Welcome to Sanskrit Quiz

This is a quiz platform that provides basic knowledge about different fields of sanskrit through multiple choice questions and this is mainly focused to the disciples of sanskrit and candidates who are preparing for different tests related to sanskrit.

Veda Vedangas Questions

Sahitya and Samskriti Questions

Vedas Questions

Sahitya Darpanah

आचार्यविश्वनाथकविराजविरचिते साहित्यदर्पणे तृतीयपरिच्छेदे लघुप्रश्नोत्तराणि. Sahitya Darpanah : Question & One Word Answers

Click Here For More Videos

Our Areas

संस्कृतरसप्रश्नाः तु गीर्वाणभारती इति जालस्थले विद्यमानमेकं विभागः वर्तते। अस्य संस्कृतस्य साहित्य-सांस्कृतिक, वेद-वेदाङ्गादि विविधेषु मण्डलेषु सरलरसप्रश्नमुखेन ज्ञानसंवर्द्धनं मुख्योद्देश्यम्। अत्र साहित्य-वेद-धर्मशास्त्र -वेदाङ्गादिषु पृथक्-पृथक् विविधेषु स्तरेषु रसप्रश्नान् सज्जीकृतं वर्तते। प्रत्येकस्मिन् स्तरेष्वपि समाधानप्रदानानन्तरं कत्यङ्गानि प्राप्तानि, समाधानेषु साध्वसाधुत्वावगमनमपि प्रदत्तं वर्तते।

रामायणम्

विश्वसाहित्ये आदिकाव्यमस्ति वाल्मीकिप्रणीतं रामायणम्। सप्तकाण्डेषु विभक्तेऽस्मिन् काव्ये रामचरितमेव मुख्यतया वर्णितमस्ति। भारतीयसंस्कृतौ संस्कृतसाहित्ये अपि अस्य काव्यस्य विशेषं स्थानम् अस्ति। अस्य अनुवादः सर्वासु भारतीयभाषासु, आङ्ग्लभाषया सह अनेकेषु यूरोपीयभाषासु च जातमस्ति। संस्कृतसाहित्यस्य गद्यपद्यादि समस्तभेदेषु रामायणकथामाधारीकृत्य काव्यानि विरचितानि सन्ति।

Click here for Quiz

महाभारतम्

कृष्णद्वैपायनव्यासेन विरचितेऽस्मिन् काव्ये 18 पर्वेषु पाण्डवकौरवानां जीवनकथा एव प्राधान्येन उपवर्ण्यते। तदतिरिच्य कृष्णचरितात्मकं हरिवंशमिति परिशिष्टभागोऽपि विद्यते। एकलक्षाधिकश्लोकात्मकेऽस्मिन् महाकाव्ये भारतस्य दार्शनिक तथा ऐतिहासिक अंशान् अपि वर्णितानि सन्ति। वेदशास्त्रादीनां सारांशभूतो वर्तते महाभारतम्। अस्मिन् कालेऽपि महाभारतान्तर्गतकथानाम् उपकथानां च प्रचारः बहुधा वर्तते।

Click here for Quiz

वेदाः

ऋक्-यजु-साम-अथर्व इति चत्वोरो वेदाः भारतीयदर्शनानां मूलं वर्तते। इदं वाङ्मयं बहुप्राचीनं, समस्तज्ञानविषकसम्पन्नं च वर्तते। वेदाः अपौरुषेयाः। वेदेषु न तु केवलं दार्शनिकविषयाः अपि च कला-सामाजिक-संस्कृतिक-राजनैतिकादि विषयाः अपि चर्चिताः सन्ति।

Click here for Quiz

ज्योतिषम्

ज्योतिषस्य विषयः वेद इव प्राचीनः अस्ति। पुरा काले ग्रहनक्षत्रादीनां आकाशपिण्डादीनां अध्ययनं च ज्योतिष इति उच्यते स्म। गच्छता कालेन शास्त्रमिदं संहितागणितजातकाख्येषु त्रिषु भागेषु आत्मानं प्रकटीचकार। आर्यभट्ट-वराहमिहिर-ब्रह्मगुप्त-भास्कराचार्य-प्रभृतयः विश्वविदिताः ज्योतिविदः अद्भुतान् सिद्धान्तान् अवतार्य शास्त्रमिदम् अभिनवेन रूपेण विभूषयाञ्चक्रुः। शास्त्रमिदं त्रिकालवर्त्तिनीम् अपि स्थितिं करतल-आमलकवत् करोति। एतेन परोक्षं भाविकालस्थितञ्च वस्तु प्रत्यक्षं जायते।

Click here for Quiz

धर्मशास्त्रम्

धर्मशास्त्रम् भारतीयशास्त्रेषु अन्यतमम्। भारतीयपरम्परायाम् अस्य शास्त्रस्य बहुमुख्यं प्राशस्त्यम् अस्ति। धर्मशब्दः ‘धृ’ धारणे इति धातोः व्युत्पन्नः। तत्र महाभारते ‘धारणाद्धर्म इत्याहुः धर्मो धारयते प्रजाः’ इति यद् उपवर्णितं तद् धर्मस्य यथार्थस्वरूपं संक्षेपेण प्रतिपादयति। एवं धर्मः समाजस्य धारणं नाम संरक्षणम् संवर्धनं च करोति, अर्थात् समाजकल्याणकारिणीं कामपि जीवनयापनपद्धतिं निर्दिशति।

Click here for Quiz

साहित्यम्

विश्वस्य सर्वासु प्राचीनभाषासु संस्कृतस्य प्रथमम् उन्नतं च स्थानं वर्तते। विश्वसाहित्यस्य प्रथमग्रन्थः ऋग्वेदः अस्याः भाषायाः तेजस्वी रत्नम् वर्तते। भारतीयसंस्कृतेः सम्पूर्णं ज्ञानं संस्कृताध्ययनं विना न सम्भवति। अस्य अत्यन्तं समृद्धं विपुलं च साहित्यं दृष्ट्वा विद्वांसः अपि विस्मिताः एव। विश्वस्य सर्वासु प्राचीनभाषासु तेषां साहित्येषु च संस्कृतस्य स्वकीयं विशेषं महत्वम् वर्तते।

Click here for Quiz