत्सपदि चन्द्रकवान् द्रुमाग्रात् सङ्घर्षिणा सह गुणाभ्यधिकैः दुरासम् ।। शिशुपालवधम् - 5 - 19 ।।
रोचिष्णुकाञ्चनचयांशुपिशङ्गिताशा वंशध्वजैर्जलदसंहतिमुल्लिखन्त्यः ।
भूभर्तुरायतनिरन्तरसन्निविष्टाः पादा इव अभिबभुः आवलयो रथानाम् ।। शिशुपालवधम् - 5 - 20 ।।
छायाविधायिभिरनुज्झितभूतिशोभैरुच्छ्रायिभिर्बहलपाटलधातुरागैः ।
दूष्यैरिव क्षितिभृतां द्विरदैरुदारतारावलीविरचनै व्यरुचन् निवासाः ।। शिशुपालवधम् - 5 - 21 ।।
उत्क्षिप्तकाण्डपटकान्तरलीयमानमन्दानिलप्रशमितश्रमघर्मतोयैः ।
दूर्वाप्रतानसहजास्तरणेषु भेजे निद्रासुखं वसनसद्मसु राजदारैः ।। शिशुपालवधम् - 5 - 22 ।।
प्रस्वेदवारिसविशेषविषक्तमङ्गे कूर्पासकं क्षतनखक्षतमुत्क्षिपन्ती ।
आविर्भवद्घनपयोधरबाहुमूला शातोदरी युवदृशां क्षणमुत्सवो अभूत् ।। शिशुपालवधम् - 5 - 23 ।।
यावत्स एव समयः सममेव तावदव्याकुलाः पटमयान्यभितो वितत्य ।
पर्यापतत्क्रयिकलोकमगण्यपण्यपूर्णापणा विपणिनो विपणीः विभेजुः ।। शिशुपालवधम् - 5 - 24 ।।
अल्पप्रयोजनकृतोरुतरप्रयासैरुद्गूर्णलोष्टलगुडैः परितोऽनुविद्धम् ।
उद्यातमुद्द्रुतमनोकहजालमध्यादन्यः शशं गुणमनल्पमवन् अवाप ।। शिशुपालवधम् - 5 - 25 ।।
त्रासाकुलः परिपतन् परितो निकेतान् पुम्भिर्न कैश्चिदपि धन्विभिः अन्वबन्धि
तस्थौ तथापि न मृगः क्वचिदङ्गनानामाकर्णपूर्णनयनेषुहतेक्षणश्रीः ।। शिशुपालवधम् - 5 - 26 ।।
आस्तीर्णतल्परचितावसथः क्षणेन वेश्याजनः कृतनवप्रतिकर्मकाम्यः ।
खिन्नानखिन्नमतिरापततो मनुष्यान् प्रत्यग्रहीत् चिरनिविष्ट इवोपचारैः ।। शिशुपालवधम् - 5 - 27 ।।
सस्नुः पयः पपुरनेनिजुरम्बराणि जक्षुः बिसं धृतविकासिबिसप्रसूनाः ।
सैन्याः श्रियामनुपभोगनिरर्थकत्वदोषप्रवादम् अमृजन् नगनिम्नगानाम् ।। शिशुपालवधम् - 5 - 28 ।।
नाभिह्रदैः परिगृहीतरयाणि निम्नैः स्त्रीणां बृहज्जघनसेतुनिवारितानि ।
जग्मुः जलानि जलमण्डुकवाद्यवल्गुवल्गद्घनस्तनतटस्खलितानि मन्दम् ।। शिशुपालवधम् - 5 - 29 ।।
आलोलपुष्करमुखोल्लसितैरभीक्ष्णम् उक्षाम्बभूवुः अभितो वपुरम्बुवर्षैः ।
खेदायतश्वसितवेगनिरस्तमुग्धमूर्धन्यरत्ननिकरैरिव हास्तिकानि ।। शिशुपालवधम् - 5 - 30 ।।
ये पक्षिणः प्रथममम्बुनिधिं गतास्ते येऽपीन्द्रपाणितुलितायुधलूनपक्षाः ।
ते जग्मुः अद्रिपतयः सरसीर्विगाढुमाक्षिप्तकेतुकुथसैन्यगजच्छलेन ।। शिशुपालवधम् - 5 - 31 ।।
आत्मानमेव जलधेः प्रतिबिम्बिताङ्गमूर्मौ महत्यभिमुखापतितं निरीक्ष्य ।
क्रोधात् अधावत् अपभीरतितूर्णमन्यनागाभियुक्त इव युक्तमहो महेभः ।। शिशुपालवधम् - 5 - 32 ।।
नादातुमन्यकरिमुक्तमदाम्बुतिक्तं धूताङ्कुशेन न विहातुमपीच्छताम्भः ।
रुद्धे गजेन सरितः सरुषावतारे रिक्तोदपात्रकरम् आस्त चिरं जनौघः ।। शिशुपालवधम् - 5 - 33 ।।
पन्थानमाशु विजहीहि पुरः स्तनौ ते पश्यन्प्रतिद्विरदकुम्भविशङ्किचेताः ।
स्तम्बेरमः परिणिनंसुरसौ उपैति षिड्गैः अगद्यत ससम्भ्रममेवमेका ।। शिशुपालवधम् - 5 - 34 ।।
कीर्णं शनैरनुकपोलमनेकपानां हस्तैर्विगाढमदतापरुजः शमाय ।
आकर्णमुल्लसितमम्बु विकासिकाशनीकाशम् आप समतां सितचामरस्य ।। शिशुपालवधम् - 5 - 35 ।।
गण्डूषमुज्झितवता पयसः सरोषं नागेन लब्धपरवारणमारुतेन ।
अम्भोधिरोधसि पृथुप्रतिमानभागरुद्धोरुदन्तमुसलप्रसरं निपेते ।। शिशुपालवधम् - 5 - 36 ।।
दानं ददत्यपि जलैः सहसाधिरूढे को विद्यमानगतिरासितुमुत्सहेत ।
यद्दन्तिनः कटकटाहतटान्मिमङ्क्षोर्मङ्क्षु उदपाति परितः पटलैरलीनाम् ।। शिशुपालवधम् - 5 - 37 ।।
अन्तर्जलौघमवगाढवतः कपोलौ हित्वा क्षणं विततपक्षतिरन्तरीक्षे ।
द्रव्याश्रयेष्वपि गुणेषु रराज नीलो वर्णः पृथग्गत इवालिगणो गजस्य ।। शिशुपालवधम् - 5 - 38 ।।
संसर्पिभिः पयसि गैरिकरेणुरागैरम्भोजगर्भरजसाङ्गनिषङ्गिणा च ।
क्रीडोपभोगमनुभूय सरिन्महेभावन्योऽन्यवस्त्रपरिवर्तमिव व्यधत्ताम् ।। शिशुपालवधम् - 5 - 39 ।।
यां चन्द्रकैर्मदजलस्य महानदीनां नेत्रश्रियं विकसतो विदधुः गजेन्द्राः ।
तां प्रत्यवापुः अविलम्बितमुत्तरन्तो धौताङ्गलग्ननवनीलपयोजपत्रैः ।। शिशुपालवधम् - 5 - 40 ।।
प्रत्यन्यदन्ति निशिताङ्कुशदूरभिन्ननिर्याणनिर्यदसृजं चलितं निषादी ।
रोद्धुं महेभमपरिव्रढिमानम् आगात् अक्रान्तितो न वशम् एति महान् परस्य ।। शिशुपालवधम् - 5 - 41 ।।
सेव्योऽपि सानुनयमाकलनाय यन्त्रा नीतेन वन्यकरिदानकृताधिवासः ।
अभाजि केवलमभाजि गजेन शाखी नाऽन्यस्य गन्धमपि मानभृतः सहन्ते ।। शिशुपालवधम् - 5 - 42 ।।
अद्रीन्द्रकुञ्जचरकुञ्जरगण्डकाषसङ्क्रान्तदानपयसो वनपादपस्य ।
सेनागजेन मथितस्य निजप्रसूनैः मम्ले यथागतम् अगामि कुलैरलीनाम् ।। शिशुपालवधम् - 5 - 43 ।।
नोच्चैर्यदा तरुतलेषु ममुः तदानीमाधोरणैरभिहिताः पृथुमूलशाखाः ।
बन्धाय चिच्छिदुः इभास्तरसात्मनैव नैवात्मनीनमथवा क्रियते मदान्धैः ।। शिशुपालवधम् - 5 - 44 ।।
उष्णोष्णशीकरसृजः प्रबलोष्मणोऽन्तरुत्फुल्लनीलनलिनोदरतुल्यभासः ।
एकान् विशालशिरसो हरिचन्दनेषु नागान् बबन्धुः अपरान् मनुजा निरासुः ।। शिशुपालवधम् - 5 - 45 ।।
कण्डूयतः कटभुवं करिणो मदेन स्कन्धं सुगन्धिमनुलीनवता नगस्य ।
स्थूलेन्द्रनीलशकलावलिकोमलेन कण्ठे गुणत्वमलिनां वलयेन भेजे ।। शिशुपालवधम् - 5 - 46 ।।
निर्धूतवीतमपि बालकमुल्ललन्तं यन्ता क्रमेण परिसान्त्वनतर्जनाभिः ।
शिक्षावशेन शनकैः शमम् आनिनाय शास्त्रं हि निश्चितधियां क्व न सिद्धिम् एति ।। शिशुपालवधम् - 5 - 47 ।।
स्तम्भं महान्तमुचितं सहसा मुमोच दानं ददौ इतितरां सरसाग्रहस्तः ।
बद्धापराणि परितो निगडानि अलावीत् स्वातन्त्र्यमुज्जलमवाप करेणुराजः ।। शिशुपालवधम् - 5 - 48 ।।
जज्ञे जनैर्मुकुलिताक्षमनाददाने संरब्धहस्तिपकनिष्ठुरचोदनाभिः ।
गम्भीरवेदिनि पुरः कवलं करीन्द्रे मन्दोऽपि नाम न महानवगृह्य साध्यः ।। शिशुपालवधम् - 5 - 49 ।।
क्षिप्तं पुरो न जगृहे मुहुरिक्षुकाण्डं न अपेक्षते स्म निकटोपगतां करेणुम् ।
सस्मार वारणपतिः परिमीलिताक्षमिच्छाविहारवनवासमहोत्सवानाम् ।। शिशुपालवधम् - 5 - 50 ।।
दुःखेन भोजयितुमाशयिता शशाक तुङ्गाग्रकायमनमन्तमनादरेण ।
उत्क्षिप्तहस्ततलदत्तविधानपिण्डस्नेहस्रुतिस्नपितबाहुरिभाधिराजम् ।। शिशुपालवधम् - 5 - 51 ।।
शुक्लांशुकोपरचितानि निरन्तराभिर्वेश्मानि रश्मिविततानि नराधिपानाम् ।
चन्द्राकृतीनि गजमण्डलिकाभिरुच्चैर्नीलाभ्रपङ्क्तिपरिवेशमिव अधिजग्मुः ।। शिशुपालवधम् - 5 - 52 ।।
गत्यूनमार्गगतयोऽपि गतोरुमार्गाः स्वैरं समाचकृषिरे भुवि वेल्लनाय ।
दर्पोदयोल्लसितफेनजलानुसारसंलक्ष्यपल्ययनवर्ध्रपदास्तुरङ्गाः ।। शिशुपालवधम् - 5 - 53 ।।
व्याजिघ्रति प्रणतमूर्धनि बाह्लिजेऽश्वे तस्याङ्गसङ्गमसुखानुभवोत्सुकायाः ।
नासाविरोकपवनोल्लसितं तनीयो रोमाञ्चितामिव जगाम रजः पृथिव्याः ।। शिशुपालवधम् - 5 - 54 ।।
हेम्नः स्थलीषु परितः परिवृत्य वाजी धुन्वन् वपुः प्रविततायतकेशपङ्क्तिः ।
ज्वालाकणारुणरुचा निकरेण रेणोः शेषेण तेजस इवोल्लसता रराज ।। शिशुपालवधम् - 5 - 55 ।।
दन्तालिकाधरणनिश्चलपाणियुग्ममर्धोदितो हरिरिवोदयशैलमूर्ध्नः ।
स्तोकेन ना अक्रमत वल्लभपालमुच्चैः श्रीवृक्षकी पुरुषकोन्नमिताग्रकायः ।। शिशुपालवधम् - 5 - 56 ।।
रेजे जनैः स्नपनसान्द्रतरार्द्रमूर्तिर्देवैरिवानिमिषदृष्टिभिरीक्ष्यमाणः ।
श्रीसन्निधानरमणीयतरोऽश्व उच्चैरुच्चैःश्रवा जलनिधेरिव जातमात्रः ।। शिशुपालवधम् - 5 - 57 ।।
अश्रावि भूमिपतिभिः क्षणवीतनिद्रैरश्नन् पुरो हरितकं मुदमादधानः ।
ग्रीवाग्रलोलकलकिङ्किणिकानिनादमिश्रं दधद् दशनचर्चुरशब्दमश्वः ।। शिशुपालवधम् - 5 - 58 ।।
उत्खाय दर्पचलितेन सहैव रज्ज्वा कीलं प्रयत्नपरमानवदुर्ग्रहेण ।
आकुल्यकारि कटकस्तुरगेण तूर्णमश्वेति विद्रुतमनुद्रवताश्वमन्यम् ।। शिशुपालवधम् - 5 - 59 ।।
अव्याकुलं प्रकृतमुत्तरधेयकर्म धाराः प्रसाधयितुमव्यतिकीर्णरूपाः ।
सिद्धं मुखे नवसु वीथिषु कश्चिदश्वं वल्गाविभागकुशलो गमयाम्बभूव ।। शिशुपालवधम् - 5 - 60 ।।
मुक्तास्तृणानि परितः कटकं चरन्तस्त्रुट्यद्वितानतनिकाव्यतिषङ्गभाजः ।
सस्रुः सरोषपरिचारकवार्यमाणा दामाञ्चलस्खलितलोलपदं तुरङ्गाः ।। शिशुपालवधम् - 5 - 61 ।।
उत्तीर्णभारलघुनाप्यलघूलपौघसौहित्यनिःसहतरेण तरोरधस्तात् ।
रोमन्थमन्थरचलद्गुरुसास्नम् आसाञ्चक्रे निमीलदलसेक्षणमौक्षकेण ।। शिशुपालवधम् - 5 - 62 ।।
मृत्पिण्डशेखरितकोटिभिरर्धचन्द्रं श्रृङ्गैः शिखाग्रगतलक्ष्ममलं हसद्भिः।
उच्छृङ्गितान्यवृषभाः सरितां नदन्तो रोधांसि धीरम् अपचस्करिरे महोक्षाः ।। शिशुपालवधम् - 5 - 63 ।।
मेदस्विनः सरभसोपगतानभीकान् भङ्कत्वा पराननडुहो मुहुराहवेन ।
ऊर्जस्वलेन सुरभीरनु निःसपत्नं जग्मे जयोद्धुरविशालविषाणमुक्ष्णा ।। शिशुपालवधम् - 5 - 64 ।।
बिभ्राणमायतिमतीमवृथा शिरोधिं प्रत्यग्रतामतिरसामधिकं दधन्ति
लोलोष्ठमौष्ट्रकमुदग्रमुखं तरूणामभ्रंलिहानि लिलिहे नवपल्लवानि ।। शिशुपालवधम् - 5 - 65 ।।
सार्धं कथञ्चिदुचितैः पिचुमर्दपत्रैरास्यन्तरालगतमाम्रदलं म्रदीयः ।
दासेरकः सपदि संवलितं निषादैर्विप्रं पुरा पतगराडिव निर्जगार ।। शिशुपालवधम् - 5 - 66 ।।
स्पष्टं बहिः स्थितवतेऽपि निवेदयन्तश्चेष्टाविशेषमनुजीविजनाय राज्ञाम् ।
वैतालिकाः स्फुटपदप्रकटार्थमुच्चैर्भोगावलीः कलगिरोऽवसरेषु पेठुः ।। शिशुपालवधम् - 5 - 67 ।।
उन्नम्रताम्रपटमण्डपमण्डितं तदानीलनागकुलसङ्कुलम् आबभासे
सन्ध्यांशुभिन्नघनकर्बुरितान्तरीक्षलक्ष्मीविडम्बि शिबिरं शिवकीर्तनस्य ।। शिशुपालवधम् - 5 - 68 ।।
धरस्योद्धर्ता असि त्वमिति ननु सर्वत्र जगति प्रतीतस्तत्किं मामतिभरमधः प्रापिपयिषुः ।
उपालब्धेवोच्चैर्गिरिपतिरिति श्रीपतिमसौ बलाक्रान्तः क्रीडद्द्विरदमथितोर्वीरुहरवैः ।। शिशुपालवधम् - 5 - 69 ।।


।। इति शिशुपालवधमहाकाव्ये पञ्चमसर्गः ।।

षष्ठसर्गः

अथ रिरंसुममुं युगपद् गिरौ कृतयथास्वतरुप्रसवश्रिया ।
ऋतुगणेन निषेवितुम् आदधे भुवि पदं विपदन्तकृतं सताम् ।। शिशुपालवधम् - 6 - 1 ।।
नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् ।
मृदुलतान्तलतान्तम् अलोकयत् स सुरभिं सुरभिं सुमनोभरैः ।। शिशुपालवधम् - 6 - 2 ।।
विलुलितालकसंहतिरामृशन् मृगदृशां श्रमवारि ललाटजम् ।
तनुतरङ्गततिं सरसां दलत्कुवलयं वलयन्मरुत् आववौ ।। शिशुपालवधम् - 6 - 3 ।।
तुलयति स्म विलोचनतारकाः कुरबकस्तबकव्यतिषङ्गिणि ।
गुणवदाश्रयलब्धगुणोदये मलिनिमालिनि माधवयोषिताम् ।। शिशुपालवधम् - 6 - 4 ।।
स्फुटमिवोज्ज्वलकाश्चनकान्तिभिर्युतमशोकम् अशोभत चम्पकैः ।
विरहिणां हृदयस्य भिदाभृतः कपिशितं पिशितं मदनाग्निना ।। शिशुपालवधम् - 6 - 5 ।।
स्मरहुताशनमुर्मुरचूर्णतां दधुः इवाम्रवनस्य रजःकणाः ।
निपतिताः परितः पथिकव्रजानुपरि ते परितेपुः अतो भृशम् ।। शिशुपालवधम् - 6 - 6 ।।
रतिपतिप्रहितेव कृतक्रुधः प्रियतमेषु वधूरनुनायिका ।
बकुलपुष्परसाऽऽसवपेशलध्वनिरगात् निरगात् मधुपावलिः ।। शिशुपालवधम् - 6 - 7 ।।
प्रियसखीसदृशं प्रतिबोधिताः किमपि काम्यगिरा परपुष्टया ।
प्रियतमाय वपुर्गुरुमत्सरच्छिदुरया अदुः अयाचितमङ्गनाः ।। शिशुपालवधम् - 6 - 8 ।।
मधुकरैरपवादकरैरिव स्मृतिभुवः पथिका हरिणा इव ।
कलतया वचसः परिवादिनीस्वरजिता रजिता वशम् आययुः ।। शिशुपालवधम् - 6 - 9 ।।
समभिसृत्य रसादवलम्बितः प्रमदया कुसुमाऽवचिचीषया ।
अविनमन्न रराज वृथोच्चकैरनृतया नृतया वनपादपः ।। शिशुपालवधम् - 6 - 10 ।।
इदमपास्य विरागि परागिणीरलिकदम्बकमम्बुरुहां ततीः ।
स्तनभरेण जितस्तबकानमन्नवलते वलते अभिमुखं तव ।। शिशुपालवधम् - 6 - 11 ।।
सुरभिणि श्वसिते दधतस्तृषं नवसुधामधुरे च तवाधरे ।
अलमलेरिवं गन्धारसावमू मम न सौमनसौ मनसो मुदे ।। शिशुपालवधम् - 6 - 12 ।।
इति गदन्तमनन्तरमङ्गना भुजयुगोन्नमनोच्चतरस्तनी ।
प्रणयिनं रभसादुदरश्रिया वलिमयाऽलिभयादिव सस्वजे ।। शिशुपालवधम् - 6 - 13 ।।
वदनसौरभलोभपरिभ्रमद्भ्रमरसम्भ्रमसम्भृतशोभया ।
चलितया विदधे कलमेखलाकलकलोऽलकलोऽलदृशाऽन्यया ।। शिशुपालवधम् - 6 - 14 ।।
अजगणन् गणशः प्रियमग्रतः प्रणतमप्यभिमानितया न याः ।
सति मधौ अभवत् मदनव्यथाविधुरिता धुरिता कुकुरस्त्रियः ।। शिशुपालवधम् - 6 - 15 ।।
कुसुमकार्मुककार्मुकसंहितद्रुतशिलीमुखखण्डितविग्रहाः ।
मरणमप्यपराः प्रतिपेदिरे किमु मुहुः मुमुहुः गतभर्तृकाः ।। शिशुपालवधम् - 6 - 16 ।।
रुरुदिषा वदनाम्बुरुहश्रियः सुतनु! सत्यमलङ्करणाय ते ।
तदपि सम्प्रति सन्निहिते मधावधिगमं धिगमङ्गलमश्रुणः ।। शिशुपालवधम् - 6 - 17 ।।
त्यजति कष्टमसावचिरादसून् विरहवेदनयेत्यघशङ्किभिः ।
प्रियतया गदितास्त्वयि बान्धवैरवितथा वितथाः सखि मा गिरः ।। शिशुपालवधम् - 6 - 18 ।।
न खलु दूरगतोऽपि अतिवर्तते महमसाविति बन्धुतयोदितैः ।
प्रणयिनो निशमय्य वधूर्बहिः स्वरमृतैरमृतैरिव निर्ववौ ।। शिशुपालवधम् - 6 - 19 ।।
मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया ।
मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरम् उज्जगे ।। शिशुपालवधम् - 6 - 20 ।।
अरुणिताखिलशैलवना मुहुर्विदधती पथिकान् परितापिनः ।
विकचकिंशुकसंहतिरुच्चकैः उदवहद् दवहव्यवहश्रियम् ।। शिशुपालवधम् - 6 - 21 ।।
रवितुरङ्गतनूरुहतुल्यतां दधति यत्र शिरीषरजोरुचः ।
उपययौ विदधन्नवमल्लिकाः शुचिरसौ चिरसौरभसम्पदः ।। शिशुपालवधम् - 6 - 22 ।।
दलितकोमलपाटलकुड्मले निजवधूश्वसितानुविधायिनि ।
मरुति वाति विलासिभिरुन्मदभ्रमदलौ मदलौल्यम् उपाददे ।। शिशुपालवधम् - 6 - 23 ।।
निदधिरे दयितोरसि तत्क्षणस्नपनवारितुषारभृतः स्तनाः ।
सरसचन्दनरेणुरनुक्षणं विचकरे च करेण वरोरुभिः ।। शिशुपालवधम् - 6 - 24 ।।
स्फुरदधीरतडिन्नयना मुहुः प्रियमिवागलितोरुपयोधरा ।
जलधरावलिरप्रतिपालितस्वसमया समयात् जगतीधरम् ।। शिशुपालवधम् - 6 - 25 ।।
गजकदम्बकमेचकमुच्चकैर्नभसि वीक्ष्य नवाम्बुदमम्बरे ।
अभिससार न वल्लभमङ्गना न चकमे च कमेकरसं रहः ।। शिशुपालवधम् - 6 - 26 ।।
अनुययौ विविधोपलकुण्डलद्युतिवितानकसंवलितांशुकम् ।
धृतधनुर्वलयस्य पयोमुचः शबलिमा बलिमानमुषो वपुः ।। शिशुपालवधम् - 6 - 27 ।।
द्रुतसमीरचलैः क्षणलक्षितव्यवहिता विटपैरिव मञ्जरी ।
नवतमालनिभस्य नभस्तरोरचिररोचिः अरोचत वारिदैः ।। शिशुपालवधम् - 6 - 28 ।।
पटलमम्बुमुचां पथिकाङ्गना सपदि जीवितसंशयमेष्यती ।
सनयनाम्बुसखीजनसम्भ्रमाद् विधुरबन्धुरबन्धुरम् ऐक्षत ।। शिशुपालवधम् - 6 - 29 ।।
प्रवसतः सुतराम् उदकम्पयत् विदलकन्दलकम्पनलालितः ।
नमयति स्म वनानि मनस्विनीजनमनोममनो घनमारुतः ।। शिशुपालवधम् - 6 - 30 ।।
जलदपङ्क्तिः अनर्तयत् उन्मदं कलविलापि कलापिकदम्बकम् ।
कृतसमार्जनमर्दलमण्डलध्वनिजया निजया स्वनसम्पदा ।। शिशुपालवधम् - 6 - 31 ।।
नवकदम्बरजोऽरुणिताम्बरैरधिपुरन्ध्रि शिलीन्ध्रसुगन्धिभिः ।
मनसि रागवतामनुरागिता नवनवा वनवायुभिः आदधे ।। शिशुपालवधम् - 6 - 32 ।।
शमिततापमपोढमहीरजः प्रथमबिन्दुभिरम्बुमुचोऽम्भसाम् ।
प्रविरलैरचलाङ्गनमङ्गनाजनसुगं न सुगन्धि न चक्रिरे ।। शिशुपालवधम् - 6 - 33 ।।
द्विरददन्तवलक्षम् अलक्ष्यत स्फुरितभृङ्गमृगच्छवि केतकम् ।
घनघनौघविघट्टनया दिवः कृशशिखं शशिखण्डमिव च्युतम् ।। शिशुपालवधम् - 6 - 34।।
दलितमौक्तिकचूर्णविपाण्डवः स्फुरितनिर्झरशीकरचारवः ।
कुटजपुष्पपरागकणाः स्फुटं विदधिरे दधिरेणुविडम्बनाम् ।। शिशुपालवधम् - 6 - 35।।
नवपयःकणकोमलमालतीकुसुमसन्ततिसन्ततसङ्गिभिः ।
प्रचलितोडुनिभैः परिपाण्डिमा शुभरजो भरजोऽलिभिः आददे ।। शिशुपालवधम् - 6 - 36।।
निजरजः पटवासमिव अकिरत् धृतपटोपमवारिमुचां दिशाम् ।
प्रियवियुक्तवधूजनचेतसामनवनी नवनीपवनावलिः ।। शिशुपालवधम् - 6 - 37 ।।
प्रणयकोपभृतोऽपि पराङ्मुखाः सपदि वारिधराऽऽरवभीरवः ।
प्रणयिनः परिरब्धुमथाङ्गना ववलिरे वलिरेचितमध्यमाः ।। शिशुपालवधम् - 6 - 38 ।।
विगतरागगुणोऽपि जनो न कश्चलति वाति पयोदनभस्वति ।
अभिहितेऽलिभिरेवमिवोच्चकैरननृते ननृते नवपल्लवैः ।। शिशुपालवधम् - 6 - 39 ।।
अरमयन् भवनादचिरद्युतेः किल भयादपयातुमनिच्छवः ।
यदुनरेन्द्रगणं तरुणीगणास्तमथ मन्मथमन्थरभाषिणः ।। शिशुपालवधम् - 6 - 40।।
ददतमन्तरिताऽहिमदीधितिं खगकुलाय कुलायनिलायिताम् ।
जलदकालमबोधकृतं दिशामपरथा आप रथावयवायुधः ।। शिशुपालवधम् - 6 - 41 ।।
स विकचोत्पलचक्षुषम् ऐक्षत क्षितिभृतोऽङ्कगतां दयितामिव ।
शरदमच्छगलद्वसनोपमाक्षमघनामघनाशनकीर्तनः ।। शिशुपालवधम् - 6 - 42 ।।
जगति नैशमशीतकरः करैर्वियति वारिदवृन्दमयं तमः ।
जलजराजिषु नैद्रम् अदिद्रवत् न महतामहताः क्व च नाऽरयः ।। शिशुपालवधम् - 6 - 43 ।।
समय एव करोति बलाबलं प्रणिवदन्त इतीव शरीरिणाम् ।
शरदि हंसरवाः परुषीकृतस्वरमयूरम् अयुः रमणीयताम् ।। शिशुपालवधम् - 6 - 44।।
तनुरुहाणि पुरो विजितध्वनेर्धवलपक्षविहङ्गमकूजितैः ।
जगलुः अक्षमयेव शिखण्डिनः परिभवोऽरिभवो हि सुदुःसहः ।। शिशुपालवधम् - 6 - 45 ।।
अनुवनं वनराजिवधूमुखे बहलरागजवाऽधरचारुणि ।
विकचबाणदलावलयोऽधिकं रुरुचिरे रुचिरेक्षणविभ्रमाः ।। शिशुपालवधम् - 6 - 46 ।।
कनकभङ्गपिशङ्गदलैः दधे सरजसारुणकेसरचारुभिः ।
प्रियविमानितमानवतीरुषां निरसनैरसनैरवृथार्थता ।। शिशुपालवधम् - 6 - 47 ।।
मुखसरोजरुचं मदपाटलाम् अनुचकार चकोरदृशां यतः ।
धृतनवातपमुत्सुकतामतो न कमलं कम् अलम्भयत् अम्भसि ।। शिशुपालवधम् - 6 - 48 ।।
विगतसस्यजिघत्सम् अघट्टयत् कलमगोपवधूर्न मृगव्रजम् ।
श्रुततदीरितकोमलगीतकध्वनिमिषेऽनिमिषेक्षणमग्रतः ।। शिशुपालवधम् - 6 - 49 ।।
कृतमदं निगदन्त इवाकुलीकृतजगत्त्रयमूर्जमतङ्गजम्।
ववुः अयुक्छदगुच्छसुगन्धयः सततगास्ततगानगिरोऽलिभिः ।। शिशुपालवधम् - 6 - 50 ।।
विगतवारिधरावरणाः क्वचिद् ददृशुः उल्लसिताऽसिलताऽसिताः।
क्वचिदिवेन्द्रगजाजिनकञ्चुकाः शरदि नीरदिनीर्यदवो दिशः ।। शिशुपालवधम् - 6 - 51 ।।
विलुलितामनिलैः शरदङ्गना नवसरोरुहकेसरसम्भवाम्।
विकरितुं परिहासविधित्सया हरिवधूरिव धूलिम् उदक्षिपत् ।। शिशुपालवधम् - 6 - 52 ।।
हरितपत्रमयीव मरुद्गणैः स्रगवनद्धमनोरमपल्लवा ।
मधुरिपोरभिताम्रमुखी मुदं दिवि तता विततान शुकावलिः ।। शिशुपालवधम् - 6 - 53 ।।
स्मितसरोरुहनेत्रसरोजलामतिसिताङ्गविहङ्गहसद्दिवम् ।
अकलयत् मुदितामिव सर्वतः स शरदं शरदन्तुरदिङ्मुखाम् ।। शिशुपालवधम् - 6 - 54 ।।
गजपतिद्वयसीरपि हैमनः तुहिनयन् सरितः पृषतां पतिः ।
सलिलसन्ततिमध्वगयोषिताम् अतनुत अतनुतापकृतं दृशाम् ।। शिशुपालवधम् - 6 - 55 ।।
इदमयुक्तमहो! महदेव यद् वरतनोः स्मरयति अनिलोऽन्यदा ।
स्मृतसयौवनसोष्मपयोधरान् सतुहिनस्तु हिनस्तु वियोगिनः ।। शिशुपालवधम् - 6 - 56 ।।
प्रियतमेन यया सरुषा स्थितं न सह सा सहसा परिरभ्य तम् ।
श्लथयितुं क्षणम् अक्षमत अङ्गना न सहसा सहसा कृतवेपथुः ।। शिशुपालवधम् - 6 - 57 ।।
भृशम् अदूयत याऽधरपल्लवक्षतिरनावरणा हिममारुतैः ।
दशनरश्मिपटेन च सीत्कृतैर्निवसितेव सितेन सुनिर्ववौ ।। शिशुपालवधम् - 6 - 58 ।।
व्रणभृता सुतनोः कलसीत्कृतस्फुरितदन्तमरीचिमयं दधे
स्फुटमिवावरणं हिममारुतैर्मृदुतया दुतयाऽधरलेखया ।। शिशुपालवधम् - 6 - 59।।
धृततुषारकणस्य नभस्वतस्तरुलताङ्गुलितर्जनविभ्रमाः ।
पृथुनिरन्तरमिष्टभुजान्तरं वनितयाऽनितया न विषेहिरे ।। शिशुपालवधम् - 6 – 60 ।।
हिमऋतावपि ताः स्म भृशस्विदो युवतयः सुतरामुपकारिणि ।
प्रकटयति अनुरागमकृत्रिमं स्मरमयं रमयन्ति विलासिनः ।। शिशुपालवधम् - 6 - 61 ।।
कुसुमयन्फलिनीरलिनीरवैर्मदविकासिभिराहितहुङ्कृतिः ।
उपवनं निरभर्त्सयत प्रियान्वियुवतीर्युवतीः शिशिरानिलः ।। शिशुपालवधम् - 6 - 62 ।।
उपचितेषु परेष्वसमर्थतां व्रजति कालवशाद् बलवानपि ।
तपसि मन्दगभस्तिरभीषुमान् न हि महाहिमहानिकरः अभवत् ।। शिशुपालवधम् - 6 - 63 ।।
अभिषिषेणयिषुं भुवनानि यः स्मरमिव आख्यत लोध्ररजश्चयः ।
क्षुभितसैन्यपरागविपाण्डुरद्युतिरयं तिरयन् उदभूत् दिशः ।। शिशुपालवधम् - 6 - 64 ।।
शिशिरमासमपास्य गुणोऽस्य नः क इव शीतहरस्य कुचोष्मणः ।
इति धियास्तरुषः परिरेभिरे घनमतो नमतोऽनुमतान् प्रियाः ।। शिशुपालवधम् - 6 - 65 ।।
अधिलवङ्गममी रजसाधिकं मलिनिता सुमनोदलतालिनः ।
स्फुटमिति प्रसवेन पुरो अहसत् सपदि कुन्दलता दलतालिनः ।। शिशुपालवधम् - 6 - 66।।
अतिसुरभिः अभाजि पुष्पश्रियामतनुतरतयेव सन्तानकः ।
तरुणपरभृतः स्वनं रागिणाम् अतनुत रतये वसन्तानकः ।। शिशुपालवधम् - 6 - 67।।
नोज्झितुं युवतिमाननिरासे दक्षमिष्टमधुवासरसारम् ।
चूतमालिरलिनामतिरागात् अक्षमिष्ट मधुवासरसारम् ।। शिशुपालवधम् - 6 - 68 ।।
जगद्वशीकर्तुमिमाः स्मरस्य प्रभावनीके तनवै जयन्तीः ।
इत्यस्य तेने कदलीर्मधुश्रीः प्रभावनी केतनवैजयन्तीः ।। शिशुपालवधम् - 6 - 69 ।।
स्मररागमयी वपुस्तमिस्रा परितस्तार रवेरसत्यवश्यम् ।
प्रियम् आप दिवाऽपि कोकिले स्त्री परितस्ताररवे रसति अवश्यम् ।। शिशुपालवधम् - 6 - 70 ।।
वपुरम्बुविहारहिमं शुचिना रुचिरं कमनीयतरा गमिता ।
रमणेन रमण्यचिरांशुलतारुचिरङ्कम् अनीयत रागमिता ।। शिशुपालवधम् - 6 - 71 ।।
मुदमब्दभुवामपां मयूराः सहसा आयन्त नदी पपाट लाभे ।
अलिना अरमत अलिनी शिलीन्ध्रे सह सायन्तनदीपपाटलाभे ।। शिशुपालवधम् - 6 - 72 ।।
कुटजानि वीक्ष्य शिखिभिः शिखरीन्द्रं समयावनौ घनमदभ्रमराणि ।
गगनं च गीतनिनदस्य गिरोच्चैः समया वनौघनभदभ्रम् अराणि ।। शिशुपालवधम् - 6 - 73।।
अभीष्टमासाद्य चिराय काले समुद्धृताशं कमनी चकाशे
योषिन्मनोजन्मसुखोदयेषु समुद्धृताशङ्कमनीचकाशे ।। शिशुपालवधम् - 6 - 74 ।।
स्तनयोः समयेन याऽङ्गनानाम् अभिनत् हारसमा न सा रसेन ।
परिरम्भरुचिं ततिर्जलानामभिनद्धा रसमानसारसेन ।। शिशुपालवधम् - 6 - 75 ।।
जातप्रीतिर्या मधुरेणानुवनान्तं कामो कान्ते सारसिकाकाकुरुतेन ।
तत्सम्पर्कं प्राप्य पुरा मोहनलीलां कामेकान्ते सा रसिका का कुरुते न ।। शिशुपालवधम् - 6 - 76 ।।
कान्ताजनेन रहसि प्रसभं गृहीतकेशे रते स्मरसहासवतोषितेन ।
प्रेम्णा मनस्सु रजनीष्वपि हैमनीषु के शेरते स्म रसहासवतोषितेन ।। शिशुपालवधम् - 6 - 77 ।।
गतवतामिव विस्मयमुच्चकैरसकलामलपल्लवलीलया ।
मधुकृतामसकृद् गिरमावली रसकलाम् अलपत् लवलीलया ।। शिशुपालवधम् - 6 - 78।।
कुर्वन्तमित्यतिभरेण नगानवाचः पुष्पैर्विराममलिनां च न गानवाचः ।
श्रीमान्समस्तमनुसानु गिरौ विहर्तुं बिभ्रति अचोदि स मयूरगिरा विहर्तुम् ।। शिशुपालवधम् - 6 - 79 ।।


।। इति शिशुपालवधमहाकाव्ये षष्ठसर्गः ।।

सप्तमसर्गः

अनुगिरमृतुभिर्वितायमानामथ स विलोकयितुं वनान्तलक्ष्मीम् ।
निरगमदभिराद्धुमादृतानां भवति महत्सु न निष्फलः प्रयासः ।। शिशुपालवधम् - 7 - 1 ।।
दधति सुमनसो वनानि बह्वीर्युवतियुता यदवः प्रयातुमीषुः ।
मनसिमहास्त्रमन्यथामी न कुसुमपञ्चकमप्यलं विसोढुम् ।। शिशुपालवधम् - 7 - 2 ।।
अवसरमधिगम्य तं हरन्तयो हृदयमयत्नकृतोज्ज्वलस्वरूपाः ।
अवनिषु पदमङ्गनास्तदानीं न्यदधत विभ्रमसम्पदोऽङ्गनासु ।। शिशुपालवधम् - 7 - 3 ।।
नखरुचिरचितेन्द्रचापलेखं ललितगतेषु गतागतं दधाना ।
मुखरितवलयं पृथौ नितम्बे भुजलतिका मुहुरस्खलत्तरुण्याः ।। शिशुपालवधम् - 7 - 4 ।।
अतिशयपरिणाहवान् वितेने बहुतरमर्पितरत्नकिङ्किणीकः ।
अलघुनि जघनस्थलेऽपरस्या ध्वनिमधिकं कलमेखलाकलापः ।। शिशुपालवधम् - 7 - 5 ।।
गुरुनिबिडनितम्बबिम्बभाराक्रमणनिपीडितमङ्गनाजनस्य ।
चरणयुगमसुस्रुवत्पदेषु स्वरसमसक्तमलक्तकच्छलेन ।। शिशुपालवधम् - 7 - 6 ।।
तव सपदि समीपम् आनये तामहमिति तस्य मयाग्रतोऽभ्यधायि ।
अतिरभसकृतालघुप्रतिज्ञामनृतगिरं गुणगौरि मा कृथा माम् ।। शिशुपालवधम् - 7 - 7 ।।
न च सुतनु न वेद्मि यन्महीयानसुनिरसस्तव निश्चयः परेण ।
वितथयति न जातु मद्वचोऽसाविति च तथापि सखीषु मेऽभिमानः ।। शिशुपालवधम् - 7 - 8 ।।
सततमनभिभाषणं मया ते परिपणितं भवतीमनानयन्त्या ।
त्वयि तदिति विरोधनिश्चितायां भवति भवत्वसुहृज्जनः सकामः ।। शिशुपालवधम् - 7 - 9 ।।
गतधृतिरवलम्बितुं बतासूननलमनालपनादहं भवत्याः ।
प्रणयति यदि न प्रसादबुद्धिर्भव मम मानिनि जीविते दयालुः ।। शिशुपालवधम् - 7 - 10 ।।
प्रियमिति वनिता नितान्तमागःस्मरणसरोषकषायितायताक्षी ।
चरणगतसखीवचोऽनुरोधात्किल कथमप्यनुकूलयाञ्चकार ।। शिशुपालवधम् - 7 - 11 ।।
द्रुतपदमिति मा वयस्य यासीर्ननु सुतनुं परिपालयानुयान्तीम् ।
नहि न विदितखेदमेदतीयस्तनजघनोद्वहने तवापि चेतः ।। शिशुपालवधम् - 7 - 12 ।।
इति वदति सखीजनेऽनुरागाद्दयिततमामपरश्चिरं प्रतीक्ष्य ।
तदनुगमवशादनायतानि न्यधित मिमान इवावनिं पदानि ।। शिशुपालवधम् - 7 - 13 ।।
यदि मयि लघिमानमागतायां तव धृतिः अस्ति गत अस्मि सम्प्रतीयम् ।
द्रुततरपदपातमापपात प्रियमिति कोपपदेन कापि सख्या ।। शिशुपालवधम् - 7 - 14 ।।
अविरलपुलकः सह व्रजन्त्याः प्रतिपदमेकतरः स्तनस्तरुण्याः ।
घटितविघटितः प्रियस्य वक्षस्तटभुवि कन्दुकविभ्रमं बभार ।। शिशुपालवधम् - 7 - 15 ।।
अशिथिलमपरावसज्य कण्ठे दृढपरिरब्धबृहद्बहिःस्तनेन ।
हृषिततनुरुहा भुजेन भर्तृर्मृदुममृदु व्यतिविद्धमेकबाहुम् ।। शिशुपालवधम् - 7 - 16 ।।
मुहुरसुसममाध्नती नितान्तं प्रणदितकाञ्चि नितम्बमण्डलेन ।
विषमितपृथुहारयष्टि तिर्यक्कुचमितरं तदुरःस्थले निपीड्य ।। शिशुपालवधम् - 7 - 17 ।।
गुरुतरकलनूपुरानुनादं सललितनर्तितवामपादपद्मा ।
इतरदतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम ।। शिशुपालवधम् - 7 - 18 ।।
लघुललितपदं तदंसपीठद्वयनिहितोभयपाणिपल्लवान्या ।
सकठिनकुचचूचुकप्रणोदं प्रियमबला सविलासम् अन्वियाय ।। शिशुपालवधम् - 7 - 19 ।।
जघनमलघुपीवरोरु कृच्छ्रादुरुनिबिरीसनितम् बभार अखेदि
दयिततमशिरोधरावलम्बिस्वभुजलताविभवेन काचिद् ऊहे ।। शिशुपालवधम् - 7 - 20 ।।
अनुवपुरपरेण बाहुमूलप्रहितभुजाकलितस्तनेन निन्ये
निहितदशनवाससा कपोले विषमवितीर्णपदं बलादिवान्या ।। शिशुपालवधम् - 7 - 21 ।।
अनुवनमसितभ्रुवः सखीभिः सह पदवीमपरः पुरोगतायाः ।
उरसि सरसरागपादलेखाप्रतिमतय अनुययौ असंशयानः ।। शिशुपालवधम् - 7 - 22 ।।
मदनरसमहौघपूर्णनाभीह्रदपरिवाहितरोमराजयस्ताः ।
सरित इव सविभ्रमप्रयातप्रणदितहंसकभूषणा विरेजुः ।। शिशुपालवधम् - 7 - 23 ।।
श्रुतिपथमधुराणि सारसानामनुनदि सुश्रुविरे रुतानि ताभिः ।
विदधति जनतामनःशरव्यव्यधपटुमन्मथचापनादशङ्काम् ।। शिशुपालवधम् - 7 - 24 ।।
मधुमथनवधूरिव आह्वयन्ति भ्रमरकुलानि जगुर्यदुत्सुकानि ।
तदभिनयमिवावलिर्वनानाम् अतनुत नूतनपल्लवाङ्गुलीभिः ।। शिशुपालवधम् - 7 - 25 ।।
असकलकलिकाकुलीकृतालिस्खलनविकीर्णविकासिकेशराणाम् ।
मरुदवनिरुहां रजो वधूभ्यः समुपहः अन्विचकार कोरकाणि ।। शिशुपालवधम् - 7 - 26 ।।
उपवनपवनानुपातदक्षैरलिभिरलाभि यदङ्गनाजनस्य ।
परिमलविषयस्तदुन्नतानामनुगमने खलु सम्पदोऽग्रतःस्थाः ।। शिशुपालवधम् - 7 - 27 ।।
रथचरणधराङ्गनाकराब्जव्यतिकरसम्पदुपात्तसौमनस्याः ।
जगति सुमनसस्तदादि नूनं दधति परिस्फुटमर्थतोऽभिधानम् ।। शिशुपालवधम् - 7 - 28 ।।
अभिमुखपतितैर्गुणप्रकर्षादवजितमुद्धतिमुज्ज्वलां दधानैः ।
तरुकिसलयजालमग्रहस्तैः प्रसभ अनीयत भङ्गमङ्गनानाम् ।। शिशुपालवधम् - 7 - 29 ।।
मुदितमधुभुजो भुजेन शाखाश्चलितविशृङ्खलशङ्खकं धुवत्याः ।
तरुरतिशंयितापराङ्गनायाः शिरसि मुदेव मुमोच पुष्पवर्षम् ।। शिशुपालवधम् - 7 - 30 ।।
अनवरतरसेन रागभाजा करजपरिक्षतिलब्धसंस्तवेन ।
सपदि तरुणपल्लवेन वध्वा विगतदयं खलु खण्डितेन मम्ले ।। शिशुपालवधम् - 7 - 31 ।।
प्रियमभिकुसुमोद्यतस्य बाहोर्नवनखमण्डनचारु मूलमन्या ।
मुहुरितरकराहितेन पीनस्तनतटरोधि तिरोदधेंऽशुकेन ।। शिशुपालवधम् - 7 - 32 ।।
विततवलिविभाव्यपाण्डुलेखाकृतपरभागविलीनरोमराजिः ।
कृशमपि कृशतां पुनर्नयन्ती विपुलतरोन्मुखलोचनावलग्नम् ।। शिशुपालवधम् - 7 - 33 ।।
प्रसकलकुचबन्धुरोद्धुरोरःप्रसभविभिन्नतनूत्तरीयबन्धा ।
अवनमदुदरोच्छ्वसद्दुकूलस्फुटतरलक्ष्यगभीरनाभिमूला ।। शिशुपालवधम् - 7 - 34 ।।
व्यवहितमविजानती किलान्तर्वणभुवि वल्लभमाभिमुख्यभाजम् ।
अधिविटपि सलीलमग्रपुष्पग्रहणपदेन चिरं विलम्ब्य काचित् ।। शिशुपालवधम् - 7 - 35 ।।
अथ किल कथिते सखीभिरत्र क्षणमपरेव ससम्भ्रमा भवन्ती ।
शिथिलितकुसुमाकुलाग्रपाणिः प्रतिपदसंयमितांशुकावृताङ्गी ।। शिशुपालवधम् - 7 - 36 ।।
कृतभयपरितोषसन्निपातं सचकितसस्मितवक्त्रवारिजश्रीः ।
मनसिजगुरुतत्क्षणोपदिष्टं किमपि रासेन रसान्तरं भजन्ती ।। शिशुपालवधम् - 7 - 37 ।।
अवनतवदनेन्दुः इच्छति इव व्यवधिमधीरतया यदस्थितास्मै ।
अहरत सुतरामतोऽस्य चेतः स्फुटम् अभिभूषयति स्त्रियस्त्रपैव ।। शिशुपालवधम् - 7 - 38 ।।
किसलयशकलेष्ववाचनीयाः पुलकिनि केवलमङ्गकेनिधेयाः ।
नखपदलिपयोऽपि दीपितार्थाः प्रणिदधिरे दयितैरनङ्गलेखाः ।। शिशुपालवधम् - 7 - 39 ।।
कृतकृतकरुषा सखीमपास्य त्वमकुशलेति कयाचिदात्मनैव ।
अभिमतमभि साभिलाषमाविष्कृतभुजमूलमबन्धि मूर्ध्नि माला ।। शिशुपालवधम् - 7 - 40 ।।
अभिमुखम् उपयाति मा स्म किञ्चित्त्वमभिदधाः पटले मधुव्रतानाम् ।
मधुसुरभिमुखाब्जगन्धलब्धेरधिकमधित्वदनेन मा निपाति ।। शिशुपालवधम् - 7 - 41 ।।
सरजसमकरन्दनिर्भरासु प्रसवविभूतिषु भूरुहां विरक्तः ।
ध्रुवममृतपनामवाञ्छयासावधरममुं मधुपस्तव आजिहीते ।। शिशुपालवधम् - 7 - 42 ।।
इति वदति सखीजने निमीलद्विगुणितसान्द्रतराक्षिपक्ष्ममाला ।
अपतदलिभयेन भर्तुरङ्गं भवति हि विक्लवता गुणोऽङ्गनानाम् ।। शिशुपालवधम् - 7 - 43 ।।
मुखकमलकमुन्नमय्य यूना यदभिनवोढवधूर्बलादचुम्बि ।
तदपि न किल बालपल्लवाग्रग्रहयापरया विविदे विदग्धसख्या ।। शिशुपालवधम् - 7 - 44 ।।
व्रततिविततिभिस्तिरोहितायां प्रतियुवतौ वदनं प्रियः प्रियायाः ।
यद् अधयत् अधरावलोपनृत्यत्करवलयस्वनितेन तद्विवव्रे ।। शिशुपालवधम् - 7 - 45 ।।
विलसितमनुकुर्वती पुरस्ताद्धरणिरुहाधिरुहो वधूर्लतायाः ।
रमणमृजुतया पुरः सखीनामकलितचापलदोषमालिलिङ्ग ।। शिशुपालवधम् - 7 - 46 ।।
सललितमवलम्ब्य पाणिनांसे सहचरमुच्छ्रतगुच्छवाञ्छयान्या ।
सकलकलभकुम्भविभ्रमाभ्यामुरसि रसादवतस्तरे स्तनाभ्याम् ।। शिशुपालवधम् - 7 - 47 ।।
मृदुचरणतलाग्रदुःस्थितत्वादसहतरा कुचकुम्भयोर्भरस्य ।
उपरिनिरवलम्बनं प्रियस्य न्यपतदथोच्चतरोच्चिचीषयान्या ।। शिशुपालवधम् - 7 - 48 ।।
उपरिजतरुजानि याचमानां कुशलतया परिरम्भलोलुपोऽन्यः ।
प्रथितपृथुपयोधरां गृहाण स्वयमिति मुग्धवधूमुदास दोर्भ्याम् ।। शिशुपालवधम् - 7 - 49 ।।
इदमिदमिति भूरुहां प्रसूनैर्मुहुरतिलोभयता पुरःपुरोऽन्या ।
अनुरहसमनायि नायकेन त्वरयति रन्तुमहो जनं मनोभूः ।। शिशुपालवधम् - 7 - 50 ।।
विजनमिति बलादमुं गृहीत्वा क्षणमथ वीक्ष्य विपक्षमन्तिकोऽन्या ।
अभिपतितुमना लघुत्वभीतेरभवदमुञ्चति वल्लभेऽतिगुर्वी ।। शिशुपालवधम् - 7 - 51 ।।
अधिरजनि जगाम धाम तस्याः प्रियतमयेति रुषा स्रजावनद्धः ।
पदमपि चलितुं युवा न सेहे किमिव न शक्तिहरं ससाध्वसानाम् ।। शिशुपालवधम् - 7 - 52 ।।
न खलु वयममुष्य दानयोग्याः पिबतिपाति च यासकौ रहस्त्वाम् ।
व्रज विटपममुं ददस्व तस्यै भवतु यतः सदृशोश्चिराय योगः ।। शिशुपालवधम् - 7 - 53 ।।
तव कितव किमाहितैर्वृथा नः क्षितिरुहपल्लवपुष्पकर्णपूरैः ।
ननु जनविदितैर्भवद्व्यलीकैश्चिरपरिपूरितमेव कर्णयुग्मम् ।। शिशुपालवधम् - 7 - 54 ।।
मुहुरुपहसितामिवालिनादैर्वितरसि नः कालिकां किमर्थमेनाम् ।
वसतिमुपगतेन धाम्नि तस्याः शठ कलिरेष महांस्त्वयाद्य दत्तः ।। शिशुपालवधम् - 7 - 55 ।।
इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेशरेण ।
श्रवणनियमितेन कान्तमन्या सममसिताम्बुरुहेण चक्षुषा च ।। शिशुपालवधम् - 7 - 56 ।।
विनयति सुदृशो दृशः परागं प्रणयिनि कौसुममाननानिलेन ।
तदहितयुवतेरभीक्ष्णमक्ष्णोर्द्वयमपि रोषरजोभिरापुपूरे ।। शिशुपालवधम् - 7 - 57 ।।
स्फुटमिदमभिचारमन्त्र एव प्रतियुवतेरभिधानमङ्गनानाम् ।
वरतनुरमुनोपहूय पत्या मृदुकुसुमेन यदाहताप्यमूर्च्छत् ।। शिशुपालवधम् - 7 - 58 ।।
समदनमवतंसितेऽधिकर्णं प्रणयवता कुसुमे सुमध्यमायाः ।
व्रजदपि लघुतां बभूव भारः सपदि हिरण्मयमण्डनं सपत्न्याः ।। शिशुपालवधम् - 7 - 59 ।।
अवजितमधुना तवाहमक्ष्णो रुचिरतयेत्यवनम्य लज्जयेव ।
श्रवणकुवलयं विलासवत्या भ्रमररुतैरुपकर्णमाचचक्षे ।। शिशुपालवधम् - 7 - 60 ।।
अवचितकुसुमा विहाय वल्लीर्युवतिषु कोमलमाल्यमालिनीषु ।
पदम् उपदधिरे कुलान्यलीनां न परिचयो मलिनात्मनां प्रधानम् ।। शिशुपालवधम् - 7 - 61 ।।
श्लथशिरसिजपाशपातभारादिव नितरां नतिमद्भिरंसभागैः ।
मुकुलितनयनैर्मुखारविन्दैर्घनमहतामिव पक्ष्मणां भरेण ।। शिशुपालवधम् - 7 - 62 ।।
अधिकमरुणिमानमुद्वहद्भिर्विकसदशीतमरीचिरश्मिजालैः ।
परिचितपरिचुम्बनाभियोगादपगतकुङ्कुमरेणुभिः कपोलैः ।। शिशुपालवधम् - 7 - 63 ।।
अवसितललितक्रियेण बाह्वोर्ललिततरेण तनीयसा युगेन ।
सरसकिसलयानुरञ्जितैर्वा करकमलैः पुनरुक्तभाभिः ।। शिशुपालवधम् - 7 - 64 ।।
स्मरसरसमुरःस्थलेन पत्युर्विनिमयसंक्रमिताङ्गरागरागैः ।
भृशमतिशयखेदसम्पदेव स्तनयुगलैरितरेतरं निषण्णैः ।। शिशुपालवधम् - 7 - 65 ।।
अतनुकुचभरानतेन भूयः श्रमजनितानतिना शरीरकेण ।
अनुचितगतिसादनिःसहत्वं कलभकरोरुभिरूरुभिर्दधानैः ।। शिशुपालवधम् - 7 - 66 ।।
अपगतनवयावकैश्चिराय क्षितिगमनेन पुनर्वितीर्णरागैः ।
कथमपि चरणोत्पलैश्चलद्भिर्भृशविनिवेशवशात्परस्परस्य ।। शिशुपालवधम् - 7 - 67 ।।
मुहुरिति वनविभ्रमाभिषङ्गादतमि तदा नितरां नितम्बिनीभिः ।
मृदुतरतनवोऽलसाः प्रकृत्या चिरमपि ताः किमुत प्रयासभाजः ।। शिशुपालवधम् - 7 - 68 ।।
प्रथममलघुमौक्तकाभमासीच्छ्रमजलमुज्ज्वलगण्डमण्डलेषु ।
कठिनकुचतटाग्रपाति पश्चादथ शतशर्करतां जगाम तासाम् ।। शिशुपालवधम् - 7 - 69 ।।
विपुलकमपि यौवनोद्धतानां घनपुलकोदयकोमल चकाशे
परिमलितमपि प्रियैः प्रकामं कुचयुगमुज्ज्वलमेवकामिनीनाम् ।। शिशुपालवधम् - 7 - 70 ।।
अविरतकुसुमावचायखेदान्निहितभुजालतयैकयोपकण्ठम् ।
विपुलतरनिरन्तरावलग्नस्तनपिहितप्रियवक्षसा ललम्बे ।। शिशुपालवधम् - 7 - 71 ।।
अभिमतमभितः कृताङ्गभङ्गा कुचयुगमुन्नतिवित्तमुन्नमय्य ।
तनुरभिलषितं क्लमच्छलेन व्यवृणुत वेल्लितबाहुवल्लरीका ।। शिशुपालवधम् - 7 - 72 ।।
हिमलवसदृशः श्रमोदबिन्दूनपनयता किल नूतनोढवध्वाः ।
कुचकलशकिशोरकौ कथञ्चित्तरलतया तरुणेन पस्पृशाते ।। शिशुपालवधम् - 7 - 73 ।।
गत्वोद्रेकं जघनपुलिने रुद्धमध्यप्रदेशः क्रामन्नूरुद्रुमभुजलताः पूर्णनाभीह्रदान्ताः ।
उल्लङ्घ्योच्चैः कुचतटभुवं प्लावयन्रोकूपान्स्वेदापूरो युवतिसरितां व्याप गण्डस्थलानि ।। शिशुपालवधम् - 7 - 74 ।।
प्रियकरपरिमार्गादङ्गनानां यदाभूत्पुनरधिकतरैव स्वेदतोयोदयश्रीः ।
अथ वपुरभिषेक्तुं तास्तदाम्भोभिरीषुर्वनविहरणखेदम्लानमम्लानशोभाः ।। शिशुपालवधम् - 7 - 75 ।।


।। इति शिशुपालवधमहाकाव्ये सप्तमसर्गः ।।

अष्टमसर्गः

आयासादलघुतरस्तनैः स्वनद्भिः श्रान्तानामविकचलोचनारविन्दैः ।
अभ्यम्भः कथमपि योषितां समूहैस्तैरुर्वीनिहितचलत्पदं प्रचेले ।। शिशुपालवधम् - 8 - 1 ।।
यान्तीनां सममसितभ्रुवां नतत्वादंसानां महति नितान्तमन्तरेऽपि।
संसक्तैर्विपुलतया मिथो नितम्बैः सम्बाधं बृहदपि तद् बभूव वर्त्म ।। शिशुपालवधम् - 8 - 2 ।।
नीरन्ध्रद्रुमशिशिरां भुवं व्रजन्तीः साशङ्कं मुहुरिव कौतुकात्करैस्ताः ।
पस्पर्श क्षणमनिलाकुलीकृतानां शाखानामतुहिनरश्मिरन्तरालैः ।। शिशुपालवधम् - 8 - 3 ।।
एकस्यास्तपनकरैः करालितया बिभ्राणः सपदि सितोष्णावारणत्वम् ।
सेवायै वदनसरोजनिर्जितश्रीरागस्य प्रियमिव चन्द्रमाः चकार ।। शिशुपालवधम् - 8 - 4 ।।
स्वं रागादुपरि वितन्वतोत्तरीयं कान्तेन प्रतिपदवारितातपायाः ।
सच्छत्रादपरविलासिनीसमूहाच्छाया आसीत् अधिकतरा तदा परस्याः ।। शिशुपालवधम् - 8 - 5 ।।
संस्पर्शप्रभवसुखोपचीयमाने सर्वाङ्गे करतललग्नवल्लभायाः ।
कौशेयं व्रजदपि गाढतामजस्रं सस्रंसे विगलितनीवि नीरजाक्ष्याः ।। शिशुपालवधम् - 8 - 6 ।।
गच्छन्तीरलसमवेक्ष्य विस्मयिन्यस्तास्तन्वीर्न विदधिरे गतानि हंस्यः ।
बुद्ध्वा वा जितमपरेण कामम् आविष्कुर्वीत स्वगुणमपत्रपः क एव ।। शिशुपालवधम् - 8 - 7 ।।
श्रीमद्भिर्जितपुलिनानि माधवीनामारोहैर्निबिडबृहन्नितम्बबिम्बैः ।
पाषाणस्खलनविलोलमाशु नूनं वैलक्ष्याद् ययुः अवरोधनानि सिन्धोः ।। शिशुपालवधम् - 8 - 8 ।।
मुक्ताभिः सलिलरयास्तशुक्तिपेशीमुक्ताभिः कृतरुचि सैकतं नदीनाम् ।
स्त्रीलोकः परिकलयाञ्चकार तुल्यं पल्यङ्कैर्विगलितहारचारुभिः स्वैः ।। शिशुपालवधम् - 8 - 9 ।।
आध्राय श्रमजमनिन्द्यबन्धुं निश्वासश्वसनमसक्तमङ्गनानाम् ।
आरण्याः सुमनस ईषिरे न भृङ्गैरौचित्यं गणयति को विशेषकामः ।। शिशुपालवधम् - 8 - 10 ।।
आयान्त्यां निजयुवतौ वनात्सशङ्कं बर्हाणामपरशिखण्डिनीं भरेण ।
आलोक्य व्यवदधतं पुरो मयूरं कामिन्यः श्रदधुरनार्जवं नरेषु ।। शिशुपालवधम् - 8 - 11 ।।
आलापैस्तुलितरवाणि माधवीनां माधुर्यादसलपतत्रिणां कुलानि ।
अन्तर्धाम् उपययुः उत्पलावलीषु प्रादुःष्यात्क इव जितः पुरः परेण ।। शिशुपालवधम् - 8 - 12 ।।
मुग्धायाः स्मरललितेषु चक्रवाक्या निःशङ्कं दयिततमेन चुम्बितायाः ।
प्राणेशानभि विदधुः विधूतहस्ताः सीत्कारं समुचितमुत्तरं तरुण्यः ।। शिशुपालवधम् - 8 - 13 ।।
उत्क्षिप्तस्फुटितसरोरुहार्घ्यमुच्चैः सस्नेहं विहगरुतैरिवालपन्ती ।
नारीणामथ सरसी सफेनहासा प्रीत्येव व्यतनुत पाद्यमूर्मिहस्तैः ।। शिशुपालवधम् - 8 - 14 ।।
नित्याया निजवसतेर्निरासिरे यद्रागेण श्रियमरविन्दतः कराग्रैः ।
व्यक्तत्वं नियतमनेन निन्युः अस्याः सापत्न्यं क्षितिसुतविद्विषो महिष्यः ।। शिशुपालवधम् - 8 - 15 ।।
आस्कन्दन्कथमपि योषितो न यावद्भीमत्यः प्रियकरधार्यमाणहस्ताः ।
औत्सुक्यात्त्वरितममूस्तदम्बु तावत्सङ्क्रान्तप्रतिमतया दधौ इवान्तः ।। शिशुपालवधम् - 8 - 16 ।।
ताः पूर्वं सचकितमागमय्य गाधं कृत्वाथो मृदु पदमन्तराविशन्त्यः ।
कामिन्यो मन इव कामिनः सरागैरङ्गैस्तज्जलम् अनुरञ्जयांबभूवुः ।। शिशुपालवधम् - 8 - 17 ।।
संक्षोभं पयसि मुहुर्महेभकुम्भश्रीभाजा कुचयुगलेन नीयमाने ।
विश्लेषं युगम् अगमत् रथाङ्गनाम्नोरुद्वृत्तः क इव सुखावहः परेषाम् ।। शिशुपालवधम् - 8 - 18 ।।
आसीना तटभुवि सस्मितेन भर्त्रा रम्भोरूरवतरितुं सरस्यनिच्छुः ।
धुन्वाना करयुगमीक्षितुं विलासाञ्शीतालुः सलिलगतेन सिच्यते स्म ।। शिशुपालवधम् - 8 - 19 ।।
नेच्छन्ती समममुना सरोऽवगाढुं रोधस्तः प्रतिजलमीरिता सखीभिः ।
आश्लक्षद्भयचकितेक्षणं नवोढा वोढारं विपदि न दूषितातिभूमिः ।। शिशुपालवधम् - 8 - 20 ।।
तिष्ठन्तं पयसि पुमांसमंसमात्रे तद्दघ्नं तदवयती किलात्मनोऽपि ।
अभ्येतुं सुतनुरभीरियेष मौग्ध्यादाश्लेषि द्रुतममुना निमज्जति इति ।। शिशुपालवधम् - 8 - 21 ।।
आनाभेः सरसि नतभ्रवावगाढे चापल्यादथ पयसस्तरङ्गहस्तैः ।
उच्छ्रायि स्तनयुगमध्यरोहि लब्धस्पर्शानां भवति कुतोऽथवाव्यवस्था ।। शिशुपालवधम् - 8 - 22 ।।
कान्तानां कुवलयमप्यपास्तमक्ष्णोः शोभाभिर्न मुखरुचाहमेकमेव ।
संहर्षादलिविरुतैरितीव गायल्लोलोर्मौ पयसि महोत्पलं ननर्त ।। शिशुपालवधम् - 8 - 23 ।।
त्रस्यन्ती चलशफरीविघट्टितोरूर्वामोरूरतिशयमाप विभ्रमस्य ।
क्षुभ्यन्ति प्रसभमहो विनापि हेतोर्लीलाभिः किमु सति कारणे रमण्यः ।। शिशुपालवधम् - 8 - 24 ।।
आकृष्टप्रतनुवपुर्लतैस्तरद्भिस्तस्याम्भस्तदथ सरो महार्णवस्य ।
अक्षोभि प्रसृतविलोबाहुपक्षैर्योषाणामुरुभिरुरोजगण्डशैलैः ।। शिशुपालवधम् - 8 - 25 ।।
गाम्भीर्यं दधदपि रन्तुमङ्गनाभिः संक्षोभं जधनविघट्टनेन नीतः ।
अम्भोधिर्विकसितवारिजाननोऽसौ मर्यादां सपदि विलङ्घयांबभूव ।। शिशुपालवधम् - 8 - 26 ।।
आदातुं दयितमिवावगाढमारादूर्मीणां ततिभिरभिप्रसार्यमाणः ।
कस्याश्चिद्विततचलच्छिखाङ्गुलीको लक्ष्मीवान्सरसि रराज केशहस्तः ।। शिशुपालवधम् - 8 - 27 ।।
उन्निद्रप्रियकमनोरमं रमण्याः संरेजे सरसि वपुः प्रकाशमेव ।
युक्तानां विमलतया तिरस्क्रियायै नाक्रामन्नपि हि भवति अलं जलौघः ।। शिशुपालवधम् - 8 - 28 ।।
किं तावत्सरसि सरोजमेतदारादाहोस्विन्मुखमवभासते युवत्याः ।
संशय्य क्षणमिति निश्चिकाय कश्चिद्विव्वोकैर्बकसहवासिनां परोक्षैः ।। शिशुपालवधम् - 8 - 29 ।।
शृङ्गाणि द्रुतकनकोज्ज्वलानि गन्धाः कौसुम्भं पृथु कुचकुम्भसङ्गिवासः ।
मार्द्वीकं प्रियतमसन्निधानम् आसन् नारीणामिति जलकेलिसाधनानि ।। शिशुपालवधम् - 8 - 30 ।।
उत्तुङ्गादनिलचलांशुकास्तटान्ताच्चेतोभिः सह भयदर्शितनां प्रियाणाम् ।
श्रेणिभिर्गुरुभिरतूर्णमुत्पतन्त्यस्तोयेषु द्रुततरमङ्गना निपेतुः ।। शिशुपालवधम् - 8 - 31 ।।
मुग्धत्वादविदितकैतवप्रयोगा गच्छन्त्यः सपदि पराजयं तरुण्यः ।
ता कान्तैः सह करपुष्करेरिताम्बुव्यात्युक्षीमभिसरणग्लहाम् अदीव्यन् ।। शिशुपालवधम् - 8 - 32 ।।
योग्यस्य त्रिनयनलोचनानलार्चिर्निर्दग्धस्मरपूतनाधिराज्यलक्ष्म्याः ।
कान्तायाः करकलशोद्यतैः पयोभिर्वक्त्रेन्दोरकृत महाभिषेकमेकः ।। शिशुपालवधम् - 8 - 33 ।।
सिञ्चन्त्याः कथमपि बाहुमुन्नमय्य प्रेयांसं मनसिजदुःखदुर्बलायाः ।
सौवर्णं वलयम् अवागलत् कराग्राल्लावण्यश्रिय इव शेषमङ्गनायाः ।। शिशुपालवधम् - 8 - 34 ।।
स्निह्यन्ती दृशमपरा निधाय पूर्णं मूर्तेन प्रणयरसेन वारिणेव ।
कन्दर्पप्रवणमनाः सखीसिसिक्षालक्ष्येण प्रतियुवमञ्जलिं चकार ।। शिशुपालवधम् - 8 - 35 ।।
आनन्दं दधति मुखे करोदकेन श्यामाया दयिततमेन सिच्यमाने ।
ईर्ष्यन्त्या वदनमसिक्तमप्यनल्पस्वेदाम्बुस्नपितम् अजायत इतरस्याः।। शिशुपालवधम् - 8 - 36 ।।
उद्वीक्ष्य प्रियकरकुड्मलापविद्धैर्वक्षोजद्वयमभिषिक्तमन्यनार्याः ।
अम्भोभिर्मुहुरसिचद्वधूरमर्षादात्मीयं पृथुतरनेत्रयुग्ममुक्तैः ।। शिशुपालवधम् - 8 - 37 ।।
कुर्वद्भिर्मुखरुचिमुज्ज्वलामजस्रं यैस्तोयैर् असिचत वल्लभां विलासी ।
तैरेव प्रतियुवतेः अकारि दूरात्कालुष्यं शशधरदीधितिच्छटाच्छैः ।। शिशुपालवधम् - 8 - 38 ।।
रागान्धीकृतनयनेन नामधेयव्यत्यासादभिमुखमीरितः प्रियेण ।
मानिन्या वपुषि पतन्निसर्गमन्दो भिन्दानो हृदयमसाहि नोदवज्रः ।। शिशुपालवधम् - 8 - 39 ।।
प्रेम्णोरः प्रणयिनि सिञ्चति प्रियायाः सन्तापं नवजलविप्रुषो गृहीत्वा ।
उद्धूताः कठिनकुचस्थलाभिघातादासन्नां भृशमपराङ्गनाम् अधाक्षुः ।। शिशुपालवधम् - 8 - 40 ।।
सङ्क्रान्तं प्रियतमवक्षसोऽङ्गरागं साध्वस्याः सरसि हरिष्यते अधुनाम्भः ।
तुष्ट्वैवं सपदि हृतेऽपि तत्र तेपे कस्यश्चित्स्फुटनखलक्ष्मणः सपत्न्या ।। शिशुपालवधम् - 8 - 41 ।।
हृतायाः प्रतिसखि कामिनान्यनाम्ना ह्रीमत्याः सरसि गलन्मुखेन्दुकान्तेः ।
अन्तधिं द्रुतमिव कर्तुमश्रुवर्षैर्भूमानं गमयितुम् ईषिरे पयांसि ।। शिशुपालवधम् - 8 - 42 ।।
सिक्तायाः क्षणमभिषिच्य पूर्वमन्यामन्यस्याः प्रणयवता बताबलायः ।
कालिम्ना समधित मन्युरेव वक्त्रं प्राप अक्ष्णोर्गलदपशब्दमञ्जनाम्भः ।। शिशुपालवधम् - 8 - 43 ।।
उद्वोढुं कनकविभूषणान्यशक्तः सध्रीचा वलयितपद्मनालसूत्रः ।
आरूढप्रतिवनिताकटाक्षभारः साधीयो गुरुर् अभवत् भूजस्तरुण्याः ।। शिशुपालवधम् - 8 - 44 ।।
आबद्धप्रचुरपरार्घ्यकिङ्किणीको रामाणामनवरतोदगाहभाजाम् ।
नारावं व्यतनुत मेखलाकलापः कस्मिन्वा सजलगुणे गिरां पटुत्वम् ।। शिशुपालवधम् - 8 - 45 ।।
पर्यच्छे सरसि हृतेंऽशुके पयोभिर्लोलाक्षे सुरतगुरावपत्रपिष्णोः ।
सुश्रेण्या दलवसनेन वीचिहस्तन्यस्तेन द्रुतमकृताब्जिनि सखीत्वम् ।। शिशुपालवधम् - 8 - 46 ।।
नारीभिर्गुरुजघनस्थलाहताना मास्यश्रीविजितविकासिवारिजानाम् ।
लोलत्वादपहरतां तदङ्गरागं सञ्जज्ञे स कलुष आशयो जलानाम् ।। शिशुपालवधम् - 8 - 47 ।।
सौगन्ध्यं दधदपि काममङ्गनानां दूरत्वाद्गतमहमाननोपमानम् ।
नेदीयो जितमिति लज्जयेव तासामालोले पयसि महोत्पलं ममज्ज ।। शिशुपालवधम् - 8 - 48 ।।
प्रभ्रष्टैः सरभसमम्भसोऽवगाहक्रीडाभिर्विदलितयूथिकापिशङ्गैः ।
आकल्पैः सरसि हिरण्मयैर्वधूनामौर्वाग्निद्युतिशकलैरिव व्यराजि ।। शिशुपालवधम् - 8 - 49 ।।
आस्माकी युवतिदृशामसौ तनोति छायैव श्रियमनपायिनीं किमेभिः ।
मत्वैवं स्वगुणपिधानसाभ्यसूयैः पानीयैरिति विदधौ इरेऽञ्जनानि ।। शिशुपालवधम् - 8 - 50 ।।
निर्धौते सति हरिचन्दने जलौघैरापाण्डोर्गतपरभागयाङ्गनायाः ।
अह्नाय स्तनकलशद्वयात् उपेये विच्छेदः सहृदययेव हारयष्ट्या ।। शिशुपालवधम् - 8 - 51 ।।
अन्यूनं गुणममृतस्य धारयन्ती सम्फुल्लस्फुरितसरोरुहावतंसा ।
प्रेयोभिः सह सरसी निषेव्यमाणा रक्तत्वं व्यधित वधूदृशां सुरा च ।। शिशुपालवधम् - 8 - 52 ।।
स्नान्तीनां बृहदमलोदबिन्दुचित्रै रेजाते रुचिरदृशामुरोजकुम्भौ ।
हाराणां मणिभिरुपाश्रितौ समन्तादुत्सूत्रैर्गुणवदुपघ्नकाम्ययेव ।। शिशुपालवधम् - 8 - 53 ।।
आरूढः पतित इति स्वसम्भवोऽपि स्वच्छानां परिहरणीयतामुपैति ।
कर्णेभ्यश्च्युतमसितोत्पलं वधूनां वीचीभिस्तटमनु यत् निरासुः आपः ।। शिशुपालवधम् - 8 - 54 ।।
दन्तानामधरमयावकं पदानि प्रत्यग्रास्तनुमविलेपनां नखाङ्काः ।
आनिन्युः श्रियमधितोयमङ्गनानां शोभायै विपदि सदाश्रिता भवन्ति ।। शिशुपालवधम् - 8 - 55 ।।
कस्याश्चिन्मुखमनु धौतपत्रलेखं व्यातेने सलिलभरावलम्बिनीभिः ।
किञ्जल्कव्यतिकरपिञ्चरान्तराभिश्चित्रश्रीरलमलकाग्रवल्लरीभिः ।। शिशुपालवधम् - 8 - 56 ।।
वक्षेभ्यो घनमनुलेपनं यदूनामुत्तंसानाहरत वारि मूर्धजेभ्यः ।
नेत्राणां मदरुचिरक्षतैव तस्थौ चक्षुष्यः खलु महतां परैरलङ्घ्यः ।। शिशुपालवधम् - 8 - 57 ।।
यो बाह्यः स खलु जलैर्निरासि रागो यश्चित्ते स तु तदवस्थ एव तेषाम् ।
धीराणां व्रजति हि सर्व एव नान्तःपातित्वादभिभवनीयतां परस्य ।। शिशुपालवधम् - 8 - 58 ।।
फेनानामुरसिरुहेषु हारलीला चैलश्रीर्जघनतलेषु शैवलानाम् ।
गण्डेषु स्फुटरचनाब्जपत्र्रवल्ली पर्याप्तं पयसि विभूषणं वधूनाम् ।। शिशुपालवधम् - 8 - 59 ।।
भ्रश्यद्भिर्जलमभि भूषणैर्वधूनामङ्गेभ्यो गुरुभिरमज्जि लज्जयेव ।
निर्माल्यैरथ ननृते अवधीरितानामप्युच्चैर्भवति लघीयसां हि धार्ष्ट्यम् ।। शिशुपालवधम् - 8 - 60 ।।
आमृष्टास्तिलकरुचः स्रजो निरस्ता नीरक्तं वसनमपाकृतोऽङ्गरागः ।
कामः स्त्रीरनुशयवानिव स्वपक्षव्याघातादिति सुतरां चकार चारूः ।। शिशुपालवधम् - 8 - 61 ।।
शीतार्तिं बलवदुपेयुषतेव नीरैरासेकाच्छिशिरसमीरकम्पितेन ।
रामाणामभिनवयौवनोष्मभाजोः आश्लेषि स्तनतटयोर्नवंशुकेन ।। शिशुपालवधम् - 8 - 62 ।।
श्च्योतद्भिः समधिकमात्तमङ्गसङ्गाल्लावण्यं तनुमदिवाम्बु वाससोऽन्तैः ।
उत्तेरे तरलतरङ्गरङ्गलीलानिष्णातैरथ सरसः प्रियासमूहैः ।। शिशुपालवधम् - 8 - 63 ।।
दिव्यानामपि कृतविस्मयां पुरस्तादम्भस्तः स्फुरदरविन्दचारुहस्ताम् ।
उद्वीक्ष्य श्रियमिव काञ्चिदुत्तरन्तीम् अस्मार्षीत् जलनिधिमन्थनस्य शौरिः ।। शिशुपालवधम् - 8 - 64 ।।
श्लक्ष्णं यत्परिहितमेतयोः किलान्तर्धानार्थं तदुदकसेकसक्तमूर्वोः ।
नारीणां विमलतरौ समुल्लसन्त्या भासान्तः दधतुः उरू दुकूलमेव ।। शिशुपालवधम् - 8 - 65 ।।
वासांसि न्यवसत यानि योषितस्ताः शुभ्राभ्रद्युतिभिरहासि तैर्मुदेव ।
अत्याक्षुः स्नपनगलज्जलानि यानि स्थूलाश्रुस्रुतिभिररोदिः तैः शुचेव ।। शिशुपालवधम् - 8 - 66 ।।
आर्द्रत्वादतिशयिनीमुपेयिवद्भिः संसक्तिं भृशमपि भूरिशोऽवधूतैः ।
अङ्गेभ्यः कथमपि वामलोचनानां विश्लेषो बत नवरक्तकैः प्रपेदे ।। शिशुपालवधम् - 8 - 67 ।।
प्रत्यंसं विलुलितमूर्धजा चिराय स्नानार्द्रं वपुरुदवापयत्किलैका ।
नाजानादभिमतमन्तिकेऽभिवीक्ष्य स्वेदाम्बुद्रवम् अभवत् तरां पुनस्तत् ।। शिशुपालवधम् - 8 - 68 ।।
सीमन्तं निजमनुबध्नती कराभ्यामालक्ष्य स्तनतटबाहुमूलभागा ।
भर्त्रान्या मुहुरभिलष्यता निदध्ये नैवाहो विरमति कौतुकं प्रियेभ्यः ।। शिशुपालवधम् - 8 - 69 ।।
स्वच्छाम्भःस्नपनविधौतमङ्गमोष्ठस्ताम्बूलद्युतिविशदो विलासिनीनाम् ।
वासश्च प्रतनु विविक्तमस्त्वितीयानाकल्पो यदि कुसुमेषुणा न शून्यः ।। शिशुपालवधम् - 8 - 70 ।।
इति धौतपुरन्ध्रिमत्सरान्त्सरसि मज्जनेन श्रियमाप्तवतोऽतिशायिनीमपमलाङ्गभासः ।
अवलोक्य तदैव यादवानपरवारिराशेः शिशिरेतररोचिषाप्यपां ततिषु मङ्क्तुम् ईषे ।। शिशुपालवधम् - 8 - 71 ।।


।। इति शिशुपालवधमहाकाव्ये अष्टमसर्गः ।।

नवमसर्गः

अभितापसम्पदमथोष्णरुचिर्निजतेसामसहमान इव ।
पयसि प्रपित्सुरपराम्बुनिधेरधिरोढुमस्तगिरिम् अभ्यपतत् ।। शिशुपालवधम् - 9 - 1 ।।
गतया पुरः प्रतिगवाक्षमुखं दधती रतेन भृशमुत्सुकताम् ।
मुहुरन्तारालभुवमस्तगिरेः सवितुश्च योषिदमिमीत दृशा ।। शिशुपालवधम् - 9 - 2 ।।
विरलातपच्छविरनुष्णवपुः परितो विपाण्डु दधदभ्रशिरः ।
अभवद्गतः परिणतिं शिथिलः परिमन्दसूर्यनयनो दिवसः ।। शिशुपालवधम् - 9 - 3 ।।
अपराह्णशीतलतरेण शनैरनिलेन लोलितलताङ्गुलये ।
निलयाय शाखिन इव आह्रयते ददुराकुलाः खगकुलानि गिरः ।। शिशुपालवधम् - 9 - 4 ।।
उपसन्ध्यम् आस्त तनु सानुमतः शिखरेषु तत्क्षणमशीतरुचः ।
करजालमस्तसमयेऽपि सतामुचितं खलूच्चतरमेव पदम् ।। शिशुपालवधम् - 9 - 5 ।।
प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता ।
अवलम्बनाय दिनभर्तु अभूत् न पतिष्यतः करसहस्रमपि ।। शिशुपालवधम् - 9 - 6 ।।
नवकुङ्कुमारुणपयोधरया स्वकरावसक्तरुचिराम्बरया ।
अतिसक्तिमेत्य वरुणस्य दिशा भृशम् अन्वरज्यत् अतुषारकरः ।। शिशुपालवधम् - 9 - 7 ।।
गतवति अराजत जपाकुसुमस्तबकद्युतौ दिनकरेऽवनतिम् ।
बहलानुरागकुरुविन्ददलप्रतिबद्धमध्यमिव दिग्वलयम् ।। शिशुपालवधम् - 9 - 8 ।।
द्रुतशातकुम्भनिभमंशुमतो वपुरर्धमग्नवपुषः पयसि ।
रुरुचे विरिञ्चिनखभिन्नबृहज्जगदण्डकैकतरखण्डमिव ।। शिशुपालवधम् - 9 - 9 ।।
अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरम् ।
निरकासयत् रविमपेतवसुं वियदालयादपरदिग्गणिका ।। शिशुपालवधम् - 9 - 10 ।।
अभितिग्मरश्मि चिरमाविरमादवधानखिन्नमनिमेषतया ।
विगलन्मधुव्रतकुलाश्रुजलं न्यमिमीलदब्जनयनं नलिनी ।। शिशुपालवधम् - 9 - 11 ।।
अविभाव्यतारकमदृष्टहिमद्युतिबिम्बमस्तमितभानु नभः ।
अवसन्नतापमतमिस्रमभादपदोषतैव विगुणस्य गुणः ।। शिशुपालवधम् - 9 - 12 ।।
रुचिधाम्नि भर्तरि भृशं विमलाः परलोकमभ्युपगते विवशुः ।
ज्वलनं त्विषः कथमिवेतरथा सुलभोऽन्यजन्मनि स एव पतिः ।। शिशुपालवधम् - 9 - 13 ।।
विहिताञ्जलिर्जनतया दधती विकसत्कुसुम्भकुसुमारुणताम् ।
चिरमुज्झितापि तनुरौज्झदसौ न पितृप्रसूः प्रकृतिमात्मभुवः ।। शिशुपालवधम् - 9 - 14 ।।
अथ सान्द्रसान्ध्यकिरणारुणितं हरिहेतिहूति मिथुनं पततोः ।
पृथगुत् पपात विरहार्तिदलद्धृदयस्रुतासृगनुलिप्तमिव ।। शिशुपालवधम् - 9 - 15 ।।
निलयः श्रियः सततमेतदिति प्रथितं यदेव जलजन्म तया ।
दिवसात्ययात्तदपि मुक्तमहो चपलाजनं प्रति न चोद्यमदः ।। शिशुपालवधम् - 9 - 16 ।।
दिवसोऽनुमित्रमगमद्विलयं किमिहास्यते बत मयाबलया ।
रुचिभर्तुरस्य विरहाधिगमादिति सन्ध्ययापि सपदि व्यगमि ।। शिशुपालवधम् - 9 - 17 ।।
पतिते पतङ्गमृगराजि निजप्रतिबिम्बरोषित इवाम्बुनिधौ ।
अथ नागयूथमलिनानि जगत्परितस्तमांसि परितस्तरिरे ।। शिशुपालवधम् - 9 - 18 ।।
व्यसरन्नु भूधरगुहान्तरतः पटलं बहिर्बहलपङ्करुचि ।
दिवसावसानपटुनस्तमसो बहिरेत्य चाधिकमभक्त गुहाः ।। शिशुपालवधम् - 9 - 19 ।।
किमलम्बताम्बरविलग्नवधः किमवर्धतोर्ध्वमवनीतलतः ।
विससार तिर्यगथ दिग्भ्य इति प्रचुरीभवन्न निरधारि तमः ।। शिशुपालवधम् - 9 - 20 ।।
स्थगिताम्बरक्षितितले परितस्तिमिरे जनस्य दृशम् अन्धयति
दधिरे रसाञ्जनमपूर्वमतः प्रियवेश्मवर्त्म सुदृशो ददृशुः ।। शिशुपालवधम् - 9 - 21 ।।
अवधार्य कार्यगुरुतामभवन्न भयाय सान्द्रतमसन्तमसम् ।
सुतनोः स्तनौ च दयितोपगमे तनुरोमराजिपथवेपथवे ।। शिशुपालवधम् - 9 - 22 ।।
ददृशेऽपि भास्कररुचाह्नि न यः स तमीं तमोभिरभिगम्य तताम् ।
द्युतिम् अग्रहीत् ग्रहगणो लघवः प्रकटीभवन्ति मलिनाश्रयतः ।। शिशुपालवधम् - 9 - 23 ।।
अनुलेपनानि कुसुमान्यबलाः कृतमन्यवः पतिषु दीपशिखाः ।
समयेन तेन चिरसुप्तमनोभवबोधनं समम् अबोधिषत ।। शिशुपालवधम् - 9 - 24 ।।
वसुधान्तनिःसृतमिवाहिपतेः पटलं फणामणिसहस्ररुचाम् ।
स्फुरदंशुजालमथ शीतरुचः ककुभं समस्कुरुत माधवनीम् ।। शिशुपालवधम् - 9 - 25 ।।
विशदप्रभापरिगतं विबभौ उदयाचलव्यवहितेन्दुवपुः ।
मुखमप्रकाशदशनं शनकैः सविलासहासमिव शक्रदिशः ।। शिशुपालवधम् - 9 - 26 ।।
कलया तुषारकिरणस्य पुरः परिमन्दभिन्नतिमिरौघजटम् ।
क्षणम् अभ्यपद्यत जनैर्न मृषा गगनं गणाधिपतिमूर्तिरिति ।। शिशुपालवधम् - 9 - 27 ।।
नवचन्द्रिकाकुसुमकीर्णतमःकबरीभृतो मलयजार्द्रमिव ।
ददृशे ललाटतटहारि हरेर्हरितो मुखे तुहिनरश्मिदलम् ।। शिशुपालवधम् - 9 - 28 ।।
प्रथमं कला अभवत् अथार्धमथो हिमदीधितिर्महदभूदुदितः ।
दधति ध्रुवं क्रमश एव न तु द्युतिशालिनोऽपि सहसोपचयम् ।। शिशुपालवधम् - 9 - 29 ।।
उदमज्जि कैटभजितः शयनादपनिद्रपाण्डुरसरोजरुचा ।
प्रथमप्रबुद्धनदराजसुतावदनेन्दुनेव तुहिनद्युतिना ।। शिशुपालवधम् - 9 - 30 ।।
अथ लक्ष्मणानुगतकान्तवपुर्जलधिं विलङ्घ्य शशिदाशरथिः ।
परिवारितः परित ऋक्षगणैस्तिमिरौघराक्षसकुलं बिभिदे ।। शिशुपालवधम् - 9 - 31 ।।
उपजीवति स्म सततं दधतः परिमुग्धतां वणिगिवोडुपतेः ।
घनवीथवीथिमवतीर्णवतो निधिरम्भसाम् उपचयाय कलाः ।। शिशुपालवधम् - 9 - 32 ।।
रजनीमवाप्य रुचमाप शशी सपदि व्यभूषयत् असावपि ताम् ।
अविलम्बितक्रममहो महतामितरेतरोपकृतिमच्चरितम् ।। शिशुपालवधम् - 9 - 33 ।।
दिवसं भृशोष्णरुचिपादहतां रुदतीमिवानवरतालिरुतैः ।
मुहुरामृशन्मृगधरोऽग्रकरैरुदशिश्वसत्कुमुदिनीवनिताम् ।। शिशुपालवधम् - 9 - 34 ।।
प्रतिकामिनीति ददृशुश्चकिताः स्मरजन्मघर्मपयसोपचिताम् ।
सुदृशोऽभिभर्तृशशिरश्मिगलज्जलबिन्दुमिन्दुमणिदारुवधूम् ।। शिशुपालवधम् - 9 - 35 ।।
अमृतद्रवैःविदधत् अब्जदृशामपमार्गमोषधिपतिः स्म करैः ।
परितो विसर्पि परितापि भृशं वपुषोऽवतारयति मानविषम् ।। शिशुपालवधम् - 9 - 36 ।।
अमलात्मसु प्रतिफलन्नभितस्तरुणीकपोलफलकेषु मुहुः ।
विससार सान्द्रतरमिन्दुरुचामधिकावभासितदिशां निकरः ।। शिशुपालवधम् - 9 - 37 ।।
उपगूढवेलमलघूर्मिभुजैः सरितामचुक्षुभदधीशमपि ।
रजनीकरः किमिव चित्रमदो यदुरागिणां गणमनङ्गलघुम् ।। शिशुपालवधम् - 9 - 38 ।।
भवनोदरेषु परिमन्दतया शयितोऽलसः स्फटिकयष्टिरुचः ।
अवलम्ब्य जालकमुखोपगतानुदतिष्ठदिन्दुकिरणान्मदनः ।। शिशुपालवधम् - 9 - 39 ।।
अविभावितेषुविषयः प्रथमं मदनोऽपि नूनमभवत्तमसा ।
उदिते दिशः प्रकटयत्यमुना यदघर्मधाम्नि धनुः आचकृषे ।। शिशुपालवधम् - 9 - 40 ।।
युगपद्विकासमुदयाद्गमिते शशिनः शिलीमुखगणः अलभत
द्रुतमेत्य पुष्पधनुषो धनुषः कुमुदेऽङ्गनामनसि चावसरम् ।। शिशुपालवधम् - 9 - 41 ।।
ककुभां मुखानि सहसोज्ज्वलयन्दधदाकुलत्वमधिकं रतये ।
अदिदीपदिन्दुरपरो दहनः कुसुमेषुमत्रिनयनप्रभवः ।। शिशुपालवधम् - 9 - 42 ।।
इति निश्चितप्रियतमागतयः सितदीधितावुदयवत्यबलाः ।
प्रतिकर्म कर्तुम् उपचक्रमिरे समये हि सर्वमुपकारि कृतम् ।। शिशुपालवधम् - 9 - 43 ।।
सममेकमेव दधतुः सुतनोरुरुहारभूषणमुरोजतटौ ।
घटते हि संहततया जनितामिदमेव निर्विवरतां दधतोः ।। शिशुपालवधम् - 9 - 44 ।।
कदलीप्रकाण्डरुचिरोरुतरौ जघनस्थलीपरिसरे महति ।
रशनाकलापकगुणेन वधूर्मकरध्वजद्विरदमाकलयत् ।। शिशुपालवधम् - 9 - 45 ।।
अधरेष्वलक्तकरसः सुदृशां विशदं कपोलभुवि लोध्ररजः ।
नवमञ्जनं नयनपङ्कजयोः बिभिदे न शङ्खनिहितात्पयसः ।। शिशुपालवधम् - 9 - 46 ।।
स्फुरदुज्ज्वलाधरदलैर्विलसद्दशनांशुकेशरभरैः परितः ।
धृतमुग्धगण्डफलकैः विबभुः विकसद्भिरास्यकमलैः प्रमदाः ।। शिशुपालवधम् - 9 - 47 ।।
भजते विदेशमधिकेन जितस्तदनुप्रवेशमथवा कुशलः ।
मुखमिन्दुरुज्ज्वलकपोलमतः प्रतिमाच्छलेन सुदृशामविशत् ।। शिशुपालवधम् - 9 - 48 ।।
ध्रुवमागताः प्रतिहतिं कठिने मदनेषवः कुचतटेमहति ।
इतराङ्गवन्न यदिदं गरिमग्लपितावलग्नम् अगमत् तनुताम् ।। शिशुपालवधम् - 9 - 49 ।।
न मनोरमास्वपि विशेषविदां निरचेष्ट योग्यमिदमेतदिति ।
गृहम् एष्यति प्रियतमे सुदृशां वसनाङ्गरागसुमनःसु मनः ।। शिशुपालवधम् - 9 - 50 ।।
वपुः अन्वलिप्त परिरम्भसुखव्यवधानभीरुकतया न वधूः ।
क्षममस्य बाढमिदमेव हि यत्प्रियसङ्गमेष्वनवलेपमदः ।। शिशुपालवधम् - 9 - 51 ।।
निजपाणिपल्लवतलस्खलनादभिनासिकविवरमुत्पतितैः ।
अपरा परीक्ष्य शनकैः मुमुदे मुखवासमास्यकमलश्वसनैः ।। शिशुपालवधम् - 9 - 52 ।।
विधृते दिवा सवयसा च पुरः परिपूर्णमण्डलविकाशभृति ।
हिमधाम्नि दर्पणतले च मुहुः स्वमुखश्रियं मृगदृशो ददृशुः ।। शिशुपालवधम् - 9 - 53 ।।
अधिजानु बाहुमुपधाय नमत्करपल्लवार्पितकपोलतलम् ।
उदकण्ठि कण्ठपरिवर्तिकलस्वरशून्यगानपरयापरया ।। शिशुपालवधम् - 9 - 54 ।।
प्रणयप्रकाशनविदो मधुराः सुतरामभीष्टजनचित्तहृतः ।
प्रजिघाय कान्तमनु मुग्धतरस्तरुणीजनो दृश इवाथ सखीः ।। शिशुपालवधम् - 9 - 55 ।।
न च मे अवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि ।
निपुणं तथैनमुपगम्य वदेरभिदूति काचिदिति सन्दिदिशे ।। शिशुपालवधम् - 9 - 56 ।।
दयितया मानपरयाऽपरया त्वरितं ययौ अगदितापि सखी ।
किमु चोदिताः प्रियहितार्थकृतः कृतिनो भवन्ति सुहृदः सुहृदाम् ।। शिशुपालवधम् - 9 - 57 ।।
प्रतिभिद्य कान्तमपराधकृतं यदि तावदस्य पुनरेव मया ।
क्रियतेऽनुवृत्तिरुचितैव ततः कलयेत् मानमनसं सखि माम् ।। शिशुपालवधम् - 9 - 58 ।।
अवधीर्य धैर्यकलिता दयितं विदधे विरोधमथ तेन सह ।
तव गोप्यते किमिव कर्तुमिदं न सह अस्मि साहसमसाहसिकी ।। शिशुपालवधम् - 9 - 59 ।।
तदुपेत्य मा स्म तमुपालभथाः क्ल दोषमस्य न हि विद्म वयम् ।
इति सम्प्रधार्य रमणाय वधूर्विहितागसेऽपि विससर्ज सखीम् ।। शिशुपालवधम् - 9 - 60 ।।
ननु सन्दिशेति सुदृशोदितया त्रपया न किञ्चन किल अभिदधे
निजमैक्षि मन्दमनिशं निशितैः क्रशितं शरीरमशरीरशरैः ।। शिशुपालवधम् - 9 - 61 ।।
ब्रुवते स्म दूत्य उपसृत्य नरान्नरवत्प्रगल्भमतिगर्भगिरः ।
सुहृदर्थमीहितमजिह्मधियां प्रकृतेः विराजति विरुद्धमपि ।। शिशुपालवधम् - 9 - 62 ।।
मम रूपकीर्तिमहरद्भुवि यस्तदनुप्रसक्तहृदयेयमिति ।
त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः ।। शिशुपालवधम् - 9 - 63 ।।
तव सा कथासु परिघट्टयति श्रवणं यदङ्गुलिमुखेन मुहुः ।
घनतां ध्रुवं नयति तेन भवद्गुणपूगपूरितमतृप्ततया ।। शिशुपालवधम् - 9 - 64 ।।
उपताप्यमानमलघूष्णिमभिः श्वसितैः सितेतरसरोजदृशः ।
द्रवतां न नेतुमधरं क्षमते नवनागवल्लिदलरागरसः ।। शिशुपालवधम् - 9 - 65 ।।
दधति स्फुटं रतिपतेरिषवः शिततां यदुत्पलपलाशदृशः ।
हृदयं निरन्तरबृहत्कठिनस्तनमण्डलावरणम् अप्यभिदन् ।। शिशुपालवधम् - 9 - 66 ।।
कुसुमादपि स्मितदृशः सुतरां सुकुमारमङ्गमिति नापरथा ।
अनिशं निजैरकरुणः करुणं कुसुमेषुः उत्तपति यद्विशिखैः ।। शिशुपालवधम् - 9 - 67 ।।
विषतां निषेवितमपक्रियया समुपैति सर्वमिति सत्यमदः ।
अमृतस्रुतोऽपि विरहाद्भवतो यदमूं दहन्ति हिमरश्मिरुचः ।। शिशुपालवधम् - 9 - 68 ।।
उदितं प्रियां प्रति सहार्दमिति श्रदधीयत प्रियतमेन वचः ।
विदितेऽङ्गिते हि पुर एव जने सपदीरिताः खलु लगन्ति गिरः ।। शिशुपालवधम् - 9 - 69 ।।
दयिताहृतस्य युवभिर्मनसः परिमूढतामिव गतैः प्रथमम् ।
उदिते ततः सपदि लब्धपदैः क्षणदाकरेऽनुपदिभिः प्रयये ।। शिशुपालवधम् - 9 - 70 ।।
निपपात सम्भ्रमभृतः श्रवणादसितभ्रुवः प्रणदितालिकुलम् ।
दयितावलोकविकसन्नयनप्रसरप्रणुन्नमिव वारिरुहम् ।। शिशुपालवधम् - 9 - 71 ।।
उपनेतुमुन्नतिमतेव दिवं कुचयोर्युगेन तरसा कलिताम् ।
रभसोत्थितामुपगतः सहसा परिरभ्य कञ्चन वधूम् अरुधत् ।। शिशुपालवधम् - 9 - 72 ।।
अनुदेहमागतवतः प्रतिमां परिणायकस्य गुरुमुद्वहता ।
मुकुरेण वेपथुभृतोऽतिभरात्कथमप्यपाति न वधूकरतः ।। शिशुपालवधम् - 9 - 73 ।।
अवनम्य वक्षसि निमग्नकुचद्वितयेन गाढमुपगूढवता ।
दयितेन तत्क्षणचलद्रशनाकलकिङ्किणीरवमुदासि वधूः ।। शिशुपालवधम् - 9 - 74 ।।
कररुद्धनीवि दयितोपगतौ गलितं त्वराविरहितासनया ।
क्षणदृष्टहाटकशिलासदृशस्फुरदूरुभित्ति वसनं ववसे ।। शिशुपालवधम् - 9 - 75 ।।
पिदधानमन्वगुपगम्य दृशौ ब्रुवते जनाय वद कोऽयमिति ।
अभिधातुम् अध्यवससौ न गिरा पुलकैः प्रियं नववधूः न्यगदत् ।। शिशुपालवधम् - 9 - 76 ।।
उदितोरुसादमतिवेपथुमत्सुदृशोऽभिभर्तृ विधुरं त्रपया ।
वपुरादरातिशयशंसि पुनः प्रतिपत्तिमूढमपि वाढम् अभूत् ।। शिशुपालवधम् - 9 - 77 ।।
परिमन्थराभिरलघूरुभरादधिवेश्म पत्युरुपचारविधौ ।
स्खलिताभिरप्यनुपदं प्रमदाः प्रणयातिभूमिम् अगमन् गतिभिः ।। शिशुपालवधम् - 9 - 78 ।।
मधुरान्नतभ्रू लसितं च दृशोः सकरप्रयोगचतुरं च वचः ।
प्रकृतिस्थमेव निपुणागमितं स्फुचनृत्यलीलम् अभवत् सुतनोः ।। शिशुपालवधम् - 9 - 79 ।।
तदयुक्तमङ्ग तव विश्वसृजा न कृतं यदीक्षणसहस्रतयम् ।
प्रकटीकृता जगति येन खलु स्फुटमिन्द्रताद्य मयि गोत्रभिदा ।। शिशुपालवधम् - 9 - 80 ।।
न विभावयत्यनिशमक्षिगतामपि मां भवानतिसमीपतया ।
हृदयस्थितामपि पुनः परितः कथम ईक्षते बहिरभीष्टतमाम् ।। शिशुपालवधम् - 9 - 81 ।।
इति गन्तुमिच्छुमभिधाय पुरः क्षणदृष्टिपातविकसद्वदनाम् ।
स्वकरावलम्बनविमुक्तगलत्कलकाञ्चि काञ्चिदरुणत्तरुणः ।। शिशुपालवधम् - 9 - 82 ।।
अपयाति सरोषया निरस्ते कृतकं कामिनि चुक्षुषे मृगाक्ष्या ।
कलयन्नपि सव्यथो अवतस्थे अशकुनेन स्खलितः किलेतरोऽपि ।। शिशुपालवधम् - 9 - 83 ।।
आलोक्य प्रियतममंशुके विनीवौ यत्तस्थे नमितमुखेन्दु मानवत्या ।
तन्नूनं पदमवलोकयांबभूवे मानस्य द्रुतमपयानमास्थितस्य ।। शिशुपालवधम् - 9 - 84 ।।
सुदृशः सरसव्यलीकतप्तस्तरसास्लष्टवतः सयौवनोष्मा ।
कथमपि अभवत् स्मरानलोष्णः स्तनभारो न नखम्पचः प्रियस्य ।। शिशुपालवधम् - 9 - 85 ।।
दधत्युरोजद्वयमुर्वशीतलं भुवो गतेव स्वयमुर्वशी तलम् ।
बभौ मुखेनाप्रतिमेन काचन श्रियाधिका तां प्रति मेनका च न ।। शिशुपालवधम् - 9 - 86 ।।
इत्थं नारीर्घटयितुमलं कामिभिः कामम् आसन् प्रालेयांशोः सपदि रुचयः शान्तमानान्तरायाः ।
आचार्यत्वं रतिषु विलसन्मन्मथश्रीविलासा ह्रीप्रत्यूहप्रशमकुशलाः शीधवः चक्रुः आसाम् ।। शिशुपालवधम् - 9 - 87 ।।


।। इति शिशुपालवधमहाकाव्ये नवमसर्गः ।।

दशमसर्गः

सञ्जितानि सुरभीण्यथ यूनामुल्लसन्नयनवारिरुहाणि ।
आययुः शुघटितानि सुरायाः पात्रतां प्रियतमावदनानि ।। शिशुपालवधम् - 10 - 1 ।।
सोपचारमुपशान्तविचारं सानुतर्षमनुतर्षपदेन ।
ते मुहूर्तमथ मूर्तमपीप्यन्प्रेम मानमवधूय वधूः स्वाः ।। शिशुपालवधम् - 10 - 2 ।।
कान्तकान्तवदनप्रतिबिम्बे भग्नबालसहकारसुगन्धौ ।
स्वादुनि प्रणदितालिनि शीते निर्विवार मधुनीन्द्रियवर्गः ।। शिशुपालवधम् - 10 - 3 ।।
कापिशायनसुगन्धि विघूर्णन्नुन्मदोऽधिशयितुं समशेत
फुल्लदृष्टि वदनं प्रमदानामब्जचारु चषकं च षडङ्ध्रिः ।। शिशुपालवधम् - 10 - 4 ।।
बिम्बितं भृतपरिस्रुति जानन्भाजने जलजमित्यबलायाः ।
घ्रातुमक्षि पतति भ्रमरः स्म भ्रान्तिभाजि भवति क्व विवेकः ।। शिशुपालवधम् - 10 - 5 ।।
दत्तमिष्टतमया मधु पत्युर्बाढमाप पिबतो रसवत्ताम् ।
यत्सुवर्णमुकुटांशुभिः आसीत् चेतनाविरहितैरपि पीतम् ।। शिशुपालवधम् - 10 - 6 ।।
स्वादनेन सुतनोरविचारादोष्ठतः समचरिष्ट रसोऽत्र ।
अन्यमन्यदिव यन्मधु यूनः स्वादमिष्टम् अतनिष्ट तदेव ।। शिशुपालवधम् - 10 - 7 ।।
बिभ्रतौ मधुरतामतिमात्रं रागिभिर्युगपदेव पपाते ।
आननैर्मधुरसो विकसद्भिर्नासिकाभिरसितोत्पलगन्धः ।। शिशुपालवधम् - 10 - 8 ।।
पीतवत्यभिमते मधुतुल्यस्वादमोष्ठरुचकं विददङ्क्षौ ।
लभ्यते स्म परिरक्ततयात्मा यावकेन वियतापि युवत्याः ।। शिशुपालवधम् - 10 - 9 ।।
कस्यचित्समदनं मदनीयं प्रेयसीवदनपानपरस्य ।
स्वादितः सकृदिवासव एव प्रत्युत क्षणविदंशपदे अभूत् ।। शिशुपालवधम् - 10 - 10 ।।
पीतशीतधुमधुरैर्मिधुनानामाननैः परिहृतं चषकान्तः ।
व्रीडया रुददिवालिविरावैर्नीलनीरजम् अगच्छत् अधस्तात् ।। शिशुपालवधम् - 10 - 11 ।।
प्रातिभं त्रिसरकेण गतानां वक्रवाक्यरचनारमणीयः ।
गूढसूचितरहस्यसहासः सुभ्रुवां प्रववृते परिहासः ।। शिशुपालवधम् - 10 - 12 ।।
हावहारि हसितं वचनानां कौशलं दृशि विकारविशेषाः ।
चक्रिरे भृशमृजोरपि वध्वाः कामिनेव तरुणेन मदेन ।। शिशुपालवधम् - 10 - 13 ।।
अप्रसन्नमपराद्धरि पत्यौ कोपदीप्तमुररीकृतधैर्यम् ।
क्षालितं नु शमितं नु वधूनां द्रावितं नु हृदयं मधुवारैः ।। शिशुपालवधम् - 10 - 14 ।।
सन्तमेव चिरमप्रकृतत्वादप्रकाशितमदिद्युतदङ्गे ।
विभ्रमं भधुमदः प्रमदानां धातुलीनमुपसर्ग इवार्थम् ।। शिशुपालवधम् - 10 - 15 ।।
सावशेषपदमुक्तमुपेक्षा स्रस्तमाल्यवसनाभरणेषु ।
गन्तुमुत्थितमकारणतः स्म द्योतयन्ति मदविभ्रममासाम् ।। शिशुपालवधम् - 10 - 16 ।।
मद्यमन्दविगलत्र्रपमीषच्चक्षुरुन्मिषितपक्ष्म दधत्या ।
वीक्ष्यते स्म शनकैर्नववध्वा कामिनो मुखमधोमुखयैव ।। शिशुपालवधम् - 10 - 17 ।।
या कथञ्चन सखीवचनेन प्रागभिप्रियतमं प्रजगल्भे
व्रीडाजाड्यमभजन्मधुपा सा स्वां मदात्प्रकृतिमेति हि सर्वः ।। शिशुपालवधम् - 10 - 18 ।।
छादितः कथमपि त्रपयान्तर्यः प्रियं प्रति चिराय रमण्याः ।
वारुणीमदविशङ्कमथाविश्चक्षुषो अभवत् साविव रागाः ।। शिशुपालवधम् - 10 - 19 ।।
आगतानगणितप्रतियातान्वल्लभानभिसिसारयिषूणाम् ।
प्रापि चेतसि सविप्रतिसारे सुभ्रुवामवसरः सरकेण ।। शिशुपालवधम् - 10 - 20 ।।
मा पुनस्तमभिसीसरमागस्कारिणं मदविमोहितचित्ता ।
योषिदित् अभिललाष न हालां दुस्त्यजः खलु सुखादपि मानः ।। शिशुपालवधम् - 10 - 21 ।।
ह्रीविमोहमहरद्दयितानामन्तिकं रतिसुखाय निनाय
सप्रसादमिव सेवितम् आसीत् सद्य एव फलदं मधु तासाम् ।। शिशुपालवधम् - 10 - 22 ।।
दत्तमात्तमदनं दयितेन व्याप्तमातिशायिकेन रसेन ।
सस्वदे मुखसुरं प्रमदाभ्यो नाम रूढमपि च व्युदपादि ।। शिशुपालवधम् - 10 - 23 ।।
लब्धसौरभगुणो मदिराणामङ्गनास्यचषकस्य च गन्धः ।
मोदितालिरितरेतरयोगादन्यताम् अभजत अतिशयं नु ।। शिशुपालवधम् - 10 - 24 ।।
मानभङ्गपटुना सुरतेच्छां तन्वता प्रथयता दृशि रागम् ।
लेभिरे सपदि भावयतान्तर्योषितः प्रणयिनेव मदेन ।। शिशुपालवधम् - 10 - 25 ।।
पानधौतनवयावकरागं सुभ्रुवो निभृतचुम्बनदक्षाः ।
प्रेयसामधररागरसेन स्वं किलाधरमुपालि ररञ्जुः ।। शिशुपालवधम् - 10 - 26 ।।
अर्पितं रसितवत्यपि नामग्राहमन्ययुवतेर्दयितेन ।
उज्झति स्म मदमप्यपिबन्ती वीक्ष्य मद्यमितरा तु ममाद ।। शिशुपालवधम् - 10 - 27 ।।
अन्ययान्यवनितागतचित्तं चित्तनाथमभिशङ्कितवत्या ।
पीतभूरिसुरयापि न मेदे निर्वृतिर्हि मनसो मदहेतुः ।। शिशुपालवधम् - 10 - 28 ।।
कोपवत्यनुनयानगृहीत्वा प्रागथो मधुमदाहितमोहा ।
कोपितं विरहखेदितचित्ता कान्तमेव कलयन्ती अनुनिन्ये ।। शिशुपालवधम् - 10 - 29 ।।
कुर्वता मुकुलिताक्षियुगानामङ्गसादमवसादितवाचाम् ।
ईर्ष्ययेव हरता ह्रियमासां तद्गुणः स्वयम् अकारि मदेन ।। शिशुपालवधम् - 10 - 30 ।।
गण्डभित्तिषु पुरा सदृशीषु व्याञ्जि नाञ्जितदृशां प्रतिमेन्दुः ।
पानपाटलितकान्तिषु पश्चाल्लोध्रचूर्णतिलकाकृति आसीत् ।। शिशुपालवधम् - 10 - 31 ।।
उद्धतैरिव परस्परसङ्गादीरितान्युभयतः कुचकुम्भैः ।
योषितामतिमदेन जुघूर्णुः विभ्रमातिशयपुंसि वपूंषि ।। शिशुपालवधम् - 10 - 32 ।।
चारुता वपुः अभूषयत् आसां तामनूननवयौवनयोगः ।
तं पुनर्मकरकेतनलक्षक्ष्मीस्तां मदो दयितसङ्गमभूषः ।। शिशुपालवधम् - 10 - 33 ।।
क्षीबतामुपगतास्वनुवेलं तासु रोषपरितोषवतीषु ।
अग्रहीन्नु सशरं धनुः उज्झामास नूज्झितनिषङ्गमनङ्गः ।। शिशुपालवधम् - 10 - 34 ।।
शङ्गयान्ययुवतौ वनिताभिः प्रत्यभेदि दयितः स्फुटमेव ।
न क्षमं भवति तत्त्वविचारे मत्सरेण हतसंवृति चेतः ।। शिशुपालवधम् - 10 - 35 ।।
आननैर्विचकसे हृषिताभिर्वल्लभानभि तनूभिरभावि ।
आर्द्रतां हृदयमाप च रोषो लोलति स्म वचनेषु वधूनाम् ।। शिशुपालवधम् - 10 - 36 ।।
रूपमप्रतिविधानमनोज्ञं प्रेम कार्यमनपेक्ष्य विकासि ।
चाटु चाकृतकसम्भ्रममासां कार्मणत्वम् अगमन् रमणेषु ।। शिशुपालवधम् - 10 - 37 ।।
लीलयैव सुतनोस्तुलयित्वा गौरवाढ्यमपि लावणिकेन ।
मानवञ्जनविदा वदनेन क्रीतमेव हृदयं दयितस्य ।। शिशुपालवधम् - 10 - 38 ।।
स्पर्शभाजि विशदच्छविचारौ कल्पिते मृगदृशां सुरताय ।
सन्नतिं दधति पेतुः अजस्रं दृष्टयः प्रियतमे शयने च ।। शिशुपालवधम् - 10 - 39 ।।
यूनि रागतरलैरपि तिर्यक्पातिभिः श्रुतिगुणेन युतस्य ।
दीर्घदर्शिभिः अकारि वधूनां लङ्घनं न नयनैः श्रवणस्य ।। शिशुपालवधम् - 10 - 40 ।।
सङ्कथेच्छुरभिधातुमनीशा संमुखी न च बभूव दिदृक्षुः ।
स्पर्शनेन दयितस्य नतभ्रूरङ्गसङ्गचपलापि चकम्पे ।। शिशुपालवधम् - 10 - 41 ।।
उत्तरीयविनयात्त्रपमाणा रुन्धती किल तदीक्षणमार्गम् ।
आवरिष्ट विकटेन विवोढुर्वक्षसैव कुचमण्डलमन्या ।। शिशुपालवधम् - 10 - 42 ।।
अंशुकं हृतवता तनुबाहुस्वस्तिकापिहितमुग्धकुचाग्रा ।
भिन्नशङ्खवलयं परिणेत्रा पर्यरम्भि रभसादचिरोढा ।। शिशुपालवधम् - 10 - 43 ।।
सञ्जहार सहसा परिरब्धप्रेयसीषु विरहय्य विरोधम् ।
संहितं रतिपतिः स्मितभिन्नक्रोधमाशु तरुणेषु महेषुम् ।। शिशुपालवधम् - 10 - 44 ।।
स्रंसमानमुपयन्तरि वध्वाः श्लिष्टवत्युपसपत्नि रसेन ।
आत्मनैव रुरुधे कृतिनेव स्वेदसङ्गि वसनं जघनेन ।। शिशुपालवधम् - 10 - 45 ।।
पीडिते पुर उरःप्रतिपेषं भर्तरि स्तनयुगेन युवत्याः ।
स्पष्टमेव दलतः प्रतिनार्यास्तन्मयत्वम् अभवत् द्द्धयस्य ।। शिशुपालवधम् - 10 - 46 ।।
दीपितस्मरमुरस्युपपीडं वल्लभे घनमभिष्वजमाने ।
वक्रतां न ययतुः कुचकुम्भौ सुभ्रुवः कठिनतातिशयेन ।। शिशुपालवधम् - 10 - 47 ।।
सम्प्रवेष्टुमिव योषित ईषुः श्लिष्यतां हृदयमिष्टतमानाम् ।
आत्मनः सततमेव तदन्तर्वर्तिनो न खलु नूनम् अजानन् ।। शिशुपालवधम् - 10 - 48 ।।
स्नेहनिर्भरम् अधत्त वधूनामार्द्रतां वपुरसंशयमन्तः ।
यूनि गाढपरिरम्भिणि वस्त्रक्नोपमम्बु ववृषे यदनेन ।। शिशुपालवधम् - 10 - 49 ।।
न स्म भा[मा?]ति वपुषः प्रमदानामन्तरिष्टतमसङ्गमजन्मा ।
तद्बहुर्बहिरवाप्य विकासं व्यानशे तनुरुहाण्यपि हर्षः ।। शिशुपालवधम् - 10 - 50 ।।
यत्प्रियव्यतिकराद्वनितानामङ्गजेन पुलकेन बभूवे ।
प्रापि तेन भृशमुच्छ्वसिताभिर्नीविभिः सपदि बन्धनमोक्षः ।। शिशुपालवधम् - 10 - 51 ।।
ह्रीभरादवनतं परिरम्भे रागवानवटुजेष्ववकृष्य ।
अर्पितोष्ठदलमाननपद्मं योषितो मुकुलिताक्षम् अधासीत् ।। शिशुपालवधम् - 10 - 52 ।।
पल्लवोपमितिसाम्यसपक्षं दष्टत्यधरबिम्बमभीष्टे ।
पर्यकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण ।। शिशुपालवधम् - 10 - 53 ।।
केनचिन्मधुरमुल्बणरागं बाष्पतप्तमधिकं विरहेषु ।
ओष्ठपल्लवमपास्य मुहूर्तं सुभ्रुवः सरसमक्षि चुचुम्बे ।। शिशुपालवधम् - 10 - 54 ।।
रेचितं परिजनेन महीयः केवलाभिरतदम्पति धाम ।
साम्यम् आप कमलासखविष्वक्सेनसेवितयुगान्तपयोधेः ।। शिशुपालवधम् - 10 - 55 ।।
आवृतान्यपि निरन्तरमुच्चैर्योषितामुरसिजद्वितयेन ।
रागिणामित इतो विमृशद्भिः पाणिभिः जगृहिरे हृदयानि ।। शिशुपालवधम् - 10 - 56 ।।
कामिनामसकलानि विभुग्नैः स्वदवारिमृदुभिः करजाग्रैः ।
अक्रियन्त कठिनेषु कथञ्चित्कामिनीकुचतटेषु पदानि ।। शिशुपालवधम् - 10 - 57 ।।
सोष्मणः स्तनशिलाशिखराग्रादात्तघर्मसलिलैस्तरुणानाम् ।
उच्छ्वसत्कमलचारुषु हस्तैर्निम्ननाभिसरसीषु निपेते ।। शिशुपालवधम् - 10 - 58 ।।
आमृशद्भिरभितो वलिवीचिर्लोलमानवितताङ्गुलिहस्तैः ।
सुभ्रुवामनुभवात् प्रतिपेदे मुष्टिमेयमिति मघ्यमभीष्टैः ।। शिशुपालवधम् - 10 - 59 ।।
प्राप्य नाभिनदमज्जनमाशु प्रस्थितं निवसनग्रहणाय ।
औपनीविकम् अरुन्ध किल स्त्री वल्लभस्य करमात्मकराभ्याम् ।। शिशुपालवधम् - 10 - 60 ।।
कामिनः कृतरतोत्सवकालक्षेपमाकुलवधूकरसङ्गि ।
मेखलागुणविलग्नमसूयां दीर्घसूत्रम् अकरोत् परिधानम् ।। शिशुपालवधम् - 10 - 61 ।।
अम्बरं विनयतः प्रियपाणेर्योषितश्च करयोः कलहस्य ।
वारणामिव विधातुमभीक्ष्णं कक्ष्यया च वलयैश्च शिशिञ्जे ।। शिशुपालवधम् - 10 - 62 ।।
ग्रन्थिमुद्ग्रथयितुं हृदयेशे वाससः स्पृशति मानधनायाः ।
भ्रूयुगेण सपदि प्रतिपेदे रोमभिश्च सममेव विभेदः ।। शिशुपालवधम् - 10 - 63 ।।
आशु लङ्घितवतीष्टकराग्रे नीवीमर्धमुकुलीकृतदृष्ट्या ।
रक्तवैणिकहताधरतन्त्रीमण्डलक्वणितचारु चुकूजे ।। शिशुपालवधम् - 10 - 64 ।।
आयताङ्गुलिरभूदतिरिक्तः सुभ्रुवां क्रशिमशालिनि मध्ये ।
श्रोणिषु प्रियकरः पृथुलासु स्पर्शम् आप सकलेन तलेन ।। शिशुपालवधम् - 10 - 65 ।।
चक्रुः एव ललनोरुषु राजीः स्पर्शलोभवशलोलकराणाम् ।
कामिनामनिभृतान्यपि रम्भास्तम्भकोमलतलेषु नखानि ।। शिशुपालवधम् - 10 - 66 ।।
ऊरुमूलचपलेक्षणमघ्नन्यैर्वतंसकुसुमैः प्रियमेताः ।
चक्रिरे सपदि तानि यथार्थं मन्मथस्य कुसुमायुधनाम ।। शिशुपालवधम् - 10 - 67 ।।
धैर्यमुल्बणमनोभवभावा वामतां च वपुरर्पितवत्यः ।
व्रीडितं ललितसौरतधार्ष्ट्या तेनिरे अभिरुचितेषु तरुण्यः ।। शिशुपालवधम् - 10 - 68 ।।
पाणिरोधमविरोधितवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः ।
कामिनः स्म कुरुते करभोरूर्हारि शुष्करुदितं च सुखेऽपि ।। शिशुपालवधम् - 10 - 69 ।।
वारणार्थपदगद्गदवाचामीर्ष्यया मुहुरपत्रपया च ।
कुर्वते स्म सुदृशामनुकूलं प्रातिकूलिकतयैव युवानः ।। शिशुपालवधम् - 10 - 70 ।।
अन्यकालपरिहार्यमजस्रं तद्द्वयेन विदधे द्वयमेव ।
धृष्टता रहसि भर्तृषु ताभिर्निर्दयत्वमितरैरबलासु ।। शिशुपालवधम् - 10 - 71 ।।
बाहुपीडनकचग्रहणाभ्यामाहतेन नखदन्तनिपातैः ।
बोधितस्तनुशयतरुणीनाम् उन्मिमील विशदं विषमेषु ।। शिशुपालवधम् - 10 - 72 ।।
कान्तया सपदि कोऽप्युपगूढः प्रौढपाणिरपनेतुमियेष ।
संहतस्तनतिरस्कृतदृष्टिर्भ्रष्टमेव न दुकूलम् अपश्यत् ।। शिशुपालवधम् - 10 - 73 ।।
आहतं कुचतटेन तरुण्याः साधु सोढममुनेति पपात
त्रुट्यतः प्रियतमोरसि हारात्पुष्पवृष्टिरिव मौक्तिकवृष्टिः ।। शिशुपालवधम् - 10 - 74 ।।
सीत्कृतानि मणितं करुणोक्तिः स्निग्धमुक्तमलमर्थवचांसि ।
हासभूषणरवाश्च रमण्याः कामसूत्रपदताम् उपजग्मुः ।। शिशुपालवधम् - 10 - 75 ।।
उद्धतैर्निभृतमेकमनेकैश्छेदवन्मृगदृशामविरामैः ।
श्रूयते स्म मणितं कलकाञ्चीनूपुरध्वनिभिरक्षतमेव ।। शिशुपालवधम् - 10 - 76 ।।
ईदृशस्य भवतः कथमेतल्लाघवं मुहुरतीव रतेषु ।
क्षिप्तमायतम् अदर्शयत् उर्व्या काञ्चिदाम जघनस्य महत्वम् ।। शिशुपालवधम् - 10 - 77 ।।
प्राप्यते स्म गतचित्रकचित्रैश्चित्रमार्द्रनखलक्ष्म कपोलैः ।
दध्रिरेऽथ रभसच्युतपुष्पाः स्वेदबिन्दुकुसुमान्यलकान्ताः ।। शिशुपालवधम् - 10 - 78 ।।
यद्यदेव रुरुचे रुचिरेभ्यः सुभ्रुवो रहसि तत्तत् अकुर्वन्
आनुकूलिकतया हि नराणाम् आक्षिपन्ति हृदयानि तरुण्यः ।। शिशुपालवधम् - 10 - 79 ।।
प्राप्य मन्मथरसादतिभूमिं दुर्वहस्तनभराः सुरतस्य ।
शश्रमुः श्रमजलार्द्रललाटश्लिष्टकेशमसितायतकेश्यः ।। शिशुपालवधम् - 10 - 80 ।।
सङ्गताभिरुचितैश्चलितापि प्राग् अमुच्यत चिरेण सखीव ।
भूय एव समगंस्त रतान्ते ह्रीर्वधूभिरसहा विरहस्य ।। शिशुपालवधम् - 10 - 81 ।।
प्रेक्षणीयकमिव क्षणम् आसन् ह्रीविभङ्गुरविलोचनपाताः ।
सम्भ्रमद्रुतगृहीतदुकूलच्छाद्यमानवपुषः सुरतान्ताः ।। शिशुपालवधम् - 10 - 82 ।।
अप्रभूतमतनीयसि तन्वी काञ्चिधाम्नि पिहितैकतरोरु ।
क्षौममाकुलकरा विचकर्ष क्रान्तापल्लवमभीष्टतमेन ।। शिशुपालवधम् - 10 - 83 ।।
मृष्टचन्दनविशेषकभक्तिर्भ्रष्टभूषणकदर्थितमाल्यः ।
सापराध इव मण्डनम् आसीत् आत्मनैव सुदृशामुपभोगः ।। शिशुपालवधम् - 10 - 84 ।।
योषितः पतितकाञ्चनकाञ्चौ मोहनातिरभसेन नितम्बे ।
मेखलेव परितः स्म विचित्रा राजते नवनखक्षतलक्ष्मीः ।। शिशुपालवधम् - 10 - 85 ।।
भातु नाम सुदृशां दशनाङ्कः पाटलो धवलगण्डतलेषु ।
दन्तवाससि समानगुणश्रीः संमुखोऽपि परभागम् अवाप ।। शिशुपालवधम् - 10 - 86 ।।
सुभ्रुवामधिपयोधरपीठं पीडनैस्त्रुटितवत्यपि पत्युः ।
मुक्तमौक्तिकलघुर्गुणशेषा हारयष्टि अभवत् गुरुरेव ।। शिशुपालवधम् - 10 - 87 ।।
विश्रमार्थमुपगूढमजस्रं यत्प्रियैः प्रथमरत्यवसाने ।
योषितामुदितमन्मथमादौ तद्द्वितीयसुरतस्य बभूव ।। शिशुपालवधम् - 10 - 88 ।।
आस्तृतेऽभिनवपल्लवपुष्पैरप्यनारतरताभिरताभ्यः ।
दीयते स्म शयितुं शयनीये न क्षणः क्षणदयापि वधूभ्यः ।। शिशुपालवधम् - 10 - 89 ।।
योषितामतितरां नखलूनं गात्रमुज्ज्वलतया न खलूनम् ।
क्षोभमाशु हृदयं नयदूनां रागवृद्धिम् अकरोत् न यदूनाम् ।। शिशुपालवधम् - 10 - 90 ।।
इति मदमदनाभ्यां रागिणः स्पष्टरागाननवरतरतश्रीसङ्गिनस्तानवेक्ष्य ।
अभजत परिवृत्तिं साथ पर्यस्तहस्ता रजनिरवनतेन्दुर्लज्जयाधोमुखीव ।। शिशुपालवधम् - 10 - 91 ।।


।। इति शिशुपालवधमहाकाव्ये दशमसर्गः ।।

एकादशसर्गः

श्रुतिसमधिकमुच्चैः पञ्चमं पीडयन्तः सततमृषभहीनं भिन्नकीकृत्य षड्जम् ।
प्रणिजगदुः अकाकुश्रावकस्निग्धकण्ठाः परिणतिमिति रात्रेर्मागधा माधवाय ।। शिशुपालवधम् - 11 - 1 ।।
रतिरभसविलासाभ्यासतान्तं न यावन्नयनयुगममीलत्तावदेवाहतोऽसौ ।
रजनिविरतिशंसी कामिनीनां भविष्यद्विरहविहितनिद्राभङ्गमुच्चैर्मृदङ्गः ।। शिशुपालवधम् - 11 - 2 ।।
स्फुटतरमुपरिष्टादल्पमूर्तेर्ध्रुवस्य स्फुरति सुरमुनीनां मण्डलं व्यस्तमेतत् ।
शकटमिव महीयः शैशवे शार्ङ्गपाणेश्चपलचरणकाब्जप्रेरणोत्तुङ्गिताग्रम् ।। शिशुपालवधम् - 11 - 3 ।।
प्रहरकमपनीय स्वं निदिद्रासतोच्चैः प्रतिपदमुपहूतः केनचिज्जागृहीति ।
मुहुरविशदवर्णां निद्रया शून्यशून्यां दददपि गिरमन्तः बुध्यते नो मनुष्यः ।। शिशुपालवधम् - 11 - 4 ।।
विपुलतरनितम्बाभोगरुद्धे रमण्याः शयितुमनधिगच्छञ्जीवितेशोऽवकाशम् ।
रतिपरिचयनश्यन्नैन्द्रतन्द्रः कथञ्चिद्गमयति शयनीये शर्वरीं किं करोतु ।। शिशुपालवधम् - 11 - 5 ।।
क्षणशयितविबुद्धाः कल्पयन्तः प्रयोगानुदधिमहति राज्ये काव्यवद्दुर्विगाहे ।
गहनमपररात्रप्राप्तबुद्धिप्रसादाः कवय इव महीपाः चिन्तयन्ति अर्थजातम् ।। शिशुपालवधम् - 11 - 6 ।।
क्षितितटशयनान्तादुत्थितं दानपङ्कप्लुतबहुलशरीरं शाययति एष भूयः ।
मृदुचलदपरान्तोदीरितान्दूनिनादं गजपतिमधिरोहः पक्षकव्यत्ययेन ।। शिशुपालवधम् - 11 - 7 ।।
द्रुततरकरदक्षाः क्षिप्तवैशाखशैले दधति दधनि धीरानारवान्वारिणीव ।
शशिनमिव सुरौघाःसारमुद्धर्तुमेते कलशिमुदधिगुर्वी वल्लवा लोडयन्ति ।। शिशुपालवधम् - 11 - 8 ।।
अनुनयमगृहीत्वा व्याजसुप्ता पराची रुतमथ कृकवाकोस्तारमाकर्ण्य कल्पे ।
कथमपि परिवृत्ता निद्रयान्धा किल स्त्री मुकुलितनयनैव आश्लिष्यति प्राणनाथम् ।। शिशुपालवधम् - 11 - 9 ।।
गतमनुगतवीणैरेकतां वेणुनादैः कलमविकलतालं गायकैर्बोधहेतोः ।
असकृदनवगीतं भीतमाकर्णयन्तः सुखमुकुलितनेत्रा यान्ति निद्रां नरेन्द्राः ।। शिशुपालवधम् - 11 - 10 ।।
परिशिथिलितकर्णग्रीवमामीलिताक्षः क्षणमयमनुभूय स्वप्नमूर्ध्वज्ञुरेव ।
रिरसयिषति भूयः शष्पमग्रे विकीर्णं पटुतरचपलौष्ठः प्रस्फुरत्प्रोथमश्वः ।। शिशुपालवधम् - 11 - 11 ।।
उदयमुदितदीप्तिर्याति यः सङ्गतौ मे पतति न वरमिन्दुः सोऽपरामेष गत्वा ।
स्मितरुचिरिव सद्यः साभ्यसूयं प्रभेति स्फुरति विशदमेषा पूर्वकाष्ठाङ्गनायाः ।। शिशुपालवधम् - 11 - 12 ।।
चिररतिपरिखेदप्राप्तनिद्रासुखानां चरममपि शयित्वा पूर्वमेव प्रबुद्धाः ।
अपरिचलितगात्राः कुर्वते न प्रियाणामशिथिलभुजचक्राश्लेषभेदं तरुण्यः ।। शिशुपालवधम् - 11 - 13 ।।
कृतधवलिमभेदैः कुङ्कुमेनेव किञ्चिन्मलयरुहरजोभिर्भूषयन्पश्चिमाशाम् ।
हिमरुचिररुणिम्ना राजते रज्यमानैर्जरठकमलकन्दच्छेदगौरैर्मयूखैः ।। शिशुपालवधम् - 11 - 14 ।।
दधदसकलमेकं खण्डितामानमद्भिः श्रियमपरमपूर्णामुच्छ्वसद्भिः पलाशैः ।
कलरवमुपगीते षट्पदौघेन धत्तः कुमुदकमलषण्डे तुल्यरूपामवस्थाम् ।। शिशुपालवधम् - 11 - 15 ।।
मदरुचिमरुणेनोद्गच्छता लम्भितस्य त्यजत इव चिराय स्थायिनीमाशु लज्जाम् ।
वसनमिव मुखस्य स्रंसते सम्प्रतीदं सितकरकरजालं वासवाशायुवत्याः ।। शिशुपालवधम् - 11 - 16 ।।
अविरतरतलीलायासजातश्रमाणाम् उपशममुपयान्तं निःसहेऽङ्गेऽङ्गनानाम् ।
पुनरुषसि विविक्तैर्मातरिश्वावचूर्ण्य ज्वलयति मदनाग्निं मालतीनां रजोभिः ।। शिशुपालवधम् - 11 - 17 ।।
अनिमिषमविरामा रागिणां सर्वरात्रं नवनिधुवनलीलाः कौतुकेनातिवीक्ष्य ।
इदमुदवसितानामस्फुटालोकसम्पन्नयनमिव सनिद्रं घूर्णते दैपमर्चिः ।। शिशुपालवधम् - 11 - 18 ।।
विकचकमलगन्धैरन्धयन्भृङ्गमालाः सुरभितमकरन्दं मन्दम् आवाति वातः ।
प्रमदमदनमाद्यद्यौवनोद्दामरामारमणरभसखेदस्वेदविच्छेददक्षः ।। शिशुपालवधम् - 11 - 19 ।।
लुलितनयनताराः क्षामवक्त्रेन्दुबिम्बा रजनय इव निद्राक्लान्तनीलोत्पलाक्ष्यः ।
तिमिरमिव दधानाः स्रंसिनः केशपाशानवनिपतिगृहेभ्यो यान्ति अमूर्वारवध्वः ।। शिशुपालवधम् - 11 - 20 ।।
शिशिरकिरणकान्तं वासरान्तेऽभिसार्य श्वसनसुरभिगन्धिः साम्प्रतं सत्वरेव ।
व्रजति रजनिरेषा तन्मयूखाङ्गरागैः परिमलितमनिन्द्यैरम्बरान्तं वहन्ती ।। शिशुपालवधम् - 11 - 21 ।।
नवकुमुदवनश्रीहासकेलिप्रसङ्गादधिकरुचिरशेषामप्युषां जागरित्वा ।
अयमपरदिशोऽङ्गे मुञ्चति स्रस्तहस्तः शिशयिषुरिव पाण्डुं म्लानमात्मानमिन्दुः ।। शिशुपालवधम् - 11 - 22 ।।
सरभसपरिरम्भारम्भसंरम्भभाजा यदधिनिशमपास्तं वल्लभेनाङ्गनायाः ।
वसनमपि निशान्ते न इष्यते तत्प्रदातुं रथचरणविशालश्रोणिलोलेक्षणेन ।। शिशुपालवधम् - 11 - 23 ।।
सपदि कुमुदिनीभिर्मीलितं हा क्षपापि क्षयमगमदपेतास्तारकास्ताः समस्ताः ।
इति दयितकलत्रश्चिन्तयन्नङ्गमिन्दुः वहति कृशमशेषं भ्रष्टशोभं शुचेव ।। शिशुपालवधम् - 11 - 24 ।।
व्रजति विषयमक्ष्णामंशुमाली न यावत्तिमिरमखिलमस्तं तावदेवारुणेन ।
परपरिभवि तेजस्तन्वतामाशु कर्तुं प्रभवति हि विपक्षोच्छेदमग्रेसरोऽपि ।। शिशुपालवधम् - 11 - 25 ।।
विगततिमिरपङ्गं पश्यति व्योम यावद्धुवति विरहखिन्नः पक्षती यावदेव ।
रथचरणसमाह्वस्तावदौत्सुक्यनुन्ना सरिदपरतटान्तादागता चक्रवाकी ।। शिशुपालवधम् - 11 - 26 ।।
मुदितयुवमनस्कास्तुल्यमेव प्रदोषे रुचम् अदधुः उभय्यः कल्पिता भूषिताश्च ।
परिमलरुचिराभिर्न्यक्कृतास्तु प्रभाते युवतिभिरुपभोगान्नीरुचः पुष्पमालाः ।। शिशुपालवधम् - 11 - 27 ।।
विलुलितकमलौघः कीर्णवल्लीवितानः प्रतिवनमवधूताशेषशाखिप्रसूनः ।
क्वचिदयमनवस्थः स्थास्नुताम् एति वायुर्मधुकुसुमविमर्दोद्गन्धिवेश्मान्तरेषु ।। शिशुपालवधम् - 11 - 28 ।।
नखपदवलिनाभीसन्धिभागेषु लक्ष्यः क्षतिषु च दशनानामङ्गनायाः सशेषः ।
अपि रहसि कृतानां वाग्विहीनोऽपि जातः सुरतविलसितानां वर्णको वर्णकोऽसौ ।। शिशुपालवधम् - 11 - 29 ।।
प्रकटमलिनलक्ष्मा मृष्टपत्र्रावलीकैरधिगतरतिशोभैः प्रत्युषःप्रोषितश्रीः ।
उपहसित इवासौ चन्द्रमाः कामिनीनां परिणतशरकाण्डापाण्डुभिर्गण्डभागैः ।। शिशुपालवधम् - 11 - 30 ।।
सकलमपि निकामं कामलोलान्यनारीरतिरभसविमर्दैर्भिन्नवत्यङ्गरागे ।
इदमतिमहदेवाश्चर्यमाश्चर्यधाम्नस्तव खलु मुखरागो यन्न भेदं प्रयातः ।। शिशुपालवधम् - 11 - 31 ।।
प्रकटतरमिमं मा द्राक्षुरन्या रमण्यः स्फुटमिति सविशङ्गं कान्तया तुल्यवर्णः ।
चरणतलसरोजाक्रान्तिसङ्क्रान्तयासौ वपुषि नखविलेखो लाक्षया रक्षितस्ते ।। शिशुपालवधम् - 11 - 32 ।।
तदवितथम् अवादीः यन्मम त्वं प्रियेति प्रियजनपरिभुक्तं यद्दुकूलं दधानः ।
मदधिवसतिमागाःकामिनां मण्डनश्रीः व्रजति हि सफलत्वं वल्लभालोकनेन ।। शिशुपालवधम् - 11 - 33 ।।
नवनखपदमङ्गं गोपयस्यंशुकेन स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम् ।
प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्पन्नवपरिमलगन्धः केन शक्यो वरीतुम् ।। शिशुपालवधम् - 11 - 34 ।।
इतिकृतवचनार्याः कश्चिदभेत्य बिभ्यद्गलितनयनवारेः याति पादावनामम् ।
करुणमपि समर्थं मानिना मानभेदे रुदितमुदितमस्त्रं योषितां विग्रहेषु ।। शिशुपालवधम् - 11 - 35 ।।
मदमदनविकासस्पष्टधार्ष्ट्येदयानां रतिकलहविकीर्णैर्भूषणैरर्चितेषु ।
विदधति न गृहेषूत्फुल्लपुष्पोपहारं विफलविनययत्नाः कामिनीनां वयस्याः ।। शिशुपालवधम् - 11 - 36 ।।
करजदशनचिह्नं नैशमङ्गेऽन्यनारीजनितमिति सरोषामीर्ष्यया शङ्कमानाम् ।
स्मरसि न खलु दत्तं मत्तयैतत्त्वयैव स्त्रियमनुनयतीत्थं व्रीडमानां विलासी ।। शिशुपालवधम् - 11 - 37 ।।
कृतगुरुतरहारच्छेदमालिङ्ग्य पत्यौ परिशिथिलितगात्रे गन्तुमापृच्छमाने ।
विगलितनवमुक्तास्थूलबाष्पाम्बुबिन्दुस्तनयुगमबलायास्तत्क्षणं रोदिति इव ।। शिशुपालवधम् - 11 - 38 ।।
बहु जगद पुरस्तात्तस्य मत्ता किलाहं चकर च किल चाटु प्रौढयोषिद्वदस्य ।
विदितमिति सखीभ्यो रात्रिवृत्तं विचिन्त्य व्यपगतमदयाह्नि व्रीडितं मुग्धवध्वा ।। शिशुपालवधम् - 11 - 39 ।।
अरुणजलजराजीमुग्धहस्ताग्रपादा बहुलमधुपमालाकज्जलेन्दीवराक्षी ।
अनुपतति विरावैः पत्रिणां व्याहरन्ती रजनिमचिरजाता पूर्वसन्ध्या सुतेव ।। शिशुपालवधम् - 11 - 40 ।।
प्रतिशरणमशीर्णज्योतिरग्न्याहितानां विधिविहितविरिब्धैः सामिधेनीरधीत्य ।
कृतगुरुदुरितौघध्वंसमध्वर्युवर्यैर्हुतमयम् उपलीढे साधु सांनाय्यमग्निः ।। शिशुपालवधम् - 11 - 41 ।।
प्रकृतजपविधीनामास्यमुद्रश्मिदन्तं मुहुरपिहितमोष्ठ्यैरक्षरैर्लक्ष्यमन्यैः ।
अनुकृतिमनुवेलं घट्टितोद्घट्टितस्य व्रजति नियमभाजां मुग्धमुक्तापुटस्य ।। शिशुपालवधम् - 11 - 42 ।।
नवकनकपिशङ्गं वासराणां विधातुः ककुभि कुलिशपाणेः भाति भासां वितानम् ।
जनितभुवनदाहारम्भमम्भांसि दग्ध्वा ज्वलितमिव महाब्धेरूर्ध्वमौर्वानलार्चिः ।। शिशुपालवधम् - 11 - 43 ।।
विततपृथुवरत्रातुल्यरूपैर्मयूखैः कलश इव गरीयान्दिग्भिराकृष्यमाणः ।
कृतचपलविहङ्गालापकोलाहलाभिर्जलनिधिजलमध्यादेष उत्तार्यते अर्कः ।। शिशुपालवधम् - 11 - 44 ।।
पयसि सलिलराशेर्नक्तमन्तर्निमग्नः स्फुटमनिशमतापि ज्वालया बाडवाग्नेः ।
यदयमिदमिदानीमङ्गमुद्यन् दधाति ज्वलितखदिरकाष्ठाङ्गारगौरं विवस्वान् ।। शिशुपालवधम् - 11 - 45 ।।
अतुहिनरुचिनासौ केवलं नोदयाद्रिः क्षणमुपरिगतेन क्ष्माभृतः सर्व एव ।
नवकरनिकरेण स्पष्टबन्धूकसूनस्तबकरचितमेते शेखरं बिभ्रति इव ।। शिशुपालवधम् - 11 - 46 ।।
उदयशिखरिशृङ्गप्राङ्गणेष्वेव रिङ्गन्सकमलमुखहासं वीक्षितः पद्मिनीभिः ।
विततमृदुकराग्रः शब्दयन्त्या वयोभिः परिपतति दिवोऽङ्के हेलया बालसूर्यः ।। शिशुपालवधम् - 11 - 47 ।।
क्षणमयमुपविष्टः क्ष्मातलन्यस्तपादः प्रणतिपरमवेक्ष्य प्रीतमह्नाय लोकम् ।
भुवनतलमशेषं प्रत्यवेक्षिष्यमाणः क्षितिधरतटपीठादुत्थितः सप्तसप्तिः ।। शिशुपालवधम् - 11 - 48 ।।
परिणतमदिराभं भास्करेणांशुबाणैस्तिमिरकरिघटायाः सर्वदिक्षु क्षतायाः ।
रुधिरमिव वहन्त्यो भान्ति बालातपेन छुरितमुभयरोधोवारितं वारि नद्यः ।। शिशुपालवधम् - 11 - 49 ।।
दधति परिपतन्त्यो जालवातायनेभ्यस्तरुणतपनभासो मन्दिराभ्यन्तरेषु ।
प्रणयिषु वनितानां प्रातरिच्छत्सु गन्तुं कुपितमदनमुक्तोत्तप्तनाराचलीलाम् ।। शिशुपालवधम् - 11 - 50 ।।
अधिरजनि वधूभिः पीतमैरेयरिक्तं कनकचषकमेतद्रोचनालोहितेन ।
उदयदहिमरोचिर्ज्योतिषाक्रान्तमन्तर्मधुन इव तथैवापूर्णमद्यापि भाति ।। शिशुपालवधम् - 11 - 51 ।।
सितरुचि शयनीये नक्तमेकान्तमुक्तं दिनकरकरसङ्गव्यक्तकौसुम्भकान्ति ।
निजमिति रतिबन्धोर्जानतीमुत्तरीयं परिहसति सखी स्त्रीमाददानां दिनादौ ।। शिशुपालवधम् - 11 - 52 ।।
प्लुतमिव शिशिरांशोरंशुभिर्यन्निशासु स्फटिकमयम् अराजत् राजताद्रिस्थलाभम् ।
अरुणितमकठोरैर्वेश्म काश्मीरजाम्भःस्नपितमिव तदेतद्भानुभिः भाति भानोः ।। शिशुपालवधम् - 11 - 53 ।।
सरसनखपदान्तर्दष्टकेशप्रमोकं प्रणयिनि विदधाने योषितामुल्लसन्त्यः ।
विदधति दशनानां सीत्कृताविष्कृतानामभिनवरविभासः पद्मरागानुकारम् ।। शिशुपालवधम् - 11 - 54 ।।
अविरतदयिताङ्गासङ्गसञ्चारितेन छुरितमभिनवासृक्कान्तिना कुङ्कुमेन ।
कनकनिकषरेखाकोमलं कामिनीनां भवति वपुरवाप्तच्छायमेवातपेऽपि ।। शिशुपालवधम् - 11 - 55 ।।
सरसिजवनकान्तं बिभ्रदभ्रान्तवृत्तिः करनयनसहस्रं हेतुमालोकशक्तेः ।
अखिलमतिमहिम्ना लोकमाक्रान्तवन्तं हरिरिव हरिदश्वः साधु वृत्रं हिनस्ति ।। शिशुपालवधम् - 11 - 56 ।।
अवतमसभिदायै भास्वताम्युद्गतेन प्रसभमुडुगणोऽसौ दर्शनीयोऽप्यपास्तः ।
निरसितुमरिमिच्छोर्ये तदीयाश्रयेण श्रियमधिगतवन्तस्तेऽपि हन्तव्यपक्षे ।। शिशुपालवधम् - 11 - 57 ।।
प्रतिफलति करौघे संमुखावस्थितायां रजतकटकभित्तौ सान्द्रचन्द्रांशुगौर्याम् ।
बहिरभिहतमद्रेः संहतं कन्दरान्तर्गतमपि तिमिरौघं घर्मभानुः भिनत्ति ।। शिशुपालवधम् - 11 - 58 ।।
बहिरपि विलसन्त्यः कामम् आनिन्यिरे यद्दिवसकररुचोऽन्तं ध्वान्तमन्तर्गृहेषु ।
नियतविषयवृत्तेरप्यनल्पप्रतापक्षतसकलविपक्षस्तेजसः स स्वभावः ।। शिशुपालवधम् - 11 - 59 ।।
चिरमतिरसलौल्याद्बन्धनं लम्भितानां पुनरयमुदयाय प्राप्य धाम स्वमेव ।
दलितदलकपाटः षट्पदानां सरोजे सरभस इव गुप्तिस्फोटमर्कः करोति ।। शिशुपालवधम् - 11 - 60 ।।
युगपदयुगसप्तिस्तुल्यसङ्ख्यैर्मयूखैर्दशशतदलभेदं कौतुकेनाशु कृत्वा ।
श्रियमलिकुलगीतैर्लालितां पङ्कजान्तर्भवनमधिशयानामादरात् पश्यति इव ।। शिशुपालवधम् - 11 - 61 ।।
अदयमिव कराग्रैरेष निष्पीड्य सद्यः शशधरमहरादौ रागवानुष्णरश्मिः ।
अवकिरति नितान्तं कान्तिनिर्यासमब्दस्रुतनवजलपाण्डुं पुण्डरीकोदरेषु ।। शिशुपालवधम् - 11 - 62 ।।
प्रविकसति चिराय द्योतिताशेषलोके दशशतकरमूर्तावक्षिणीव द्वितीये ।
सितकरवपुषासौ लक्ष्यते सम्प्रति द्यौर्विगलितकिरणेन व्यङ्गितैकेक्षणेव ।। शिशुपालवधम् - 11 - 63 ।।
कुमुदवनमपश्रि श्रीमदम्भोजषण्डं त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः ।
उदयमहिमरश्मिः याति शीतांशुरस्तं हतविधिलसितानां ही विचित्रो विपाकः ।। शिशुपालवधम् - 11 - 64 ।।
क्षणमतुहिनधाम्नि प्रोष्य भूयः पुरस्तादुपगतवति पाणिग्राहवद्दिग्वधूनाम् ।
द्रुततरम् उपयाति स्रंसमानांशुकोऽसावुपपातिरिति नीचैः पश्चिमान्तेन चन्द्रः ।। शिशुपालवधम् - 11 - 65 ।।
प्रलयमखिलतारालोकमह्नाय नीत्वा श्रियमनतिशयश्रीः सानुरागां दधानः ।
गगनसलिलराशिं रात्रिकल्पावसाने मधुरिपुरिव भास्वानेष एकः अधिशेते ।। शिशुपालवधम् - 11 - 66 ।।
कृतसकलजगद्विबोधोऽवधूतान्धकारोदयः क्षयितकुमुदतारकश्रीर्वियोगं नयन्कामिनः ।
बहुतरगुणदर्शनादभ्युपेताल्पदोषः कृती तव वरद करोतु सुप्रातमह्नामयं नायकः ।। शिशुपालवधम् - 11 - 67 ।।


।। इति शिशुपालवधमहाकाव्ये एकादशसर्गः ।।

द्वादशसर्गः

इत्थं रथाश्वेभनिषादिनां प्रगे गणो नृपाणामथ तोरणाद्बहिः ।
प्रस्थानकालक्षमवेषकल्पनाकृतक्षणक्षेपम् उदैक्षत अच्युतम् ।। शिशुपालवधम् - 12 - 1 ।।
स्वक्षं सुपत्रं कनकोज्वलद्युतिं जवेन नागाञ्जितवन्तमुच्चकैः ।
आरुह्य तार्क्ष्य नभसीव भूतले ययौ अनुद्घातसुखेन सोऽध्वना ।। शिशुपालवधम् - 12 - 2 ।।
हस्तस्थिताखण्डितचक्रशालिनं द्विजेन्द्रकान्तं श्रितवक्षसं श्रिया ।
सत्यानुरक्तं नरकस्य जिष्णवो गुणैर्नृपाः शार्ङ्गिणम् अन्वयासिषुः ।। शिशुपालवधम् - 12 - 3 ।।
शुक्लैः सतारैर्मुकुलीकृतैः स्थूलैः कुमुद्वतीनां कुमुदाकरैरिव ।
व्युष्टं प्रयाणं च वियोगवेदनाविदूननारीकम् अभूत् समं तदा ।। शिशुपालवधम् - 12 - 4 ।।
उत्क्षिप्तगात्रः स्म विडम्बयन्नभः समुत्पतिष्यन्तमगेन्द्रमुच्चकैः ।
आकुञ्चितप्रोहनिरूपितक्रमं करेणुरारोहयते निषादिनम् ।। शिशुपालवधम् - 12 - 5 ।।
स्वैरं कृतास्फालनलालितान्पुरः स्फुरत्तनून्दर्शितलाघवक्रियाः ।
वङ्कावलग्नैकसवल्गपाणयस्तुरङ्गमान आरुरुहुः तुरङ्गिणः ।। शिशुपालवधम् - 12 - 6 ।।
अह्नाय यावन्न चकार भूयसे निषेदिवानासनबन्धमध्वने ।
तीव्रोत्थितास्तावदसह्यरंहसो विशृङ्खलं शृङ्खलकाः प्रतस्थिरे ।। शिशुपालवधम् - 12 - 7 ।।
गण्डोज्ज्वलामुज्ज्वलनाभिचक्रया विराजमानां नवयोदरश्रिया ।
कश्चित्सुखं प्राप्तुमनाः सुसारथी रथीं युयोज अविधुरां वधूमिव ।। शिशुपालवधम् - 12 - 8 ।।
उत्थातुमिच्छन्विधृतः पुरो बलान्निधीयमाने भरभाजि यन्त्रके ।
अर्धोज्झितोद्गारविझर्झरस्वरः स्वनाम निन्ये रवणः स्फुटार्थताम् ।। शिशुपालवधम् - 12 - 9 ।।
नस्यागृहीतोऽपि धुवन्विषाणयोर्युगं ससूत्कारविवर्तितत्रिकः ।
गोणीं जनेन स्म निधातुमुद्धृतामनुक्षणं नोक्षतरः प्रतीच्छति ।। शिशुपालवधम् - 12 - 10 ।।
नानाविधाविष्कृतसामजस्वरः सहस्रवर्त्मा चपलैर्दुरध्ययः ।
गान्धर्वभूयिष्ठतया समानतां स सामवेदस्य दधौ बलोदधिः ।। शिशुपालवधम् - 12 - 11 ।।
प्रत्यन्यनागं चलितस्त्वरावता निरस्य कुण्ठं दधताप्यमङ्कुशम् ।
मूर्धानमूर्ध्वायतदन्तमण्डलं धुन्वन् अरोधि द्विरदो निषादिना ।। शिशुपालवधम् - 12 - 12 ।।
संमूर्च्छदुच्छृङ्खलशङ्खनिःस्वनः स्वनः प्रयाते पटहस्य शार्ङ्गिणि ।
सत्त्वानि निन्ये नितरां महान्त्यपि व्यथां द्वयेषामपि मेदिनीभृताम् ।। शिशुपालवधम् - 12 - 13 ।।
कालीयकक्षोदविलेपनश्रियं दिशद्दिशामुल्लसदंशुमद्द्युति ।
खातं खुरैर्मुद्गभुजां विपप्रथे गिरेरधः काञ्चनभूमिजं रजः ।। शिशुपालवधम् - 12 - 14 ।।
मन्द्रैर्गजानां रथमण्डलस्वनैर्निजुह्नुवे तादृशमेव बृंहितम् ।
तारैः बभूवे परभागलाभतः परिस्फुटैस्तेषु तुरङ्गहेषितैः ।। शिशुपालवधम् - 12 - 15 ।।
अन्वेतुकामोऽवमताङ्कुशग्रहस्तिरोगतं साङ्कुशमुद्वहञ्शिरः ।
स्थूलोच्चयेन अगमत् न्तिकागतां गजोऽग्रयाताग्रकरः करेणुकाम् ।। शिशुपालवधम् - 12 - 16 ।।
यान्तोऽस्पृशन्तश्चरणैरिवावनिं जवात्प्रकीर्णैरभितः प्रकीर्णकैः ।
अद्यापि सेनातुरगाः सविस्मयैरलूनपक्षा इव मेनिरे जनैः ।। शिशुपालवधम् - 12 - 17 ।।
ऋज्वीर्दधानैरवतत्य कन्धराश्चलावचूडाः कलघर्घरारवैः ।
भूमिर्महत्यप्यविलम्बितक्रमं क्रमेलकैस्तक्षणमेव चिच्छिदे ।। शिशुपालवधम् - 12 - 18 ।।
तूर्णं प्रणेत्रा कृतनादमुच्चकैः प्रणोदितं वेसरयुग्यमध्वनि ।
आत्मीयनेमिक्षतसान्द्रमेदिनीरजश्चयाक्रान्तिभयादिव अद्रवत् ।। शिशुपालवधम् - 12 - 19 ।।
व्यावृत्तवक्त्रैरखिलैश्चमूचरैर्व्रजद्भिरेव क्षणमीक्षिताननाः ।
वल्गद्गरीयःस्तनकम्प्रकञ्चुकं ययुः तुरङ्गाधिरुहोऽवरोधिकाः ।। शिशुपालवधम् - 12 - 20 ।।
पादैः पुरः कूबरिणां विदारिताः प्रकाममाक्रान्ततलास्ततो गजैः ।
भग्नोन्नतानन्तरपूरितान्तरा बभुः भुवः कृष्टसमीकृता इव ।। शिशुपालवधम् - 12 - 21 ।।
दुर्दान्तमुत्कृत्य निरस्तसादिनं सहासहाकारम् अलोकयत् जनः ।
पर्याणतः स्रस्तमुरोविलम्बिनस्तुरङ्गमं प्रद्रुतमेकया दिशा ।। शिशुपालवधम् - 12 - 22 ।।
भूभृद्भिरप्यस्खलिताः खलून्नतैरपह्नुवाना सरितः पृथूरपि ।
अन्वर्थसंज्ञेव परं त्रिमार्गगा ययौ अवसङ्ख्यैः पथिभिश्चमूरसौ ।। शिशुपालवधम् - 12 - 23 ।।
त्रस्तौ समासन्नकरेणुसूत्कृतान्नियन्तरि व्याकुलमुक्तरज्जुके ।
क्षिप्तावरोधाङ्गनमुत्पथेन गां विलङ्घ्य लघ्वीं करभौ बभञ्जतुः ।। शिशुपालवधम् - 12 - 24 ।।
स्रस्ताङ्गसन्धौ विगताक्षपाटवे रुजा निकामं विकलीकृते रथे ।
आप्तेन तक्ष्णा भिषजेव तत्क्षणं प्रचक्रमे लङ्घनपूर्वकः क्रमः ।। शिशुपालवधम् - 12 - 25 ।।
धूर्भङ्गसंक्षोभविदारितोष्ट्रिकागलन्मधुप्लावितदूरवर्त्मनि ।
स्थाणौ निषङ्गिण्यनसि क्षणं पुरः शुशोच लाभाय कृतक्रयो वणिक् ।। शिशुपालवधम् - 12 - 26 ।।
भेरीभिराक्रुष्टमहागुहामुखो ध्वजांशुकैस्तर्जितकन्दलीवनः ।
उत्तुङ्गमातङ्गजितालघूपलो बलैः स पश्चात् क्रियते स्म भूधरः ।। शिशुपालवधम् - 12 - 27 ।।
वन्येभदानानिलगन्धददुर्धुरा क्षणं तरुच्छेदविनोदितक्रुधः ।
व्यालद्विपा यन्तृभिरुन्मदिष्णवः कथञ्चिदारादपथेन निन्यिरे ।। शिशुपालवधम् - 12 - 28 ।।
तैर्वैजयन्तीवनराजिराजिभिर्गिरिप्रतिच्छन्दमहामतङ्गजैः ।
बह्व्यः प्रसर्पज्जनतानदीशतैर्भुवो बलैरन्तरयां बभूविरे ।। शिशुपालवधम् - 12 - 29 ।।
तस्थे मुहूर्तं हरिणीविलोचनैः सदृंशि दृष्ट्वा नयनानि योषिताम् ।
मत्वाथ सत्रासमनेकविभ्रमक्रियाविकाराणि मृगैः पलाय्यत ।। शिशुपालवधम् - 12 - 30 ।।
निम्नानि दुःखादवतीर्य सादिभिः सयत्नमाकृष्टकशाः शनैःशनैः ।
उत्तेरुः उत्तालखुरारवं द्रुताः श्लथीकृतप्रग्रहमर्वतां व्रजाः ।। शिशुपालवधम् - 12 - 31 ।।
अध्यध्वमारूढवतैव केनचित्प्रतीक्षमाणेन जनं मुहुर्धृतः ।
दाक्ष्यं हि सद्यः फलदं यदग्रतः चखाद दासेरयुवा वनावलीः ।। शिशुपालवधम् - 12 - 32 ।।
शौरेः प्रतापोपनतैरितस्ततः समागतैः प्रश्रयनम्रमूर्तिभिः ।
एकातपत्रा पृथिवीभृतां गणैः अभूत् बहुच्छत्रतया पताकिनी ।। शिशुपालवधम् - 12 - 33 ।।
आगच्छतोऽनूचि गजस्य घण्डयोः स्वनं समाकर्ण्य समाकुलाङ्गनाः ।
दूरापावर्तितभारवाहणाः पथोऽपसस्रुस्त्वरितं चमूचराः ।। शिशुपालवधम् - 12 - 34 ।।
ओजस्विवर्णोज्ज्वलवृत्तशालिनः प्रसादिनोऽनुज्झितगोत्रसंविदः ।
श्लोकानुपेन्द्रस्य पुरः स्म भूयसो गुणान्समुद्दिश्य पठन्ति बन्दिनः ।। शिशुपालवधम् - 12 - 35 ।।
निःशेषमाक्रान्तमहीतलो जलैश्चलन्समुद्रोऽपि समुज्झति स्थितिम् ।
ग्रामेषु सैन्यैः अकरोत् वारितः किमव्यवस्थां चलितोऽपि केशवः ।। शिशुपालवधम् - 12 - 36 ।।
कोशातकीपुष्पगुलुच्छकान्तिभिर्मुखैर्विनिद्रोल्बणबाणचक्षुषः ।
ग्रामीणवध्वस्तमलक्षिता जनैश्चिरं वृतीनामुपरि व्यलोकयन् ।। शिशुपालवधम् - 12 - 37 ।।
गोष्ठेषु गोष्ठीकृतमण्डलासनान्सनादमुत्थाय मुहुः स वल्गतः ।
ग्राम्यानपश्यत्कपिशं पिपासतः स्वगोत्रसङ्कीर्तनभावितात्मनः ।। शिशुपालवधम् - 12 - 38 ।।
पश्यन्कृतार्थैरपि वल्लवीजनो जनाधिनाथं न ययौ वितृष्णताम् ।
एकान्तमौग्ध्यानवबुद्धविभ्रमैः प्रसिद्धविस्तारगुणैर्विलोचनैः ।। शिशुपालवधम् - 12 - 39 ।।
प्रीत्या नियुक्ताँल्लिहतीः स्तनन्धयान्निगृह्य पारीमुभयेन जानुनोः ।
वर्धिष्णुधाराध्वनि रोहिणीः पयश्चिरं निदधौ दुहतः स गोदुहः ।। शिशुपालवधम् - 12 - 40 ।।
अभ्याजतोऽभ्यागततूर्णतर्णकान्निर्याणहस्तस्य पुरो दुधुक्षतः ।
वर्गाद्गवां हुङ्कृतिचारु निर्यतीमरिर्मधोः ऐक्षत गोमतल्लिकाम् ।। शिशुपालवधम् - 12 - 41 ।।
स व्रीहिणा यावदपासितुं गताः शुकान्मृगैस्तावदुपद्रुतश्रियाम् ।
कैदारिकाणामभितः समाकुलाः सहासम् आलोकयति स्म गोपिकाः ।। शिशुपालवधम् - 12 - 42 ।।
व्यासेद्धुमस्मानवधानतः पुरा चलति असावित्युपकर्णयन्नसौ ।
गीतानि गोप्याः कलमं मृगव्रजो न नूनमत्तीति हरिः व्यलोकयत् ।। शिशुपालवधम् - 12 - 43 ।।
लीलाचलत्स्त्रीचरणारुणोत्पलस्खलत्तुलाकोटिनिनादकोमलः ।
शौरेरुपानूपम् अपाहरत् मनः स्वनान्तरादुन्मदसारसारवः ।। शिशुपालवधम् - 12 - 44 ।।
उच्चैर्गतामस्खलितां गरीयसीं तदातिदूरादपि तस्य गच्छतः
एके समूहुर्बलरेणुसंहतिं शिरोभिराज्ञामपरे महीभृतः ।। शिशुपालवधम् - 12 - 45 ।।
प्रायेण नीचानपि मेदिनीभृतो जनः समेनैव पथ अधिरोहति
सेना मुरारेः पथ एव सा पुनर्महामहीध्रान्परितः अध्यरोहयत् ।। शिशुपालवधम् - 12 - 46 ।।
दन्ताग्रनिर्भिन्नपयोदमुन्मुखाः शिलोच्चयान आरुरुहुः महीयसः ।
तिर्यक्कटप्लाविमदाम्बुनिम्नगाविपूर्यमाणश्रवणोदरं द्विपाः ।। शिशुपालवधम् - 12 - 47 ।।
श्च्योतन्मदाम्भःकणकेन केनचिज्जनस्य जीमूतकदम्बकद्युता ।
नागेन नागेन गरीयसोच्चकैः अरोधि पन्थाः पृथुदन्तशालिना ।। शिशुपालवधम् - 12 - 48 ।।
भग्नद्रुमाः चक्रुः इतस्ततो दिशः समुल्लसत्केतनकाननाकुलाः ।
पिष्टाद्रिपृष्ठास्तरसा च दन्तिनश्चलन्निजाङ्गाचलदुर्गमा भुवः ।। शिशुपालवधम् - 12 - 49 ।।
आलोकयामास हरिर्महीधरानधिश्रयन्तीर्गजताः परःशताः ।
उत्पातवातप्रतिकूलपातिनीरुपत्यकाभ्यो बृहतीः शिला इव ।। शिशुपालवधम् - 12 - 50 ।।
शैलाधिरोहाभ्यसनाधिकोद्धुरैः पयोधरैरामलकीवनाश्रिताः ।
तं पर्वतीयप्रमदाः चचायिरे विकासविस्फारितविभ्रमेक्षणाः ।। शिशुपालवधम् - 12 - 51 ।।
सावज्ञमुन्मील्य विलोचने सकृत्क्षणं मृगेन्द्रेण सुषुप्सुना पुनः ।
सैन्यान्न यातः समयापि विव्यथे कथं सुराजम्भवमन्यथाथवा ।। शिशुपालवधम् - 12 - 52 ।।
उत्सेधनिर्धूतमहीरुहां ध्वजैर्जनावरुद्धोद्धतसिन्धुरंहसाम् ।
नागैरधिक्षिप्तमहाशिलं मुहुर्बलं बभूव उपरि तन्महीभृताम् ।। शिशुपालवधम् - 12 - 53 ।।
श्मश्रूयमाणे मघुजालके तरोर्गजेन गण्डं कषता विधूनिते ।
क्षुद्राभिरक्षुद्रतराभिराकुलं विदश्यमानेन जनेन दुद्रुवे ।। शिशुपालवधम् - 12 - 54 ।।
नीते पलाशिन्युचिते शरीरवद्गजान्तकेनान्तमदान्तकर्मणा ।
सञ्चेरुः आत्मान इवापरं क्षणात्क्षमारुहं देहमिव प्लवङ्गमाः ।। शिशुपालवधम् - 12 - 55 ।।
प्रह्वानतीव क्वचिदुद्धतिश्रितः क्वचित्प्रकाशानथ गह्वरानपि ।
साम्यादपेतानिति वाहिनी हरेस्तद अतिचक्राम गिरीन्गुरूनपि ।। शिशुपालवधम् - 12 - 56 ।।
स व्याप्तवत्या परितोऽपथान्यपि स्वसेनया सर्वपथीनया तया ।
अम्भोभिरुल्लङ्घिततुङ्गरोधसः प्रतीपनाम्नीः कुरुते स्म निम्नगाः ।। शिशुपालवधम् - 12 - 57 ।।
यावद्व्यगाहन्त न दन्तिनां घटास्तुरङ्गमैस्तावदुदीरितं खुरैः ।
क्षिप्तं समीरैः सरितां पुरः पतज्जलानि अनैषीत् रज एव पङ्कताम् ।। शिशुपालवधम् - 12 - 58 ।।
रन्तुं क्षतोत्तुङ्गनितम्बभूमयो मुहुर्व्रजन्तः प्रमदं मदोद्धताः ।
पङ्कं करापाकृतशैवलांशुकाः समुद्रगाणामुदपादयन्निभाः ।। शिशुपालवधम् - 12 - 59 ।।
रुग्णोरुरोधःपरिपूरिताम्भसः समस्थलीकृत्य पुरातनीर्नदीः ।
कूलङ्कषौघाः सरितस्तथापराः प्रवर्तयामासुः इभा मदाम्बुभिः ।। शिशुपालवधम् - 12 - 60 ।।
पद्मैरनन्वीतवधूमुखद्युतो गताः न हंसैः श्रियमातपत्रजाम् ।
दूरे अभवन् भोजबलयस्य गच्छतः शैलोपमातीतगजस्य निम्नगाः ।। शिशुपालवधम् - 12 - 61 ।।
स्निग्धाञ्जनश्यामतनूभिरुन्नतैर्निरन्तराला करिणां कदम्बकैः ।
सेना सुधाक्षालितसौधसम्पदां पुरां बहूनां परभागम् आप सा ।। शिशुपालवधम् - 12 - 62 ।।
प्रासादशोभातिशयालुभिः पथि प्रभोर्निवासाः पटवेश्मभिर्बभुः ।
नूनं सहानेन वियोगविक्लवा पुरः पुरश्रीरपि निर्ययौ तदा ।। शिशुपालवधम् - 12 - 63 ।।
वर्ष्म द्विपानां विरुवन्त उच्चकैर्वनेचरेभ्यश्चिरम् आचचक्षिरे
गण्डस्थलाघर्षगलन्मदोदकद्रवद्रुमस्कन्धनिलायिनोऽलयः ।। शिशुपालवधम् - 12 - 64 ।।
आयामवद्भिः करिणां घटाशतैरधःकृताट्टालकपङ्क्तिरुच्चकैः ।
दूष्यैर्जितोदग्रगृहाणि सा चमूरतीत्य भूयांसि पुराणि अवर्तत ।। शिशुपालवधम् - 12 - 65 ।।
उद्धूतमुच्चैर्ध्वजिनीभिरंशुभिः प्रतप्तमभ्यर्णतया विवस्वतः ।
आह्लादिकह्लारसमीरणाहते पुरः पपात अम्भसि यामुने रजः ।। शिशुपालवधम् - 12 - 66 ।।
या घर्मभानोस्तनयापि शीतलैः स्वसा यमस्यापि जनस्य जीवनैः ।
कृष्णापि शुद्धैरधिकं विधातृभिर्विहन्तुमंहांसि जलैः पटीयसी ।। शिशुपालवधम् - 12 - 67 ।।
यस्या महानीलतटीरिव द्रुताः प्रयान्ति पीत्वा हिमपिण्डपाण्डुराः ।
तालीरपस्ताभिरिवानुरञ्जिताः क्षणेन भिन्नाञ्जनवर्णतां घनाः ।। शिशुपालवधम् - 12 - 68 ।।
व्यक्तं बलीयान्यदि हेतुरागमाद् अपूरयत् सा जलधिं न जाह्नवी ।
गाङ्गौघनिर्भस्मितशम्भुकन्धरासवर्णमर्णः कथमन्यथास्य तत् ।। शिशुपालवधम् - 12 - 69 ।।
अभ्युद्यतस्य क्रमितुं जवेन गां तमालनीला नितरां धृतायतिः ।
सीमेव सा तस्य पुरः क्षणं बभौ बलाम्बुराशेर्महतो महापगा ।। शिशुपालवधम् - 12 - 70 ।।
लोलैररित्रैश्चरणैरिवाभितो जवाद्व्रजन्तीभिरसौ सरिज्जनैः ।
नौभिः प्रतेरे परितः प्लवोदितभ्रमीनिमीलल्ललनावलम्बितैः ।। शिशुपालवधम् - 12 - 71 ।।
तत्पूर्वमंसद्वयसं द्विपाधिपाः क्षणं सहेलाः परितो जगाहिरे
सद्यस्ततः तेरु रनारतस्रुतस्वदानवारिप्रचुरीकृतं पयः ।। शिशुपालवधम् - 12 - 72 ।।
प्रोथैः स्फुरद्भिः स्फुटशब्दमुन्मुखैस्तुरङ्गमैरायतकीर्णवालधि ।
उत्कर्णमुद्वाहितधीरकन्धरैः अतीर्यत अग्रे तटदत्तदृष्टिभिः ।। शिशुपालवधम् - 12 - 73 ।।
तीर्त्वा जवेनैव नितान्तदुस्तरां नदीं प्रतिज्ञामिव तां गरीयसीम् ।
शृङ्गैरपस्कीर्णमहत्तटीभुवाम् अशोभत उच्चैर्नदितं ककुद्मताम् ।। शिशुपालवधम् - 12 - 74 ।।
सीमन्त्यमाना यदुभूभृतां बलैः बभौ तरद्भिर्गवलासितद्युतिः ।
सिन्दूरितानेकपकङ्कणाङ्किता तरङ्गिणीवेणिरिवायता भुवः ।। शिशुपालवधम् - 12 - 75 ।।
अव्याहतक्षिप्रगतैः समुच्छ्रिताननुज्झितद्राधिमभिर्गरीयसः ।
नाव्यं पयःकेचिद् अतारिषुः भुजैः क्षिपद्भिरूर्मीनपरैरिवोर्मिभिः ।। शिशुपालवधम् - 12 - 76 ।।
विदलितमहाकूलामुक्ष्णां विषाणविघट्टनैरलघुचरणाकृष्टग्राहां विषाणिभिरुन्मदैः ।
सदसि सरितं सा श्रीभर्तुर्बृहद्रथमण्डलेः स्खलितसमुल्लङ्घ्यैनां जगाम वरूथिनी ।। शिशुपालवधम् - 12 - 77 ।।


।। इति शिशुपालवधमहाकाव्ये द्वादशसर्गः ।।

त्रयोदशसर्गः

यमुनामतीतमथ शुश्रुवानमुं तपसस्तनूज इति नाधुना उच्यते
स यदा अचलत् निजपुरादहर्निशं नृपतेस्तदादि समचारि वार्तया ।। शिशुपालवधम् - 13 - 1 ।।
यदुभर्तुरागमनलब्धजन्मनः प्रमदादमानिव पुरे महीयसि ।
सहसा ततः स सहितोऽनुजन्मभिर्वसुधाधिपोऽभिमुखमस्य निर्ययौ ।। शिशुपालवधम् - 13 - 2 ।।
रभसप्रवृत्तकुरुचक्रदुन्दुभिध्वनिभिर्जनस्य बधिरीकृतश्रुतेः ।
समवादि वक्तृभिरभीष्टसङ्कथाप्रकृतार्थशेषमथ हस्तसंज्ञया ।। शिशुपालवधम् - 13 - 3 ।।
अपदान्तरं च परितः क्षितिक्षिताम् अपतन् द्रुतभ्रमितहेमनेमयः ।
जविमारुताञ्चितपरस्परोपमक्षितिरेणुकेतुवसनाः पताकिनः ।। शिशुपालवधम् - 13 - 4 ।।
द्रुतम् अध्वनत् नुपरि पाणिवृत्तयः पणवा इवाश्वचरणक्षता भुवः ।
ननृतुः च वारिधरधीरवारणध्वनिहृष्टकूजितकलाः कलापिनः ।। शिशुपालवधम् - 13 - 5 ।।
व्रजतः अपि प्रणयपूर्वमेकतां कुकुराधिनाथकुरुनाथसैन्ययोः।
रुरुषे विषाणिभिरनुक्षणं मिथो मदमूढबुद्धिषु विवेकिता कुतः ।। शिशुपालवधम् - 13 - 6 ।।
अवलोक एव नृपतिः स्म दूरतो रभसाद्रथादवतरीतुमिच्छतः ।
अवतीर्णवान्प्रथममात्मना हरिर्विनयं विशेषयति सम्भ्रमेण सः ।। शिशुपालवधम् - 13 - 7 ।।
वपुषा पुराणपुरुषः पुरःक्षितौ परिपुञ्ज्यमानपृथुहारयष्टिना ।
भुवनैर्नतोऽपि विहितात्मगौरवः प्रणनाम नाम तनयं पितृष्वसुः ।। शिशुपालवधम् - 13 - 8 ।।
मुकुटांशुरञ्जितपरागमग्रतः स न यावदाप शिरसा महीतलम् ।
क्षितिपेन तावदनपेक्षितक्रमं भुजपञ्जरेण रभसाद् अगृह्यत ।। शिशुपालवधम् - 13 - 9 ।।
न ममौ कपाटतटविस्तृतं तनौ मुरवैरिवक्ष उरसि क्षमाभुजः ।
भुजयोस्तथापि युगलेन दीर्घयोर्विकटीकृतेन परितो अभिषस्वजे ।। शिशुपालवधम् - 13 - 10 ।।
गतया निरन्तरनिवासमध्युरः परिनाभि नूनमवमुच्य वारिजम् ।
कुरुराजनिर्दयनिपीडनाभयान्मुखम् अध्यरोहि मुरविद्विषः श्रिया ।। शिशुपालवधम् - 13 - 11 ।।
शिरसि स्म जिघ्रति सुरारिबन्धने छलवामनं विनयवामनं तदा ।
यशसेव वीर्यविजितामरद्रुमप्रसवेन वासितशिरोरुहे नृपः ।। शिशुपालवधम् - 13 - 12 ।।
सुखवेदनाहृषितरोमकूपया शिथिलीकृतेऽपि वसुदेवजन्मनि ।
कुरुभर्तुरङ्गलतया न तत्यजे विकसत्कदम्बनिकुरम्बचारुता ।। शिशुपालवधम् - 13 - 13 ।।
इतरानपि क्षितिभुजोऽनुजन्मनः प्रमनाः प्रमोदपरिफुल्लचक्षुषः ।
स यथोचितं जनसभाजनोचितः प्रसभोद्धृतासुरसभोऽसभाजयत् ।। शिशुपालवधम् - 13 - 14 ।।
समपेत्य तुल्यमहसः शिलाघनान्घनपक्षदीर्घतरबाहुशालिनः ।
परिशिश्लिषुः क्षितिपतीन्क्षितीश्वराः कुलिशात्परेण गिरयो गिरीनिव ।। शिशुपालवधम् - 13 - 15 ।।
इभकुम्भतुङ्गघटितेतरेतरस्तनभारदूरविनिवारितोदराः ।
परिफुल्लगण्डफलकाः परस्परं परिरेभिरे कुकुरकौरवस्त्रियः ।। शिशुपालवधम् - 13 - 16 ।।
रथवाजिपत्तिकरिणीसमाकुलं तदनीकयोः समगत द्वयं मिथः ।
दधिरे पृथक्करिण एव दूरतो महतां हि सर्वमथवा जनातिगम् ।। शिशुपालवधम् - 13 - 17 ।।
अधिरुह्यतामिति महीभृतोदितः कपिकेतुनार्पितकरो रथं हरिः ।
अवलम्बितैलविलपाणिपल्लवः श्रयति स्म मेघमिव मेघवाहनः ।। शिशुपालवधम् - 13 - 18 ।।
रथमास्थितस्य च पुराभिवर्तिनस्तिसृणां पुरामिव रिपोर्मुरद्विषः ।
अथ धर्ममूर्तिरनुरागभावितः स्वयमादित प्रवयणं प्रजापतिः ।। शिशुपालवधम् - 13 - 19 ।।
शनकैरथास्य तनुजालकान्तरस्फुरितक्षपाकरकरोत्कराकृतिः ।
पृथुफेनकूटमिव निम्नगापतेर्मरुतश्च सूनुः अघुवत् प्रकीर्णकम् ।। शिशुपालवधम् - 13 - 20 ।।
विकसत्कलायकुसुमासितद्युतेरलघूडुपाण्डु जगतामधीशितुः ।
यमुनाह्रदोपरिगहंसमण्डलद्युतिजिष्णु जिष्णुः अभृत उष्णवारणम् ।। शिशुपालवधम् - 13 - 21 ।।
पवनात्मजेन्द्रसुतमध्यवर्तिना नितराम् अरोचि रुचिरेण चक्रिणा ।
दधतेव योगमुभयग्रहान्तरस्थितिकारितं दुरुधराख्यमिन्दुना ।। शिशुपालवधम् - 13 - 22 ।।
वशिनं क्षितेरयनयाविवेश्वरं नियमो यमश्च नियतं यतिं यथा ।
विजयश्रिया वृतमिवार्कमारुतौ अनुसस्रतुः तमथ दस्रयोः सुतौ ।। शिशुपालवधम् - 13 - 23 ।।
मुदितैस्तदेति दितिजन्मनां रिपावविनीयसम्भ्रमविकासिभक्तिभिः ।
उपसेदिवद्भिरुपदेष्टरीव तैः ववृते विनीतमविनीतशासिभिः ।। शिशुपालवधम् - 13 - 24 ।।
गतयोरभेदमिति सैन्ययोस्तयोरथ भानुतजह्नुतनयाम्भसोरिव ।
प्रतिनादितामरविमानमानकैर्नितरां मुदा परमयेव दध्वने ।। शिशुपालवधम् - 13 - 25 ।।
मखमीक्षितुं क्षितिपतेरुपेयुषां परितः प्रकल्पितनिकेतनं बहिः ।
उपरुध्यमानमिव भूभृतां बलैः पुटभेदनं दनुसुतारिः ऐक्षत ।। शिशुपालवधम् - 13 - 26 ।।
प्रतिनादपूरितदिगन्तरः पतन्पुरगोपुरं प्रति स सैन्यसागरः ।
रुरुचे हिमाचलगुहामुखोन्मुखः पयसां प्रवाह इव सौरसैन्धवः ।। शिशुपालवधम् - 13 - 27 ।।
असकृद्गृहीतबहुदेहसम्भवस्तदसौ विभक्तनवगोपुरान्तरम् ।
पुरुषः पुरं प्रविशति स्म पञ्चभिः सममिन्द्रियैरिव नरेन्द्रसूनुभिः ।। शिशुपालवधम् - 13 - 28 ।।
तनुभिस्त्रिनेत्रनयनानवेक्षितस्मरविग्रहद्युतिभिः अद्युतन् नराः ।
प्रमदाश्च यत्र खलु राजयक्ष्मणः परतो निशाकरमनोरमैर्मुखैः ।। शिशुपालवधम् - 13 - 29 ।।
अवलोकनाय सुरविद्विषां द्विषः पटहप्रणादविहितोपहूतयः ।
अवधीरितान्यकरणीयसत्वराः प्रतिरथ्यम् ईयुः अथ पौरयोषितः ।। शिशुपालवधम् - 13 - 30 ।।
अभिवीक्ष्य सामिकृतमण्डनं यतीः कररुद्धनीविगलदंशुकाः स्त्रियः ।
दधिरे अधिभित्ति पटहप्रतिस्वनैः स्फुटमट्टहासमिव सौधपङ्क्तयः ।। शिशुपालवधम् - 13 - 31 ।।
रभसेन हारपददत्तकाञ्चयः प्रतिमूर्धजं निहितकर्णपूरकाः ।
परिवर्तिताम्बरयुगाः समापतन् वलयीकृतश्रवणपूरकाः स्त्रियः ।। शिशुपालवधम् - 13 - 32 ।।
व्यतनोत् अपास्य चरणं प्रसाधिकाकरपल्लवाद्रसवशेन काचन ।
द्रुतयावकैकपदचित्रितावनिं पदवीं गतेव गिरिजा हरार्धताम् ।। शिशुपालवधम् - 13 - 33 ।।
व्यचलन् विशङ्कटकटीरकस्थलीशिखरस्खलन्मुखरमेखलाकुलाः ।
भवनानि तुङ्गतपनीयसङ्क्रमक्रमणक्वणत्कनकनूपुराः स्त्रियः ।। शिशुपालवधम् - 13 - 34 ।।
अधिरुक्ममन्दिरगवाक्षमुल्लसत्सुदृशो रराज मुरजिद्दिदृक्षया ।
वदनारविन्दमुदयाद्रिकन्दराविवरोदरस्थितमिवेन्दुमण्डलम् ।। शिशुपालवधम् - 13 - 35 ।।
अधिरूढया निजनिकेतमुच्चकैः पवनावधूतवसनान्तयैकया ।
विहितोपशोभमुपयाति माधवे नगरं व्यरोचत पताकयेव तत् ।। शिशुपालवधम् - 13 - 36 ।।
करयुग्मपद्ममुकुलापवर्जितैः प्रतिवेश्म लाजकुसमैः अवाकिरन्
अवदीर्णशुक्तिपुटमुक्तमौक्तिकप्रकरैरिव प्रियरथाङ्गमङ्गनाः ।। शिशुपालवधम् - 13 - 37 ।।
हिममुक्तचन्द्ररुचिरः सपद्मको मदयन्द्विजाञ्जनितमीनकेतनः ।
अभवत् प्रसादितसुरो महोत्सवः प्रमदाजनस्य स चिराय माधवः ।। शिशुपालवधम् - 13 - 38 ।।
धरणीधरेन्द्रहितुर्भयादसौ विषमेक्षणः स्फुटममूर्न पश्यति
मदनेन वीतभयमित्यधिष्ठिताः क्षणम् ईक्षते स्म स पुरोविलासिनीः ।। शिशुपालवधम् - 13 - 39 ।।
विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये ।
मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा ।। शिशुपालवधम् - 13 - 40 ।।
अधिकोन्नमद्घनपयोधरं मुहुः प्रचलत्कलापिकलशङ्खकस्वना ।
अभिकृष्णमङ्गुलिमुखेन काचन द्रुतमेककर्णविवरं व्यघट्टयत् ।। शिशुपालवधम् - 13 - 41 ।।
परिपाटलाब्जदलचारुणासकृच्चलिताङ्गुलीकिसलयेन पाणिना ।
सशिरःप्रकम्पमपरा रिपुं मधोरनुदीर्णवर्णनिभृतार्थम् आह्वयत् ।। शिशुपालवधम् - 13 - 42 ।।
नलिनान्तिकोपहितपल्लवश्रिया व्यवधाय चारु मुखमेकपाणिना ।
स्फुरिताङ्गुलीविवरनिःसृतोल्लसद्दशनप्रभाङ्गुरम् अजृम्भत अपरा ।। शिशुपालवधम् - 13 - 43 ।।
वलयार्पितासितमहोपलप्रभाबहुलीकृतप्रतनुरोमराजिना ।
हरिवीक्षणाक्षणिकचक्षुषान्यया करपल्लवेन गलदम्बरं दधे ।। शिशुपालवधम् - 13 - 44 ।।
निजसौरभभ्रमितभृङ्गपक्षतिव्यजनानिलक्षयितघर्मवारिणः ।
अभिशौरि काचिदनिमेषदृष्टिना पुरदेवतेव वपुषा व्यभाव्यत ।। शिशुपालवधम् - 13 - 45 ।।
अभियाति नः सतृष एव चक्षुषो हरिरित्यखिद्यत नितम्बिनीजनः ।
विवेद यः सततमेनमीक्षते न वितृष्णतां व्रजति खल्वसावपि ।। शिशुपालवधम् - 13 - 46 ।।
अकृतस्वसद्मगमनादरः क्षणं लिपिकर्मनिर्मित इव व्यतिष्ठत
गतमच्युतेन सह शून्यतां गतः प्रतिपालयन्मन इवाङ्गनाजनः ।। शिशुपालवधम् - 13 - 47 ।।
अलसैर्मदेन सुदृशः शरीरकैः स्वगृहान्प्रति प्रतिययुः शनैःशनैः ।
अलघुप्रसारितविलोचनाञ्जलिद्रुतपीतमाधवरसौघनिर्भरैः ।। शिशुपालवधम् - 13 - 48 ।।
नवगन्धवारिविरजीकृताः पुरो घनधूपधूमकृतरेणुविभ्रमाः ।
प्रचुरोद्धतध्वजविलम्बिवाससः पुरवीथयोऽथ हरिणा अतिपेतिरे ।। शिशुपालवधम् - 13 - 49 ।।
उपनीय बिन्दुसरसो मयेन या मणिदारु चारु किल वार्षपर्वणम् ।
विदधे अवधूतसुरसद्मसम्पदं समुपासदत्सपदि संसदं स ताम् ।। शिशुपालवधम् - 13 - 50 ।।
अधिरात्रि यत्र निपतन्नभोलिहां कलधौतधौतशिलवेश्मनां रुचौ ।
पुनः अप्यवाप दिवदुग्धवारिधिक्षणगर्भवासमनिदाघदीधितिः ।। शिशुपालवधम् - 13 - 51 ।।
लयनेषु लोहितकनिर्मिता भुवः शितिरत्नरश्मिहरितीकृतान्तराः ।
जमदग्निसूनुपितृतर्पणीरपो वहति स्म या विरलशैवला इव ।। शिशुपालवधम् - 13 - 52 ।।
विशदाश्मकूटघटिताः क्षपाकृतः क्षणदासु यत्र च रुचेकतां गताः ।
गृहपङ्क्तयश्चिरमतीयिरे जनैस्तमसीव हस्तपरिमर्शसूचिताः ।। शिशुपालवधम् - 13 - 53 ।।
निलयेषु नक्तमसिताश्मनां चयैर्बिसिनीवधूपरिभवस्फुटागसः ।
मुहुरत्रसद्भिरपि यत्र गौरवाच्छशलाञ्छनांशव उपांशु जघ्निरे ।। शिशुपालवधम् - 13 - 54 ।।
सुखिनः पुरोऽभिमुखतामुपागतैः प्रतिमासु यत्र गृहरत्नभित्तिषु ।
नवसङ्गमैः अबिभरुः प्रियाजनैः प्रमदं त्रपाभरपराङ्मुखैरपि ।। शिशुपालवधम् - 13 - 55 ।।
तृणवाञ्छया मुहुरवाञ्चिताननान्निचयेषु यत्र हरिताश्मवेश्मनाम् ।
रसनाग्रलग्नकिरणाङ्कुराञ्जनो हरिणान्गृहीतकवलानिव ऐक्षत ।। शिशुपालवधम् - 13 - 56 ।।
विपुलालवालभृतवारिदर्पणप्रतिमागतैः अभिविरेजुः आत्मभिः ।
यदुपान्तिकेषु दधतः महीरुहः सपलाशराशिमिव मूलसंहतिम् ।। शिशुपालवधम् - 13 - 57 ।।
उरगेन्द्रमूर्धरुहरत्नसन्निधेर्मुहुरुन्नतस्य रसितैः पयोमुचः ।
अभवन् यदङ्गणभुवः समुच्छ्वसन्नववालवायजमणिस्थलाङ्कुराः ।। शिशुपालवधम् - 13 - 58 ।।
नलिनी निगूढसलिला च यत्र सा स्थलमित्यधः पतति या सुयोधने ।
अनिलात्मजप्रहसनाकुलाखिलक्षितिपक्षयागमनिमित्ततां ययौ ।। शिशुपालवधम् - 13 - 59 ।।
हसितुं परेण परितः परिस्फुरत्करवालकोमलरुचावुपेक्षितैः ।
उदकर्षि यत्र जलशङ्कया जनैर्मुहुरिन्द्रनीलभुवि दूरमम्बरम् ।। शिशुपालवधम् - 13 - 60 ।।
अभितः सदोऽथ हरिपाण्डवौ रथादमलांशुमण्डलसमुल्लसत्तनू ।
अवतेरतुः नयननन्दनौ नभः शशिभार्गवावुदयपर्वतादिव ।। शिशुपालवधम् - 13 - 61 ।।
तदलक्ष्यरत्नमयकुड्यमादरादभिधातरीत इत इत्यथो नृपे ।
धवलाश्मरश्मिपटलाविभावितप्रतिहारम् आविशत् असौ सदः शनैः ।। शिशुपालवधम् - 13 - 62 ।।
नवहाटकेष्टकचितं ददर्श स क्षितिपस्य पस्त्यमथ तत्र संसदि ।
गगनस्पृशां मणिरुचां चयेन यत्सदनान्य उदस्मयत नाकिनामपि ।। शिशुपालवधम् - 13 - 63 ।।
उदयाद्रिमूर्ध्नि युगपच्चकासतोर्दिननाथपूर्णशशिनोरसम्भवाम् ।
रुचिमासने रुचिरधाम्नि बिभ्रतावलघुन्यथ न्यषदतां नृपाच्युतौ ।। शिशुपालवधम् - 13 - 64 ।।
सुतरां सुखेन सकलक्लमच्छिदा सनिदाधमङ्गमिव मातरिश्वना ।
यदुनन्दनेन तदुदन्वतः पयः शशिनेव राजकुलम् आप नन्दथुम् ।। शिशुपालवधम् - 13 - 65 ।।
अनवद्यवाद्यलयगामि कोमलं नवगीतमप्यनवगीततां दधत् ।
स्फुटसात्त्विकाङ्गिकम् अनृत्यद् उज्ज्वलं सविलासलासिकविलासनीजनः ।। शिशुपालवधम् - 13 - 66 ।।
सकले च तत्र गृहमागते हरौ नगरेऽप्यकालमहमादिदेश सः ।
सततोत्सवं तदिति नूनन्मुन्मुदो रभसेन विस्मृतम् अभूत् महीभृतः ।। शिशुपालवधम् - 13 - 67 ।।
हरिराकुमारमखिलाभिधानवित्स्वजनस्य वार्तमयमन्वयुङ्क्त च ।
महतीमपि श्रियमवाप्य विस्मयः सुजनो न विस्मरति जातु किञ्चन ।। शिशुपालवधम् - 13 - 68 ।।
मर्त्यलोकदुरवापमवाप्तरसोदयं नूतनत्वमतिरिक्ततयानुपदं दधत् ।
श्रीपतिः पतिरसाववनेश्च परस्परं सङ्कथामृतमनेकम् असिस्वदताम् उभौ ।। शिशुपालवधम् - 13 - 69 ।।


।। इति शिशुपालवधमहाकाव्ये त्रयोदशसर्गः ।।

चतुर्दशसर्गः

तं जगाद गिरमुद्गिरन्निव स्नेहमाहितविकासया दृशा ।
यज्ञकर्मणि मनः समादधद्वाग्विदां वरमकमद्वदो नृपः ।। शिशुपालवधम् - 14 - 1 ।।
लज्जते न गदितः प्रियं परो वक्तुरेव भवति त्रपाधिका ।
व्रीडमेति न तव प्रियं वदन्ह्रीमतात्रभवतैव भूयते ।। शिशुपालवधम् - 14 - 2 ।।
तोषमेति वितथैः स्तवैः परस्ते च तस्य सुलभाः शरीरिभिः ।
अस्ति न स्तुतिवचोऽनृतं तव स्तोत्रयोग्य न च तेन तुष्यसि ।। शिशुपालवधम् - 14 - 3 ।।
बह्वपि प्रियमयं तव ब्रुवन्न व्रजति अनृतवादितां जनः ।
सम्भवन्ति यददोषदूषिते सार्व सर्वगुणसम्पदस्त्वयि ।। शिशुपालवधम् - 14 - 4 ।।
सा विभूतिरनुभावसम्पदां भूयसी तव यदायतायति ।
एतदूढगुरुभार भारतं वर्षमद्य मम वर्तते वशे ।। शिशुपालवधम् - 14 - 5 ।।
सप्ततन्तुमधिगन्तुम् इच्छतः कुर्वनुग्रहमनुज्ञया मम ।
मूलतामुपगते खलु त्वयि प्रापि धर्ममयवृक्षता मया ।। शिशुपालवधम् - 14 - 6 ।।
सम्भृतोपकरणेन निर्मलां कर्तुमिष्टिमभिवाञ्छता मया ।
त्वं समीरण इव प्रतीक्षितः कर्षकेण वलजान्पुपूषता ।। शिशुपालवधम् - 14 - 7 ।।
वीतविघ्नमनघेन भाविता सन्निधेस्तव मखेन मेऽधुना ।
को विहन्तुमलमास्थितोदये वासरश्रियमशीतदीधितौ ।। शिशुपालवधम् - 14 - 8 ।।
स्वापतेयमधिगम्य धर्मतः पर्यपालयमवीवृधं च यत् ।
तीर्थगामी करवै विधानतस्तत् जुषस्व जुहवानि चानले ।। शिशुपालवधम् - 14 - 9 ।।
पूर्वमङ्ग जुहुधि त्वमेव वा स्नातवत्यवभृथे ततस्त्वयि ।
सोमपायिनि भविष्यते मया वाञ्छितोत्तमवितानयाजिना ।। शिशुपालवधम् - 14 - 10 ।।
किं विधेयमनया विधीयतां त्वत्प्रसादजितयार्थसम्पदा ।
शाधि शासक जगत्र्रयस्य मामाश्रवः अस्मि भवतः सहानुजः ।। शिशुपालवधम् - 14 - 11 ।।
तं वदन्तमिति विष्टरश्रवाः श्रावयन्नथ समस्तभूभृतः ।
व्याजहार दशनांशुमण्डलव्याजहारशबलं दधद्वपुः ।। शिशुपालवधम् - 14 - 12 ।।
सादिताखिलनृपं महन्महः सम्प्रति स्वनयसम्पदैव ते ।
किं परस्य स गुणः समश्नुते पथ्यवृत्तिरपि यद्यरोगिताम् ।। शिशुपालवधम् - 14 - 13 ।।
तत्सुराज्ञि भवति स्थिते पुनः कः क्रतुं यजतु राजलक्षणम् ।
उद्धृतौ भवति कस्य वा भुवः श्रीवराहमपहाय योग्यता ।। शिशुपालवधम् - 14 - 14 ।।
शासनेऽपि गुरुणि व्यवस्थितं कृत्यवस्तुषु नियुङ्क्ष्व कामतः ।
त्वत्प्रयोजनघनं धनञ्जयादन्य एष इति मां च मावगाः ।। शिशुपालवधम् - 14 - 15 ।।
यस्तवेह सवने न भूपतिः कर्म कर्मकरवत्करिष्यति ।
तस्य नेष्यति वपुः कबन्धतां बन्धुरेव जगतां सुदर्शनः ।। शिशुपालवधम् - 14 - 16 ।।
इत्युदीरितगिरं नृपस्त्वयि श्रेयसि स्थितवति स्थिरा मम ।
सर्वसम्पदिति शौरिमुक्तवानुद्वहन्मुदमुदस्थित क्रतौ ।। शिशुपालवधम् - 14 - 17 ।।
आननेन शशिनः कलां दधद्दर्शनक्षयितकामविग्रहः ।
आप्लुतः स विमलैर्जलैः अभूत् अष्टमूर्तिधरमूर्तिरष्टमी ।। शिशुपालवधम् - 14 - 18 ।।
तस्य साङ्ख्यपुरुषेण तुल्यतां बिभ्रतः स्वयम् अकुर्वतः क्रियाः ।
कर्तृता तदुपलम्भतः अभवत् वृत्तिभाजि करणे यथर्त्विजि ।। शिशुपालवधम् - 14 - 19 ।।
शद्बितामनपशद्बमुच्चकैर्वाक्यलक्षणविदोऽनुवाक्यया ।
याज्यया यजनकर्मिणः अत्यजन् द्रव्यजातमपदिश्य देवताम् ।। शिशुपालवधम् - 14 - 20 ।।
सप्तभेदकरकल्पितस्वरं साम सामविदसङ्गम् उज्जगौ
तत्र सूनृतगिरश्च सूरयः पुण्यमृग्यजुषमध्यगीषत ।। शिशुपालवधम् - 14 - 21 ।।
बद्धदर्भमयकाञ्चिदामया वीक्षितानि यजमानजायया ।
शुष्मणि प्रणयनादिसंस्कृते तैर्हवींषि जुहवांबभूविरे ।। शिशुपालवधम् - 14 - 22 ।।
नाञ्जसा निगदितुं विभक्तिभिर्व्यक्तिभिश्च निखिलाभिरागमे ।
तत्र कर्मणि विपर्यणीनमन्मन्त्रमूहकुशलाः प्रयोगिणः ।। शिशुपालवधम् - 14 - 23 ।।
संशयाय दधतोः सरूपतां दूरभिन्नफलयोः क्रियां प्रति ।
शद्बशासनविदः समासयोर्विग्रहं व्यवससुः स्वरेण ते ।। शिशुपालवधम् - 14 - 24 ।।
लोलहेतिरसनाशतप्रभामण्डलेन लसता हसन्निव ।
प्राज्यमाज्यमसकृद्वषट्कृतं निर्मलीम समलीढ पावकः ।। शिशुपालवधम् - 14 - 25 ।।
तत्र मन्त्रपवितं हविः क्रतावश्नतो न वपुरेव केवलम् ।
वर्णसम्पदमतिस्फुटां दधन्नाम चोज्ज्वलम् अभूत् हविर्भुजः ।। शिशुपालवधम् - 14 - 26 ।।
स्पर्शमुष्णमुचितं दधच्छिखी यद्ददाह हविरद्भुतं न तत् ।
गन्धतोऽपि हुतहव्यसम्भवाद्देहिनामदहदोघमंहसाम् ।। शिशुपालवधम् - 14 - 27 ।।
उन्नमन्सपदि धूम्रयन्दिशः सान्द्रतां दधदधःकृताम्बुदः ।
द्याम् इयाय दहनस्य केतनः कीर्तयन्निव दिवौकसां प्रियम् ।। शिशुपालवधम् - 14 - 28 ।।
निर्जिताखिलमहार्णवौषधिस्यन्दसारममृतं ववल्गिरे
नाकिनः कथमपि प्रतीक्षितुं हूयमानमनले विषेहिरे ।। शिशुपालवधम् - 14 - 29 ।।
तत्र नित्यविहितोपहूतिषु प्रोषितेषु पतिषु द्युयोषिताम् ।
गुम्फिताः शिरसि वेणयः अभवत् न प्रफुल्लसुरपादपस्रजः ।। शिशुपालवधम् - 14 - 30 ।।
प्राशुराशु हवनीयमत्र यत्तेन दीर्घममरत्वमध्यगुः ।
उद्धतानधिकमेधितौजसो दानवांश्च विबुधाः विजिग्यिरे ।। शिशुपालवधम् - 14 - 31 ।।
नापचारमगमन्क्वचित्क्रियाः सर्वमत्र समपादि साधनम् ।
अत्यशेरत परस्परं धियः सत्र्रिणां नरपतेश्च सम्पदः ।। शिशुपालवधम् - 14 - 32 ।।
दक्षिणीयमवगम्य पङ्क्तिशः पङ्क्तिपावनमथ द्विजव्रजम् ।
दक्षिणः क्षितिपतिः व्यशिश्रणत् दक्षिणाः सदसि राजसूयकीः ।। शिशुपालवधम् - 14 - 33 ।।
वारिपूर्वमखिलासु सत्क्रियालब्धशुद्धिषु धनानि बीजवत् ।
भावि बिभ्रति फलं महद्द्विजक्षेत्रभूमिषु नराधिपः अवपत् ।। शिशुपालवधम् - 14 - 34 ।।
किं नु चित्रमधिवेदि भूपतिर्दक्षयन्द्विजगणान् अपूयत
राजतः पुपुविरे निरेनसः प्राप्य तेऽपि विमलं प्रतिग्रहम् ।। शिशुपालवधम् - 14 - 35 ।।
स स्वहस्तकृतचिह्नशासनः पाकशासनसमानशासनः ।
आ शशाङ्कतपनार्णवस्थितोर्विप्रसाद् अकृत भूयसीर्भुवः ।। शिशुपालवधम् - 14 - 36 ।।
शुद्धमश्रुतिविरोधि बिभ्रतं शास्त्रमुज्ज्वलवर्णसङ्करैः ।
पुस्तकैः सममसौ गणं मुहुर्वाच्यमानम् अशृणोत् द्विजन्मनाम् ।। शिशुपालवधम् - 14 - 37 ।।
तत्प्रणीतमनसामुपेयुषां द्रष्टुमाहवनमग्रजन्मनाम् ।
आतिथेयमनिवारितातिथिः कर्तुमाश्रमगुरुः स न अश्रमत् ।। शिशुपालवधम् - 14 - 38 ।।
मृग्यमाणमपि यद्दुरासदं भूरिसारमुपनीय तत्स्वयम् ।
आसत अवसरकाङ्क्षिणो बहिस्तस्य रत्नमुपदीकृतं नृपाः ।। शिशुपालवधम् - 14 - 39 ।।
एक एव वसु यत् ददौ नृपस्तत्समापकम् अतर्क्यत क्रतोः ।
त्यागशालिनि तपःसुते ययुः सर्वपार्थिवधनान्यपि क्षयम् ।। शिशुपालवधम् - 14 - 40 ।।
प्रीतिरस्य ददतः अभवत् तथा येन तत्प्रियचिकीर्षवो नृपाः ।
स्पर्शितैरधिकमागमन्मुदं नाधिवेश्म निहितैरुपायनैः ।। शिशुपालवधम् - 14 - 41 ।।
यं लघुन्यपि लघूकृताहितः शिष्यभूतमशिषत्स कर्मणि ।
सस्पृहं नृपतिभिर्नृपोऽपरैर्गौरवेण ददृशेतरामसौ ।। शिशुपालवधम् - 14 - 42 ।।
आद्यकोलतुलितां प्रकम्पनैः कम्पितां मुहुरनीदृगात्मनि ।
वाचि रोपितवतामुना महीं राजकाय विषया विभेजिरे ।। शिशुपालवधम् - 14 - 43 ।।
आगताद्व्यवसितेन चेतसा सत्त्वसम्पदविकारिमानसः ।
तत्र न अभवत् असौ महाहवे शात्रवादिव पराङ्मुखोऽर्थिनः ।। शिशुपालवधम् - 14 - 44 ।।
ऐक्षत अर्थिनमवज्ञया मुहुर्याचितस्तु न च कालम् आक्षिपत्
अदित अल्पमथ न व्यकत्थयद्दत्तमिष्टमपि न अन्वशेत सः ।। शिशुपालवधम् - 14 - 45 ।।
निर्गुणोऽपि विमुखो न भूपतेर्दानशौण्डमनसः पुरः अभवत्
वर्षुकस्य किमपः कृतोन्नतेरम्बुदस्य परिहार्यमूषरम् ।। शिशुपालवधम् - 14 - 46 ।।
प्रेम तस्य न गुणेषु नाधिकं न स्म वेद न गुणान्तरं च सः ।
दित्सया तदपि पार्थिवोऽर्थिनं गुण्यगुण्य इति न व्यजीगणत् ।। शिशुपालवधम् - 14 - 47 ।।
दर्शनानुपदमेव कामतः स्वं वनीयकजने अधिगच्छति
प्रार्थनार्थरहितं तदाभवद्दीयतामिति वचोऽतिसर्जने ।। शिशुपालवधम् - 14 - 48 ।।
नानवाप्तवसुनार्थकाम्यता नाचिकित्सितगदेन रोगिणा ।
इच्छताशितुमनाशुषा न च प्रत्यगामि तदुपेयुषा सदः ।। शिशुपालवधम् - 14 - 49 ।।
स्वादयन्रसमनेकसंस्कृतप्राकृतैरकृतपात्रसङ्करैः ।
भावशुद्धिसहितैर्मुदं जनो नाटकैरिव बभार भोजनैः ।। शिशुपालवधम् - 14 - 50 ।।
रक्षितारमिति तत्र कर्मणि न्यस्य दुष्टदमनक्षमं हरिम् ।
अक्षतानि निरवर्तयत् तदा दानहोमयजनानि भूपतिः ।। शिशुपालवधम् - 14 - 51 ।।
एक एव सुसखैष सुन्वतां शौरिरित्यभिनयादिवोच्चकैः ।
यूपरूपकमनीनमद्भुजं भूश्चषालतुलिताङ्गुलीयकम् ।। शिशुपालवधम् - 14 - 52 ।।
इत्थमत्र विततक्रमे क्रतौ वीक्ष्य धर्ममथ धर्मजन्मना ।
अर्घदानमनु चोदितो वचः सभ्यम् अभ्यधित शन्तनोः सुतः ।। शिशुपालवधम् - 14 - 53 ।।
आत्मनैव गुणदोषकोविदः किं न वेत्सि करणीयवस्तुषु ।
यत्तथापि न गुरून्न पृच्छसि त्वं क्रमोऽयमिति तत्र कारणम् ।। शिशुपालवधम् - 14 - 54 ।।
स्नातकं गुरुमभीष्टमृत्विजं संयुजा च सह मेदिनीपतिम् ।
अर्घभाज इति कीर्तयन्ति षट् ते च ते युगपदागताः सदः ।। शिशुपालवधम् - 14 - 55 ।।
शोभयन्ति परितः प्रतापिनो मन्त्रशक्तिविनिवारितापदः ।
त्वन्मखं मुखभुवः स्वयम्भुवो भूभुजश्च परलोकजिष्णवः ।। शिशुपालवधम् - 14 - 56 ।।
आभजन्ति गुणिनः पृथक्पृथक्पार्थ सत्कृतिमकृत्रिमाममी ।
एक एव गुणवत्तमोऽथवा पूज्य इत्ययमपि इष्यते विधिः ।। शिशुपालवधम् - 14 - 57 ।।
अत्र चैष सकलेऽपि भाति मां प्रत्यशेषगुणबन्धुः अर्हति
भूमिदेवनरदेवसङ्गमे पूर्वदेवरिपुरर्हणां हरिः ।। शिशुपालवधम् - 14 - 58 ।।
मर्त्यमात्रमवदीधरद्भवान्मैनमानमितदैत्यदानवम् ।
अंश एष जनतातिवर्तिनो वेधसः प्रतिजनं कृतस्थितेः ।। शिशुपालवधम् - 14 - 59 ।।
ध्येयमेकमपथे स्थितं धियः स्तुत्यमुत्तममतीतवाक्पथम् ।
आमनन्ति यमुपास्यमादराद्दूरवर्तिनमतीव योगिनः ।। शिशुपालवधम् - 14 - 60 ।।
पद्मभूरिति सृजञ्जगद्रजः सत्वमच्युत इति स्थितिं नयन् ।
संहरन्हर इति श्रितस्तमस्रैधमेष भजति त्रिभिर्गुणैः ।। शिशुपालवधम् - 14 - 61 ।।
सर्ववेदिनमनादिमास्थितं देहिनामनुजिघृक्षया वपुः ।
क्लेशकर्मफलभोगवर्जितं पुंविशेषममुमीश्वरं विदुः ।। शिशुपालवधम् - 14 - 62 ।।
भक्तिमन्त इह भक्तवत्सले सन्ततस्मरणरीणकल्मषाः ।
यान्ति निर्वहणमस्य संसृतिक्लेशनाटकविडम्बनाविधेः ।। शिशुपालवधम् - 14 - 63 ।।
ग्राम्यभावमपहातुमिच्छवो योगमार्गपतितेन चेतसा ।
दुर्गमेकमपुनर्निवृत्तये यं विशन्ति वशिनं मुमुक्षवः ।। शिशुपालवधम् - 14 - 64 ।।
आदितामजननाय देहिनामन्ततां च दधते अनपायिने ।
बिभ्रते भुवमधः सदाथ च ब्रह्मणोऽप्युपरि तिष्ठते नमः ।। शिशुपालवधम् - 14 - 65 ।।
केवलं दधति कर्तृवाचिनः प्रत्ययानिह न जातु कर्मणि ।
धातवः सृजतिसंहृशास्तयः स्तौतिरत्र विपरीतकारकः ।। शिशुपालवधम् - 14 - 66 ।।
पूर्वमेष किल सृष्टवानपस्तासु वीर्यमनिवार्यम् आदधौ
तच्च कारणमभूद्धिरण्मयं ब्रह्मणः असृजत् साविदं जगत् ।। शिशुपालवधम् - 14 - 67 ।।
मत्कुणाविव पुरा परिप्लवौ सिन्धुनाथशयने निषेदुषः।
गच्छतः स्म मधुकैटभौ विभोर्यस्य नैद्रसुखविघ्नतां क्षणम् ।। शिशुपालवधम् - 14 - 68 ।।
श्रौतमार्गसुखगानकोविदब्रह्मषट्चरणगर्भमुज्ज्वलम् ।
श्रीमुखेन्दुसविधेऽपि शोभते यस्य नाभिसरसीसरोरुहम् ।। शिशुपालवधम् - 14 - 69 ।।
सत्यवृत्तमपि मायिनं जगद्वृद्धमप्युचितनिद्रमर्भकम् ।
जन्म बिभ्रतमजं नवं बुधा यं पुराणपुरुषं प्रचक्षते ।। शिशुपालवधम् - 14 - 70 ।।
स्कन्धधूननविसारिकेसरक्षिप्तसागरमहाप्लवामयम् ।
उद्धृतामिव मुहूर्तम् ऐक्षत स्थूलनासिकवपुर्वसुन्धराम् ।। शिशुपालवधम् - 14 - 71 ।।
दिव्यकेसरिवपुः सुरद्विषो नैव लब्धशममायुधैरपि ।
दुर्निवाररणकण्डु कोमलैर्वक्ष एष निरदारयन्नखैः ।। शिशुपालवधम् - 14 - 72 ।।
वारिधेरिव कराग्रवीचिभिर्दिङ्मतङ्गजमुखान्यभिघ्नतः ।
यस्य चारुनखशुक्तयः स्फुरन्मौक्तिकप्रकरगर्भतां दधुः ।। शिशुपालवधम् - 14 - 73 ।।
दीप्तिनिर्जितविरोचनादयं गां विरोचनसुतादभीप्सतः ।
आत्मभूरवरजाखिलप्रजः स्वर्पतेरवरजत्वम् आययौ ।। शिशुपालवधम् - 14 - 74 ।।
किं क्रमिष्यति किलैष वामनो यावदित्थमहसन्न दानवाः ।
तावदस्य न ममौ नभस्तले लङ्घितार्कशशिमण्डलः क्रमः ।। शिशुपालवधम् - 14 - 75 ।।
गच्छतापि गगनाग्रमुच्चकैर्यस्य भूधरगरीयसाङ्घ्रिणा ।
क्रान्तकन्धर इवाबलो बलिः स्वर्गभर्तुः अगमत् सुबन्धताम् ।। शिशुपालवधम् - 14 - 76 ।।
क्रामतोऽस्य ददृशुर्दिवौकसो दूरमूरुमलिनीलमायतम् ।
व्योम्नि दिव्यसरिदम्बुपद्धतिस्पर्धयेव यमुनौघमुत्थितम् ।। शिशुपालवधम् - 14 - 77 ।।
यस्य किञ्चिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः ।
कान्तवक्त्रसदृशाकृतिं कृती राहुरिन्दुमधुनापि बाधते ।। शिशुपालवधम् - 14 - 78 ।।
सम्प्रदायविगमादुपेयुषीरेव नाशमविनाशिविग्रहः ।
स्मर्तुमप्रतिहतस्मृतिः श्रुतीर्दत्त इति अभवत् त्रिगोत्रजः ।। शिशुपालवधम् - 14 - 79 ।।
रेणुकातनयतामुपागतः शातितप्रचुरपत्रसंहति ।
लूनभूरिभुजशाखमुज्झितच्छायमर्जुनवनं व्यधात् अयम् ।। शिशुपालवधम् - 14 - 80 ।।
एष दाशरथिभूयमेत्य च ध्वंसितोद्धतदशाननामपि ।
राक्षसीम् अकृत रक्षितप्रजस्तेजसाधिकविभीषणां पुरीम् ।। शिशुपालवधम् - 14 - 81 ।।
निष्प्रहन्तुममरेशविद्विषामर्थितः स्वयमथ स्वयम्भुवा ।
सम्प्रति श्रयति सूनुतामयं कश्यपस्य वसुदेवरूपिणः ।। शिशुपालवधम् - 14 - 82 ।।
तात नोदधिविलोडनं प्रति त्वद्विनाथ वयम् उत्सहामहे
यः सुरैरिति सुरौघवल्लभो बल्लवैश्च जगदे जगत्पतिः ।। शिशुपालवधम् - 14 - 83 ।।
नात्तगन्धमवधूय शत्रुभिश्छायया च शमितामरश्रमम् ।
योऽभिमानमिव वृत्रविद्विषः पारिजातम् उदमूलयत् दिवः ।। शिशुपालवधम् - 14 - 84 ।।
यं समेत्य च ललाटलेखया बिभ्रतः सपदि शम्भुविभ्रमम् ।
चण्डमारुतमिव प्रदीपवच्चेदिपस्य निरवात् विलोचनम् ।। शिशुपालवधम् - 14 - 85 ।।
यः कोलतां बल्लवतां च बिभ्रद्दंष्ट्रामुदस्याशु भुजां च गुर्वीम् ।
मग्नस्य तोयापदि दुस्तरायां गोमण्डलस्योद्धरणं चकार ।। शिशुपालवधम् - 14 - 86 ।।
धन्यः असि यस्य हरिरेष समक्ष एव दूरादपि क्रतुषु यज्वभिरिज्यते यः ।
दत्वार्घमत्रभवते भुवनेषु यावत्संसारमण्डलम् अवाप्नुहि साधुवादम् ।। शिशुपालवधम् - 14 - 87 ।।
भीष्मोक्तं तदिति वचो निशम्य सम्यक्साम्राज्यश्रियमधिगच्छता नृपेण ।
दत्तेऽर्धे महति महीभृतां पुरोऽपि त्रैलोक्ये मधुभिद् अभूत् अनर्घ एव ।। शिशुपालवधम् - 14 - 88 ।।


।। इति शिशुपालवधमहाकाव्ये चतुर्दशसर्गः ।।

पञ्चदशसर्गः

अथतत्र पाण्डुतनयेन सदसि विहितं मुरद्विषः ।
मानम् असहत न चेदिपतिः परवृद्धिमत्सरि मनो हि मानिनाम् ।। शिशुपालवधम् - 15 - 1 ।।
पुर एव शार्ङ्गिणि सवैरमथ पुनरमुं तदर्चया ।
मन्युः अभजत् वगाढतरः समदोषकाल इव देहिनं ज्वरः ।। शिशुपालवधम् - 15 - 2 ।।
अभितर्जयन्निव समस्तनृपगणमसौ अकम्पयत्
लोलमुकुटमणिरश्मि शनैरशनैः प्रकम्पितजगत्र्रयं शिरः ।। शिशुपालवधम् - 15 - 3 ।।
स वमन्रुषाश्रु घनघर्मविगलदुरुगण्डमण्डलः ।
स्वेदजलकणकरालकरो व्यरुचत् प्रभिन्न इव कुञ्जरस्त्रिधा ।। शिशुपालवधम् - 15 - 4 ।।
स निकामघर्मितमभीक्ष्णम् अधुवत् अवधूतराजकः ।
क्षिप्तबहुलजलबिन्दु वपुः प्रलयार्णवोत्थित इवादिशूकरः ।। शिशुपालवधम् - 15 - 5 ।।
क्षणम् आश्लिषत् घटितशैलशिखरकठिनांसमण्डलः ।
स्तम्भमुपहितविधूतिमसावधिकावधूनितसमस्तसंसदम् ।। शिशुपालवधम् - 15 - 6 ।।
कनकाङ्गदद्युतिभिरस्य गमितम् अरुचत् पिशङ्गताम् ।
क्रोधमयशिखिशिखापटलैः परितः परीतमिव बाहुमण्डलम् ।। शिशुपालवधम् - 15 - 7 ।।
कृतसन्निधानमिव तस्य पुनरपि तृतीयचक्षुषा ।
क्रूरम् अजनि कुटिलभ्रु गुरुभ्रुकुटीकठोरितललाटमाननम् ।। शिशुपालवधम् - 15 - 8 ।।
अतिरक्तभावमुपगम्य कृतमतिरमुष्य साहसे ।
दृष्टिरगणितभयासिलताम् अवलम्बते स्म सभया सखीमिव ।। शिशुपालवधम् - 15 - 9 ।।
करकुड्मलेन निजमूरुमुरुतरनगाश्मकर्कशम् ।
त्रस्तचपलचलमानजनश्रुतभीमनादमयम् आहत उच्चकैः ।। शिशुपालवधम् - 15 - 10 ।।
इति चुक्रुधे भृशमनेन ननु महदवाप्य विप्रियम् ।
याति विकृतिमपि संवृतिमत्किमु यन्निसर्गनिरवग्रहं मनः ।। शिशुपालवधम् - 15 - 11 ।।
प्रथमं शरीरजविकारकृतमुकुलबन्धमव्यथी ।
भाविकलहफलयोगमसौ वचनेन कोपकुसुमं व्यचीकसत् ।। शिशुपालवधम् - 15 - 12 ।।
ध्वनयन्सभामथ सनीरघनरवगभीरवागभीः ।
वाचम् अवदत् तिरोषवशादतिनिष्ठुरस्फुटतराक्षरमसौ ।। शिशुपालवधम् - 15 - 13 ।।
यदपूपुजस्त्वमिह पार्थ मुरजितमपूजितं सताम् ।
प्रेम विलसति महत्तदहो दयितं जनः खलु गुणीति मन्यते ।। शिशुपालवधम् - 15 - 14 ।।
यदराज्ञि राजवदिहार्घ्यमुपहितमिदं मुरद्विषि ।
ग्राम्यमृग इव हविस्तदयं भजते ज्वलत्सु न महीशवह्निषु ।। शिशुपालवधम् - 15 - 15 ।।
अनृतां गिरं न गदसीति जगति पटहैः विघुष्यसे
निन्द्यमथ च हरिमर्चयतस्तव कर्मणैव विकसति सत्यता ।। शिशुपालवधम् - 15 - 16 ।।
तव धर्मराज इति नाम कथमिदमपष्ठु पठ्यते
भौमदिनम् अभिदधति अथवा भृशमप्रशस्तमपि मङ्गलं जनाः ।। शिशुपालवधम् - 15 - 17 ।।
यदि वार्चनीयतम एष किमपि भवतां पृथासुताः ।
शौरिरवनिपतिभिर्निखिलैरवमाननार्थमिह किं निमन्त्रितैः ।। शिशुपालवधम् - 15 - 18 ।।
अथवा न धर्ममसुबोधसमयम् अवयात बालिशाः ।
काममयमिह वृथापालितो हतबुद्धिरप्रणिहितः सरित्सुतः ।। शिशुपालवधम् - 15 - 19 ।।
स्वयमेव शन्तनुतनूज यमपि गणमर्घ्यमभ्यधाः ।
तत्र मुररिपुरयं कतमो यमनिन्द्यबन्दिवद् अभिष्टुषे वृथा ।। शिशुपालवधम् - 15 - 20 ।।
अवनीभृतां त्वमपहाय गणमतिजडः समुन्नतम् ।
नीचि नियतमिह यच्चपलो निरतः स्फुटं भवसि निम्नगासुतः ।। शिशुपालवधम् - 15 - 21 ।।
प्रतिपत्तुमङ्ग घटते च न तव नृपयोग्यमर्हणम् ।
कृष्ण कलय ननु कोऽहमिति स्फुटमापदां पदमनात्मवेदिता ।। शिशुपालवधम् - 15 - 22 ।।
असुरस्त्वया न्यवधि कोऽपि मधुरिति कथं प्रतीयते
दण्डदलितसरघः प्रथसे मधुसूदनस्त्वमिति सूदयन्मधु ।। शिशुपालवधम् - 15 - 23 ।।
मुचुकुन्दतल्पशरणस्य मगधपतिशातितौजसः ।
सिद्धमबल सबलत्वमहो तव रोहिणीतनयसाहचर्यतः ।। शिशुपालवधम् - 15 - 24 ।।
छलयन्प्रजास्त्वमनृतेन कपटपटुरैन्द्रजालिकः ।
प्रीतिम् अनुभवसि नग्नजितः सुतयेष्टसत्य इति सम्प्रतीयसे ।। शिशुपालवधम् - 15 - 25 ।।
धृतवान्न चक्रमरिचक्रभयचकितमाहवे निजम् ।
चक्रधर इति रथाङ्गमदः सततं बिभर्षि भुवनेषु रूढये ।। शिशुपालवधम् - 15 - 26 ।।
जगति श्रिया विरहितोऽपि यदुदधिसुतामुपायथाः ।
ज्ञातिजनजनितनामपदां त्वमतः श्रियः पतिरिति प्रथाम् अगाः ।। शिशुपालवधम् - 15 - 27 ।।
अभिशत्रु संयति कदाचिदविहितपराक्रमोऽपि यत् ।
व्योम्नि कथमपि चकर्थ पदं व्यपदिश्यते जगति विक्रमीत्यतः ।। शिशुपालवधम् - 15 - 28 ।।
पृथिवीं बिभर्थ यदि पूर्वमिदमपि गुणाय वर्तते
भूमिभृदिति परहारितभूस्त्वमुदाह्रियस्व कथमन्यथा जनैः ।। शिशुपालवधम् - 15 - 29 ।।
तव धन्यतेयमपि सर्वनृपतितुलितोऽपि यत्क्षणम् ।
क्लान्तकरतलधृताचलकः पृथिवीतले तुलितभूभृत् उच्यसे ।। शिशुपालवधम् - 15 - 30 ।।
त्वमशक्नुवन्नशुभकर्मनिरत परिपाकदारुणम् ।
जेतुमकुशलमतिर्नरकं यशसेऽधिलोकम् अजयः सुतं भुवः ।। शिशुपालवधम् - 15 - 31 ।।
सकलैर्वपुः सकलदोषसमुदितमिदं गुणैस्तव ।
त्यक्तमपगुण गुणत्रितयत्यजनप्रयासम् उपयासि किं मुधा ।। शिशुपालवधम् - 15 - 32 ।।
त्वयि पूजनं जगति जाल्म कृतमिदमपाकृते गुणैः ।
हासकरम् अघटते नितरां शिरसीव कङ्कतमपेतमूर्धजे ।। शिशुपालवधम् - 15 - 33 ।।
मृगविद्विषामिव यदित्थमजनि मिषतां पृथासुतैः ।
अस्य वनशुन इवापचितिः परिभाव एव भवतां भुवोऽधिपाः ।। शिशुपालवधम् - 15 - 34 ।।
अवधीत् जनङ्गम इवैष यदि हतवृषो वृषं ननु ।
स्पर्शमशुचिवपुः अर्हति न प्रतिमाननां तु नितरां नृपोचिताम् ।। शिशुपालवधम् - 15 - 35 ।।
यदि नाङ्गनेति मतिरस्य मृदुरजनि पूतनां प्रति ।
स्तन्यमघृणमनसः पिबतः किल धर्मतो भवति सा जनन्यपि ।। शिशुपालवधम् - 15 - 36 ।।
शकटव्युदासतरुभङ्गधरणिधरधारणादिकम् ।
कर्म यदयम् अकरोत् तरलः स्थिरचेतसां क इव तेन विस्मयः ।। शिशुपालवधम् - 15 - 37 ।।
अयमुग्रसेनतनयस्य नृपशुरपरः पशूनवन् ।
स्वमिवधमसुकरं पुरुषैः कुरुते स्म यत्परममेतदद्भुतम् ।। शिशुपालवधम् - 15 - 38 ।।
इतिवाचमुद्धतमुदीर्य सपदि सह वेणुदारिणा ।
सोढरिपुबलभरः असहनः स जहास दत्तकरतालमुच्चकैः ।। शिशुपालवधम् - 15 - 39 ।।
कटुनापि चैद्यवचनेन विकृतिमगमन्न माधवः ।
सत्यनियतवचसं वचसा सुजनं जनाश्चलयितुं क ईशते ।। शिशुपालवधम् - 15 - 40 ।।
न चतं तदेति शपमानमपि यदुनृपाः प्रचुक्रुधुः
शौरिसमयनिगृहीतधियः प्रभुचित्तमेव हि जनो अनुवर्तते ।। शिशुपालवधम् - 15 - 41 ।।
विहितागसो मुहुरलङ्घ्यनिजवचनदामसंयतः ।
तस्य कतिथ इति तत्प्रथमं मनसा समाख्यदपराधमच्युतः ।। शिशुपालवधम् - 15 - 42 ।।
स्मृतिवर्त्म तस्य न समस्तमपकृतम् इयाय विद्विषः ।
स्मर्तुमधिगतगुणस्मरणाः पटवो न दोषमखिलं खलूत्तमाः ।। शिशुपालवधम् - 15 - 43 ।।
नृपतौ अधिक्षिपति शौरिमथ सुरसरित्सुतो वचः ।
स्म आह चलयति भुवं मरुति क्षुभितस्य नादम् अनुकुर्वदम्बुधेः ।। शिशुपालवधम् - 15 - 44 ।।
अथ गौरवेण परिवादमपरिगणयंस्तमात्मनः ।
प्राह मुररिपुतिरस्करणक्षुभितः स्म वाचमिति जाह्नवीसुतः ।। शिशुपालवधम् - 15 - 45 ।।
विहितं मयाद्य सदसीदमपमृषितमच्युतार्चनम् ।
यस्य नमयतु स चापमयं चरणः कृतः शिरसि सर्वभूभृताम् ।। शिशुपालवधम् - 15 - 46 ।।
इतिभीष्मभाषितवचोर्थमधिगतवतामिव क्षणात् ।
क्षोभम् अगमत् अतिमात्रमथो शिशुपालपक्षपृथिवीभृतां गणः ।। शिशुपालवधम् - 15 - 47 ।।
शितितारकानुमितताम्रनयनमरुणीकृतं क्रुधा ।
बाणवदनम् उददीपि भिये जगतः सकीलमिव सूर्यमण्डलम् ।। शिशुपालवधम् - 15 - 48 ।।
प्रविदारितारुणतरोग्रनयनकुसुमोज्ज्वलः स्फुरन् ।
प्रातरहिमकरताम्रतनुर्विषजद्रुमोऽपर इव अभवत् द्रुमः ।। शिशुपालवधम् - 15 - 49 ।।
अनिशान्तवैरदहनेन विरहितवतान्तरार्द्रताम् ।
कोपमरुदभिहतेन भृशं नरकात्मजेन तरुणेव जज्वले ।। शिशुपालवधम् - 15 - 50 ।।
अभिधित्सतः किमपि राहुवदनविकृतं व्यभाव्यत ।
ग्रस्तशशधरमिवोपलसत्सितदन्तपङ्क्ति मुखमुत्तमौजसः ।। शिशुपालवधम् - 15 - 51 ।।
कुपिताकृतिं प्रथममेव हसितमशनैः असूचयत्
क्रुद्धमशनिदलिताद्रितटध्वनि दन्तवक्रमरिचक्रभीषणम् ।। शिशुपालवधम् - 15 - 52 ।।
प्रतिघः कुतोऽपि समुपेत्य नरपतिगणं समाश्रयत् ।
जामिहरणजनितानुशयः समुदाचचार निज एव रुक्मिणः ।। शिशुपालवधम् - 15 - 53 ।।
चरणेन हन्ति सुबलः स्म शिथिलितमहीध्रबन्धनाम् ।
तीरतरलजलराशिजलामवभुग्नभोगिफणमण्डलां भुवम् ।। शिशुपालवधम् - 15 - 54 ।।
कुपितेषु राजषु तथापि रथचरणपाणिपूजया ।
चित्तकलितकलहागमनो मुदमाहुकिः सुहृदिवाधिकां दधौ ।। शिशुपालवधम् - 15 - 55 ।।
गुरुकोपरुद्धपदम् आपत् सितयवनस्य रौद्रताम् ।
व्यात्तमशितुमिव सर्वजगद्विकरालमास्यकुहरं विवक्षतः ।। शिशुपालवधम् - 15 - 56 ।।
विवृतोरुबाहुपरिघेण सरभसपदं निधित्सता ।
हन्तुमखिलनृपतीन्वसुना वसने विलम्बिनि निजे विचस्खले ।। शिशुपालवधम् - 15 - 57 ।।
इति तत्तदा विकृतरूपम् अभजत् तदविभिन्नचेतसम् ।
मारबलमिव भयङ्करतां हरिबोधिसत्त्वमभि राजमण्डलम् ।। शिशुपालवधम् - 15 - 58 ।।
रभसात् उदस्थः अथ युद्धमनुचितभियोऽभिलाषुकाः ।
सान्द्रमुकुटकिरणोच्छलितस्फटिकांशवः सदसि मेदिनीभृतः ।। शिशुपालवधम् - 15 - 59 ।।
स्फुरमाणनेत्रकुसुमोष्ठदलम् अभृत भूभृदङ्घ्रिपैः ।
धूतपृथुभुजलतं चलितैर्द्रुतवातपातवनविभ्रमं सदः ।। शिशुपालवधम् - 15 - 60 ।।
हरिमप्यमंसत तृणाय कुरुपतिमजीगणन्न वा ।
मानतुलितभुवनत्रितयाः सरितः सुतात् अबिभयुः नभूभृतः ।। शिशुपालवधम् - 15 - 61 ।।
गुरुनिःश्वसन्नथ विलोलसदवथुवपुर्वचोविषम् ।
कीर्णदशनकिरणाग्निकणः फणवानिवैष विससर्ज चेदिपः ।। शिशुपालवधम् - 15 - 62 ।।
किमहो नृपाः समममीभिरुपपतिसुतैर्न पञ्चभिः ।
वध्यम् अभिहत भुजिष्यममुं सह चानया स्थविरराजकन्यया ।। शिशुपालवधम् - 15 - 63 ।।
अथवाध्वमेव खलु यूयमगणितमरुद्गणौजसः ।
वस्तु कियदिदमयं न मृधे मम केवलमस्य मुखमीक्षितुं क्षमः ।। शिशुपालवधम् - 15 - 64 ।।
विदतुर्यमुत्तमशेषपरिषदि नदीजधर्मजौ ।
यातु निकषमधियुद्धमसौ वचनेन किं भवतु साध्वसाधु वा ।। शिशुपालवधम् - 15 - 65 ।।
अचिरान्मया सह गतस्य समरमुरगारिलक्ष्मणः ।
तीक्ष्णविशिखमुखपीतमसृक्पततां गणैः पिबतु सार्धमुर्वरा ।। शिशुपालवधम् - 15 - 66 ।।
अभिधाय रूक्षमिति मा स्म गम इति पृथासुतेरिताम् ।
वाचमनुनयपरां स ततः सहसावकर्ण्य निरियाय संसदः ।। शिशुपालवधम् - 15 - 67 ।।
गृहमागताय कृपया च कथमपि निसर्गदक्षिणाः ।
क्षान्तिमहितमनसो जननीस्वसुरात्मजाय चुकुपुः न पाण्डवाः ।। शिशुपालवधम् - 15 - 68 ।।
चलितं ततोऽनभिहतेच्छमवनिपतियज्ञभूमितः ।
तूर्णमथ ययुमिव अनुययुः दमघोषसूनुमवनीशसूनवः ।। शिशुपालवधम् - 15 - 69 ।।
विशिखान्तराण्यतिपपात सपदि जवनैः स वाजिभिः ।
द्रष्टुमलघुरभसापतिता वनिताः चकार न सकामचेतसः ।। शिशुपालवधम् - 15 - 70 ।।
क्षणमीक्षितः पथि जनेन किमिदमिति जल्पता मिथः ।
प्राप्य शिबिरमविशङ्किमनाः समनीनहत् द्रुतमनीकिनीमसौ ।। शिशुपालवधम् - 15 - 71 ।।
त्वरमाणशाङ्खिकसवेगवदनपवनाभिपूरितः ।
शैलकटकतटभिन्नरवः प्रणनाद सांनहनिकोऽस्य वारिजः ।। शिशुपालवधम् - 15 - 72 ।।
जगदन्तकालसमवेतविषदविषमेरितारवम् ।
धीरनिजरवविलीनगुरुप्रतिशब्दमस्य रणतूर्यमावधि ।। शिशुपालवधम् - 15 - 73 ।।
सहसा ससंभ्रमविलोलसकलजनतासमाकुलम् ।
स्थानम् अगमत् अथ तत्परितश्चलितोडुमण्डलनभःस्थलोपमाम् ।। शिशुपालवधम् - 15 - 74 ।।
दधतो भयानकतरत्वमुपगतवतः समानताम् ।
धूमपटलपिहितस्य गिरेः समवर्मयन् सपदि मेदिनीभृतः ।। शिशुपालवधम् - 15 - 75 ।।
परिमोहिणा परिजनेन कथमपि चिरादुपाहृतम् ।
वर्म करतलयुगेन महत्तनुचूर्णपेषम् अपिषत् रुषा परः ।। शिशुपालवधम् - 15 - 76 ।।
रणसंमदोदयविकासिबलकलकलाकुलीकृते ।
शारिम् अशकत् अधिरोपयितुं द्विरदे मदच्युति जनः कथञ्चन ।। शिशुपालवधम् - 15 - 77 ।।
परितश्च धौतमुखरुक्मविलसदहिमांशुमण्डलाः ।
तेनुः तनुवपुषः पृथिवीं स्फुटलक्ष्यतेजस इवात्मजाः श्रियः ।। शिशुपालवधम् - 15 - 78 ।।
प्रधिमण्डलोद्धतपरागघनवलयमध्यवर्तिनः ।
पेतुः शनय इवाशनकैर्गुरुनिःस्वनव्यथितजन्तवो रथाः ।। शिशुपालवधम् - 15 - 79 ।।
दधतः शशाङ्कितशशाङ्करुचि लसदुरश्छदं वपुः ।
चक्रुः अथ सह पुरन्धिजनैरयथार्थसिद्धि सरकं महीभृतः ।। शिशुपालवधम् - 15 - 80 ।।
दयिताय सासवमुदस्तम् अपतत् वसादिनः करात् ।
कांस्यमुपहितसरोजपतद्भ्रमरौघभारगुरु राजयोषितः ।। शिशुपालवधम् - 15 - 81 ।।
भृशमङ्गसादकरुणत्वमविशददृशः कपोलयोः ।
वाक्यमसकलमपास्य मदं विदधुः दीयगुणमात्मना शुचः ।। शिशुपालवधम् - 15 - 82 ।।
सुदृशः समीकगमनाय युवभिरथ सम्बभाषिरे
शोकपिहितगलरुद्धगिरस्तरसागताश्रुजलकेवलोत्तराः ।। शिशुपालवधम् - 15 - 83 ।।
विपुलाचलस्थलघनेन जिगमिषुभिरङ्गनाः प्रियैः ।
पीनकुचतटनिपीडदलद्वरवारबाणमुरस आलिलिङ्गिरे ।। शिशुपालवधम् - 15 - 84 ।।
न मुमोच लोचनजलानि दयितजयमङ्गलैषिणि ।
यातमवनिमवसन्नभुजान्न गलत् विवेद वलयं विलासिनी ।। शिशुपालवधम् - 15 - 85 ।।
प्रविवत्सतः प्रियतमस्य निगडमिव चक्षुः अक्षिपत्
नीलनलिनदलदामरुचि प्रतिपादयुग्ममचिरोढसुन्दरी ।। शिशुपालवधम् - 15 - 86 ।।
व्रजतः क्व तात वजसि इति परिचयगतार्थमस्फुटम् ।
धैर्यम् अभिनत् उदितं शिशुना जननीनिभर्त्सनविवृद्धमन्युना ।। शिशुपालवधम् - 15 - 87 ।।
शठ नाकलोकललनाभिरविरतरतं रिरंससे ।
तेन वहसि मुदमिति अवदत् रणरागिणं रमणमीर्ष्ययापरा ।। शिशुपालवधम् - 15 - 88 ।।
ध्रियमाणमपि अगलत् अश्रु चलति दयिते नतभ्रुवः ।
स्नेहमकृतकरसं दधतामिदमेव युक्तमतिमुग्धचेतसाम् ।। शिशुपालवधम् - 15 - 89 ।।
सह कज्जलेन विरराज नयनकमलाम्बुसन्ततिः ।
गण्डफलकमभितः सुतनोः पदवीव शोकमयकृष्णवर्त्मनः ।। शिशुपालवधम् - 15 - 90 ।।
क्षणमात्ररोधि चलितेन कतिपयपदं नतभ्रुवः ।
स्रस्तभुजयुगगलद्वलयस्वनितं प्रतिक्षुतमिव उपशुश्रुवे ।। शिशुपालवधम् - 15 - 91 ।।
अभिवर्त्म वल्लभतमस्य विगलदमलायतांशुका ।
भूमिनभसि रभसेन यती विरराज काचन समं महोल्कया ।। शिशुपालवधम् - 15 - 92 ।।
समरोन्मुखे नृपगणेऽपि तदनुमरणोद्यतैकधीः ।
दीनपरिजनकृताश्रुजलो न भटीजनः स्थिरमना विचक्लमे ।। शिशुपालवधम् - 15 - 93 ।।
विदुषीव दर्शनममुष्य युवतिरतिदुर्लभं पुनः ।
यान्तमनिमिषमवितृप्तमनाः पतिम ईक्षते स्म भृशया दृशः पथः ।। शिशुपालवधम् - 15 - 94 ।।
सम्प्रत्युपेयाः कुशली पुनर्युधः सस्नेहमाशीरिति भर्तुरीरिता ।
सद्यः प्रसह्य द्वितयेन नेत्रयोः प्रत्याचचक्षे गलता भटस्त्रियाः ।। शिशुपालवधम् - 15 - 95 ।।
काचित्कीर्णा रजोभिर्दिवमनुविदधे भिन्नवक्त्रेन्दुलक्ष्मीरश्रीकाः काश्चिदन्तर्दिश इव दधिरे दाहमुद्भ्रान्तसत्त्वाः ।
भ्रेमुः वात्या इवान्याः प्रतिपदमपरा भूमिवत्कम्पम् आपुः प्रस्थाने पार्थिवानामशिवमिति पुरो भावि नार्यः शशंसुः ।। शिशुपालवधम् - 15 - 96 ।।


।। इति शिशुपालवधमहाकाव्ये पञ्चदशसर्गः ।।

षोडशसर्गः

दमघोषसुतेन कश्चन प्रतिशिष्टः प्रतिभानवानथ ।
उपगम्य हरिं सदस्यदः स्फुटभिन्नार्थम् उदाहरत् वचः ।। शिशुपालवधम् - 16 - 1 ।।
अभिधाय तदा तदप्रियं शिशुपालोऽनुशयं परं गतः ।
भवतोऽभिमनाः समीहते सरुषः कर्तुमुपेत्य माननाम् ।। शिशुपालवधम् - 16 - 2 ।।
विपुलेन निपीड्य निर्दयं मुदम् आयातु नितान्तमुन्मनाः ।
प्रचुराधिगताङ्गनिर्वृतिं परितस्त्वां खलु विग्रहेण सः ।। शिशुपालवधम् - 16 - 3 ।।
प्रणतः शिरसा करिष्यते सकलैरेत्य समं धराधिपैः ।
तव शासनमाशु भूपतिः परवानद्य यतस्त्वयैव सः ।। शिशुपालवधम् - 16 - 4 ।।
अधिवह्नि पतङ्गतेजसो नियतस्वान्तसमर्थकर्मणः ।
तव सर्वविधेयवर्तिनः प्रणतिं बिभ्रति केन भूभृतः ।। शिशुपालवधम् - 16 - 5 ।।
जनतां भयशून्यधीः परैरभिभूतामवलम्बसे यतः ।
तव कृष्ण गुणास्ततो नरैरसमानस्य दधति अगण्यताम् ।। शिशुपालवधम् - 16 - 6 ।।
अहितादनपत्रपस्त्रसन्नतिमात्रोज्झितभीरनास्तिकः ।
विनयोपहितस्त्वया कुतः सदृशोन्यो गुणवानविस्मयः ।। शिशुपालवधम् - 16 - 7 ।।
कृतगोपवधूरतेर्घ्नतो वृषमुग्रे नरकेऽपि सम्प्रति ।
प्रतिपत्तिरधः कृतैनसो जनताभिस्तव साधु वर्ण्यते ।। शिशुपालवधम् - 16 - 8 ।।
विहितापचितिर्महीभृतां द्विषतामाहितसाध्वसो बलैः ।
भव सानुचरस्त्वमुच्चकैर्महतामप्युपरि क्षमाभृताम् ।। शिशुपालवधम् - 16 - 9 ।।
घनजालनिभैर्दुरासदाः परितो नागकदम्बकैस्तव ।
नगरेषु भवन्तु वीथयः परिकीर्णा वनजैर्मृगादिभिः ।। शिशुपालवधम् - 16 - 10 ।।
सकलापिहितस्वपौरुषो नियतव्यापदवर्धितोदयः ।
रिपुरुन्नतधीरचेतसः सततव्याधिरनीतिः अस्तु ते ।। शिशुपालवधम् - 16 - 11 ।।
विकचोत्पलचारुलोचनस्तव चैद्येन घटामुपेयुषः ।
यदुपुङ्गव बन्धुसौहृदात्त्वयि पाता ससुरो नवासवः ।। शिशुपालवधम् - 16 - 12 ।।
चलितानकदुन्दुभिः पुरः सबलस्त्वं सह सारणेन तम् ।
समितौ रभसादुपागतः सगदः संप्रतिपत्तुम् अर्हसि ।। शिशुपालवधम् - 16 - 13 ।।
समरेषु रिपून्विनिघ्नता शिशुपालेन समेत्य सम्प्रति ।
सुचिरं सह सर्वसात्वतैः भव विश्वस्तविलासिनीजनः ।। शिशुपालवधम् - 16 - 14 ।।
विजितक्रुधम ईक्षताम् असौ मदतां त्वामहितं महीभृताम् ।
असकृज्जितसंयतं पुरो मुदितः सप्रमदं महीपतिः ।। शिशुपालवधम् - 16 - 15 ।।
इति जोषमवस्थितं द्विषः प्रणिधिं गामभिधाय सात्यकिः ।
वदति स्म वचोऽथ चोदितश्चलितैकभ्रू रथाङ्गपाणिना ।। शिशुपालवधम् - 16 - 16 ।।
मधुरं बहिरन्तरप्रियं कृतिना अवाचि वचस्तथा त्वया ।
सकलार्थतया विभाव्यते प्रियमन्तर्बहिरप्रियं यथा ।। शिशुपालवधम् - 16 - 17 ।।
अतिकोमलमेकतोऽन्यतः सरसाम्भोरुहवृन्तकर्कशम् ।
वहति स्फुटमेकमेव ते वचनं शाकपलाशदेश्यताम् ।। शिशुपालवधम् - 16 - 18 ।।
प्रकटं मृदु नाम जल्पतः परुषं सूचयतः अर्थमन्तरा ।
शकुनादिव मार्गवर्तिभिः पुरुषादुद्विजितव्यमीदृशात् ।। शिशुपालवधम् - 16 - 19 ।।
हरिमर्चितवान्म भूपतिर्यदि राज्ञस्तव कोऽत्र मत्सरः ।
न्यसनाय ससौरभस्य कस्तरुसूनस्य शिरस्यसूयति ।। शिशुपालवधम् - 16 - 20 ।।
सुकुमारमहो लघीयसां हृदयं तद्गतमप्रियं यतः ।
सहसैव समुद्गिरन्त्यमी क्षपयन्ति एव हि तन्मनीषिणः ।। शिशुपालवधम् - 16 - 21 ।।
उपकारपरः स्वभावतः सततं सर्वजनस्य सज्जनः ।
असतामनिशं तथाप्यहो गुरुहृद्रोगकरी तदुन्नतिः ।। शिशुपालवधम् - 16 - 22 ।।
परितप्यत एव नोत्तमः परितप्तोऽप्यपरः सुसंवृतिः ।
परवृद्धिभिराहितव्यथः स्फुटनिर्भिन्नदुराशयोऽधमः ।। शिशुपालवधम् - 16 - 23 ।।
अनिराकृततापसम्पदं फलहीनां सुमनोभिरुज्झिताम् ।
खलतां खलतामिवासतीं प्रतिपद्येत कथं बुधो जनः ।। शिशुपालवधम् - 16 - 24 ।।
प्रतिवाचमदत्त केशवः शपमानाय न चेदिभूभुजे ।
अनुहुङ्कुरुते घनध्वनिं न हि गोमायुरुतानि केसरी ।। शिशुपालवधम् - 16 - 25 ।।
जितरोषरया महाधियः सपदि क्रोधजितो लघुर्जनः ।
विजितेन जितस्य दुर्मतेर्मतिमद्भिः सह का विरोधिता ।। शिशुपालवधम् - 16 - 26 ।।
वचनैरसतां महीयसो न खलु व्येति गुरुत्वमुद्धतैः ।
किम् अपैति रजोभिरौर्वरैरवकीर्णस्य मणेर्महार्घता ।। शिशुपालवधम् - 16 - 27 ।।
परतोषयिता न कश्चन स्वगतो यस्य गुणः अस्ति देहिनः ।
परदोषकथाभिरल्पकः स्वजनं तोषयितुं किल इच्छति ।। शिशुपालवधम् - 16 - 28 ।।
सहजान्धदृशः स्वदुर्नये परदोषेक्षणदिव्यचक्षुषः ।
स्वगुणोच्चगिरो मुनिव्रताः परवर्णग्रहणेष्वसाधवः ।। शिशुपालवधम् - 16 - 29 ।।
प्रकटान्यपि नैपुणं महत्परवाच्यानि चिराय गोपितुम् ।
विवरीतुमथात्मनो गुणान्भृशमाकौशलमार्यचेतसाम् ।। शिशुपालवधम् - 16 - 30 ।।
किमिवाखिललोककीर्तितं कथयति त्मगुणं महामनाः ।
वदिता न लघीयसोऽपरः स्वगुणं तेन वदति असौ स्वयम् ।। शिशुपालवधम् - 16 - 31 ।।
विसृजन्ति विकत्थिनः परे विषमाशीविषवन्नराः क्रुधम् ।
दधतोऽन्तरसाररूपतां ध्वनिसाराः पटहा इवेतरे ।। शिशुपालवधम् - 16 - 32 ।।
नरकच्छिदम् इच्छति ईक्षितुं विधिना येन स चेदिभूपतिः ।
द्रुतमेतु न हापयिष्यते सदृशं तस्य विधातुमुत्तरम् ।। शिशुपालवधम् - 16 - 33 ।।
समनद्ध किमङ्ग भूपतिर्यदि सन्धित्सुरसौ सहामुना ।
हरिराक्रमणेन संनति किल बिभ्रीत भियेत्यसम्भवः ।। शिशुपालवधम् - 16 - 34 ।।
महतस्तरसा विलङ्घयन्निजदोषेण कुधीः विनश्यति
कुरुते न खलु स्वयेच्छया शलभानिन्धनमिद्धदीधितिः ।। शिशुपालवधम् - 16 - 35 ।।
यदपूरि पुरा महीपतिर्न मुखेन स्वयमागसां शतम् ।
अथ संप्रति पर्यपूपुरत्तदसौ दूतमुखेन शार्ङ्गिणः ।। शिशुपालवधम् - 16 - 36 ।।
यदनर्गलगोपुराननस्त्वमितो वक्ष्यसि किञ्चिदप्रियम् ।
विवरिष्यति तच्चिरस्य नः समयोद्वीक्षणरक्षितां क्रुधम् ।। शिशुपालवधम् - 16 - 37 ।।
निशमय्य तदूर्जितं शिनेर्वचनं नप्तुरनाप्तुरेनसाम् ।
पुनरुज्झितसाध्वसो द्विषाम् अभिधत्ते स्म वचो वचोहरः ।। शिशुपालवधम् - 16 - 38 ।।
विविनक्ति न बुद्धिदुर्विधः स्वयमेव स्वहितं पृथग्जनः ।
यदुदीरितमप्यदः परैर्न विजानाति तदद्भुतं महत् ।। शिशुपालवधम् - 16 - 39 ।।
विदुरेष्यदपायमात्मना परतः श्रद्दधतेऽथ वा बुधाः ।
न परोपहितं न च स्वतः प्रमिमीते अनुभवादृतेऽल्पधीः ।। शिशुपालवधम् - 16 - 40 ।।
कुशलं खलु तुभ्यमेव तद्वचनं कृष्ण यदभ्यधामहम् ।
उपदेशपराः परेष्वपि स्वविनाशाभिमुखेषु साधवः ।। शिशुपालवधम् - 16 - 41 ।।
उभयं युगपन्मयोदितं त्वरया सान्त्वमथेतरच्च ते ।
प्रविभज्य पृथङ्मनीषया स्वगुणं यत्किल तत् करिष्यसि ।। शिशुपालवधम् - 16 - 42 ।।
अथवाभिनिविष्टबुद्धिषु व्रजति व्यर्थकतां सुभाषितम् ।
रविरागिषु शीतरोचिषः करजालं कमलाकरेष्विव ।। शिशुपालवधम् - 16 - 43 ।।
अनपेक्ष्य गुणागुणौ जनः स्वरुचिं निश्चयतः अनुधावति
अपहाय महीशमार्चिचत्सदति त्वां ननु भीमपूर्वजः ।। शिशुपालवधम् - 16 - 44 ।।
त्वयि भक्तिमता न सत्कृतः कुरुराजा गुरुरेव चेदिपः ।
प्रियमांसमृगाधिपोज्झितः किमवद्यः करिकुम्भजो मणिः ।। शिशुपालवधम् - 16 - 45 ।।
क्रियते धवलः खलूच्चकैर्धवलैरेव सितेतरैरधः ।
शिरसौधम् अधत्त श्ङ्करः सुरसिन्धोर्मधुजित्तमङ्घ्रिणा ।। शिशुपालवधम् - 16 - 46 ।।
अबुधैः कृतमानसम्विदस्तव पार्थैः कुत एव योग्यता ।
सहसि प्लवगैरुपासितं न हि गुञ्जाफलम् एति सोष्मताम् ।। शिशुपालवधम् - 16 - 47 ।।
अपराधशतक्षमं नृपः क्षमय अत्येति भवन्तमेकया ।
हृतवत्यपि भीष्मकात्मजां त्वयि चक्षाम समर्थ एव यत् ।। शिशुपालवधम् - 16 - 48 ।।
गुरुभिः प्रतिपादितां वधूमपहृत्य स्वजनस्य भूपतेः ।
जनकः असि जनार्दन स्फुटं हतधर्मार्थतया मनोभुवः ।। शिशुपालवधम् - 16 - 49 ।।
अनिरूपिरूपसम्पदस्तमसो वान्यभृतच्छदच्छवेः ।
तव सर्वगतस्य सम्प्रति क्षितिपः क्षिप्नुरभीशुमानिव ।। शिशुपालवधम् - 16 - 50 ।।
क्षुभितस्य महीभृतस्त्वयि प्रशमोपन्यसनं वृथा मम ।
प्रलयोल्लसितस्य वारिधेः परिवाहो जगतः करोति किम् ।। शिशुपालवधम् - 16 - 51 ।।
प्रहितः प्रधनाय माधवानहमाकारयितुं महीभृता ।
न परेषु महौजसश्छलाद् अपकुर्वन्ति मलिम्लुचा इव ।। शिशुपालवधम् - 16 - 52 ।।
तदयं समुपैति भूपतिः पयसां पूर इवानिवारितः ।
अविलम्बितम् एधि वेतसस्तरुवन्माधव मा स्म भज्यथाः ।। शिशुपालवधम् - 16 - 53 ।।
परिपाति स केवलं शिशूनिति तन्नामनि मा स्म विश्वसीः ।
तरुणानपि रक्षति क्षमी स शरण्यः शरणागतान्द्विषः ।। शिशुपालवधम् - 16 - 54 ।।
न विदध्युरशङ्कमप्रियं महतः स्वार्थपराः परे कथम् ।
भजते कुपितोऽप्युदारधीरनुनीतिं नतिमात्रकेण सः ।। शिशुपालवधम् - 16 - 55 ।।
हितमप्रियम् इच्छसि श्रुतं यदि सन्धत्स्व पुरा न नश्यसि
अनृतैरथ तुष्यसि प्रियैर्जयताज्जीव भवावनीश्वरः ।। शिशुपालवधम् - 16 - 56 ।।
प्रतिपक्षजिदप्यसंशयं युधि चैद्येन विजेष्यते भवान् ।
ग्रसते हि तमोपहं मुहुर्ननु राह्वाह्वमहर्पतिं तमः ।। शिशुपालवधम् - 16 - 57 ।।
अचिराज्जितमीनकेतनो विलसन्वृष्णिगणैर्नमस्कृतः ।
क्षितिपः क्षयितोद्धतान्तको हरलीलां स विडम्बयिष्यति ।। शिशुपालवधम् - 16 - 58 ।।
निहतोन्मददुष्टकुञ्जराद्दधतो भूरि यशः क्रमार्जितम् ।
बिभेति रणे हरेरपि क्षितिपः का गणनास्य वृष्णिषु ।। शिशुपालवधम् - 16 - 59 ।।
न तदद्भुतमस्य यन्मुखं युधि पश्यन्ति भिया न शत्रवः ।
द्रवतां ननु पृष्ठम् ईक्षते वदनं सोऽपि न जातु विद्विषाम् ।। शिशुपालवधम् - 16 - 60 ।।
प्रतनूल्लसिताचिरद्युतः शरदं प्राप्य विखण्डितायुधाः ।
दधते अरिभिरस्य तुल्यतां यदि नासारभृतः पयोभृतः ।। शिशुपालवधम् - 16 - 61 ।।
मलिनं रणरेणुभिर्मुहुर्द्विषतां क्षालितमङ्गनाश्रुभिः ।
नृपमौलिमरीचिवर्णकैः खलु यस्याङ्घियुगं विलिप्यते ।। शिशुपालवधम् - 16 - 62 ।।
समराय निकामकर्कशं क्षणमाकृष्टम् उपैति यस्य च ।
धनुषा सममाशु विद्विषां कुलमाशङ्कितभङ्गमानतिम् ।। शिशुपालवधम् - 16 - 63 ।।
तुहिनांशुममुं सुहृज्जनाः कलयन्ति उष्णकरं विरोधिनः ।
कृतिभिः कृतदृष्टिविभ्रमाः स्रजमेके भुजगं यथापरे ।। शिशुपालवधम् - 16 - 64 ।।
दधतोऽसुलभक्षयागमास्तनुमेकान्तरताममानुषीम् ।
भुवि सम्प्रति न प्रतिष्ठिताः सदृशा यस्य सुरैररातयः ।। शिशुपालवधम् - 16 - 65 ।।
अतिविस्मयनीयकर्मणो नृपतेर्यस्य विरोधि किञ्चन ।
यदमुक्तनयो नयति सावहितानां कुलमक्षयं क्षयम् ।। शिशुपालवधम् - 16 - 66 ।।
चलितोर्ध्वकबन्धसम्पदो मकरव्यूहनिरूद्धवर्त्मनः।
अतरत् स्वभुजौजसा मुहुर्महतः सङ्गरसागरानसौ ।। शिशुपालवधम् - 16 - 67 ।।
न चिकीर्षति यः स्मयोद्धतो नृपतिस्तच्चरणोपगं शिरः ।
चरणं कुरुते गतस्मयः स्वमसावेव तदीयमूर्धनि ।। शिशुपालवधम् - 16 - 68 ।।
स्वभुजद्वयकेवलायुधश्चतुरङ्गामपहाय वाहिनीम् ।
बहुशः सह शक्रदन्तिना स चतुर्दन्तम् अगच्छत् आहवम् ।। शिशुपालवधम् - 16 - 69 ।।
अविचालितचारुचक्रयोरनुरागादुपगूढयोः श्रिया ।
युवयोरिदमेव भिद्यते यदुपेन्द्रस्त्वमतीन्द्र एव सः ।। शिशुपालवधम् - 16 - 70 ।।
भूतभूतिरहीनभोगभाग्विजितानेकपुरोऽपि विद्विषाम् ।
रुचिमिन्दुदले करोति अजः परिपूर्णेन्दुरुचिर्महीपतिः ।। शिशुपालवधम् - 16 - 71 ।।
नयति द्रुतमुद्धतिश्रितः प्रसभं भङ्गमभङ्गुरोदयः ।
गमयति अवनीतलस्फुरद्भुजशाखं भृशमन्यमुन्नतिम् ।। शिशुपालवधम् - 16 - 72 ।।
अधिगम्य च रन्ध्रमन्तरा जनयन्मण्डलभेदमन्यतः ।
खनति क्षतसंहति क्षणादपि मूलानि महान्ति कस्यचित् ।। शिशुपालवधम् - 16 - 73 ।।
घनपत्र्रभृतोऽनुगामिनस्तरसाकृष्य करोति कांश्चन ।
दृढमप्यपरं प्रतिष्ठितं प्रतिकूलं नितरां निरस्यति ।। शिशुपालवधम् - 16 - 74 ।।
इति पूर इवोदकस्य यः सरितां प्रावृषिजस्तटद्रुमैः ।
क्वचनापि महानखण्डितप्रसरः क्रीडति भूभृतां गणैः ।। शिशुपालवधम् - 16 - 75 ।।
अलघूपलपङ्क्तिशालिनीः परितो रुद्धनिरन्तराम्बराः ।
अधिरूढनितम्बभूमयो न विमुञ्चन्ति चिराय मेखलाः ।। शिशुपालवधम् - 16 - 76 ।।
कटकानि भजन्ति चारुभिर्नवमुक्ताफलभूषणैर्भुजैः ।
नियतं दधते च चित्रकैरवियोगं पृथुगण्डशैलतः ।। शिशुपालवधम् - 16 - 77 ।।
इति यस्य ससम्पदः पुरा यदवापुर्भवनेष्वरिस्त्रियः ।
स्फुटमेव समस्तमापदा तदिदानीमवनीध्रमूर्धसु ।। शिशुपालवधम् - 16 - 78 ।।
महतः कुकुरान्धकद्रुमानतिमात्रं दववद्दहन्नपि ।
अतिचित्रमिदं महीपतिर्यदकृष्णां पृथिवीं करिष्यति ।। शिशुपालवधम् - 16 - 79 ।।
परितः प्रमिताक्षरापि सर्वं विषयं प्राप्तवती गता प्रतिष्ठाम् ।
न खलु प्रतिहन्यते कुतश्चित्परिभाषेव गरीयसी यदाज्ञा ।। शिशुपालवधम् - 16 - 80 ।।
यामूढवानूढवराहमूर्तिर्मुहूर्तमादौ पुरुषः पुराणः ।
तेन उह्यते साम्प्रतमक्षतैव क्षतारिणा सम्यगसौ पुनर्भूः ।। शिशुपालवधम् - 16 - 81 ।।
भूयांस क्वचिदपि काममस्खलन्तस्तुङ्गत्वं दधति च यद्यपि द्वयेऽपि ।
कल्लोलाः सलिलनिधेरवाप्य पारं शीर्यन्ते न गुणमहोर्मयस्तदीयाः ।। शिशुपालवधम् - 16 - 82 ।।
लोकालोकव्याहतं घर्मरश्मेः शालीनं वा धाम नालं प्रसर्तुम् ।
लोकस्याग्रे पश्यतो धृष्टमाशु क्रामति उच्चैर्भूभृतो यस्य तेजः ।। शिशुपालवधम् - 16 - 83 ।।
विच्छित्तिर्नवचन्दनेन वपुषो भिन्नोऽधरोऽलक्तकैरच्छाच्छे पतिताञ्जने च नयने श्रोण्योऽलसन्मेखलाः ।
प्राप्तो मौक्तिकहारमुन्नतकुचाभोगस्तदीयद्विषामित्थं नित्यविभूषणा युवतयः सम्पत्सु चापत्स्वपि ।। शिशुपालवधम् - 16 - 84 ।।
विनिहत्य भवन्तमूर्जितश्रीर्युधि सद्यः शिशुपालतां यथार्थाम् ।
रुदतां भवदङ्गनागणानां करुणान्तःकरणः करिष्यते असौ ।। शिशुपालवधम् - 16 - 85 ।।


।। इति शिशुपालवधमहाकाव्ये षोडशसर्गः ।।

सप्तदशसर्गः

इतीरिते वचसि वचस्विनामुना युगक्षयक्षुभितमरुद्गरीयसि ।
प्रचक्षुभे सपदि तदम्बुराशिना समं महाप्रलयसमुद्यतं सदः ।। शिशुपालवधम् - 17 - 1 ।।
सरागया स्रुतघनघर्मतोयया कराहतिध्वनितपृथूरुपीठया ।
मुहुर्मुहुर्दशनविखण्डितोष्ठया रुषा नृपाः प्रियतमयेव भेजिरे ।। शिशुपालवधम् - 17 - 2 ।।
अलक्ष्यत क्षणदलिताङ्गदे गदे करोदरप्रहितनिजांसधामनि ।
समुल्लसच्छकलितपाटलोपलैः स्फुलिङ्गवान्स्फुटमिव कोपपावकः ।। शिशुपालवधम् - 17 - 3 ।।
अवज्ञया यत् अहसत् उच्चकैर्बलः समुल्लसद्दशनमयूखमण्डलः ।
रुषारुणीकृतमपि तेन तत्क्षणं निजं वपुः पुनरयन्निजां रुचिम् ।। शिशुपालवधम् - 17 - 4 ।।
यदुत्पतत्पृथुतरहारमण्डलं व्यवर्तत द्रुतमभिदूतमुल्मुकः ।
बृहच्छिलातलकठिनांसघट्टितं ततः अभवत् भ्रमितमिवाखिलं सदः ।। शिशुपालवधम् - 17 - 5 ।।
प्रकुप्यतः श्वसनसमीरणाहतिस्फुटोष्मभिस्तनुवसनान्तमारुतैः ।
युधाजितः कृतपरितूर्णवीजनं पुनस्तरां वदनसरोजम् अस्विदत् ।। शिशुपालवधम् - 17 - 6 ।।
प्रजापतिक्रतुनिधनार्थमुत्थितं व्यतर्कयत् ज्वरमिव रौद्रमुद्धतम् ।
समुद्यतं सपदि वधाय विद्विषामतिक्रुधं निषधमनौषधं जनः ।। शिशुपालवधम् - 17 - 7 ।।
परस्परं परिकुपितस्य पिंषतः क्षतोर्मिकाकनकपरागपङ्किलम् ।
करद्वयं सपदि सुधन्वनो निजैरनारतस्रुतिभिः अधाव्यत अम्बुभिः ।। शिशुपालवधम् - 17 - 8 ।।
निरायतामनलशिखोज्ज्वलां ज्वलन्नखप्रभाकृतपरिवेषसम्पदम् ।
अविभ्रमद्भ्रमदनलोल्मुकाकृतिं प्रदेशिनीं जगदिव दग्धुमाहुकिः ।। शिशुपालवधम् - 17 - 9 ।।
दुरीक्षतामभजत मन्मथस्तथा यथा पुरा परिचितदाहधार्ष्ट्याया ।
ध्रुवं पुरः सशरममुं तृतीयया हरोऽपि न व्यसहत वीक्षितुं दृशा ।। शिशुपालवधम् - 17 - 10 ।।
विचिन्तयन्नुपनतमाहवं रसादुरः स्फुरत्तनुरुहमग्रपाणिना ।
परामृशत् कठिनकठोरकामिनीकुचस्थलप्रमुषितचन्दनं पृथुः ।। शिशुपालवधम् - 17 - 11 ।।
विलङ्घितस्थितिमभिवीक्ष्य रूक्षया रिपोर्गिरा गुरुमपि गान्दिनीसुतम् ।
जनैस्तदा युगपरिवर्तवायुभिर्विवर्तिता गिरिपतयः प्रतीयिरे ।। शिशुपालवधम् - 17 - 12 ।।
विवर्तयन्मदकलुषीकृते दृशौ कराहतक्षितिकृतभैरवावरवः ।
क्रुधा दधत्तनुमतिलोहिनीम् अभूत् प्रसेनजिद्गज इव गैरिकारुणः ।। शिशुपालवधम् - 17 - 13 ।।
सकुङ्कुमैरविरलमम्बुबिन्दुभिर्गवेषणः परिणतदाडिमारुणैः ।
स मत्सरस्फुटितवपुर्विनिःसृतैः बभौ चिरं निचित इवासृजां लवैः ।। शिशुपालवधम् - 17 - 14 ।।
ससम्भ्रमं चरणतलाभिताडनस्फुटन्महीविवरवितीर्णवर्त्मभिः ।
रवेः करैरनुचिततापितोरगं प्रकाशतां शिनिः अनयत् सातलम् ।। शिशुपालवधम् - 17 - 15 ।।
प्रतिक्षणं विधुवति शारणे शिरः शिखिद्युतः कनककिरीटरश्मयः ।
अशङ्कितं युधमधुना विशन्त्वमी क्षमापतीनिति निरराजयन्निव ।। शिशुपालवधम् - 17 - 16 ।।
दधौ चलत्पृथुरसनं विवक्षया विदारितं विततबृहद्भुजालतः ।
विदूरथः प्रतिभयमास्यकन्दरं चलत्फणाधरमिव कोटरं तरुः ।। शिशुपालवधम् - 17 - 17 ।।
समाकुले सदसि तथापि विक्रियां मनः अगमत् न मुरभिदः परोदितैः ।
घनाम्बुभिर्बहुलितनिम्नगाजलैर्जलं न हि व्रजति विकारमम्बुधेः ।। शिशुपालवधम् - 17 - 18 ।।
परानमी यदपवदन्त आत्मनः स्तुवन्ति च स्थितिरसतामसाविति ।
निनाय नो विकृतिमविस्मितः स्मितं मुखं शरच्छशधरमुग्धमुद्धवः ।। शिशुपालवधम् - 17 - 19 ।।
निराकृते यदुभिरिति प्रकोपिभिः स्पशे शनैर्गतवति तत्र विद्विषाम् ।
मुरद्विषः स्वनितभयानकानकं बलं क्षणादथ समनह्यत आजये ।। शिशुपालवधम् - 17 - 20 ।।
मुहुः प्रतिस्खलितपरायुधा युधि स्थवीयसीरचलनितम्बनिर्भराः ।
अदंशयन्नरहितशौर्यदंशनास्तनूरयं नय इति वृष्णिभूभृतः ।। शिशुपालवधम् - 17 - 21 ।।
दुरुद्वहाः क्षणमपरैस्तदन्तरे रणश्रवादुपचयमाशु बिभ्रति
महीभुजां महिमभृतां न संममुर्मुदोऽन्तरा वपुषि बहिश्च कञ्चुकाः ।। शिशुपालवधम् - 17 - 22 ।।
सकल्पनं द्विरदगणं वरूथिनस्तुरङ्गिणो जयनयुजश्च वाजिनः ।
त्वरायुजः स्वयमपि कुर्वतो नृपाः पुनःपुनस्तदधिकृतानतत्वरन् ।। शिशुपालवधम् - 17 - 23 ।।
युधे परैः सह दृढबद्धकक्षया कलक्वणन्मधुपकुलोपगीतया ।
अदीयत द्विपघटया सवारिभिः करोदरैः स्वयमथ दानमक्षयम् ।। शिशुपालवधम् - 17 - 24 ।।
सुमेखलाः सिततरदन्तचारवः समुल्लसत्तनुपरिधानसम्पदः ।
रणैषिणां पुलकभृतोऽधिकन्धरं ललम्बिरे सदसिलताः प्रिया इव ।। शिशुपालवधम् - 17 - 25 ।।
मनोहरैः प्रकृतिमनोरमाकृतिर्भयप्रदैः समितिषु भीमदर्शनः ।
सदैवतैः सततमथानपायिभिर्निजाङ्गवन्मुरजित् असेव्यत आयुधैः ।। शिशुपालवधम् - 17 - 26 ।।
अवारितं गतमुभयेषु भूरिशः क्षमाभृतामथ कटकान्तरेष्वपि ।
मुहुर्युधि क्षतसुरशत्रुशोणितप्लुतप्रधिं रथम् अधिरोहति स्म सः ।। शिशुपालवधम् - 17 - 27 ।।
उपेत्य च स्वनगुरुपक्षमारुतं दिवस्त्विषा कपिशितदूरदिङ्मुखः ।
प्रकम्पितस्थिरतरयष्टि तत्क्षणं पतत्पतिः पदमधिकेतनं दधौ ।। शिशुपालवधम् - 17 - 28 ।।
गभीरताविजितमृदङ्गनादया स्वनश्रिया हतरिपुहंसहर्षया ।
प्रमोदयन्नथ मुखरान्कलापिनः प्रतिष्ठते नवघनवद्रथः स्म सः ।। शिशुपालवधम् - 17 - 29 ।।
निरन्तरस्थगितदिगन्तरं ततः समुच्चलद्बलमवलोकयञ्जनः ।
विकौतुकः प्रकृतमहाप्लवे अभवत् विशृङ्खलं प्रचलितसिन्धुवारिणि ।। शिशुपालवधम् - 17 - 30 ।।
बबृंहिरे गजपतयो महानकाः प्रदध्वनुर्जयतुरगा जिहेषिरे
असम्भवद्गिरिवरगह्वरैरभूत्तदा रवैर्दलित इव स्व आश्रयः ।। शिशुपालवधम् - 17 - 31 ।।
अनारतं रसति जयाय दुन्दुभौ मधुद्विषः फलदलघुप्रतिस्वनैः ।
विनिष्पतन्मृगपतिभिर्गुहामुखैर्गताः परां मुदमहसन्निवाद्रयः ।। शिशुपालवधम् - 17 - 32 ।।
जडीकृतश्रवणपथे दिवौकसां चमूरवे विशति सुराद्रिकन्दराः ।
अनर्थकैरजनि विदग्धकामिनीरतान्तरक्वणितविलासकौशलैः ।। शिशुपालवधम् - 17 - 33 ।।
अरातिभिर्युधि सहयुध्वनो हताञ्जिघृक्षवः श्रुतरणतूर्यनिःस्वनाः ।
अकुर्वत प्रथमसमागमोचितं चिरोज्झितं सुरगणिकाः प्रसाधनम् ।। शिशुपालवधम् - 17 - 34 ।।
प्रचोदिताः परिचितयन्तृकर्मभिर्निषादिभिर्विदितयताङ्कुशक्रियैः ।
गजाः सकृत्करतललोलनालिका हता मुहुः प्रणदितघण्टम् आययुः ।। शिशुपालवधम् - 17 - 35 ।।
सविक्रमक्रमणचलैरितस्ततः प्रकीर्णकैः क्षिपत इव क्षिते रजः ।
व्यरंसिषुर्न खलु जनस्य दृष्टयस्तुरङ्गमादभिनवभाण्डभारिणः ।। शिशुपालवधम् - 17 - 36 ।।
चलाङ्गुलीकिसलयमुद्धतैः करैः अनृत्यत स्फुटकृतकर्णतालया ।
मदोदकद्रवकटभित्तिसङ्गिभिः कलस्वरं मधुपगणैः अगीयत ।। शिशुपालवधम् - 17 - 37 ।।
असिच्यत प्रशमितपांशुभिर्मही मदाम्बुभिर्धृतनवपूर्णकुम्भया ।
अवाद्यत श्रवणसुखं समुन्नमत्पयोधरध्वनिगुरु तूर्यमाननैः ।। शिशुपालवधम् - 17 - 38 ।।
उदासिरे पवनविधूतवाससस्ततस्ततो गगनलिहश्च केतवः ।
यतः पुरः प्रतिरिपु शार्ङ्गिणः स्वयं व्यधीयत द्विपघटयेति मङ्गलम् ।। शिशुपालवधम् - 17 - 39 ।।
न शून्यतामगमदसौ निवेशभूः प्रभूततां दधति बले चलति अपि ।
पयसि अभिद्रवति भुवं युगावधौ सरित्पतिर्न हि समुपैति रिक्तताम् ।। शिशुपालवधम् - 17 - 40 ।।
यियासितामथ मधुभिद्विवस्वता जनो जरन्महिषविषाणधूसराम् ।
पुरः पतत्परबलरेणुमालिनीम् अलक्षयत् दिशमभिधूमितामिव ।। शिशुपालवधम् - 17 - 41 ।।
मनस्विनामुदितगुरुप्रतिश्रुतिः श्रुतस्तथा न निजमृदङ्गनिःस्वनः ।
यथा पुरःसमरसमुद्यतद्विषद्बलानकध्वनिः उदकर्षयत् मनः ।। शिशुपालवधम् - 17 - 42 ।।
यथा यथा पटहरवः समीपतामुपागमत्स हरिवराग्रतःसरः ।
तथा तथा हृषितवपुर्मुदाकुला द्विषां चमूः अजनि जनीव चेतसा ।। शिशुपालवधम् - 17 - 43 ।।
प्रसारिणि सपदि नभस्तले ततः समीरणभ्रमितपरागरूषिता ।
व्यभाव्यत प्रलयजकालिकाकृतिर्विदूरतः प्रतिबलकेतनावलिः ।। शिशुपालवधम् - 17 - 44 ।।
क्षणेन च प्रतिमुखतिग्मदीधितिप्रतिप्रभास्फुरदसिदुःखदर्शना ।
भयङ्करा भृशमपि दर्शनीयतां ययौ असावसुरचमूश्च भूभृताम् ।। शिशुपालवधम् - 17 - 45 ।।
पयोमुचामभिपततां दिवि द्रुतं विपर्ययः परित इवातपस्य सः ।
समक्रमः समविषमेष्वथ क्षणात्क्षमातलं बलजलराशिरानशे ।। शिशुपालवधम् - 17 - 46 ।।
ममौ पुरः क्षणमिव पश्यतो महत्तनूदरस्थितभुवनत्रयस्य तत् ।
विशालतां दधति नितान्तम् आयते बलं द्विषां मधुमथनस्य चक्षुषि ।। शिशुपालवधम् - 17 - 47 ।।
भृशस्विदः पुलकविकासिमूर्तयो रसाधिके मनसि निविष्टसाहसाः ।
मुखे युधः सपदि रतेरिव अभवन् ससम्भ्रमाः क्षितिपचमूवधूगणाः ।। शिशुपालवधम् - 17 - 48 ।।
ध्वजांशुकैर्ध्रुवमनुकूलमारुतप्रसारितैः प्रसभकृतोपहूतयः ।
यदूनभि द्रुततरमुद्यतायुधाः क्रुधा परं रयमरयः प्रपेदिरे ।। शिशुपालवधम् - 17 - 49 ।।
हरेरपि प्रति परकीयवाहिनीरधिस्यदं प्रववृतिरे चमूचराः ।
विलम्बितुं न खलु सहा मनस्विनो विधित्सतः कलहमवेक्ष्य विद्विषः ।। शिशुपालवधम् - 17 - 50 ।।
उपाहितैर्वपुषि निवातवर्मभिः स्फुरन्मणिप्रसृतमरीचिसूचिभिः ।
निरन्तरं नरपतयो रणाजिरे रराजिरे शरनिकराचिता इव ।। शिशुपालवधम् - 17 - 51 ।।
अथोच्चकैर्जरठकपोतकन्धरातनूरुहप्रकरविपाण्डुरद्युति ।
वलैश्चलच्चरणविधूतमुच्चरद्धनावलीः उदचरत क्षमारजः ।। शिशुपालवधम् - 17 - 52 ।।
विषङ्गिभिर्भृशमितरेतरं क्वचित्तुरङ्गमैरुपरि निरुद्धनिर्गमाः ।
चलाचलैरनुपदमाहताः खुरैः विबभ्रमुः चिरमध एव धूलयः ।। शिशुपालवधम् - 17 - 53 ।।
गरीयसः प्रचुरमुखस्य रागिणो रजः अभवत् व्यवहितसत्त्वमुत्कटम् ।
सिसृक्षतः सरसिजजन्मनो जगद्बलस्य तु क्षयमपनेतुम् इच्छतः ।। शिशुपालवधम् - 17 - 54 ।।
पुरा शरक्षतिजनितानि संयुगे नयन्ति नः प्रसभमसृञ्जि पङ्कताम् ।
इति ध्रुवं व्यलगिषुरात्तभीतयः खमुच्चकैरनलसखस्य केतवः ।। शिशुपालवधम् - 17 - 55 ।।
क्वचिल्लसद्घननिकुरम्बकर्बुरः क्वचिद्धिरण्मयकणपुञ्जपिञ्जरः ।
क्वचिच्छरच्छशधरखण्डपाण्डुरः खुरक्षतक्षितितलरेणुः उद्ययौ ।। शिशुपालवधम् - 17 - 56 ।।
महीयसां महति दिगन्तदन्तिनामनीकजे रजसि मुखानुषङ्गिणि ।
विसारिताम् अजिहत कोकिलावलीमलीमसा जलदमदाम्बुराजयः ।। शिशुपालवधम् - 17 - 57 ।।
शिरोरुहैरलिकुलकोमलैरमी मुधा मृधे मृषत युवान एव मा ।
बलोद्धतं धवलितमूर्धजानिति ध्रुवं जनाञ्जरत इव अकरोत् रजः ।। शिशुपालवधम् - 17 - 58 ।।
सुसंहतैर्दधदपि धाम नीयते तिरस्कृतिं बहुभिरसंशयं परैः ।
यतः क्षितेरवयवसम्पदोऽणवस्त्विषां निधेरपि वपुः आवरीषत ।। शिशुपालवधम् - 17 - 59 ।।
द्रुतद्रवद्रथचरणक्षतक्षमातलोल्लसद्बहुलरजोवगुण्ठितम् ।
युगक्षयक्षणनिरवग्रहे जगत्पयोनिधेर्जल इव मग्नम् आबभौ ।। शिशुपालवधम् - 17 - 60 ।।
समुल्लसद्दिनकरवक्त्रकान्तयो रजस्वलाः परिमलिताम्बरश्रियः ।
दिगङ्गनाः क्षणमविलोकनक्षमाः शरीरिणां परिहरणीयतां ययुः ।। शिशुपालवधम् - 17 - 61 ।।
निरीक्षितुं वियति समेत्य कौतुकात्पराक्रमं समरमुखे महीभृताम् ।
रजस्ततावनिमिषलोचनोत्पलव्यथाकृति त्रिदशगणैः पलाय्यत ।। शिशुपालवधम् - 17 - 62 ।।
विषङ्गिणि प्रतिपदमापिबत्यपो हताचिरद्युतिनि समीरलक्ष्मणि ।
शनैःशनैरुपचितपङ्कभारिकाः पयोमुचः प्रययुः पेतवृष्टयः ।। शिशुपालवधम् - 17 - 63 ।।
नभोनदीव्यतिकरधौतमूर्तिभिर्वियद्गतैरनधिगतानि लेभिरे
चलच्चमूतुरगखुराहतोत्पतन्महीरजःस्नपनसुखानि दिग्गजैः ।। शिशुपालवधम् - 17 - 64 ।।
गजव्रजाक्रमणभरावनम्रया रसातलं यदखिलम् आनशे भुवा ।
नभस्तलं बहुलतरेण रेणुना ततोऽगमत्र्रिजगदिवैकतां स्फुटम् ।। शिशुपालवधम् - 17 - 65 ।।
समस्थलीकृतविवरेण पूरिता महीभृतां बलरजसा महागुहाः ।
रहस्त्रपाविधुरवघूरतार्थिनां नभःसदामुपकरणीयतां ययुः ।। शिशुपालवधम् - 17 - 66 ।।
गते मुखच्छदपटसादृशीं दृशः पथस्तिरो दधति घने रजस्यपि ।
मदानिलैरधिमधुचूतगन्धिभिर्द्विपा द्विपान् अभिययुः रेव रंहसा ।। शिशुपालवधम् - 17 - 67 ।।
मदाम्भसा परिगलितेन सप्तधा गजाञ्जनः शमितरजश्चयानधः ।
उपर्यवस्थितघनपांशुमण्डलान् अलोकयत् ततपटमण्डपानिव ।। शिशुपालवधम् - 17 - 68 ।।
अन्यूनोन्नतयोऽतिमात्रपृथवः पृथ्वीधरश्रीभृतस्तन्वन्तः कनकावलीभिरुपमां सौदामनीदामभिः ।
वर्षन्तः शममानयन्नुपलसच्छृङ्गारलेखायुधाः काले कालियकायकालवपुषः पांसून्गजाम्भोमुचः ।। शिशुपालवधम् - 17 - 69 ।।


।। इति शिशुपालवधमहाकाव्ये सप्तदशसर्गः ।।

अष्टादशसर्गः

सञ्जग्माते तावपायनपेक्षौ सेनाम्भोधी धीरनादौ रयेण ।
पक्षच्छेदात्पूर्वमेकत्र देशे वाञ्छन्तौ वा विन्ध्यसह्यौ निलेतुम् ।। शिशुपालवधम् - 18 - 1 ।।
पत्तिः पत्तिं वाहमेयाय वाजी नागं नागः स्यन्दनस्थो रथस्थम् ।
इत्थं सेना वल्लभस्येव रागादङ्गेनाङ्गं प्रत्यनीकस्य भेजे ।। शिशुपालवधम् - 18 - 2 ।।
रथ्याघोषैर्बृंहणैर्वारणानामैक्यं गच्छन्वाजिनां ह्रेषया च ।
व्योमव्यापी सन्ततं दुन्दुभीनामव्यक्तः अभूत् ईशितेव प्रणादः ।। शिशुपालवधम् - 18 - 3 ।।
रोषावेशाद्गच्छतां प्रत्यमित्रं दूरोत्क्षिप्तस्थूलबाहुध्वजानाम् ।
दीर्घास्तिर्यग्वैजयन्तीसदृश्यः पादातानां भ्रेजिरे खड्गलेखाः ।। शिशुपालवधम् - 18 - 4 ।।
वर्ध्राबद्धा धौरितेन प्रयातामश्वीयानामुच्चकैरुच्चलन्तः ।
रौक्मा रेजुः स्थासका मूर्तिभाजो दर्पस्येव व्याप्तदेहस्य शेषाः ।। शिशुपालवधम् - 18 - 5 ।।
सान्द्रत्वक्कास्तल्पलाश्लिष्टकक्षा आङ्गीं शोभामाप्नुवन्तश्चतुर्थीम् ।
कल्पस्यान्ते मारुतेनोपनुन्नाः चेलुः चण्डं गण्डशैला इवेभाः ।। शिशुपालवधम् - 18 - 6 ।।
सङ्क्रीडन्ती तेजिताश्वस्य रागादुद्यम्यारामग्रकायोत्थितस्य ।
रंहोभाजामक्षधूः स्यन्दनानां हाहाकारं प्राजितुः प्रत्यनन्दत् ।। शिशुपालवधम् - 18 - 7 ।।
कुर्वाणानां साम्परायान्तरायं भूरेणूनां मृत्युना मार्जनाय ।
संमार्जन्यो नूनमुद्धूयमाना भान्ति स्मोच्चैः केतनानां पताकाः ।। शिशुपालवधम् - 18 - 8 ।।
उद्यन्नादं धन्विभिर्निष्ठुराणि स्थूलान्युच्चैर्मण्डलत्वं दधन्ति
आस्फाल्यन्ते कार्मुकाणि स्म कामं हस्त्यारोहैः कुञ्जराणां शिरांसि ।। शिशुपालवधम् - 18 - 9 ।।
घण्डानादो निस्वनो डिण्डिमानां ग्रैवेयाणामारवो बृंहितानि ।
आमेतीव प्रत्यवोचत् गजानामुत्साहार्थं वाचमाधोरणस्य ।। शिशुपालवधम् - 18 - 10 ।।
यातैश्चातुर्विध्यमस्त्रादिभेदादव्यासङ्गैः सौष्ठवाल्लाघवाच्च ।
शिक्षाशक्तिं प्राहरत् दर्शयन्तो मुक्तामुक्तैरायुधैरायुधीयाः ।। शिशुपालवधम् - 18 - 11 ।।
रोषावेशादाभिमुख्येन कौचित्पाणिग्राहं रंहसैवोपयातौ ।
हित्वा हेतीर्मल्लवन्मुष्टिघातं घ्नन्तौ बाहूबाहवि व्यासृजेताम् ।। शिशुपालवधम् - 18 - 12 ।।
शुद्धाः सङ्गं न क्वचित्प्राप्तवन्तो दूरान्मुक्ताः शीघ्रतां दर्शयन्तः ।
अन्तःसेनं विद्विषामाविशन्तो युक्तं चक्रुः सायका वाजितायाः ।। शिशुपालवधम् - 18 - 13 ।।
आक्रम्याजेरग्रिमस्कन्धमुच्चैरास्थायाथो वीतशङ्कं शिरश्च ।
हेलालोला वर्त्म गत्वातिमर्त्यं द्याम् आरोहत् मानभाजः सुखेन ।। शिशुपालवधम् - 18 - 14 ।।
रोदोरन्ध्रं व्यश्नुवानानि लोलैरङ्गस्यान्तर्मादितैः स्थावराणि ।
केचित्गुर्वीमेत्य संयन्निषद्यां क्रीणन्ति स्म प्राणमूल्यैर्यशांसि ।। शिशुपालवधम् - 18 - 15 ।।
वीर्योत्साहश्लाघि कृत्वावदानं सङ्ग्रामाग्रे मानिनां लज्जितानाम् ।
अज्ञातानां शत्रुभिर्युक्तमुच्चैः श्रीमन्नाम श्रावयन्ति स्म नग्नाः ।। शिशुपालवधम् - 18 - 16 ।।
आधावन्तः संमुखं धारितानामन्यैरन्ये तीक्ष्णकौक्षेयकाणाम् ।
वक्षःपीठैरात्सरोरात्मनैव क्रोधेनान्धाः प्राविशत् पुष्कराणि ।। शिशुपालवधम् - 18 - 17 ।।
मिश्रीभूते तत्र सैन्यद्वयेऽपि प्रायेणायं व्यक्तम् आसीत् विशेषः ।
आत्मीयास्ते ये पराञ्चः पुरस्तादभ्यावर्ती संमुखो यः परोऽसौ ।। शिशुपालवधम् - 18 - 18 ।।
सद्वंशत्वादङ्गसंसङ्गिनीत्वं नीत्वा कामं गौरवेणावबद्धा ।
नीता हस्तं वञ्चयित्वा परेण द्रोहं चक्रे कस्यचित्स्वा कृपाणी ।। शिशुपालवधम् - 18 - 19 ।।
नीते भेदं धौतधाराभिघातादम्भोदाभे शात्रवेणापरस्य ।
सासृग्राजिस्तीक्ष्णमार्गस्य मार्गो विद्युद्दीप्तः कङ्कटे लक्ष्यते स्म ।। शिशुपालवधम् - 18 - 20 ।।
आमूलान्तात्सायकेनायतेन स्यूते बाहौ मण्डुकश्लिष्टमुष्टेः ।
प्राप्यासह्यां वेदनामस्तधैर्यात् अप्यभ्रश्यत् चर्म नान्यस्य पाणेः ।। शिशुपालवधम् - 18 - 21 ।।
भित्त्वा घोणामायसेनाधिवक्षः स्थूरीपृष्ठो गार्ध्रपक्षेण विद्धः ।
शिक्षाहेतोर्गाढरज्ज्वेव बद्धो हर्तुं वक्त्रं न अशकत् दुर्मुखोऽपि ।। शिशुपालवधम् - 18 - 22 ।।
कुन्तेनोच्चैः सादिना हन्तुमिष्टान्नाजानेयो दन्तिनस् त्रस्यति स्म ।
कर्मोदारं कीर्तये कर्तुकामान्किंवा जात्याः स्वामिनो ह्रेपयन्ति ।। शिशुपालवधम् - 18 - 23 ।।
जेतुं जैत्राः शेकिरे नारिसैन्यैः पश्यन्तोऽधो लोकमस्तेषुजालाः ।
नागारूढाः पार्वतानि श्रयन्तो दुर्गाणीव त्रासहीनास्त्रसानि ।। शिशुपालवधम् - 18 - 24 ।।
विष्वद्रीचीर्विक्षपन्सैन्यवीचीराजावन्तः क्वापि दूरं प्रयातम् ।
बभ्रामैको बन्धुमिष्टं दिदृक्षुः सिन्धौ वाद्यो मण्डलं गोर्वराहः ।। शिशुपालवधम् - 18 - 25 ।।
यावच्चक्रे नाञ्जनं बोधनाय व्युत्थानज्ञो हस्तिचारी मदस्य ।
सेनास्वानाद्दन्तिनामात्मनैव स्थूलास्तावत् प्रावहत् दानकुल्याः ।। शिशुपालवधम् - 18 - 26 ।।
क्रुध्यन् गन्धादन्यनागाय दूरादारोढारं धूतमूर्धावमत्य ।
घोरारावध्वानिताशेषदिक्के विष्के नागः पर्याणंसीत्स्व एव ।। शिशुपालवधम् - 18 - 27 ।।
प्रत्यासन्ने दन्तिनि प्रातिपक्षे यन्त्रा नागः प्रास्तवक्त्रच्छदोऽपि ।
क्रोधाक्रान्तः क्रूरनिर्दारिताक्षः प्रेक्षांचक्रे नैव किञ्चिन्मदान्धः ।। शिशुपालवधम् - 18 - 28 ।।
तूर्णं यावन्न अपनिन्ये निषादी वासश्चक्षुर्वारणं वारणस्य ।
तावत्पूगैरन्यनागाधिरूढः कादम्बानामेकपातैः असीव्यत् ।। शिशुपालवधम् - 18 - 29 ।।
आस्थद्दृष्टेराच्छदं च प्रमत्तो यन्ता यातुः प्रत्यरीभं द्विपस्य ।
मग्नस्योच्चैर्बर्हभारेण शङ्कोः आवव्राते वीक्षणे च क्षणेन ।। शिशुपालवधम् - 18 - 30 ।।
यत्नाद्रक्षन्सुस्थितत्वादनाशं निश्चत्यन्यश्चेतसा भावितेन ।
अन्त्यावस्थाकालयोग्योपयोगं दध्रे अभीष्टं नागमापद्धनं वा ।। शिशुपालवधम् - 18 - 31 ।।
अन्योन्येषां पुष्करैरामृशन्तो दानोद्भेदानुच्चकैभुग्नवालाः ।
उन्मूर्धानः सन्निपत्यापरान्तैः प्रायुध्यन्त स्पष्टदन्तध्वनीभाः ।। शिशुपालवधम् - 18 - 32 ।।
द्राधीयांस संहताः स्थेमभाजश्चारूदग्रास्तीक्ष्णतामत्यजन्तः ।
दन्ता दन्तैराहताः सामजानां भङ्गं जग्मुः न स्वयं सामजाताः ।। शिशुपालवधम् - 18 - 33 ।।
मातङ्गानां दन्तसङ्घट्टजन्मा हेमच्छेदच्छायाचञ्चच्छिखाग्रः ।
लग्नोऽप्यग्निश्चामरेषु प्रकामं माञ्जिष्ठेषु व्यज्यते न स्म सैन्यैः ।। शिशुपालवधम् - 18 - 34 ।।
ओषामासे मत्सरोत्पातवाताश्लिष्यद्दन्तक्ष्मारुहां घर्षणोत्थैः ।
यौगान्तैर्वा वह्निभिर्वारणानामुच्चैर्मूर्धव्योम्नि नक्षत्रमाला ।। शिशुपालवधम् - 18 - 35 ।।
सान्द्राम्भोदश्यामले सामजानां वृन्दे नीताः शोणितैः शोणिमानम् ।
दन्ताः शोभाम् आपुः अम्भोनिधीनां कन्दोद्भेदा वैद्रुमा वारिणीव ।। शिशुपालवधम् - 18 - 36 ।।
आकम्प्राग्रैः केतुभिः सन्निपातं तारोदीर्णग्रैवनादं व्रजन्तः ।
मग्नानङ्गे गाढमन्यद्विपानां दन्तान्दुःखादुत् खनन्ति स्म नागाः ।। शिशुपालवधम् - 18 - 37 ।।
उत्क्षप्योच्चैः प्रस्फुरन्तं रदाभ्यामीषादन्तः कुञ्जरं शात्रवीयम् ।
शृङ्गप्रोतप्रावृषेण्याम्बुदस्य स्पष्टं प्रापत्साम्यमुर्वीधरस्य ।। शिशुपालवधम् - 18 - 38 ।।
भग्नेऽपीभे स्वे परावर्त्य देहं योद्ध्रा सार्धं व्रीडया मुञ्चतेषून् ।
साकं यन्तुः संमदेनानुबन्धी दूनोऽभीक्ष्णं वारणः प्रत्यरोधि ।। शिशुपालवधम् - 18 - 39 ।।
व्याप्तं लोकैर्दुःखसभ्यापसारं संरम्भित्वादेत्य धीरो महीयः ।
सेनामध्यं गाहते वारणः स्म ब्रह्मैव प्रागादिदेवोदरान्तः ।। शिशुपालवधम् - 18 - 40 ।।
भृङ्गश्रेणीश्यामभासां समूहैर्नाराचानां विद्धनीरन्ध्रदेहः ।
निर्भीकत्वादाहवेऽनाहतेच्छो हृष्यन्हस्ती हृष्टरोमेव रेजे ।। शिशुपालवधम् - 18 - 41 ।।
आताम्राभा रोषभाजः कटान्तादाशूत्खाते मार्गणे धूर्गतेन ।
निश्च्योतन्ती नागराजस्य जज्ञे दानस्याहो लोहितस्येव धारा ।। शिशुपालवधम् - 18 - 42 ।।
क्रामन्दन्तौ दन्तिनः साहसिक्यादीषादण्डौ मृत्युशय्यातलस्य ।
सैन्यैरन्यस्तत्क्षणाद् आशशङ्के स्वर्गस्योच्चैरर्धमार्गाधिरूढः ।। शिशुपालवधम् - 18 - 43 ।।
कुर्वञ्ज्योत्स्नाविप्रुषां तुल्यरूपस्तारस्ताराजालसारामिव द्याम् ।
खड्गाघातैर्दारिताद्दन्तिकुम्भाद् आभाति स्म प्रोच्छलन्मौक्तिकौघः ।। शिशुपालवधम् - 18 - 44 ।।
दूरोत्क्षिप्तक्षिप्रचक्रेण कृत्तं भत्तो हस्तं हस्तिराजः स्वमेव ।
भीमं भूमौ लोलमानं सरोषः पादेनासृक्पङ्कपेषं पिपेष ।। शिशुपालवधम् - 18 - 45 ।।
आपस्काराल्लूनगात्रस्य भूमिं निःसाधारं गच्छतोऽवाङ्मुखस्य ।
लब्धायामं दन्तयोर्युग्ममेव स्वं नागस्य प्रापदुत्तम्भनत्वम् ।। शिशुपालवधम् - 18 - 46 ।।
लब्धस्पर्शं भूव्यधादव्यथेन स्थित्वा किञ्चिद्दन्तयोरन्तराले ।
ऊर्ध्वार्धासिच्छिन्नदन्तप्रवेष्टं जित्वा उत्तस्थे नागमन्येन सद्यः ।। शिशुपालवधम् - 18 - 47 ।।
हस्तेनाग्रे वीतभीतिं गृहीत्वा कञ्चिद्व्यालः क्षिप्तवानूर्ध्वमुच्चैः ।
आसीनानां व्योम्नि तस्यैव हेतोर्दिव्यस्त्रीणाम् अर्पयामास नूनम् ।। शिशुपालवधम् - 18 - 48 ।।
कञ्चिद्दूरादायतेन द्रढीयःप्रासप्रोतस्रोतसान्तःक्षतेन ।
हस्ताग्रेण प्राप्तमेवाग्रतः अभूत् आनैश्वर्यं वारणस्य ग्रहीतुम् ।। शिशुपालवधम् - 18 - 49 ।।
तन्वाः पुंसो नन्दगोपात्मजायाः कंसेनेव स्फोटितायाः गजेन ।
दिव्या मूर्तिर्व्योमगैरुत्पतन्ती वीक्षामासे विस्मितैश्चण्डिकेव ।। शिशुपालवधम् - 18 - 50 ।।
आक्रम्यैकामग्रपादेन जङ्घामन्यामुच्चैराददानः करेण ।
सास्थिस्वानं दारुवद्दारुणात्मा कञ्चिन्मध्यात् पाटयामास दन्ती ।। शिशुपालवधम् - 18 - 51 ।।
शोचित्वाग्रे भृत्ययोर्मृत्युभाजोरर्यः प्रेम्णा नो तथा वल्लभस्य ।
पूर्वं कृत्वा नेतरस्य प्रसादं पश्चात्तापाद् आप दाहं यथान्तः ।। शिशुपालवधम् - 18 - 52 ।।
उत्प्लुत्यारादर्धचन्द्रेण लूने वक्त्रेऽन्यस्य क्रोधदष्टोष्ठदन्ते ।
सैन्यैः कण्ठच्छेदलीने कबन्धाद्भूयो बिभ्ये वल्गतः सासिपाणेः ।। शिशुपालवधम् - 18 - 53 ।।
तूर्यारावैराहितोत्तालतालैर्गायन्तीभिः काहलं काहलाभिः ।
नृत्ते चक्षुःशून्यहस्तप्रयोगं काये कूजन्कम्बुरुच्चैः जहास ।। शिशुपालवधम् - 18 - 54 ।।
प्रत्यावृत्तं भङ्गभाजि स्वसैन्ये तुल्यं मुक्तैः आकिरन्ति स्म कश्चित् ।
एकौघेन स्वर्णपुङ्खैर्द्विषन्तः सिद्धा माल्यैः साधुवादैर्द्वयेऽपि ।। शिशुपालवधम् - 18 - 55 ।।
बाणाक्षिप्तारोहशून्यासनानां प्रक्रान्तानामन्यसैन्यैग्रहीतुम् ।
संरब्धानां भ्राम्यतामाजिभूमौ वारी वारैः सस्मरे वारणानाम् ।। शिशुपालवधम् - 18 - 56 ।।
पौनःपुन्यादस्रगन्धेन मत्तो मृद्गन्कोपाल्लोकमायोधनोर्व्याम् ।
पादे लग्नामत्र मालामिभेन्द्रः पाशीकल्पामायताम् आचकर्ष ।। शिशुपालवधम् - 18 - 57 ।।
कश्चिन्मूर्च्छामेत्य गाढप्रहारः सिक्तः शीतैः शीकरैर्वारणस्य ।
उच्छश्वास प्रस्थिता तं जिघृक्षुर्व्यर्थाकूता नाकनारी मुमूर्च्छ ।। शिशुपालवधम् - 18 - 58 ।।
लूनग्रीवात्सायकेनापरस्य द्यामत्युच्चैराननादुत्पतिष्णोः ।
त्रेसे मुग्धैः सैंहिकेयानुकाराद्रौद्राकारादप्सरोवक्त्रचन्द्रैः ।। शिशुपालवधम् - 18 - 59 ।।
वृत्तं युद्धे शूरमाश्लिष्य काचिद्रन्तुं तूर्णं मेरुकुञ्जं जगाम
त्यक्त्वा नाग्नौ देहम् एति स्म यावत्पत्नी सद्यस्तद्वियोगासमर्था ।। शिशुपालवधम् - 18 - 60 ।।
त्यक्तप्राणं संयुगे हस्तिनीस्था वीक्ष्य प्रेम्णा तत्क्षणादुद्गतासुः ।
प्राप्याखण्डं देवभूयं सतीत्वात् आशिश्लेष स्वैव कञ्चित्पुरन्ध्री ।। शिशुपालवधम् - 18 - 61 ।।
स्वर्गेवासं कारयन्त्या चिराय प्रत्यग्रत्वं प्रत्यहं धारयन्त्या ।
कश्चित् भेजे दिव्यनार्या परस्मिंल्लोके लोकं प्रीणयन्त्येह कीर्त्या ।। शिशुपालवधम् - 18 - 62 ।।
गत्वा नूनं वैबुधं सद्म रम्यं मूर्च्छाभाजामाजगामान्तरात्मा ।
भूयो दृष्टप्रत्ययाः प्राप्तसंज्ञाः साधीयस्ते यद्रणाय आद्रियन्ते ।। शिशुपालवधम् - 18 - 63 ।।
कश्चिच्छस्त्रापातमूढोऽपवोढुर्लब्ध्वा भूयश्चेतनामाहवाय ।
व्यावर्तिष्ट क्रोशतः सख्युरुच्चैस्त्यक्तश्चात्मा का च लोकानुवृत्तिः ।। शिशुपालवधम् - 18 - 64 ।।
भिन्नोरस्कौ शत्रुणाकृष्य दूरादासन्नत्वात्कौचिदेकेषुणैव ।
अन्योन्यावष्टम्भसामर्थ्ययोगादूर्ध्वावेव स्वर्गतावप् अभूताम् ।। शिशुपालवधम् - 18 - 65 ।।
भिन्नानस्त्रैर्मोहभाजोऽभिजातान्हन्तुं लोलं वारयन्तः स्ववर्गम् ।
जीवग्राहं ग्राहयामासुरन्ये योग्येनार्थाः कस्य न स्यात् जनेन ।। शिशुपालवधम् - 18 - 66 ।।
भग्नैर्दण्डैरातपत्राणि भूमौ पर्यस्तानि प्रौढचन्द्रद्युतीनि ।
आहाराय प्रेतराजस्य रौप्यस्थालानीव स्थापितानि स्म भान्ति ।। शिशुपालवधम् - 18 - 67 ।।
रेजुः भ्रष्टा वक्षसः कुङ्कुमाङ्का मुक्ताहाराः पार्थिवाना व्यसूनाम् ।
हासाल्लक्ष्याः पूर्णकामस्य मन्ये मृत्योर्दन्ताः पीतरक्तासवस्य ।। शिशुपालवधम् - 18 - 68 ।।
निम्नेष्वोधीभूतमस्त्रक्षतानामस्रं भूमौ यत् चकासाञ्चकार
रागार्थं तत्किं नु कौसुम्भमम्भः संव्यानानामन्तकान्तःपुरस्य ।। शिशुपालवधम् - 18 - 69 ।।
रामेण त्रिःसप्तकृत्वो ह्रदानां चित्रं चक्रे पञ्चकं क्षत्रियास्त्रैः ।
रक्ताम्भोभिस्तत्क्षणादेव तस्मिन्सङ्ख्येऽसङ्ख्याः प्रावहन्द्वीपवत्यः ।। शिशुपालवधम् - 18 - 70 ।।
सन्दानान्तादस्त्रिभिः शिक्षितास्त्रैरविश्याधः शातशस्त्रावलूनाः ।
कूर्मौपम्यं व्यक्तमन्तर्नदीनामैभाः प्रापन्नङ्घ्रयोऽसृङ्मयीनाम् ।। शिशुपालवधम् - 18 - 71 ।।
पद्माकारैर्योधवक्त्रैरिभानां कर्णभ्रष्टैश्चामरैरेव हंसैः ।
सोपस्काराः प्रावहन् नस्रतोयाः स्रोतस्विन्यो वीचिषूच्चैस्तरद्भिः ।। शिशुपालवधम् - 18 - 72 ।।
उत्क्रान्तानामामिषायोपरिष्टादध्याकाशं बभ्रुमुः पत्र्रवाहाः ।
मूर्ताः प्राणा नूनमद्यापि अवेक्षामासुः कायं त्यजिताः दारुणास्त्रैः ।। शिशुपालवधम् - 18 - 73 ।।
आतन्वद्भिर्दिक्षु पत्र्राग्रनादं प्राप्तैदूरादाशु तीक्ष्णैर्मुखाग्रैः ।
आदौ रक्तं सैनिकानामजीवैर्जीवैः पश्चात्पत्र्रिपूगैः अपायि ।। शिशुपालवधम् - 18 - 74 ।।
ओजोभाजां यद्रणे संस्थितानामादत्तीव्रं सार्धमङ्गेन नूनम् ।
ज्वालाव्याजादुद्वमन्ती तदन्तस्तेजस्तारं दीप्तजिह्वा ववाशे ।। शिशुपालवधम् - 18 - 75 ।।
नैरन्तर्यच्छिन्नदेहान्तरालं दुर्भक्षस्य ज्वालिना वाशितेन ।
योद्धुर्बाणप्रोतमादीप्य मांसं पाकापूर्वस्वादमादे शिवाभिः ।। शिशुपालवधम् - 18 - 76 ।।
ग्लानिच्छेदि क्षुत्प्रबोधाय पीत्वा रक्तारिष्टं शोषिताजीर्णशेषम् ।
स्वादुङ्कारं कालखण्डोपदंशं क्रोष्टा डिम्बं व्यष्वणत् व्यस्वनञ्च ।। शिशुपालवधम् - 18 - 77 ।।
क्रव्यात्पूगैः पुष्कराण्यानकानां प्रत्याशाभिर्मेदसो दारितानि ।
आभीलानि प्राणिनः प्रत्यवस्यन्कालो नूनं व्यददौ अननानि ।। शिशुपालवधम् - 18 - 78 ।।
कीर्णा रेजे साजिभूमिः समन्तादप्राणद्भिः प्राणभाजां प्रतीकैः ।
बह्वारम्भैरर्धसंयोजितैर्वा रूपैः स्रष्टुः सृष्टिकर्मान्तशाला ।। शिशुपालवधम् - 18 - 79 ।।
आयन्तीनामविरतरयं राजकानीकिनीनामित्थं सैन्यैः सममलघुभिः श्रीपतेरूर्मिमद्भिः ।
आसीत् ओघैर्मुहुरिव महद्वारिधेरापगानां दोलायुद्धं कृतगुरुतरध्वानमौद्धत्यभाजाम् ।। शिशुपालवधम् - 18 - 80 ।।


।। इति शिशुपालवधमहाकाव्ये अष्टादशसर्गः ।।

एकोनविंशसर्गः

अथ उत्तस्थे रणाटव्यामसुहृद्वेणुदारिणा ।
नृपाङ्घ्रिपौघसङ्घर्षादग्निवद्वेणुदारिणा ।। शिशुपालवधम् - 19 - 1 ।।
आपतन्तममुं दूरादूरीकृतपराक्रमः ।
बलः अवलोकयामास मातङ्गमिव केसरी ।। शिशुपालवधम् - 19 - 2 ।।
जजौजोजाजिजिज्जाजी तं ततोऽतिततातितुत् ।
भाभोऽभीभाभिभूभार आर अरिररिरीररः ।। शिशुपालवधम् - 19 - 3 ।।
भवन्भयाय लोकानामाकम्पितमहीतलः ।
निर्घात इव निर्घोषभीमस्तस्य अपतत् रथः ।। शिशुपालवधम् - 19 - 4 ।।
रामे रिपुः शरानाजिमहेष्वास विचक्षणे
कोपादथैनं शितया महेष्वा स विचक्षणे ।। शिशुपालवधम् - 19 - 5 ।।
दिशमर्कमिवावाचीं मूर्च्छागतम् अपाहरत्
मन्दप्रतापं तं सूतः शीघ्रमाजिविहायसः ।। शिशुपालवधम् - 19 - 6 ।।
कृत्वा शिनेः शाल्वचमूं सप्रभावा चमूर्जिताम् ।
ससर्ज वक्त्रैः फुल्लाब्जसप्रभा वाचमूर्जिताम् ।। शिशुपालवधम् - 19 - 7 ।।
उल्मुकेन द्रुमं प्राप्य सङ्कुचत्पत्रसञ्चयम् ।
तेजः प्रकिरता दिक्षु सप्रतापम् अदीप्यत ।। शिशुपालवधम् - 19 - 8 ।।
पृथोरध्यक्षिपद्रुक्मी यया चापमुदायुधः ।
तयैव वाचापगमं ययाच अपमुदा युधः ।। शिशुपालवधम् - 19 - 9 ।।
समं समन्ततो राज्ञामापतन्तीरनीकिनीः ।
कार्ष्णिः प्रत्यग्रहीत् एकः सरस्वानिव निम्नगाः ।। शिशुपालवधम् - 19 - 10 ।।
दधानैर्घनसादृश्यं लसदायसदंशनैः ।
तत्र काञ्चनसच्छाया ससृजे तैः शराशनिः ।। शिशुपालवधम् - 19 - 11 ।।
नखांशुमञ्जरीकीर्णामसौ तरुरिवोच्चकैः ।
बभौ विभ्रद्धनुःशाखामधिरूढशिलीमुखाम् ।। शिशुपालवधम् - 19 - 12 ।।
प्रप्य भीममसौ जन्यं सौजन्यं दधदानते ।
विध्यन् मुमोच न रिपूनरिपूगान्तकः शरैः ।। शिशुपालवधम् - 19 - 13 ।।
कृतस्य सर्वक्षितिपैर्विजयाशंसया पुरः ।
अनेकस्य चकार असौ बाणैर्बाणस्य खण्डनम् ।। शिशुपालवधम् - 19 - 14 ।।
या बभार कृतानेकमाया सेना ससारताम् ।
धनुः स कर्षन्रहितमायासेन आससार ताम् ।। शिशुपालवधम् - 19 - 15 ।।
ओजो महौजाः कृत्वाधस्तत्क्षणादुत्तमौजसः ।
कुर्वन्नाजावमुख्यत्वम् अनयन् नाम मुख्यताम् ।। शिशुपालवधम् - 19 - 16 ।।
दूरादेव चमूर्भल्लैः कुमारो हन्ति स स्म याः ।
न पुनः सांयुगीं ताः स्म कुमारो हन्ति सस्मयाः ।। शिशुपालवधम् - 19 - 17 ।।
निपीड्य तरसा तेन मुक्ताः काममनास्थया ।
उपाययुः विलक्षत्वं विद्विषो न शिलीमुखाः ।। शिशुपालवधम् - 19 - 18 ।।
तस्यावदानैः समरे सहसा रोमहर्षिभिः ।
सुरैः अशंसि व्योमस्थैः सह सारो महर्षिभिः ।। शिशुपालवधम् - 19 - 19 ।।
सुगन्धयद्दिशः शुभ्रमम्लानि कुसुमं दिवः ।
भूरि तत्रापतत्तस्मात् उत्पपात दिवं यशः ।। शिशुपालवधम् - 19 - 20 ।।
सोढुं तस्य द्विषो नालमपयोधरवा रणम् ।
ऊर्णुनाव यशश्च द्यामपयोधरवारणम् ।। शिशुपालवधम् - 19 - 21 ।।
केशप्रचुरलोकस्य पर्यस्कारि विकासिना ।
शेखरेणेव युद्धस्य शिरः कुसुमलक्ष्मणा ।। शिशुपालवधम् - 19 - 22 ।।
सादरं युद्धमानापि तेनान्यनरसादरम् ।
सा दरं पृतना निन्ये हीयमाना रसादरम् ।। शिशुपालवधम् - 19 - 23 ।।
इत्यालिङ्गतमालोक्य जयलक्ष्म्या झषध्वजम् ।
क्रुद्धयेव क्रुधा सद्यः प्रपेदे चेदिभूपतिः ।। शिशुपालवधम् - 19 - 24 ।।
अहितानभि वाहिन्या स मानी चतुरङ्गया ।
चचाल वल्गत्कलभसमानीचतुरङ्गया ।। शिशुपालवधम् - 19 - 25 ।।
ततस्ततधनुर्मौर्वीविस्फारस्फारनिःस्वनैः ।
तूर्यैर्युगक्षये क्षुभ्यदकूपारानुकारिणी ।। शिशुपालवधम् - 19 - 26 ।।
सकारनानारकासकायसाददसायका ।
रसाहवावाहसारनादवाददवादना ।। शिशुपालवधम् - 19 - 27 ।।
लोलासिकालियकुला यमस्यैव स्वसा स्वयम् ।
चिकीर्षुरुल्लसल्लोहवर्मश्यामा सहायताम् ।। शिशुपालवधम् - 19 - 28 ।।
सासेनागमनारम्भे रसेन आसीत् अनारता ।
तारनादजनामत्तधीरनागमनामया ।। शिशुपालवधम् - 19 - 29 ।।
धूतधौतासयः प्रष्ठाः प्रातिष्ठन्त क्षमाभृताम् ।
शौर्यानुरागनिकषः सा हि वेलानुजीविनाम् ।। शिशुपालवधम् - 19 - 30 ।।
दिवमिच्छन्युधा गन्तुं कोमलामलसम्पदम् ।
दधौ दधानोऽसिलतां कोऽमलामलसं पदम् ।। शिशुपालवधम् - 19 - 31 ।।
कृतोरुवेगं युगपद्व्यजिगीषन्त सैनिकाः ।
विपक्षं बाहुपरिघैर्जङ्घाभिरितरेतरम् ।। शिशुपालवधम् - 19 - 32 ।।
वाहन् अजनि मानासे साराजावनमा ततः।
मत्तसारगराजेभे भारीहावज्जनध्वनि ।। शिशुपालवधम् - 19 - 33 ।।
निध्वनज्जवहारीभा भेजे रागरसात्तमः ।
ततमानवजारासा सेना मानिजनाहवा ।। शिशुपालवधम् - 19 - 34 ।।
अभग्नवृत्ताः प्रसभादाकृष्टा यौवनोद्धतैः ।
चक्रन्दुरुच्चकैर्मुष्टिग्राह्यमध्या धनुर्लताः ।। शिशुपालवधम् - 19 - 35 ।।
करेणुः प्रस्थितोऽनेको रेणुर्घण्टाः सहस्रशः ।
करेणुः शीकरो जज्ञे रेणुस्तेन शमं ययौ ।। शिशुपालवधम् - 19 - 36 ।।
धृतप्रत्यग्रशृङ्गाररसरागैरपि द्विपैः ।
सरोषसम्भ्रमैः बभ्रे रौद्र एव रणे रसः ।। शिशुपालवधम् - 19 - 37 ।।
तस्थौ भर्तृतः प्राप्तमानसम्प्रतिपत्तिषु ।
रणैकसर्गेषु भयं मानसं प्रतिपत्तिषु ।। शिशुपालवधम् - 19 - 38 ।।
बाणाहिपूर्णतूणीरकोटरैर्धन्विशाखिभिः ।
गोधाश्लिष्टभुजाशाखैः अभूत् भीमा रणाटवी ।। शिशुपालवधम् - 19 - 39 ।।
नानाजाववजानाना सा जनौघघनौजसा ।
परानिहऽहानिः आप तान्वियाततयान्विता ।। शिशुपालवधम् - 19 - 40 ।।
विषमं सर्वतोभद्रचक्रगोमूत्रिकादिभिः ।
श्लोकैरिव महाकाव्यं व्यूहैस्तद् अभवत् बलम् ।। शिशुपालवधम् - 19 - 41 ।।
संहत्या सात्वतां चैद्यं प्रति भास्वरसेनया ।
ववले योद्धुमुत्पन्नप्रतिमा स्वरसेन या ।। शिशुपालवधम् - 19 - 42 ।।
विस्तीर्णमायामवती लोललोकनिरन्तरा ।
नरेन्द्रमार्गं रथ्येव पपात द्विषतां बलम् ।। शिशुपालवधम् - 19 - 43 ।।
वारणागगभीरा सा साराऽभीगगणारवा ।
कारितारिवधा सेना नासेधा वारितारिका ।। शिशुपालवधम् - 19 - 44 ।।
अधिनागं प्रजविनो विकसत्पिच्छचारवः ।
पेतुः बर्हिणदेशीयाः शङ्कवः प्राणहारिणः ।। शिशुपालवधम् - 19 - 45 ।।
प्रवृत्ते विकसद्ध्वानं साधनेप्यविषादिभिः ।
ववृषे विकसद्दानंयुधमाप्यविषाणिभिः ।। शिशुपालवधम् - 19 - 46 ।।
पुरः प्रयुक्तैर्युद्धं तच्चलितैर्लब्धशुद्धिभिः ।
आलापैरिव गान्धर्वम् अदीप्यत पदातिभिः ।। शिशुपालवधम् - 19 - 47 ।।
केनचित्स्वासिनान्येषां मण्डलाग्रानवद्यता ।
प्रापे कीर्तिप्लुतमहीमण्डलाग्रानवद्यता ।। शिशुपालवधम् - 19 - 48 ।।
विहन्तुं विद्विषस्तीक्ष्णः सममेव सुसंहतेः ।
परिवारात्पृथक् चक्रे खड्गश्चात्मा च केनचित् ।। शिशुपालवधम् - 19 - 49 ।।
अन्येन विदधे अरीणामतिमात्रा विलासिना ।
उद्गूर्णेन चमूस्तूर्णमतिमात्राविलाऽसिना ।। शिशुपालवधम् - 19 - 50 ।।
सहस्रपूरणः कश्चिल्लूनमूर्धाऽसिना द्विषः ।
ततोर्ध्व एव काबन्धीम् अभजत् नर्तनक्रियाम् ।। शिशुपालवधम् - 19 - 51 ।।
शस्त्रव्रणमयश्रीमदलङ्करणभूषषितः ।
ददृशे अन्यो रावणवदलङ्करणभूषितः ।। शिशुपालवधम् - 19 - 52 ।।
द्विषद्विशसनच्छेदनिरस्तोरुयुगोपरः ।
सिक्तश्चास्त्रैरुभयथा बभूव अरुणविग्रहः ।। शिशुपालवधम् - 19 - 53 ।।
भीमतामपरोऽम्भोधिसमे अधित महाहवे ।
दाक्षे कोपः शिवस्येव समेधितमहा हवे ।। शिशुपालवधम् - 19 - 54 ।।
दन्तैः चिच्छिदिरे कोपात्प्रतिपक्षं गजा इव ।
परनिस्त्रिंशनिर्लूनकरवालाः पदातयः ।। शिशुपालवधम् - 19 - 55 ।।
रणे रभसनिर्भिन्नद्विपपाटविकासिनि ।
न तत्र गतभीः कश्चित् विपपाट विकासिनि ।। शिशुपालवधम् - 19 - 56 ।।
यावन्न सत्कृतैर्भर्तुः स्नेहस्यानृण्यमिच्छुभिः ।
अमर्षादितरैस्तावत् तत्यजे युधि जीवितम् ।। शिशुपालवधम् - 19 - 57 ।।
अयशोभिदुरालोके कोपधामरणादृते ।
अयशोभिदुरा लोके कोपधा मरणादृते ।। शिशुपालवधम् - 19 - 58 ।।
स्खलन्ती न क्वचित्तैक्ष्ण्यादभ्यग्रफलशालिनी ।
अमोचि शक्तिः शक्तिकैर्लोहजा न शरीरजा ।। शिशुपालवधम् - 19 - 59 ।।
अपादि व्यापृतनयास्तथा युयुधिरे नृपाः ।
आप दिव्या पृतनया विस्मयं जनता यथा ।। शिशुपालवधम् - 19 - 60 ।।
स्वगुणैराफलप्राप्तेराकृष्य गणिका इव ।
कामुकानिव नालीकांस्त्रिणताः सहसा अमुचन् ।। शिशुपालवधम् - 19 - 61 ।।
वाजिनः शत्रुसैन्यस्य समारब्धनवाजिनः ।
वाजिनश्च शरा मध्यम् अविशत् द्रुतवाजिनः ।। शिशुपालवधम् - 19 - 62 ।।
पुरस्कृत्य फलं प्राप्तैः सत्पक्षाश्रययशालिभिः ।
कृतपुङ्खतया लेभे लक्षमप्याशु मार्गणैः ।। शिशुपालवधम् - 19 - 63 ।।
रक्तस्रुतिं जपासूनसमरागामिषुव्यधात् ।
कश्चित्पुरः सपत्नेषु समरागामिषु व्यधात् ।। शिशुपालवधम् - 19 - 64 ।।
रयेण रणकाम्यन्तौ दूरादुपगताविभौ ।
गतासुरन्तरा दन्ती वरण्डक इव अभवत् ।। शिशुपालवधम् - 19 - 65 ।।
भूरिभिर्भारिभिर्भीरैर्भूभारैः अभिरेभिरे
भेरीरेभिभिरभ्राभैरभीरुभिरिभैरिभाः ।। शिशुपालवधम् - 19 - 66 ।।
निशितासिलतालूनैस्तथा हस्तैर्न हस्तिनः ।
युध्यमाना यथा दन्तैर्भग्नैः आपुः विहस्तताम् ।। शिशुपालवधम् - 19 - 67 ।।
निपीडनादिव मिथो दानतोयमनारतम् ।
वपुषामदयापातादिभानामभितः अगलत् ।। शिशुपालवधम् - 19 - 68 ।।
रणाङ्गणं सर इव प्लावितं मदवारिभिः ।
गजः पृथुकराकृष्टशतपत्र्रम् अलोडयत् ।। शिशुपालवधम् - 19 - 69 ।।
शरक्षते गजे भृङ्गैः सविषादिविषादिनि ।
रुतव्याजेन रुदितं तत्र आसीत् अतिसीदति ।। शिशुपालवधम् - 19 - 70 ।।
अन्तकस्य पृथौ तत्र शयनीय इवाहवे ।
दशनव्यसनात् ईयुः मत्कुणत्वं मतङ्गजाः ।। शिशुपालवधम् - 19 - 71 ।।
अभीकमतिकेनेद्धे भीतानन्दस्य नाशने ।
कनत्सकामसेनाकेमन्दकामकम् अस्यति ।। शिशुपालवधम् - 19 - 72 ।।
दधतोऽपि रणे भीममभीक्ष्णं भावमासुरम् ।
हताः परैरभिमुखाः सुरभूयम् उपाययुः ।। शिशुपालवधम् - 19 - 73 ।।
येनाङ्गमूहे व्रणवत्सरुचा परतोऽमरैः ।
समत्वं स ययौ खड्गत्सरुचापरतोऽमरैः ।। शिशुपालवधम् - 19 - 74 ।।
निपातितसुहृत्स्वामिपितृव्यभ्रातृमातुलम् ।
पाणिनीयमिव अवलोकि धीरैस्तत्समराजिरम् ।। शिशुपालवधम् - 19 - 75 ।।
अभावि सिन्ध्वा सन्ध्याभ्रसदृग्रुधिरतोयया ।
हृते योद्धुं जनः पांशौ स दृग्रुधि रतो यया ।। शिशुपालवधम् - 19 - 76 ।।
विदलत्पुष्कराकीर्णाः पतच्छङ्खकुलाकुलाः ।
तरत्पत्र्ररथा नद्यः प्रासर्पन् रक्तवारिजाः ।। शिशुपालवधम् - 19 - 77 ।।
असृग्जनोऽस्त्रक्षतिमानवमज्जवसादनम् ।
रक्षःपिशाचं मुमुदे नवमज्जवसादनम् ।। शिशुपालवधम् - 19 - 78 ।।
चित्रं चापैरपेतज्यैः स्फुरद्रक्तशतहृदम् ।
पयोदजालमिव तद्वीराशंसनम् आबभौ ।। शिशुपालवधम् - 19 - 79 ।।
बन्धौ विपन्नेऽनेकेन नरेणेह तदन्तिके ।
अशोचि सैन्ये घण्टाभिर्न रेणे हतदन्तिके ।। शिशुपालवधम् - 19 - 80 ।।
कृत्तैः कीर्णा मही रेजे दन्तैर्गात्रैश्च दन्तिनाम् ।
क्षुण्णलोकासुभिर्मृत्योर्मुसलोलूखलैरिव ।। शिशुपालवधम् - 19 - 81 ।।
युद्धमित्थं विधूतान्यमानवानभियो गतः ।
चैद्यः परान् पराजिग्ये मानवानभियोगतः ।। शिशुपालवधम् - 19 - 82 ।।
अथ वक्षोमणिच्छायाच्छुरितापीतवाससा ।
स्फुरदिन्द्रधनुर्भिन्नतडितेव तडित्त्वता ।। शिशुपालवधम् - 19 - 83 ।।
नीलेनानालनलिननिलीनोल्ललनालिना ।
ललनालालनेनालं लीलालोलेन लालिना ।। शिशुपालवधम् - 19 - 84 ।।
अपूर्वयेव तत्कालसमागमसकामया ।
दृष्टेन राजन्वपुषा कटाक्षैर्विजयश्रिया ।। शिशुपालवधम् - 19 - 85 ।।
विभावी विभवी भाभो विभाभावी विवो विभीः ।
भवाभिभावी भावावो भवाभावो भुवो विभुः ।। शिशुपालवधम् - 19 - 86 ।।
उपैतुकामैस्तत्पारं निश्चितैर्योगिभिः परैः ।
देहत्यागकृतोद्योगैः अदृश्यत परः पुमान् ।। शिशुपालवधम् - 19 - 87 ।।
तं श्रिया घनयाऽनस्तरुचा सारतया तया ।
यातया तरसा चारुस्तनयाऽनघया श्रितम् ।। शिशुपालवधम् - 19 - 88 ।।
विद्विषोऽद्विषुरुद्वीक्ष्य तथाप्य आसन् निरेनसः ।
अरुच्यमपि रोगघ्नं निसर्गादेव भेषजम् ।। शिशुपालवधम् - 19 - 89 ।।
विदितं दिवि केऽनीके तं यातं निजिताजिनि ।
विगदं गवि रोद्धारो योद्धा यो नतिम् एति नः ।। शिशुपालवधम् - 19 - 90 ।।
नियुज्यमानेन पुरः कर्मण्यतिगरीयसि ।
आरोप्यमाणोरुगुणं भर्त्रा कार्मुकम् आनमत् ।। शिशुपालवधम् - 19 - 91 ।।
तत्र बाणाः सुपरुषः समधीयन्त चारवः ।
द्विषाम् अभूत् सुपरुषस्तस्याकृष्टस्य चारवः ।। शिशुपालवधम् - 19 - 92 ।।
पश्चात्कृतानामप्यस्य नराणामिव पत्र्रिणाम् ।
यो यो गुणेन संयुक्तः स स कर्णान्तम् आययौ ।। शिशुपालवधम् - 19 - 93 ।।
प्रापे रूपी पुराऽरेपाः परिपूरी परः परैः ।
रोपैरपारैरुपरि पुपूरे अपि पुरोपरैः ।। शिशुपालवधम् - 19 - 94 ।।
दिङ्मुखव्यापिनस्तीक्ष्णान्ह्रदिनो मर्मभेदिनः ।
चिक्षेप एकक्षणेनैव सायकानहितांश्च सः ।। शिशुपालवधम् - 19 - 95 ।।
शरवर्षी महानादः स्फुरत्कार्मुककेतनः ।
नीलच्छविरसौ रेजे केशवच्छलनीरदः ।। शिशुपालवधम् - 19 - 96 ।।
न केवलं जनैस्तस्य लघुसन्धायिनो धनुः ।
मण्डलीकृतमेकान्ताद्बलमैक्षि द्विषामपि ।। शिशुपालवधम् - 19 - 97 ।।
लोकालोकी कलोऽकल्ककलिलोऽलिकुलालकः ।
कालोऽकलोऽकलिः काले कोलकेलिकिलः किल ।। शिशुपालवधम् - 19 - 98 ।।
अक्षितारासु विव्याध द्विषतः स तनुत्रिणः ।
दानेषु स्थूललक्ष्यत्वं न हि तस्य शरासने ।। शिशुपालवधम् - 19 - 99 ।।
वररोऽविवरो वैरिविवारी वारिरारवः ।
विववार वरो वैरं वीरो रविरिवौर्वरः ।। शिशुपालवधम् - 19 - 100 ।।
मुक्तानेकशरं प्रणानहरद्भूयसां द्विषाम् ।
तदीयं धनुरन्यस्य न हि सेहे सजीवताम् ।। शिशुपालवधम् - 19 - 101 ।।
राजराजी रुरोजाजेरजिरेऽजोऽजरोऽरजाः ।
रेजारिजूरजोर्जार्जी रराजर्जुरजर्जरः ।। शिशुपालवधम् - 19 - 102 ।।
उद्धतान्द्विषतस्तस्य निध्नतो द्वितयं ययुः
पानार्थे रुधिरं धातौ रक्षार्थे भुवनं शराः ।। शिशुपालवधम् - 19 - 103 ।।
क्रूरारिकारि कोरेककारकः कारिकाकरः ।
कोरकाकारकरकः करीरः कर्करोरोर्करुक् ।। शिशुपालवधम् - 19 - 104 ।।
विधातुमवतीर्णोऽपि लघिमानमसौ भुवः ।
अनेकमरिसङ्घातमकरोद्भूमिवर्धनम् ।। शिशुपालवधम् - 19 - 105 ।।
दारी दरदरिद्रोऽरिदारूदारोऽद्रिदूरदः ।
दूरादरौद्रः अददरत् रोदोरुद्दारुरादरी ।। शिशुपालवधम् - 19 - 106 ।।
एकेषुणा सङ्घतिथान्द्विषो भिन्दन्द्रुमानिव ।
स जन्मान्तररामस्य चक्रे सदृशमात्मनः ।। शिशुपालवधम् - 19 - 107 ।।
शूरः शौरिरशिशिरैराशाशैराशु राशिशः ।
शरारुः श्रीशरीरेशः शुशूरे अरिशिरः शरैः ।। शिशुपालवधम् - 19 - 108 ।।
व्यक्त आसीत् रितारिणां यत्तदीयास्तदा मुहुः ।
मनोहृतोऽपि हृदये लेगुरेषां न पत्र्रिणः ।। शिशुपालवधम् - 19 - 109 ।।
नामाक्षराणां मलना मा भूद्भर्तुरतः स्फुटम् ।
अगृह्णत पराङ्गानामसूनस्रं न मार्गणाः ।। शिशुपालवधम् - 19 - 110 ।।
आच्छिद्य योधसार्थस्य प्राणसर्वस्वमाशुगाः ।
ऐकागारिकवद्भूमौ दूरात् जग्मुः अदर्शनम् ।। शिशुपालवधम् - 19 - 111 ।।
भीमास्त्रराजिनस्तस्य बलस्य ध्वजराजिनः ।
कृतघोराजिनः चक्रे भुवः सरुधिरा जिनः ।। शिशुपालवधम् - 19 - 112 ।।
मांसव्यधोचितमुखैः शून्यतां दधदक्रियम् ।
शकुन्तिभिः शत्रुबलं व्यापि तस्येषुभिर्नभः ।। शिशुपालवधम् - 19 - 113 ।।
दाददो दुद्ददुद्दादी दादादो दूददीददोः ।
दुद्दादं दददे दुद्दे ददाददददोऽददः ।। शिशुपालवधम् - 19 - 114 ।।
प्लुतेभकुम्भोरसिजैर्हृदयक्षतिजन्मभिः ।
प्रावर्तयत् नदीरस्रैर्द्विषां तद्योषितां च सः ।। शिशुपालवधम् - 19 - 115 ।।
सदामदबलप्रायः समुद्धृरसो बभौ
प्रतीतविक्रमः श्रीमान्हारिर्हरिरिवापरः ।। शिशुपालवधम् - 19 - 116 ।।
द्विधा त्रिधा चतुर्धा च तमेकमपि शत्रवः ।
पश्यन्तः स्पर्धया सद्यः स्वयं पञ्चत्वम् आययुः ।। शिशुपालवधम् - 19 - 117 ।।
सदैव सम्पन्नवपू रणेषु स दैवसम्पन्नवपूरणेषु ।
महो दधे स्तारिमहानितान्तं महोदधेऽस्तारिमहा नितान्तम् ।। शिशुपालवधम् - 19 - 118 ।।
इष्टं कृत्वार्थं पत्र्रिणः शार्ङ्गपाणेरेत्याधोमुख्यं प्राविशन्भूमिमाशु ।
शुद्ध्यायुक्तानां वैरिवर्गस्य मध्ये भर्त्रा क्षिप्तानामेतदेवानुरूपम् ।। शिशुपालवधम् - 19 - 119 ।।
सत्त्वं मानविशिष्टमाजिरभसादालम्ब्य भव्यः पुरो लब्धाघक्षयशुद्धिरुद्धरतरश्रीवत्सभूमिर्मुदा ।
मुक्त्वा काममपास्तभीः परमृगव्याधः स नादं हरेरेकौघैः समकालमभ्रमुदयी रोपैस्तदा तस्तरे ।। शिशुपालवधम् - 19 - 120 ।।


।। इति शिशुपालवधमहाकाव्ये एकोनविंशसर्गः ।।

विंशसर्गः

मुखमुल्लसितत्रिरेखमुच्चैर्भिदुरभ्रूयुगभीषणं दधानः ।
समिताविति विक्रमानमृष्यन्गतभीः आह्वत चेदिराण्मुरारिम् ।। शिशुपालवधम् - 20 - 1 ।।
शितचक्रनिपातसम्प्रतीक्ष्यं वहतः स्कन्धगतं च तस्य मृत्युम् ।
अभिशौरि रथोऽथ नोदिताश्वः प्रययौ सारथिरूपया नियत्या ।। शिशुपालवधम् - 20 - 2 ।।
अभिचैद्यम् अगात् रथोऽपि शौरेरवनिं जागुडकुङ्कुमाभिताम्रैः ।
गुरनेमिनिपीडनावदीर्णव्यसुदेहस्रुतशोणितैर्विलिम्पन् ।। शिशुपालवधम् - 20 - 3 ।।
स निरायतकेतनांशुकान्तः कलनिक्वाणकरालकिङ्किणीकः ।
विरराज रिपुक्षयप्रतिज्ञामुखरो मुक्तशिखः स्वयं नु मृत्युः ।। शिशुपालवधम् - 20 - 4 ।।
सजलाम्बुधरारवानुकारी ध्वनिरापूरितदिङ्मुखो रथस्य ।
प्रगुणीकृतकेकमूर्ध्वकण्ठैः शितिकण्ठैरुपकर्णयांबभूवे ।। शिशुपालवधम् - 20 - 5 ।।
अभिवीक्ष्य विदर्भराजपुत्रीकुचकाश्मीरजचिह्नमच्युतोरः ।
चिरसेवितयापि चेदिराजः सहसा अवाप रुषा तदैव योगम् ।। शिशुपालवधम् - 20 - 6 ।।
जनिताशनिशब्दशङ्कमुच्चैर्धनुरास्फालितम् अध्वनत् नृपेण ।
चपलानिलचोद्यमानकल्पक्षयकालाग्निशिखानिभस्फुरज्ज्यम् ।। शिशुपालवधम् - 20 - 7 ।।
समकालमिवाभिलक्षणीयग्रहसन्धानविकर्षणापवर्गैः ।
अथ साभिसारं शरैस्तरस्वी स तिरस्कर्तुमुपेन्द्रम् अभ्यवर्षत् ।। शिशुपालवधम् - 20 - 8 ।।
ऋजुताफलशुद्धियोगभाजां गुरुपक्षाश्रयिणां शिलीमुखानाम् ।
गुणिना नतिमागतेन सन्धिः सह चापेन समञ्जसो बभूव ।। शिशुपालवधम् - 20 - 9 ।।
अविषह्यतमे कृताधिकारं वशिना कर्मणि चेदिपार्थिवेन ।
अरसत् धनुरुच्चकैर्दृढार्तिप्रसभाकर्षणवेपमानजीवम् ।। शिशुपालवधम् - 20 - 10 ।।
अनुसन्ततिपातिनः पटुत्वं दधतः शुद्धिभृतो गृहीतपक्षाः ।
वदनादिव वादिनोऽथ शब्दाः क्षितिभर्तुर्धनुषः शराः प्रसस्रुः ।। शिशुपालवधम् - 20 - 11 ।।
गवलासितकान्ति तस्य मध्यस्थितघोरायतबाहुदण्डनासम् ।
ददृशे कुपितान्तकोन्नमद्भ्रूयुगभीमाकृति कार्मुकं जनेन ।। शिशुपालवधम् - 20 - 12 ।।
तडिदुज्ज्वलजातरूपपुङ्खैः खमयःश्याममुखैरभिध्वनद्भिः ।
जलदैरिव रंहसा पतद्भिः पिदधे संहतिशालिभिः शरौघैः ।। शिशुपालवधम् - 20 - 13 ।।
शितशल्यमुखावदीर्णमेघक्षरदम्भःस्फुटतीव्रवेदनानाम् ।
स्रवदस्रुततीव चक्रवालं ककुभामौर्णविषुः सुवर्णपुङ्खाः ।। शिशुपालवधम् - 20 - 14 ।।
अमनोरमतां यती जनस्य क्षणमालोकपथान्नभःसदां वा ।
रुरुधे पिहिताहिमद्युतिर्धौर्विशिखैरन्तरिता च्युता धरित्रत्री ।। शिशुपालवधम् - 20 - 15 ।।
विनिवारितभानुतापमेकं सकलस्यापि मुरद्विषो बलस्य ।
शरजालमयं समं समन्तादुरु सद्मेव नराधिपेन तेने ।। शिशुपालवधम् - 20 - 16 ।।
इति चेदिमहीभृता तदानीं तदनीकं दनुसूनुसूदनस्य ।
वयसामिव चक्रमक्रियाकं परितो अरोधि विपाटपञ्चरेण ।। शिशुपालवधम् - 20 - 17 ।।
इषुवर्षमनेकमेकवीरस्तदरिप्रच्युतमच्युतः पृषत्कैः ।
अथ वादिकृतं प्रमाणमन्यैः प्रतिवादीव निराकरोत् प्रमाणैः ।। शिशुपालवधम् - 20 - 18 ।।
प्रतिकुञ्चितकूर्परेण तेन श्रवणोपान्तिकनीयमानगव्यम् ।
ध्वनति स्म धनुर्घनान्तमत्तप्रचुरक्रौञ्चरवानुकारमुच्चैः ।। शिशुपालवधम् - 20 - 19 ।।
उरसा विततेन पातितांसः स मयूराञ्चितमस्तकस्तदानीम् ।
क्षणमालिखितो नु सौष्ठवेन स्थिरपूर्वापरमुष्टिः आबभौ वा ।। शिशुपालवधम् - 20 - 20 ।।
ध्वनतो नितरां रयेण गुर्व्यस्तडिदाकारचलद्गुणादसङ्ख्याः ।
इषवो धनुषः सशब्दमाशु न्यपतन् अम्बुधरादिवाम्बुधराः ।। शिशुपालवधम् - 20 - 21 ।।
शिखरोन्नतनिष्ठुरांसपीठः स्थगयन्नेकदिगन्तमायतान्तः ।
निरवर्णि सकृत्प्रसारितोऽस्य क्षितिभर्तेव चमूभिरेकबाहुः ।। शिशुपालवधम् - 20 - 22 ।।
तमकुण्ठमुखाः सुपर्णकेतोरिषवः क्षिप्तमिषुव्रजं परेण ।
विभिदाम् अनयन्त कृत्यपक्षं नृपतेर्नेतुरिवायथार्थवर्णाः ।। शिशुपालवधम् - 20 - 23 ।।
दयितैरिव खण्डिता मुरारेर्विशिखैः संमुखमुज्ज्वलाङ्गलेखैः ।
लघिमानमुपेयुषी पृथिव्यां विफला शत्रुशरावलिः पपात ।। शिशुपालवधम् - 20 - 24 ।।
प्रमुखेऽभिहताश्च पत्रवाहाः प्रसभं माधवमुक्तवत्सदन्तैः ।
परिपूर्णतरं भुवो गतायाः परतः कातरवत्प्रतीपम ईयुः ।। शिशुपालवधम् - 20 - 25 ।।
इतरेतरत्सन्निकर्षजन्मा फलसङ्घट्टविकीर्णविस्फुलिङ्गः ।
पटलानि लिहन्बलाहकानामपरेषु क्षणम् अज्ज्वलत् कृशानुः ।। शिशुपालवधम् - 20 - 26 ।।
शरदीव शरश्रिया विभिन्ने विभुना शत्रुशिलीमुखाभ्रजाले ।
विकसन्मुखवारिजाः प्रकामं बभुः आशा इव यादवध्वजिन्यः ।। शिशुपालवधम् - 20 - 27 ।।
स दिवं समचिच्छदच्छरौघैः कृततिग्मद्युतिमण्डलापलापैः ।
ददृशे ऽथ च तस्य चापयष्ट्यामिषुरेकैव जनै सकृद्विसृष्टा ।। शिशुपालवधम् - 20 - 28 ।।
भवति स्फुटमागतो विपक्षान्न सपक्षोऽपि हि निर्वृतेर्विधाता ।
शिशुपालबलानि कृष्णमुक्तः सुतरां तेन तताप तोमरौघः ।। शिशुपालवधम् - 20 - 29 ।।
गुरुवेगविराविभिः पतत्रैरिषवः काञ्चनपिङ्गलभासः ।
विनतासुतवत्तलं भुवः स्म व्यथितभ्रान्तभुजङ्गमं विशन्ति ।। शिशुपालवधम् - 20 - 30 ।।
शतशः परुषाः पुरो विशङ्कं शिशुपालेन शिलीमुखाः प्रयुक्ताः ।
परमर्मभिदोऽपि दानवारेरपराधा इव न व्यथां वितेनुः ।। शिशुपालवधम् - 20 - 31 ।।
विहिताद्भुतलोकसृष्टिमाये जयमिच्छन्किल मायया मुरारौ ।
भुवनक्षयकालयोगनिद्रे नृपतिः स्वापनमस्त्रम् आजहार ।। शिशुपालवधम् - 20 - 32 ।।
सलिलार्द्रवराहदेहनीलो विदधद्भास्करमर्थशून्यसंज्ञम् ।
प्रचलायतलोचनारविन्दं विदधे तद्बलमन्धमन्धकारः ।। शिशुपालवधम् - 20 - 33 ।।
गुरवोऽपि निषद्य यन्निदद्रुर्धनुषि क्ष्मापतयो न वाच्यमेतत् ।
क्षयितापदि जाग्रतोऽपि नित्यं ननु तत्रैव हि ते अभवन् इषण्णाः ।। शिशुपालवधम् - 20 - 34 ।।
श्लथतां व्रजतस्तथा परेषाम् अगलत् धारणाशक्तिमुज्झतः स्वाम् ।
सुगृहीतमपि प्रमदभाजां मनसः शास्त्रमिवास्त्रमग्रपाणेः ।। शिशुपालवधम् - 20 - 35 ।।
उचितस्वपनोऽपि नीरराशौ स्वबलाम्भोनिधिमध्यगस्तदानीम् ।
भुवनत्रयकार्यजागरूकः स परं तत्र परः पुमान् अजागः ।। शिशुपालवधम् - 20 - 36 ।।
अथ सूर्यरुचीव तस्य दृष्टौ उदभूत् कौस्तुभदर्पणं गतायाम् ।
पटु धाम ततो न चाद्भुतं तद्विभुरिन्द्वर्कविलोचनः किलासौ ।। शिशुपालवधम् - 20 - 37 ।।
महतः प्रणतेष्विव प्रसादः स मणेरंशुचयः ककुंमुखेषु ।
व्यकसत् विकसद्विलोचनेभ्यो दददालोकमनाविलं बलेभ्यः ।। शिशुपालवधम् - 20 - 38 ।।
प्रकृतिं प्रतिपादुकैश्च पादैश्चकॢपे भानुमतः पुनः प्रसर्तुम् ।
तमसोऽभिभवादपास्य मूर्च्छाम् उपजीवत् सहसैव जीवलोकः ।। शिशुपालवधम् - 20 - 39 ।।
घनसन्तमसैर्जवेन भूयो यदुयोधैर्युधि रेधिरे द्विषन्तः ।
ननु वारिधरोपरोधमुक्तः सुतरामुत्तपते पतिः प्रभाणाम् ।। शिशुपालवधम् - 20 - 40 ।।
व्यवहार इवानृताभियोगं तिमिरं निर्जितवत्यथ प्रकाशे ।
रिपुरुल्बणभीमभोगभाजां भुजगानां जननीं जजाप विद्याम् ।। शिशुपालवधम् - 20 - 41 ।।
पृथुदर्विभृतस्ततः फणीन्द्रा विषमाशीभिरनारतं वमन्तः ।
अभवन् युगपद्विलोलजिह्वा युगलीढोभयसृक्कभागमाविः ।। शिशुपालवधम् - 20 - 42 ।।
कृतकेशविडम्बनैर्विहायो विजयं तत्क्षणमिच्छुभिश्छलेन ।
अमृताग्रभुवः पुरेव पुच्छं बडवाभर्तुः अवारि काद्रवेयैः ।। शिशुपालवधम् - 20 - 43 ।।
दधतस्तनिमानमानुपूर्व्या बभुः क्षिश्रवसो मुखे विशालाः ।
भरतज्ञकविप्रणीतकाव्यग्रथिताङ्का इव नाटकप्रपञ्चाः ।। शिशुपालवधम् - 20 - 44 ।।
सविषश्वसनोद्धतोरुधूमव्यवधिम्लानमरीचि पन्नगानाम् ।
उपरागवतेव तिग्मभासा वपुरौदुम्बरमण्डलाभम् ऊहे ।। शिशुपालवधम् - 20 - 45 ।।
शिखिपिच्छकृतध्वजावचूडक्षणसाशङ्कविवर्तमानभोगाः ।
यमपाशवदाशुबन्धनाय न्यपतन् वृष्णिगणेषु लेलिहानाः ।। शिशुपालवधम् - 20 - 46 ।।
पृथुवारिधिवीचिमण्डलान्तर्विलसत्फेनवितानपाण्डुराणि ।
दधति स्म भुजङ्गमाङ्गमध्ये नवनिर्मोकरुचिं ध्वजांशुकानि ।। शिशुपालवधम् - 20 - 47 ।।
कृतमण्डलबन्धमुल्लसद्भिः शिरसि प्रत्युरसं विलम्बमानैः ।
व्यरुचत् जनता भुजङ्गभोगैर्दलितेन्दीवरमालभारिणीव ।। शिशुपालवधम् - 20 - 48 ।।
परिवेष्टितमूर्तयश्च मूलादुरगैराशिरसः सरत्नपुष्पैः ।
दधुः आयतवल्लिवेष्टितानामुपमानं मनुजा महीरुहाणाम् ।। शिशुपालवधम् - 20 - 49 ।।
बहुलाञ्जनपङ्कपट्टनीलद्युतयो देहमितस्ततः श्रयन्तः ।
दधिरे फणिनस्तुरङ्गमेषु स्फुटपल्याणनिबद्धवर्ध्रलीलाम् ।। शिशुपालवधम् - 20 - 50 ।।
प्रसृतं रभसादयोऽभिनीला प्रतिपदं परितोऽभिवेष्टयन्ती ।
तनुरायतिशालिनी महाहेर्गजमन्दूरिव निश्चलं चकार ।। शिशुपालवधम् - 20 - 51 ।।
अथ सस्मितवीक्षितादवज्ञाचलितैकोन्नमितभ्रु माधवेन ।
निजकेतुशिरःश्रितः सुपर्णात् उदपप्तन् अयुतानि पक्षिराजाम् ।। शिशुपालवधम् - 20 - 52 ।।
द्रुतहेमरुचः खगाः खगेन्द्रादलघूदीरितनादमुत्पतन्तः ।
क्षणम् ऐक्षिषत उच्चकैश्चमूभिर्ज्वलतः सप्तरुचेरिव स्फुलिङ्गाः ।। शिशुपालवधम् - 20 - 53 ।।
उपमानम् अलाभि लोलपक्षक्षणविक्षिप्तमहाम्बुवाहमत्स्यैः ।
गगनार्णवमन्तरा सुमेरोः कुलजानां गरुडैरिलाधराणाम् ।। शिशुपालवधम् - 20 - 54 ।।
पततां परितः परिस्फुरद्भिः परिपिङ्गीकृतदिङ्मुखैर्मयूखैः ।
सुतराम् अभवत् दुरीक्ष्यबिम्बस्तपनस्तत्किरणैरिवात्मदर्शः ।। शिशुपालवधम् - 20 - 55 ।।
दधुः अम्बुधिमन्थनाद्रिमन्थभ्रमणायस्तफणीन्द्रपित्तजानाम् ।
रुचमुल्लसमानवैनतेयद्युतिभिन्नाः फणभारिणो मणीनाम् ।। शिशुपालवधम् - 20 - 56 ।।
अभितः क्षुभिताम्बुराशिधीरध्वनिराकृष्टसमूलपादपौघः ।
जनयन् अभवत् युगान्तशङ्कामनिलो नागविपक्षपक्षजन्मा ।। शिशुपालवधम् - 20 - 57 ।।
प्रचलत्पतगेन्द्रपत्र्रवातप्रसभोन्मूलितशैलदत्तमार्गैः ।
भयविह्वलमाशु दन्दशूकैर्विवशैः आविविशे स्वमेव धाम ।। शिशुपालवधम् - 20 - 58 ।।
खचरैः क्षयमक्षयेऽहिसैन्ये सुकृतैर्दुष्कृतवत्तदोपनीते ।
अयुगार्चिरिव ज्वलन्रुषाथो रिपुरौदर्चिषम् आजुहाव मन्त्रम् ।। शिशुपालवधम् - 20 - 59 ।।
सहसा दधदुद्धताट्टहासश्रियमुत्र्रासितजन्तुना स्वनेन ।
विततायतहेतिबाहुरुच्चैरथ वेताल इव उत्पपात वह्निः ।। शिशुपालवधम् - 20 - 60 ।।
चलितोद्धतधूमकेतनोऽसौ रभसादम्बररोहिरोहिताश्वः ।
द्रुतमारुतसारथिः शिखावान्कनकस्यन्दनसुन्दरः चचाल ।। शिशुपालवधम् - 20 - 61 ।।
ज्वलदम्बरकोटरान्तरालं बहुलार्द्राम्बुदपत्रबद्धधूमम् ।
परिदीपितदीर्घकाष्ठमुच्चैस्तरुवद्विश्वम् उवोष जातवेदाः ।। शिशुपालवधम् - 20 - 62 ।।
गुरुतापविशुष्यदम्बुशुभ्राः क्षणमालग्नकृशानुताम्रभासः ।
स्वमसारतया मषीभवन्तः पुनराकारम् अवापुः अम्बुवाहाः ।। शिशुपालवधम् - 20 - 63 ।।
ज्वलितानललोलपल्लवान्ताः स्फुरदष्टापदपत्र्रपीतभासः ।
क्षणमात्रभवामभावकाले सुतराम् आपुः इवायतिं पताकाः ।। शिशुपालवधम् - 20 - 64 ।।
निखिलामिति कुर्वतश्चिराय द्रुतचामीकरचारुतामिव द्याम् ।
प्रतिघातसमर्थमस्त्रमग्नेरथ मेघङ्करम् अस्मरत् मुरारिः ।। शिशुपालवधम् - 20 - 65 ।।
चतुरम्बुधिगर्भधीरकुक्षेर्वपुषः सन्धिषु लीनसर्वसिन्धोः ।
उदगुः सलिलात्मनस्त्रिधाम्नो जलवाहावलयः शिरोरुहेभ्यः ।। शिशुपालवधम् - 20 - 66 ।।
ककुभः कृतनादमास्तृणन्तस्तिरयन्तः पटलानि भानुभासम् ।
उदनंसिषुः अभ्रमभ्रसङ्घाः सपदि श्यामलिमानमानयन्तः ।। शिशुपालवधम् - 20 - 67 ।।
तपनीयनिकर्षराजिगौरस्फुरदुत्तालतडिच्छटाट्टहासम् ।
अनुबद्धसमुद्धताम्बुवाहध्वनिताडम्बरमम्बरं बभूव ।। शिशुपालवधम् - 20 - 68 ।।
सवितुः परिभावुकैर्मरीचीनचिराभ्यक्तमतङ्गजाङ्गभाभिः ।
जलदैरभितः स्फुरद्भिरुच्चैः विदधे केतनतेव धूमकेतोः ।। शिशुपालवधम् - 20 - 69 ।।
ज्वलतः शमनाय चित्रभानोः प्रलयाप्लावमिवाभिदर्शयन्तः ।
ववृषुः वृषनादिनो नदीनां प्रतटारोपितवारि वारिवाहाः ।। शिशुपालवधम् - 20 - 70 ।।
मधुरैरपि भूयसा स मेध्यैः प्रथमं प्रत्युत वारिभिः दिदीपे
पवमानसखस्ततः क्रमेण प्रणयक्रोध इवाशमद्विवादैः ।। शिशुपालवधम् - 20 - 71 ।।
परितः प्रसभेन नीयमानः शरवर्षैरवसायमाश्रयाशः ।
प्रबलेषु कृती चकार विद्युद्व्यपदेशेन घनेष्वनुप्रवेशम् ।। शिशुपालवधम् - 20 - 72 ।।
प्रयतः प्रशमं हुताशनस्य क्वचित् आलक्ष्यत मुक्तमूलमर्चिः ।
बलभित्प्रहितायुधाभिघातात्र्रुटितं पत्र्रिपतेरिवैकपत्रम् ।। शिशुपालवधम् - 20 - 73 ।।
व्यगमन्सहसा दिशां मुखेभ्यः शमयित्वा शिखिनां घनाघनौघाः ।
उपकृत्य निसर्गतः परेषामुपरोधं न हि कुर्वते महान्तः ।। शिशुपालवधम् - 20 - 74 ।।
कृतदाहमुदर्चिषः शिखाभिः परिषिक्तं मुहुरम्भसा नवेन ।
विहिताम्बुधरव्रणं प्रपेदे गगनं तापितपायितासिलक्ष्मीम् ।। शिशुपालवधम् - 20 - 75 ।।
इति नरपतिरस्त्रं यद्यदाविश्चकार प्रकुपित इव रोगः क्षिप्रकारी विकारम् ।
भिषगिव गुरुदोषच्छेदिनोपक्रमेण क्रमविदथ मुरारिः प्रत्यहन् तत्तदाशु ।। शिशुपालवधम् - 20 - 76 ।।
शुद्धिं गतैरपि परामृजुभिर्विदित्वा बाणैरजय्यमविघट्टितमर्मभिस्तम् ।
मर्मातिगैरनृजुभिर्नितरामशुद्धैर्वाक्सायकैरथ तुतोद तदा विपक्षः ।। शिशुपालवधम् - 20 - 77 ।।
राहुस्त्रीस्तनयोरकारि सहसा येनाश्लथालिङ्गनव्यापारैकविनोददुर्ललितयोः कार्कश्यलक्ष्मीर्वृथा ।
तेनाक्रोशत एव तस्य मुरजित्तत्काललोलानलज्वालापल्लवितेन मूर्धविकलं चक्रेण चक्रे वपुः ।। शिशुपालवधम् - 20 - 78 ।।
श्रिया जुष्टं दिव्यैः सपटहरवैरन्वितं पुष्पवर्षैर्वपुष्टश्चैद्यस्य क्षणमृषिगणैः स्तूयमानं निरीय ।
प्रकाशेनाकाशे दिनकरकरान्विक्षिपद्विस्मिताक्षैर्नरेन्द्रैरौपेद्रं वपुरथ विशद्धाम वीक्षां बभूवे ।। शिशुपालवधम् - 20 - 79 ।।


।। इति शिशुपालवधमहाकाव्ये विंशसर्गः ।।